प्रो: मुरलीमनोहरपाठकः प्रो. जयकान्तसिंहशर्मा प्रो. शिवशङ्करमिश्रः
शोध-प्रकाशन-विभागः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः
नवदेहली-110016
संस्कृतविश्वविद्यालय-ग्रन्थमालायाः 113 पुष्पम्
श्रीसम्प्रदायाचार्य-जगदगुरुस्वामिश्रीरामानन्दाचार्यचरणैः समुद् भासितः
श्रीवेष्णवमताव्जभास्करः
प्रधानसम्पादकः
प्रो. मुरलीमनोहरपाठकः
कुलपतिः
व्याख्याकारः
प्रो. जयकान्तसिंहशर्मा
वेदवेदाङ्गपीठप्रमुखः,
व्याकरणविभागाध्यक्षचरश्च
सम्पादकः
प्रो. शिवशड्रमिश्रः
शोधविभागाध्यक्षः
श्रीलालबहादुरशास्त्रीराष्टियिसस्कृतविश्वविद्यालयः
नवदेहली-110016
प्रकाशक;
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः
बी-4, कुतुबसांस्थानिकक्षेत्रम्, नवदेहली-110016
© प्रकाशकाधीन:
प्रकाशनवर्षम् : 2022
ISBN : 81-87987-90-1
मूल्यम् : ₹ 350.00
मुद्रकः
डी.बी. प्रिन्टर्स
97-यू.बी., जवाहरनगरम्, देहली-110007
ग्रन्थकारो जगद्गुरुः श्रीरामानन्दाचार्यभगवत्पादः
ध्वस्तध्वान्तो5स्मि लब्धार्थो यत्कृपामिहिरत्विषा।
रामानन्दमहं वन्दे स्वाचार्य तं जगद्गुरुम्।।
(४)
।। श्रीहरिः ।।
नैवेद्यम्
अधिप्राणि सुखं समेधयितुं सुहृदाचार्यतल्लजानामुपक्रमोऽयं पुरुकार-
कवान् शब्दराशिः कल्याणाय क्रियार्थो भवति। स चानन्तः, न हि कश्चित्
पुरुषार्थशीलोऽद्यावधि तस्यान्तं जगाम। तस्यैव परमं प्रामाण्यम्। स च
वेदः। असावेकोऽपि कालेन सति धिषणाहास आप्तैः पुरुरूपेषु पुरस्कृत्य
प्रकटीकृतः, आश्रमिणां प्रबोधनाय। तदर्थस्यैव आचरणेन अबाधितत्व-
प्रतिष्ठापनाय अवतरति करुणापारावारमासाद्य श्रिया मण्डितः परमेश्वरः।
सेयमभिव्यक्तिरधिपुण्यं समधिवासनं सनातनसम्प्रदायपुरस्कृता सुहृदामाचारस्य
वरिवस्यादिक्रमेऽ ध्यागमं महता समारम्भेण श्रद्धया समाद्रियते। तदेव नानापथजुषां
सपर्याभेदा अहमहमिकया प्रतिष्ठन्ते, तथापि अष्टाङ्गोपचारवत् समेऽपि
परमात्मानमेव सेवन्त इति प्रमोदः। भवति च तेन आत्मलाभस्तेन फलमुखेन
सर्वे समाना एव, एतदेव आदिशति भगवान् वेद:-
समानी वा आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति॥ इति
तथैवाचरणीयमस्माभिर्यथा आदिशन्ति शास्त्राणि। तस्मादवश्यमेव
सम्प्रदायप्रस्थानेन अनुशिष्टैः भाव्यं सर्वैः। सम्प्रदायपुरस्कृतं मतमेव ज्यायः,
आप्तत्वात्। तदेवोक्तं गीतास्मृतौ-
एवं परम्पराप्राप्तमिमं राजर्षयो विदुरिति।
भवप्रवाहे प्रवहतां विषीदतां जीवानां सन्तापापनोदनाय निसर्गकरुणया
वेदावलम्बिन्या विनयविवेकादिसद्गुणनम्रायाः श्रीरामभक्तिकल्पलताया अमृत-
फलमिव परमपुरुषार्थमुपलम्भयद्भिः स्वामिश्रीरामानन्दाचार्यचरणैरनुगृहीतेऽस्मिन्
भक्तहत्कमलविकासिनीव वैष्णवमताब्जभास्कराख्ये ग्रन्थरत्ने तत्त्वजिज्ञासु-
भिर्मुमुक्षुभिर्यावदपेक्षितं प्रमेयजातं सन्निधापितं विलसति, तदपि शिष्यप्रबोध-
व्याजेन प्रसादगुणोज्ज्वलया तादुशसाधुजनसुलभया सुबोधसंवादशैल्येत्यपरो
(vi)
विशेषः। तत्र स्वाचार्यपरम्परासपर्याविधौ नामूलं लिख्यते किञ्चिन्नान-
पेक्षितमुच्यत इत्युक्तं चरितार्थयता ग्रन्थस्वारस्यनिर्भरं पदपरामर्शत्यनुगुणाभिधानं
भाष्यमिव बुधजनाकर्षणनिदानं विहितं व्याख्यानं कमपि मणिकाञ्चन-
सुयोगमिवारचयति।
श्रीमन्नारायणसेवासन्निधानकामैः भगवत्पादारविन्दमकरन्दघ्राण-प्रवणैः
श्रीमद्भिराचारचणैः प्रकल्पितस्य ' श्रीमद्वैष्णवमतान्जभास्कर 'इत्यभि-धेयस्य
ग्रन्थतल्लजस्य प्रतिपदं भगवत्तत््वबोधकत्वादनुग्राहकत्व॑ सात्वतां हृदि
श्रीविष्णुनावधृतं श्रीवत्साङ्कमिव प्रतरां प्रतिष्ठते। विशेषतो वेदार्थमनुचरितेन
सफलयतः श्रीसीताजानेः करुणानिधेः श्रीमद्राघवस्य साधुचरितं कस्य मनो
नावर्जयति। तदेवोक्तं मूलरामायणे-
सर्वथाऽभिमतः सद्भिः समुद्र इव सिन्धुभिः।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः इति॥
अवतरत्सु भगवत्सु तदीयमाचरितं भवति सतामनुकरणीयमिति
ग्रन्थरत्नेऽस्मिन्ननुपदं दाशरथेः पूजाविधानं तदीयसिद्धान्तजातं जीवातुरूपेण
प्रतिष्ठितं सद्भाति। तत्रापि विशेषत आनुगुण्यं प्रयोजयति प्रो. श्रीजयकान्त-
सिंहशर्ममहाभागविरचितं पदपरामर्शाख्यं तिलकम्। एतच्च तिलकमिव
अपरिहार्यत्वेन सुधारणीयमेव अन्यथा वैष्णवत्वहानेरवसरस्स्यात्। असौ
पण्डितप्रकाण्डः सुधीः भाषानैपुणीमाकलयन् सर्वथैव विद्वदन्यतमेषु महान्
विदग्धश्च आचार्य एतेन यद्विचेष्टितं तत्सर्वमधीयतामार्जवं पाथेयं संपत्स्यते।
अहन्तु अस्य विश्वविद्यालयस्य प्रकाशनविभागस्य सौभाग्यं मन्ये यदसौ
ईदृशमनुपमेयं ग्रन्थरत्नं प्रकाश्य आत्मनः साफल्यं प्रकटयति। पुनश्च
वरिवस्यारूपा कृतिरियं पाठकानामन्तस्तोषाय लेखकानां सर्वविधश्रेयसे च
सम्पद्यतामिति प्रार्थये सुधाधारानिःस्यन्दनीं करुणामूर्ति जगत्कारणभूतां
निःश्रेयसप्रदां स्वीयां जननीं कामपि वाग्देवतामिति शम्।
-प्रो. मुरलीमनोहरपाठकः
कुलपतिः
श्रीलालबहादुरशास्त्रीराष्ट्रिसंस्कृतविश्वविद्यालयः,
नवदेहली-११००१६
।। श्रीहरिः ।।
सम्पादकीयम्
श्रेयसे नृणाम् नूनमेव भगवतो नानाविधा अभिव्यक्तिरियं नयनमूल-
मनन्तराद्धतामुपगता सती किमुत सुहृदामपितु दुरात्मनामपि समुद्धर्तृ प्रकामं समर्थति।
तदेव स्मरामि श्रीमद् भागवतम्-
प्रादुश्चकर्थ यदिदं पुरुहूतरूपं
तेनेश निर्वृत्तिमवापुरलं दृशो नः।
तस्मा इदं भगवते नम इद्विधेम
योऽनात्मनां दुरुदयो भगवान् प्रतीतः॥ इति।
कि नु एतज्जन्मान्तरीयकर्मपाशनिगडितचेतसो मुहुश्च गाढमलावरोधेन
कार्पण्यमनसो जीवजातस्य सामर्थ्य, तेन स आत्मपुरुषार्थेन भवप्रवाह तरेत्।
अतस्तदनुग्रहमाग्रहीकृत्यावग्रहं सुदूरं स्थापयन्तो महात्मानस्तदीयं कारुण्यमविरलं
स्मरन्तः पारेदृशामपि प्रतिहतौपयिकं पाथेयं परिकल्पयन्तो नितरां सदनुग्रहेण
लोकान् सनाथन्तश्चकासते। तदेवोक्तम्-
निधाय याताः सदनुग्रहो भवान्
तदेव भगवतीयापरिमितलालित्यौदार्यसुमनस्सौरभावर्जितहदया मनागपि
तद्वियोगं न सहन्ते। तदेवोक्तं-
दीयमाना अपि न गृह्णन्ति विना मत्सेवनं जनाः।
नेदमाश्चर्य परं परमस्वाभाविकं यल्लोकेऽपि स्वामिसन्निधिं त्यक्त्वा
स्वामिवेषं रचयन्तस्तल्लोकं वसन्तस्तत् समीपे वा तिष्ठन्तः किमात्मानं कृतार्थ
मन्वते? कदापि न। अपितु सेवासन्निधानेन संल्लापस्पर्शनादिसपर्यादिभिस्त-
दीयान्तरङ्गतां भजतां किमिवापारं सुखं सर्वमेतदनिर्वचनीयमेव। तस्मात् पुण्यात्मान
एव भगवत्सेवासौख्यं लभन्त इत्यसन्दिग्धम्। तदेवाक्षरजुषां गतिं मृगयतां
नानापथमारोहमाणानां भगवन्नखारुणमणिश्रयणमेव कल्याणास्पदमिति श्रौतं
मतमातिष्ठते।
(जा)
श्रौतमनुचरतामेव सर्व सफलम्, एतद् व्यतिरिक्तं श्रम एव। तस्मात्
तदाश्रयणे भक्तिरेव हेतुः। तदेवोक्तं गीतास्मृतौ-
नाहं वेदैर्न तपसा न दानेन न चेज्यया।
शक्य एवंविधो द्रष्टु दृष्टवानसि मां यथा॥ इति
भक्तिरपि द्विधा- वैधी प्रेमलक्षणा च। तस्या अवान्तरप्रकारा अपि
तत्तदग्रन्थेषु प्रसिद्धा वर्णिताश्च। ततोऽपि सुलभा प्रपत्तिस्तदेवोक्तम्- मदन्यत् ते
न जानन्ति नाहं तेभ्यो मनागपि, इति। शास्त्रविधानं सादरं परिपालयन्तोऽपि
सनातनधमैकप्राणा आचार्या वचनप्रामाण्यादेव सर्वे प्रपत्तेरधिकारिणो मता इत्यामनन्ति।
एतत् सर्व प्राधान्येन क्रोडीकृत्योपज्ञातोऽयं ग्रन्थश्श्रीवैष्णवमतान्जभास्कर इत्यभिधेयः।
श्रीमद्भगवत्पादरामानन्दाचार्यमानसत्वादार्षत्वमस्य नितरामबाधितम्। प्रतिपदं नोनूयते
श्रीसीताजानिः करुणानिधिरपरिमितवैभवो ब्रह्मवाच्यस्साक्षात् समुद्भूतरूप भक्त-
जनलोचनीकुर्वन् श्रीमान् राघवः प्रभुश्रीरामचन्द्रेति।
अत्र ग्रन्थेऽनुपदं यथावर्णाश्रममेव विधानं समादृतम् इति गौरवाय। तेन
सर्वेष्धिकारिण: इत्यत्र कटाक्षेण सर्वपदार्थोऽपि निरूपितो भवति। ततोऽपि
सौभाग्यतरमिदं यदस्य टीकाद्वयी विश्वविद्यालयस्यास्य व्याकरणविभागीयाचार्येण
श्रीमता प्रो. जयकान्तसिंहशर्ममहाभागेन प्रकल्पिता। ते च स्वयमेव प्रज्ञानधना
विद्याचणा अधिगतसाराः प्रमाणभूता आचार्याः। विशेषतश्चास्य ग्रन्थस्य विशिष्टं
सौन्दर्य यदकारणसान्द्रकरुणाप्रघनधनैकचित्ता श्रीमाता श्रीरामवल्लभा भगवतोऽव्यति-
रिक्तभावेन प्रत्यक्षरं तोष्टूयते। तेनास्य सुतरां कल्पवृक्षत्वमुपगम्यते। तदेव प्रमाणम्-
रामायेति चतुर्थेन श्रिया देवास्तु सर्वदा।
चेतनाचेतनानाञ्च रमणाश्रयतेर्यते॥ इति
तेन रमन्ते योगिन इति अन्वर्थतापि स्वीयमानुगुण्यं भजते। तेन मन्ये
यदसौ ग्रन्थराजो भाषाधनेन शास्त्रविचक्षणार्थप्रतिपादनेन च पारायणमात्रेण
पृण्यसौख्यसौभाग्यवर्षणेन अधिसाहित्यमलं चकास्तीति। भगवान् श्रीहनुमान् पठतामेन
स्वाशिषोपकरोत्वित्यर्थयमानः भावत्कः।
-प्रो. शिवशङ्करमिश्रः
शोधविभागाध्यक्षः, श्रीलालबहादुरशास्त्रीराष्ट्रिय-
संस्कृतविश्वविद्यालयः, नवदेहली-110016
।। सर्वे प्रपत्तिरिधिकारिणो मताः ।।
श्रीमद्वेदमार्गप्रतिष्ठापनाचार्याणां विशिष्टाद्वैतवेदान्तसमीक्षणविचक्षणानां
श्रोत्रियब्रह्मनिष्ठानां विठ्ठन्मूर्धन्यानां काशीपञ्चगङ्गाघट्टस्थ-
श्रीमठाधीश्वरजगद्गुरुरामानन्दाचार्यपदस्थानां
अनन्तश्रीमत्स्वामिरामनरेशाचार्य- महाराजानाम्
* * * आशीर्वचांसि # ॐ =
11 नमोऽस्तु रामाय ।।
विदितमेव प्राच्यविद्याविदुषामनन्यसाधारणमाचार्यत्वं सर्वमङ्गल्वैभवञ्च यतिराजसार्वभौम-
श्रीरामानन्दस्वामिचरणानाम्, यदीया निसर्गकरुणा भगवद्भक्तिप्रपत्तिसुधासारेण
रामभावपरिस्फूर्त्या चान्तस्तापविकलं लोकं समुज्जीव्य समतीतृपदिति। भक्तया विरक्तया
स्वात्मबोधेन च विलसद् द्वादशात्ममहसाहस्करमिव यश स्करं सहसा को नाद्यापि
नमति महाभागवतशिष्यनिकरपरिवृतं यन्महिममण्डलम्। आश्रितवात्सल्यातिरेकाच्छ्री-
सुरसुरानन्दाचार्य निमित्तीकृत्य तत्ृष्टप्रश्नानुपजीव्य संवादशैल्या वैष्णवजनवेद्यप्रमेयजातं
यथावस्थितं सङ्कलय्य पद्यात्मना सङ्ग्रथितस्तदुपदेश एव श्रीवैष्णवमताब्जभास्करनाम्ना
बुधजनसमवाये सर्वमान्यकृतित्वेन प्रथते।
तस्य प्रामाणिकसंस्कृतव्याख्यानेन सहितस्य प्रकाशनं साम्प्रतं साम्प्रतमित्यनुगुणं
श्रीसम्प्रदाये बद्धादरं जयकान्तशर्माणमहमादिशम्। तेन चानुपदं यावद्बुद्धिबलोदयं
विरचय्य पदपरामर्शेत्याख्या संस्कृतव्याख्याऽस्मत्सेवायां प्रास्तावि। अन्वर्थनामा
पदपरामर्शो मया स्थालीपुलाकन्यायेनावालोक्यालम्भि चायं न कवचिदपि समयं व्यभिचरतीति।
अत्र यथाप्रसङ्गंप्रसक्तविषयं क्रोडीकृत्य प्रवहन्ती भाषा भावप्रकाशनानुगुणं सामर्थ्यं धत्ते।
न केवलमत्र व्युत्पादनमपितु पद्यहार्दविष्कृतौ युत्तिप्रमाणपुरस्कृतं सोपपादनं वस्तुसत्यापनञ्चेति
प्रामाण्यकोटिमाटीकमानस्यापरो विशेष:। नूनमत्र नामूलं लिख्यते किञ्चित्रानपेक्षितमुच्यते'
इत्युक्तरीत्या सम्प्रदायराद्धान्तस्य प्रतिपत्तये मूलङ्कषमालोचनं प्राचीकशत्। शास्रक्रमं
परिपालयतो मङ्गले प्रसादमयी दीनप्रार्थनाऽवसाने चान्त्यानुप्रासेन शार्दूलविक्रीडितेन
ग्रन्थप्रशस्तिः पूर्वार्द्धशलेषसुभगेनानुष्टुभेन च प्रकाशितं वैष्णवसुलभमात्मकार्पण्यमस्य
७)
पद्यरचनाकौशलमाचक्षते। राजभाषानुवादस्य संवित्कराख्यस्य संश्लेषस्तु सामान्यजनानां
मूलार्थबोधसौकर्याय। चिराय चेतसि समारोपितोऽयं सङ्कल्पो भगवदनुकम्पया
फलेग्रहितामभजत। प्रस्तुतोपस्थापनायां कियत्साफल्यमित्यत्र प्रेक्षावन्तो विपश्चित एव
निकषीभविष्यन्ति।
अहत्त्वेतदीयं सम्प्रदायाचार्यसपर्याविधौ लेखनीव्यापारमभिलक्ष्य तुष्यन्नभ्यर्थये यदनुदिनं
समेधतामस्य भगवत्पादानुरक्तिर्लभतामयं श्रीरामव्लभाकृपाप्रसादञ्चेति। इत्थमिदमाचार्य-
निष्ठवैष्णवानां मनीषिणां करकमलेषूपहरत््रत्येमि यदस्य परिशीलनेन सम्प्रदायविदुषां
मनस्तोषो जिज्ञासूनाञ्च वैष्णवीयसिद्धान्तस्यान्तरङ्गपरिचयो बाढं भवेदिति।
-- सर्वावतारिणः प्रभोरेव स्वामिरामनरेशाचार्यः
> > > > > > >
राष्ट्रपतिपुरस्कृतैः काशीस्थसम्पूर्णानन्दसं.वि.वि. पूर्वकुलपतिभिः
विद्वद्दरेण्यै: प्रो. श्रीरामकरणशर्ममहोदयै;
भ 4६ भ साम्मानिक नैवेद्यम् # * ऽ
महानयं प्रमोदस्य विषयो यज्जगदगुरुभिः श्रीमद्भिः श्रीरामानन्दाचार्ये: प्रणीतः
श्रीवैष्णवमताब्जभास्करः प्राकाश्यं यात्यज्ञानध्वान्तसंहारकः। जयति चायुष्मान्
विद्वदग्रणीराचार्य: श्रीजयकान्तशर्मा तच्चरणचञ्भरीको येन महता श्रमेण तदुपरि
पदपरामर्शाभिधानं भाष्यं व्यरचि भक्तानां जिज्ञासूनां तत्प्रकाशसौलभ्याय।
गोस्वामितुलसीदास आह 'सेवकसेव्यभाव विनु भव न तारिय उरगारि' इति। एवं
रामानन्दीया भक्तिपरम्परैव सार्वभौम्या वैदिकपरम्परायाः संरक्षिकाऽभवद्भवति च
भविष्यति च। पतञ्जलेरीश्वरप्रणिधानमपि तस्या एव भक्तिभावनाया गीतं गायति।
पश्यतु समाः सहस्रं श्रीजयकान्तः सुमङ्गलं सततम्
सीतारामानुग्रहभाग् भूयाच्चैष भक्तवरः
वन्दत एष भक्तवर: श्रीहनुमन्तं जङ्गममन्दिर रघुपतेः। अहमपि सानन्दं शुभाशीर्भिः
समेधयामि श्रीजयकान्तं जङ्गममन्दिरं रघुपते; ˆ श्रीरामानन्दाचार्यस्य सम्ग्रदायप्रवर्तकस्य
च युगपत्। आशासे 'सभाष्य एष भास्करः ' कल्पिष्यते विकासाय भक्तहदयाम्बुजानां
निखिलेऽपि भूमण्डल इति। तरुणेनानेन वन्दितं जगद्गुरुं श्रीरामानन्दाचार्य सादरं
सप्रश्रयं वन्दते पुनरेष जनोऽपि।
> > > > > > >
(xi)
जगद्गुरुरामानन्दाचार्यराजस्थानसं.वि.वि. पूर्वकुलपतिभिः
प्रो. श्रीरामानुजदेवनाथमहोदयैः
* * न मङ्गलाशासनम् के ॐ =
श्रीसम्प्रदायाचार्यशिरोमणियतिराजसार्वभौमभगवद्रामानन्दाचार्यपादैरन्वग्राहि श्रीवैष्णव-
मताब्जभास्करनामा ग्रन्थमणिः, यत्र तत्त्रयं मन्त्रराजमहिमा द्वयं चरमश्लोकश्च
साधिष्ठेन प्रकारेण प्रत्यपादिषत। तत्र साक्षी कूटस्थ एको बहुशुभगुणवानव्ययो
विश्वभर्तेतीश्वरततत्वं निरूप्यते। यच्च श्रीमन्निगमान्तदेशिकैरनुगृहीतमीश्वरलक्षणमनुकरोति;
यथा सर्वेश्वरं व्यापकत्वे सति चेतनत्वं सर्वशेषित्वं सर्वकर्मसमाराध्यत्वं सर्वफलप्रदत्वं
सर्वाधारत्वं सर्वकार्योत्पादकत्वं स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकत्वं स्वतस्सत्यसङ्कल्पत्वादि-
कश्चेश्वरलक्षणम्। तथा च श्रीरामानन्दचरणैः श्रियो विभुत्वतो निर्भरतापरैस्तैः
्रीव्याप्तिरार्यैरभिधीयते हीति विभुत्वपुरुषकारत्वे वर्ण्येते। तच्च न्यायसिद्धाञ्जन इत्थं
न्यरूपि -- 'श्रिया सह तु दाम्पत्यं शाश्वतं तत एव तु। तयोः साम्यैक्यशक्तित्व-
तद्वत्वादिगिरां गति: इति। अस्येशाना जगतो विष्णुपत्नी’, ईश्वरी सर्वभूतानाम्”,
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम्, यथा सर्वगतो विष्णुस्तथैवेय॑ द्विजोत्तम,
“नानयोर्विद्यते परम्, 'एकतत्ववमिवोदितौ', "लक्ष्म्या: समस्तश्चिदचित्रपञ्चो
व्याप्यस्तदीशस्य ठु सापि सर्वम्। तथापि साधारणमीशितृत्वं श्रीश्रीशयोद्री च सदैकशेषी”
इत्यादिश्रुतिस्मृतिवचनानि स्मर्तव्यान्यत्र। किं च केवल्यविषयेऽपि -- 'आत्मारामैस्तथोपाय-
स्वरूपज्ञानिभिश्च तैः। मतज्ञैविरजापारं केवल्यमिति मन्यते' इति मन्यत इत्याहुराचार्य-
चरणाः। अत्र वरदविष्णुमिश्राणां पङ्किरनुसन्धेया -- नन्वेवं निश्शेषकर्मक्षयाभावात्
कैवल्यप्राप्तौ न मुक्तः स्यात्; सत्यम्, अमुक्त एव सः, मोक्षस्य परमात्मानन्दानुभव-
रूपत्वात्, तस्य ब्रह्मानन्दानुभवाभावात्स्वानन्दमात्रानुभवादिति। यदि चासौ मोक्षस्तदा
स्वाभाविकरूपप्राप्तिरूपप्राप्तिमन्तरेण न पर्यवसानमिति श्रीवेङ्कटनाथाचार्यस्यापि वचनं
स्मर्तव्यम्। अत एवाचार्यचरणा मन्यत इति प्रयुयुजिरे। एतादृशसम्प्रदायरहस्योद्घाटक:
्रीवैष्णवमताब्जभास्करः सर्वेषां दार्शनिकानां सौकर्याय मोदाय विशिष्य श्रीरामानन्द-
सम्प्रदायानुयायिनां महत उपकाराय सव्याख्यं प्राकाश्यन्नीयत इति विदित्वा मोमुदीति
नश्वेतः। एतस्य वैष्णवमताब्जभास्करस्य सम्पादकाः पदपरामर्शाख्यायाः सिद्धान्ता-
नुसारिण्याः शास्तरप्रमाणपुष्टाया व्याख्यायाः, संबित्करनाम्न्या लोकभाषाव्याख्यायाश्च
प्रणेतार: सन्ति आचार्यकटाक्षपरिपूर्णा नानाशास्रेषु विहितश्रमा व्याकरणचणा वाग्ग्मिनः
शरीरामानन्दसम्प्रदायसिद्धान्तशिरोमणय आचार्या जयकान्तशर्माणः। अमीषां वैदुष्यमत्र
व्याख्यायां विपश्चितामनुभवैकवेद्यम्। एते चोत्तरोत्तरं सारस्वतकर्मणि ईदृक्सम्प्रदायकर्मणि
(आं)
चाभिरता भूयासुरित्याशास्महे। अशेषविप्रशमनो$नीकेश्वरोव्यादिति शम्।
> > > > > > >
दिल्लीस्थराष्ट्रियसंस्कृतसंस्थानमानितवि.वि.पूर्वकुलपतिभिः
प्रो. श्रीराधावळभत्रिपाठिमहोदयैरुन्नीता
के ने * भूमिका ॐ के ॐ
विदन्त्येव विज्ञा यदस्मिन्नतिविचित्रपरम्परावाहिनि संसारे समये समये जनिमाप्नुवन्ति
विरलाः केचन सुकृतिनो येषां सुचरितैः सुकृतिभिः सन्देशैश्च प्राणिति संसारः,
सम्मुछसति सरस्वती जीवन्ति तथा च जीवाः। एतादृशेष्वेव महापुरुषेष्वासीद्यतिश्रेष्ठो
रामानन्दाचार्य, यस्य प्रेरणां निजहृदि विकसन्तो मर्त्यलोकं पावितवन्तः कबीररैदास-
पीपादयः कियन्तोऽपि सन्तः। यतीन्द्रस्यास्य स्तुतौ समृचितं निधापितवानेतद्वचोवितानं
पीपाजीवर्यस्य मुखे श्रीरामानन्ददिग्विजयमहाकाव्ये स्वामिश्रीभगवदाचार्यः -- श्रियां
निधिं ज्ञाननिधिं दयानिधिं समस्तविद्याम्बुनिधिं तपोनिधिम्। अनन्तकल्याणगुणैकसन्निधिं
पतिं यतीनां शिरसा नमाम्यहम् (१०.२३)।
तस्येमं यतिवर्यस्य श्रीमद्रामानन्दाचार्यस्य श्रीवैष्णवमतान्जभास्कराख्यं प्रबन्धं
विद्वत्प्रवरः सुधीवरः सुरसरस्वतीसमाराधकः श्रीजयकान्तशर्मा पदपरामर्शेन
संस्कृतव्याख्यानेन संवित्करेण हिन्दीभावार्थेन च संयोज्य प्रकाशनार्थ प्रस्तुतवानिति
साहित्यपरम्परायामभूतपूर्वोऽयमस्याध्यवसायो महत उपकाराय भविता; न केवलं
वैष्णवभक्तसाधकानां दर्शनशास्रानुसन्धाननिरतानां गवेषकाणामपितु समेषामपि सज्जनानां
सामान्यजनानां च। वैष्णवमताब्जभास्करेऽस्मिन् वेदान्ततत््वं भक्तिस्वरूपं रामानन्दीय-
मठाचारा: सद्गृहस्थानां सन्र्यासिनां चेतिकर्तव्यताः सम्यक्समुपदिष्टाः, पापानां
प्रक्षालनाय प्रायश्चित्तविधानं प्रकटीकृतं, मानवतायाः कल्याणाय चानाविलः पन्थाः
प्रदर्शितः स्वामिवर्येण। अथ सज्जनहृदयान्जानां विकासाय भास्करायितस्यैतस्य
श्रीवैष्णवमताब्जभास्करस्य पदपरामर्शे संस्कृतव्याख्याने विदुषा श्रीजयकान्तशर्मणा
वाल्मीकिरामायण-रामचरितमानसादिभ्यो महाकविप्रबन्धेभ्यो वचनान्युद्धृतानि। तानि
चामुष्य व्याख्यायाः प्रामाणिकतां साधयन्ति मूलग्रन्थस्य परम्परां परिष्कुर्वन्ति। किं
बहुना -- “चरितं रघुनाथस्य वैणवं साधृदर्शनम्। मर्म वेदान्ततत्वस्य श्रुतिवाक्यप्रसाधितम्॥
व्याख्या समस्तलोकेभ्य:ः परितोषप्रदायिनी। एकैकमपि कल्याणं किमु यत्र चतुयम्।
सर्वथाऽस्य ग्रन्थस्य व्याख्याद्ठयोपेतस्य प्रचारेण प्रसादं प्राप्रुयान्मानवतेति कामये।
> > > > > > >
:: आत्मनिवेदनम् ::
11 नमोऽस्तु रामाय ।।
गंगाजी की गोद में जन्म, गौतमगोत्रीयविप्रबंश, सदाचारपरायण परमवैष्णव
माता-पिता, सर्वेश्वर श्रीसीतारामजी की आराधना, यथासमय वैदिकसंस्कार,
संस्कृतविद्याध्ययन, समर्थाचार्योपलब्धि एवं शास्तरग्रहणानुकूल बुद्धि इस प्रकार की
मानवीय चरमोत्कर्षसिद्धि के लिए अपेक्षित सर्वानुकूलता प्रदान कर जगदम्बा श्रीरामवल्लभाजी
ने मेरे ऊपर अपने वात्सल्यवर्षण में कोई कमी नहीं की। करुणा का परमोद्रेक तो
तब प्रत्यक्ष हुआ, जब उन्होंने हमें सपरिकर अपने दिव्यधाम श्रीअवध और उसमें
भी श्रीजानकीघाट में बसा लिया। जैसे बचपन से ही घर में रामायण-गीता-
भागवत-भक्तमाल-जैसे सद्ग्रन्थों के दर्शन-श्रवण का सुअवसर मिला, वैसे प्रारम्भ
से ही चित्त में यह बात स्थापित सी हो गई कि सबसे बड़े श्रीरामजी हैं; वही
भगवान् हैं, उनकी भक्ति ही सर्वोत्तम है तथा उनकी कृपा से ही जीव का कल्याण
होता हैं। उस समय भी “जीवात्मा परमात्मा एक हैं” इस प्रकार की बातें मुझे खीर
में नमक-जैसी लगती थी। लगभग सोलहवें वर्ष में पूज्य पिताजी से पता चला कि
हम सब श्रीरामानन्दीय वैष्णव हैं। प्रभुकृपा से रामकथा एवं वैष्णवता के प्रति
अभिनिवेश बढ़ता गया। गुरुजनों की कृपा से संस्कृतव्याकरण का थोड़ा संस्कार
जगने के कारण सरल संस्कृतवाक्यों का अर्थ समझ में आने लगा था, तुलसीसाहित्य
पर मैं पहले से ही मुग्ध था; उनकी गुरुपरम्परा की जिज्ञासा ने मुझे आचार्यप्रवर
श्रीरामानन्दस्वामीजी की पादुका तक पहुँचा दिया।
श्रीमठ अनादि तथा परममंगलमयी श्रीरामभक्ति धारा का गोमुख है। यहीं रहकर
श्रीसम्प्रदाय के आचार्यो ने सम्पूर्ण संसार में रामभक्तिधारा को प्रवाहित किया,
जिसमें अवगाहन कर असंख्य मानवों ने अपने जीवन को धन्य बनाया। वैष्णवों
के ५२ द्वारों में ३६ द्वारे रामावत श्रीसम्प्रदाय के ही हैं, अधिकांश आश्रमों एवं
गहियों पर विरक्त संत ही विराजमान हैं। श्रीसम्प्रदाय से उद्भूत, प्रेरित एवं पालित
शताधिक आध्यात्मिक परम्पराएँ संसार में फैली हुई हैं, जिसके माध्यम से यह
(उण)
रामभक्तिगंगा प्रतिक्षण प्रवाहित हो रही है। इस सम्प्रदाय के ध्येय भगवान् श्रीराम एवं
गेय वाल्मीकीयरामायण हैं। वेदों के बाद लौकिकसंस्कृत में, वाल्मीकीयरामायण के
रूप में सर्वप्रथम भगवान् श्रीराम का दिव्यचरित्र ही गाया गया; जो साक्षाद् वेदों का
ही अवतार हे। दुनिया के किसी धर्म, सम्प्रदाय या पन्थ में ऐसा ग्रन्थ इससे पहले
व बाद में कभी नहीं लिखा गया। उपास्य के अनुरूप श्रीसम्प्रदाय में दूसरे सम्प्रदायों
की अपेक्षा अत्यधिक औदार्य हे। श्रीसम्प्रदाय के मध्यमाचार्य रामावतार स्वामी
श्रीरामानन्दाचार्य ने श्रीसम्प्रदाय की कल्याणमयी उदात्तगंगा को समुद्रायित कर जाति,
समाज एवं धर्म के समस्त विखण्डक भावों को पृथक् करते हुए; किसी भी
वैदिकमर्यादा को छिन्न-भिन्न किए बिना सभी का भक्ति-प्रपत्ति गंगा में गोता लगाने के
लिए आवाहन किया। आचार्यप्रवर का यह कार्य समाज, धर्म, राष्ट्र एवं वैदिक
मान्यताओं के विघटन में महान् अवरोधक सिद्ध हुआ तथा वैदिक सनातनधर्म पर
अकारण मिथ्यारोप लगाने वालों का मुँह सदा-सदा के लिये बंद हो गया। उन्होंने न
केवल रामभक्ति-साहित्य की भागीरथी के प्रवाह की अभिवृद्धि की, अपितु अपने
शिष्यों को लोकभाषा में रामभावों को लिखने एवं बोलने के लिये प्रेरित किया; जिससे
सम्पूर्ण हिन्दी साहित्य भरा पड़ा है। विश्वमहाकाव्य रामचरितमानस” हो या भक्तमाल
-- इनकी शिष्यपरम्परा की ही देन है।
श्रीमठ तथा वर्तमान जगद्गुरुजी के दर्शन, प्रवचन एवं लोकमंगल प्रवृत्तियों से
मुझे भगवान् रामानन्दस्वामी के वैभवपूर्ण सर्वमंगलस्वरूप एवं महाचार्यत्व का ऐसा
गौरवमय भान हुआ; मानो किसी दुर्बल तर्क को सहसा श्रुतिवचनरूपी अबाध्य प्रमाण
का बल मिल गया हो। लगभग ७०० वर्ष पूर्व तीर्थराजप्रयाग के विप्रपरिवार में
अवतीर्ण तथा यथासमय उपनयनानन्तर आचार्यप्रवर श्रीराघवानन्दस्वामीजी से वैष्णवीय
पंचसंस्कारपूर्वक विरक्तदीक्षा ग्रहणकर, काशीस्थ पंचगंगातट पर अपने लोकमंगल
ऐश्वर्य को मानवता के समुज्जीवनार्थ विनियुक्त करते हुए, अनेक आश्रितों को
रामभावप्रदान कर धन्य बनाने वाले स्वामी रामानन्दाचार्यजी की सर्वमान्य संस्कृत
रचना है -- श्रीवैष्णवमताब्जभास्कर; जो उनके सम्प्रदायाचार्यत्व का प्रबल
निदर्शन है। यह उचित ही है कि लोक की अन्तस्तमिस्रा का निरसनकर्त्ता तथा अभिनव
चेतना का आधाता यह भास्कर उस प्रकार के उदयाचल से उदित हो। सारभोगी
वैष्णवजनों की साधना की दृष्टि से परिगणित दस प्रश्नों के समाधानों में प्राय: सभी
विषयों का समावेश होने से यह विशिष्टाद्वैतदर्शन का प्रमेयप्रधान ग्रन्थ है। पद्यात्मक
होने के साथ-साथ भाषा की सरलता इसकी अपूर्वता है। पंचसंस्कारादि साम्प्रदायिक
आचार, उपास्य का ज्ञेय-ध्येय स्वरूप, उपासनाप्रकार, सायुज्य का स्वरूप इत्यादि
(४४)
विषयों का आचार्यचरण द्वारा अत्यन्त स्पष्ट प्रबोधन किया गया है। कालक्षेप का जो
शास्त्रीय स्वरूप निर्दिष्ट किया गया हे, वह अद्भुत है; जिसे पढ़कर आचार्यपाद की
अपेक्षा का परिज्ञान होता है कि वैष्णवों को अपने सिद्धान्तानुगुण भाष्य व रामायणादि
आर्षग्रन्थो का स्वाध्याय अवश्य करना चाहिए। साम्प्रदायिक सिद्धान्त का यथावस्थित
ज्ञान न होने से आज के अधिकांश वैष्णव कथावाचक भी सम्प्रदायान्तर के प्रसिद्ध
वाक्यों को दुहराते रहते हैं, उन्हें पता ही नहीं चलता है कि हम अपसिद्धान्त बोल
रहे हैं। संतमतों के कतिपय आधुनिक समालोचकों की दशा तो और भी बदतर है।
उनका कथन है -- 'सत-शब्द के ऊपर जब कलश चढ जाता है, तब संत-शब्द
बनता है; अर्थात् ईश्वर से भी ऊपर उठा हुआ तत्त्व! ये श्रवणरमणीय अवधारणा व
मनोविनोदक निर्वचन उनके विद्यादारिद्र्य को सूचित करते हैं। उनकी शास्रप्रज्ञाशून्यता
अध्यात्मचिन्तन का दुर्देव तथा उनकी उच्छुंखल मुखरता विज्ञो के लिए यातना के
समान सहनीय होती है। जिन आचार्यप्रवर के चरणरज ने कबीर-रैदास-मीरा-
तुलसी जैसों में संतत्व का आधान कर धन्यजीवन प्रदान किया, उन अनन्यसाधारण
व विराट् व्यक्तित्व वाले श्रीरामानन्दस्वामी को 'रामानन्दाचार्य न लिखकर संत
रामानन्द' शब्द से निर्दिष्ट करते हैं। उनके अनुसार; समाज में, शास्त्रीय मर्यादा
छोड़कर, नवीन आध्यात्मिक चेतना प्रदान करने वाला ही संत होता है और ठीक
वैसे ही थे संत रामानन्द। जबकि यथार्थ यह है कि आचार्यचरण ने कहीं भी न
तो श्रौत वर्णाश्रमधर्म की उपेक्षा की और न ही किसी अभिनव मार्ग का प्रवर्तन
किया। उन्होंने तो धर्म की मर्यादा का पूर्णतः परिपालन करते हुए शास्त्र में
सिद्धान्ततः स्वीकृत उस भक्ति-प्रप्ति के अचिन्त्यप्रभाव का उदार प्रयोग कर
उसकी अपूर्वता को निदर्शित किया; पूर्ववर्ती वैष्णवाचार्य जानते हुए भी जिसके
उदारप्रयोग का साहस नहीं कर पाए।
किसी अवस्था में वैदिक धर्मानुशासन का परित्याग पतन है, आत्महत्या है।
इसके त्याग का उपदेष्टा सम्प्रदायाचार्य होना तो दूर, संत भी नहीं हो सकता।
“हरि को भजे सो हरि का होई' का अभिप्राय भक्ति के अचिन्त्य प्रभाव के
प्रकाशन में है। जिसके जीवन का उद्देश्य केवल भगवद्धागवतभजन हो, जिसमें
पूर्णसाधुता प्रकट हो गई हो; क्या उसके साथ वैष्णवोचित व्यवहार के लिये
देहनिबन्धन-जात्यादि प्रश्न आवश्यक है? लगता है, आचार्य का वैभव न समझ
पाने के कारण या आचार्यशब्द से साम्प्रदायिक संकीर्णता की प्रतीति होने से
सम्भवतः उन्हें आचार्यपद के प्रयोग में कठिनाई आ रही हो। आधुनिक-चिन्तकों
का यह सबसे बड़ा दुर्भाग्य है कि उन्हें सम्प्रदाय एवं साम्प्रदायिकता का अभिप्राय
(खर)
अभी तक स्पष्ट नहीं हुआ है। वैसे भी इन दिनों परिवर्तनवादियों के लिए धर्म-संस्कार-
परम्परा-जैसे शब्दों को सुनना असह्य-सा होने लगा है। शास्त्रज्ञ मनीषियों ने विनाश
से ठीक पहले वाली इस दशा को 'अन्धतामिस्र' कहा है।
समालोचकों ने वैष्णवमताब्जभास्कर' को श्रीरामानन्दाचार्य की कृति तो माना,
किन्तु दर्शन तथा साम्प्रदायिक सदाचारविशेष के ज्ञानाभाव में इस सम्प्रदाय को
सम्प्रदायान्तर की शाखा अथवा उसके ही उत्तरकालिक विकसितरूप में प्रतिपादित
किया। उन्हें न तो प्रस्तुत ग्रन्थ में वर्णित मूलमन्त्र, मन्त्रद्रय व चरममन्त्र का भेद
समझ में आया और न ही पंचसंस्कारों में धनुर्बाणांकन एवं तुलसीमालाधारण की
अनिवार्यता पर दृष्टि गई। द्विजेतर शरीर वाले विरक्तवैष्णवसन्तो के प्रति अपेक्षित
पूज्यभाव व व्यवहार का निर्देश सम्प्रदाय के विशिष्ट एवं अगतार्थ स्वरूप को
प्रस्तुत करता है। सम्प्रदायान्तर में शाखाभेद से विवादित श्रीतत्त की अणुता या
विभुता, जीवत्व या ईश्वरत्व मान्य हो? यह अद्यावधि अनिर्णीत ही है; किन्तु यहाँ
स्वामिपाद ने श्रीतत्त्व के विभुत्व एवं ईश्वरत्व को निश्रन्त स्वीकार करते हुए उसके
पुरुषकारत्व का समुचित एवं स्पष्ट समन्वय किया है। नित्यसूरियों में श्रीहनुमान्जी
का नामोछेखपूर्वक निर्देशकर सम्प्रदायान्तर में अगतार्थता सूचित की है। कैवल्य
नामक मोक्ष को स्वीकार करने में अभी भी वैष्णवान्तर में विवाद जीवित ही हे;
जबकि आचार्यचरण ने उसकी सत्ता को दार्शनिक मान्यता दी है। तभी तो
श्रीगोस्वामी तुलसीदासजी ने भी 'अतिदुर्लभ कैवल्य परमपद' लिखकर अपनी
साम्प्रदायिक धारणा का अनुवाद किया। वस्तुत: इस प्रकार के इसके इतरव्यावर्तक
दार्शनिक विषयों पर सम्प्रदाय के मर्मज्ञ मनीषियों की सन्निधि में गहन अनुसन्धान
की आवश्यकता है।
श्रीमद्रोधायनाचार्य-प्रभृति महर्षियों द्वारा अंगीकृत विशिष्टाद्वैत को सिद्धान्ततः
स्वीकारते हुए भी श्रीस्वामीजी ने कहीं भी विशिष्टाद्वैत-शब्द का उल्लेख तक नहीं
किया। बड़े सरल व सहजभाव से अभिमत का उपस्थापन तो किया; किन्तु कहीं
भी उनके सैद्धान्तिक आग्रह, परमतखण्डन व उग्रदार्शनिक-विवाद-विद्रोह के भाव
नहीं दिखते हैं। बाद में यही सौम्य समुदारभाव एवं फलोन्मुखी दृष्टि प्रायः
गोस्वामीजी में भी संक्रान्त हुई है। यही सारभोगिता, साधुता एवं दार्शनिक सरलता
उनके प्रायः सभी विरक्त अनुयायियों के जीवन में देखी जाती है। जीवनभर यदि
साधु शास्त्रार्थ ही करता रहेगा; तो नामजप, मन्त्रानुष्ठान, साधुसेवा या
भगवद्धयानचिन्तन कब करेगा? यद्यपि यहाँ के कतिपय आचार्यो ने अध्यासध्वंसलेश-
जैसे ग्रन्थों की भी रचना की; तथापि भजनानन्दी साधु तो विश्वासपूर्वक अपनी साधना
(xvii)
में ही लगे रहे। फलतः प्रयोगविशेष के अनुष्ठान से यहाँ अनेकों सिद्ध हो गए। वस्तुत:
दास्यभाव रामानन्दसम्प्रदाय की आत्मा है और सम्पूर्ण जगत् को भगवद्धाव से देखना
यहाँ के विरक्तो की भावसाधना। प्रकृत ग्रन्थ में उनके जाननेभर की पर्याप्त सामग्री है।
साधनादृष्टि से इससे अधिक उन्हें जानना भी अभीष्ट नहीं है। एक ओर श्रीस्वामीजी
ने अहिंसा को सर्वोत्तम धर्म बताते हुए हिंसकों को विष्णुघातक तक कहकर
मानवतामूलक जीवनदृष्टि स्पष्ट कर दी हैं; दूसरी ओर वैष्णवसंतों को उत्तर-दक्षिण के
सभी तीर्थां में निवास का आदेश देकर अखण्ड एवं व्यापक राष्ट्रीय चेतना को
सार्वजनीन कर दिया है; जो आगे चलकर श्रीतुलसीदासजी के 'संत सुखी विचरंत
मही' शब्द से व्यक्त हुई।
वैष्णवमताब्जभास्कर के उपलब्ध संस्करणों में श्लोकसंख्या, छन्दोभेद, पाठभेद,
प्रक्षेप आदि का सविमर्श उपन्यासपूर्वक अनेकविध परिष्कार अपेक्षित है। मूलप्रति
को देखे बिना उपलब्ध छन्दोभंग का व्यवस्थापन भी तो कैसे किया जाता? जितने
पाठभेद, जितने ऑआन्तिस्थल यहाँ हैं -- शायद ही किसी अन्य ग्रन्थ में हो। यह
इस सम्प्रदाय का गौरवपूर्ण सौभाग्य है कि वर्तमान आचार्यश्री अपनी अनेक
सारस्वत एवं लोकमंगल प्रवृत्तियों के द्वारा भगवत्पाद के उदार रामभाव-सौरभ के
प्रसार में निरन्तर लगे हुए हैं। उसी क्रम में वर्तमान जगद्गुरुजी का शुभसंकल्प हुआ
कि आद्यश्रीरामानन्दाचार्यजी सर्वमान्यरचना 'वैष्णवमताब्जभास्कर' को संस्कृतटीका
के साथ प्रकाशित कर भक्तों को उपलब्ध कराया जावे। एतदर्थ उन्होंने इस दास को
अपने आशीर्वाद के साथ आदेश प्रदान किया। मेरा एक ओर संसार में फंसा
गृहस्थजीवन, दूसरी ओर सरकारी नौकरी - अर्थात् पूर्णतः दयनीय दशा। बोध के
साथ-साथ निर्धारित अवधि की स्वल्पता से मैं घबड़ा रहा था, मेरे शास्त्रज्ञ होने का
भ्रम जो कतिपय लोगों में विद्यमान है, उसके मिटने का समय आ गया था; पर मुझे
निरावृत होने से कौन बचाता। सहसा पराम्बा श्रीजनकनन्दिनी की करुणा तथा
वैष्णवसंतों की क्षमाशीलता की याद आई। उन्हीं के बल पर डेढ़ महीने में इस
स्वल्पसत्त्व दास द्वारा -- गलत या सही - जो बन पाया, आपके सामने है। आशा
है, मेरी दीनप्रार्थना पर दयामय संत-सुधीजन प्रमाद एवं आज्ञानजन्य त्रुटियों को
सुधारकर पढ़ लेंगे।
- ग्रन्थव्याख्याता
¦¦ श्रीवैष्णवमताब्जभास्कर - दिग्दर्शन : :
- अंकुर नागपाल (दिल्ली)
वे भगवान् श्रीजानकीनाथ ही समस्त जीवों के उपास्य हैं; जिन्होंने धर्म की
संस्थापना हेतु, देवताओं के द्वारा सतत ईप्सित श्रीअवध-जैसी राज्यलक्ष्मी का
परित्याग करके, घनघोर वनों में चौदह वर्ष तक निवास करना स्वीकार किया।
महर्षि व्यास के “मर्त्यावतारस्त्विह मर्त्यशिक्षणम्' (भा.पु.५.१९.५) इत्यादि
कथनानुरूप, जीवन के प्रत्येक व्यावहारिक पक्ष के सम्यक् शास्त्रानुकूल निर्वाह
द्वारा आदर्शप्रस्तुतिपूर्वक द्वन्द्वविषविमूच्छित सांसारिक मानवमात्र को सुशिक्षित
करना ही उन परमेश्वर के उदात्त चरित्र की अपूर्वता है; जो उन्हें प्राणिमात्र का
परमाराध्य बनाने हेतु पर्याप्त है। अत: महर्षि वाल्मीकि का 'तेषामपि महातेजाः
रामः सत्यपराक्रमः। इष्टः सर्वस्य लोकस्य ...' (वा.रा.१.१८.२५-२६)
इत्यादि वचन किसके श्रद्धास्पद नहीं हैं? जिनके मत में श्रीरघुनन्दन भगवदवतार
नहीं (अपितु महामानवमात्र) हैं, ऐसे लोग भी उनके उदात्त चरित्र व कर्मों पर
मोहित होकर उनका अनुसरण व आदशोंद्धरण हेतु विवश हैं -- यह हमारे लिए
अत्यन्त हर्ष का विषय है। इस प्रकार, कहीं-न-कहीं श्रीरघुवीर सभी बुद्धिजीवी
सज्जनों के लिए श्रद्धेय हैं ही। अतएव प्राचेतस भगवान् वाल्मीकि के 'सर्वदाऽभिगतः
सद्भिः समुद्र इव सिन्धुभिः’ (वा.रा.१.१.१६) इत्यादि प्रमाण से, सभी लोगों
के द्वारा उन महामहेश्वर का अनुसरण स्वाभाविक ही है।
इस धराधाम पर धर्मसंस्थापना ही परत्रह्मावतार शाखसिद्ध है : ' धर्मसंस्थापनार्थाय
सम्भवामि युगे युगे’ (गी. ४.८), *तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै
जगतो हिताय' (भा.पु.१०.६३.३७)। तथापि स्वयं परमेश्वर, अपने उक्त अवतार-
प्रयोजन का विशद विवेचन अन्यत्र करते हुए स्वयं को, धर्म का प्रवक्ता-प्रस्तावक-
रक्षक-आदि बताकर, वैदिकधर्म का व्यावहारिक शिक्षक भी सिद्ध करते हैं :
‘ब्रह्मन् धर्मस्य वक्ताऽहं कर्ता तदनुमोदिता। तच्छिक्षयँलोकमिमास्थितः पुत्र
मा खिदः' (भा.पु.१०.६९.४०)। किन्तु उक्त समस्त कार्य परमेश्वररूप में
असम्भवप्राय हैं; कारण कि स्वान्त:प्रकृतिवशात् सभी जीव भगवदनुकूल नहीं
(आऊ)
होते। यथा महाभारत में पाण्डवादि भगवदनुकूल हैं, तो कौरवादि सर्वथा भगवत्रतिकूल।
एतावता, दैवतरूप से उन परमपुरुष सच्चिदानन्द भगवान् के द्वारा सर्वथा
धर्मरक्षण-प्रचारादि के अभाव में, उनका आचार्यरूप में अवतार लेकर अपने
शरणापन्न जीवात्माओं को मोक्षपुरुषार्थसिद्धिपूर्वक परमशान्ति प्रदान करना सार्थक
ही है। उक्त सिद्धान्तानुरूप सर्वावतारी सर्वशरण्य भगवान् श्रीरामभद्र का जगद्गुरु
भगवान् श्रीस्वामी रामानन्दाचार्य महाभाग के रूप में अवतार सार्थकप्राय है।
सनातन-वैदिकार्षधर्म को, चार्वाक-बौद्धादि अवैदिको से, प्राप्त ग्लानि की
निवृत्ति हेतु भगवान् सदाशिव ही यतिप्रवर जगद्गुरु श्रीशंकराचार्यजी के रूप में
अवतीर्ण हुए। शांकरमत में ब्रह्मविद्यानधिकृतों के लिए अधिकारसम्पत्सिद्धयर्थ,
तदधिकृत अज्ञजनों के लिए ब्रह्मविद्याप्राप्त्यर्थ तथा सिद्धावस्थाप्राप्त श्रोत्रियब्रह्मनिष्ठ
महापुरुषों के लिए लोकसंग्रहार्थ आजीवन वैदिककर्मानुष्ठान की इतिकर्तव्यता
वर्णित है; यथा 'वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयताम्' (सा.पं. १),
“विधुरादीनामविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैः
अनुग्रहो विद्यायाः सम्भवति' (ब्र.सू.शां.भा.३.४.३८), “यदि तावत्पूवें
जनकादयस्तत्त्वविदो5 पि प्रवृत्तकर्माणः स्युस्ते लोकसङग्रहार्थम्' (गी.शां.भा.
२.१०) इत्यादि। तथापि सत्कर्मप्रमादी पाखण्डियों ने, श्रीशंकराचार्य के वेदानुवर्ती
निर्विशेषकेवलाद्वैतवाद एवं उनके “जीवो ब्रह्मैव नापरः' इत्यादि वचन का
दुरुपयोग करके, अपनी स्वयं को ब्रह्म तथा धर्मादि को ही मिथ्या बताकर, अपनी
अकर्मण्यता व दुरभिसन्धि का परिचय दिया। फलतः प्रतिक्रियारूप से सर्वत्र व्याप्त
हुए अधर्म की निवृत्त्यर्थ पुनः किन्हीं भगवत्पार्षदावतार की अपेक्षा हुई। तब
साक्षात् भगवच्छय्यारूप श्रीअनन्तदेव (शेषभगवान्) ने ही, जगद्गुरु श्रीरामानुजाचार्यजी
के रूप में अवतीर्ण होकर, वेदोक्त काण्डत्रय का प्रतिपादन किया।
वस्तुतः वेदवेद्य सर्वावतारी श्रीरघुनन्दन अपने अवतारकाल में वसिष्ठ-विश्वामित्र-
भरद्वाज-वाल्मीकि-आदि को निवृत्तिधर्म का, अवध-जनक-अहल्यादि को प्रवृत्तिधर्म
का तथा श्रीहनुमद्-जटायु-शबरी-विभीषणादि को प्रपत्तिधर्म का ग्रहण करवाते हैं।
भगवद्विभूतिभूत आचार्यगण भी भगवन्नयानुसरणपूर्वक प्रवृत्ति-निवृत्ति-प्रपत्तिलक्षण
त्रिविधधर्म का प्रचार करते हैं। अतएव 'योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया।
ज्ञानं कर्म च भक्तिश्च ...' (भा.पु.११.२०.६) इत्यादि उक्ति के आलोक में
भगवान् श्रीरामानुजाचार्य महाराज ने ज्ञान-कर्म-भक्ति का पूर्णतया प्रतिपादन किया।
किन्तु उनके कार्यकाल में उक्त तीनों मार्गो के द्वारा साध्य महान् मोक्षोपायरूप प्रपत्ति
विशेषतः आलोक में नहीं आया। ध्यान रहे; उक्त कथन का यह तात्पर्यं कथमपि नहीं
(5)
है कि स्वामी श्रीरामानन्दाचार्यमहाराज से पूर्व कभी प्रपत्ति या शरणागति का उपदेश
नहीं किया गया, कारण कि श्रीशंकराचार्य की विष्णुषट्पदी व श्रीरामानुजाचार्य का
सम्पूर्ण शरणागतिगद्य इत्यादि प्रपत्तिमार्गपोषक हैं। तथापि 'प्रशस्तं स्तोतुं विधेयः'
इत्यादि न्याय से केवल यही मूलभाव ग्राह्य है कि प्रपत्तिपथ का जैसा प्रकाश
शरीरामानन्दाचार्य ने किया, वैसा अन्य किन्हीं के द्वारा नहीं हुआ। अस्तु। शेषावतार
जगद्गुरु श्रीरामानुजाचार्य के अवतारकाल में भक्ति का प्रचुर प्रकाश हुआ; किन्तु वह
द्विजविषयिणी है : 'अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा’ (वे.का.८.१३),
अतः उसमें सर्वाधिकार सिद्ध नहीं है। कदाचित् प्रपत्ति प्रकाशित हुई, तो दक्षिणभारत
में ही; उत्तर में नहीं। अत: स्वयं कौसल्यानन्दवर्धन भगवान् श्रीसीतानाथ ने ही,
उत्तरभारत में प्रपत्तमार्गप्रकाशनार्थ, श्रीरामानन्दाचार्य के रूप में अवतारग्रहण किया।
विक्रमी १३५६गत माघकृष्णा सप्तमी, गुरुवार, चित्रानक्षत्र व कुम्भलग्न में
प्रयागराजस्थित भगवान् वेणीमाधव के परमोपासक पण्डितप्रकाण्ड श्रीमत्पुण्यसदनशर्माजी
महाभाग के घर में सौभाग्यवती माता श्रीसुशीलादेवी की दक्षिणकुक्षी में स्वयं
सर्वावतारी भगवान् श्रीरामचन्द्र ही एक अमित तेजस्वी शिशु के रूप में अभिव्यक्त
हुए; जो भविष्य में जगदगुरु श्रीस्वामी रामानन्दाचार्य कहलाए। सोत्साह जन्मोत्सव
मनाए जाने पर तथा अनेकों ज्योतिर्विदों के द्वारा नवजात शिशु के दिव्यलक्षणों
का विचार करने के अनन्तर आपश्री का जन्मनाम “रामदत्त, रखा गया। तदनन्तर
भाद्रपदशुक्ला पंचमी के दिन आप्री के अन्नप्राशन में आपश्री को पायस का भोग
लगाया गया; जो कि लीलासंवरणपर्यन्त आपश्री के लिए एकमात्र भक्ष्य रहा।
आपश्री के चिन्मयशरीर की पाँच वर्ष की अवस्था में माघशुक्लाद्वादशी को
आपश्री का विधिवत् उपनयन हुआ तथा आपश्री अत्यन्त अल्पावधि में ही वेदादि
शास्त्रों के उदन्त विद्वान् हो गए। उसी समय भगवान् वेणीमाधव की प्रेरणा से
आपश्री के पिताजी द्वारा आपको एक दिव्य दक्षिणावर्तीशंख दिया गया, जिसके
नादमात्र से अपने जीवनकाल में आपश्री ने अनेकों भक्तों को ब्रह्मज्ञान प्राप्त
करवाया। कालान्तर में वसिष्ठावतार श्रीमत्स्वामी राघवानन्दाचार्यजी महाराज ने
पधारकर आपश्री को लोकसंग्रहार्थं षडक्षर श्रीरामतारकमन्त्रराज की दीक्षा प्रदान
की एवं अपने साथ काशी-पंचगंगाघाटस्थ श्रीमठ ले गए; जहाँ गुरुचरणसन्निधि में
ही आपश्री का साम्प्रदायिक अध्ययन हुआ। आपश्री अध्ययनानन्तर गुर्वाज्ञा से
पुनः अपने घर लौटे तथा माता-पिता से आज्ञा लेकर पुन: गुरुचरणों में लौटकर
विधिवत् विरक्तदीक्षा प्राप्त करने हेतु प्रार्थना की। परमकृपालु गुरुदेव श्रीराघवानन्दाचार्य
महाभाग ने आपश्री को अब विधिवत् पंचसंस्कारपूर्वक विरक्तदीक्षा देकर 'श्रीरामानन्दाचार्य'
Goi)
नाम से समलंकृत किया तथा आपश्री को काषायवस्त्रादि सहित त्रिदण्ड प्रदान किया।
यद्यपि आपश्री पूर्णकाम-आत्माराम-परमनिष्काम-समर्थ-परब्रह्म ही थे, तथापि
आपश्री ने श्रीमठ में रहकर लोकसंग्रहार्थं कठोर तपश्चर्या की; जिससे आपश्री की
कीर्तिकौमुदी का दिगन्तपर्यन्त विस्तार हुआ। आपश्री के तपःपूत प्रभाव को
देखकर अनेकों लोग आपश्री से दीक्षित होने हेतु पधारे, जिन्हें आपश्री ने
अनुगृहीत करते हुए भगवच्छरणागति प्रदान की। किन्तु जब आपश्री के माता-
पिता भी आपश्री से दीक्षित होने हेतु काशी आए, तब आपश्री संकोचवशात्
अन्तर्धान हो गए। तब श्रीराघवानन्दाचार्य महाभाग ने प्रकट होकर सभी से
विधिवत् श्रीराममन्त्र के छः करोड आहुतियों वाला एक महान् श्रीरामयज्ञानुष्ठान
करवाकर आपश्री को पुनः प्रकट किया। अनेकों योगी-भक्त-ज्ञानी-आदि आपश्री
के मार्गदर्शन से अनुगृहीत होने लगे, जिनमें आपश्री के प्रमुख बारह शिष्यों का
नामोल्लेख श्रीनारायणदास “नाभा” ने अपने भक्तमाल (३६) में निम्नलिखित
छप्पय के व्याज से किया है :
अनन्तानन्द कबीर सुखा सुरसुरा पद्मावति नरहरि ।
पीपा भावानन्द रैदास धना सेन सुरसरि की धरहरि ।।
औरो शिष्य प्रशिष्य एकते एक उजागर
जगमंगल आधार भक्ति दशधा के आगर ।।
बहुत काल बपु धारि कै प्रनत जनत को पार दियौ ।
श्रीरामानन्द रघुनाथ ज्यों दुतिय सेतु जगरतन कियौ ।।
इस प्रकार; अनन्तानन्द, कबीरदास, सुखानन्द, सुरसुरानन्द, पद्मावतीदेवी,
नरहर्यीनन्द, पीपाप्रतापराय, भावानन्द, रैदास, धना, सेन, सुरसुरीदेवी -- ये
बारह आप्री के प्रमुख शिष्य कहलाए। वस्तुत: श्रीरामानन्दाचार्यजी सर्वावतारी
परमप्रभु श्रीराम ही हैं, अतः उनके यशोवैभवविस्तारार्थ श्रीमद्धागवतोक्त “स्वयम्भूर्नारदः
शम्भुः कुमारः' (६.३.२०) इत्यादि द्वादश महाभागवत ही उक्त द्वादश शिष्यों
के रूप में अवतीर्ण हुए। अस्तु। तत्कालीन अनेकों हिन्दु व मुस्लिम शासक
श्रीमञ्जगद्गुरु रामानन्दाचार्यमहाभाग की अपूर्व वर्णाश्रममर्यादानिष्ठा, तपोमय-
भक्तिमय जीवन व तेजस्विता से प्रभावित होकर उनके प्रति आस्थान्वित हुए।
आपश्री की श्रीरामभक्तिभगीरथी का प्रवाह इतना प्रबल हुआ कि लोगों में यह दृढ़
आस्था बन गई -- भक्तिदेवी को दक्षिण से उत्तर में लाने का कार्य केवल आपश्री
ने ही किया है : “भक्ति द्रविड़ ऊपजी, लायो रामानन्द'। जज़ियाकर आदि
हटवाकर, मुस्लिम शासकों के द्वारा त्रस्त हिन्दुजनता को आपने विविध प्रकार से
(वा)
सुरक्षित किया तथा अनेकों धर्मान्तरित लोगों को पुन: संस्कृत करके पुन: हिन्दु-वैदिक
बनाया। आपश्री के पुण्यप्रभाव से ही तत्कालीन हिन्दु-मुस्लिम-वैमनस्य, शैव-वैष्णव-
विवाद, दुरभिसन्धिजन्य वर्णविद्वेष आदि न्यूनतम हो गए। विशिष्ठाद्वैतसिद्धान्त व
भगवत्रपत्तिराद्धान्त के संरक्षणार्थ आपश्री सतत प्रयासरत रहे; जिसके फलस्वरूप
सम्प्रति प्रस्थानत्रयानन्दभाष्य आपश्री की कीर्तिपता का अधिकाधिक शोभायमान हो
रही है। तदतिरिक्त वैष्णवमताब्जभास्कर, श्रीरामार्चनपद्धति, श्रीरामरक्षा, सिद्धान्तपटल,
ज्ञानलीला, ज्ञानतिलक, योगचिन्तामणि, सतनामीपन्थ आदि अनेकों संस्कृत व हिन्दी
ग्रन्थ आपश्री की कृतियों के रूप में प्रसिद्ध हुए। भविष्य में आपश्री की परम्परा से
ही रविदासीय-कबीरपन्थी-रामस्नेही-प्रभृति परम्पराएँ भी प्रादुर्भूत हुई तथा आपश्री की
शिष्यपरम्परा समग्र उत्तरभारत में फैल गई। आपश्री ने अपने जीवनकाल में सम्पूर्ण
भारत का भ्रमण किया तथा श्रीरामार्चा-हनुमदुपासना-नामजपादि को समाज में
प्रशस्ततः प्रतिष्ठित किया। दीर्घकाल तक साधना करते हुए अनेकों प्रपन्नजीवों को
भगवदुन्मुख करके आपश्री विक्रमी १४६७गत चैत्रशुक्लानवमी के दिन काशीस्थ
श्रीमठस्थित अपने भक्तों के बीच से सहसा शंखनादपूर्वक होकर अदृश्य हुए एवं
तत्काल श्रीअयोध्यास्थ कनकभवन में प्रकट हुए। वहाँ सभी प्रपन्न श्रीबैष्णवों को
आशीर्वादित करते हुए सबके देखते-देखते आपश्री सशरीर भगवान् कनकविहारीजी
में ही प्रविष्ट हो गए।
उन्हीं श्रीरामावतार जगद्गुरु भगवान् श्रीस्वामी रामानन्दाचार्यजी महाराज के द्वारा
स्वचरणानुगत श्रीवैष्णवों के सर्वविध कल्याणार्थ २०५ पद्यो में निबद्ध
“श्रीवैष्णवमताब्जभास्कर' संज्ञक प्रकृत प्रबन्ध पर, मान्य ग्रन्थव्याख्याता महोदय
को 'संबित्कर' नामक हिन्दीवृत्ति सहित 'पदपरामर्श' नामक प्रस्तुत संस्कृतटीका
स्वयमेव विद्वन्मनोमोदिनी है। 'पदपरामर्श' शब्द की निरुक्ति अत्यन्त गम्भीर है;
क्योंकि “पद' (ग्रन्थकारोक्त शब्दराशि) का “परामर्श” (युक्तियुक्त विवेचना) प्रस्तुत
करने वाली, किं वा इस श्रीवैष्णवमतान्जभास्कर के 'पद' (रश्मियों) का 'परामर्श'
(विशेषतः प्रतिफलन) करने वाली, अथवा साक्षात् ग्रन्थकार महाभाग के “पद'
(श्रीचरणों) का 'परामर्श' (भक्तिपूर्वक समर्चना) करने वाली इस संस्कृतटीका की
'पदपरामर्श' संज्ञा अन्वर्थ है। श्रीहरिहरानुग्रह के अमोघ प्रभाव से, श्रीवैष्णवजगत्
सहित समस्त संस्कृत-विद्वानों के चित्त को आकृष्ट करने में समर्थप्राय, उक्त अपूर्व
संस्कृतटीका व मूलग्रन्थ की सारसमाख्या निम्नलिखित है :
नित्यश्रीसमलंकृत पूर्णपुरुषोत्तम भगवान् श्रीरामचन्द्र वेदवेद्य, अनन्तकल्याण-
गुणनिकेत, भगवतीप्रेमकटाक्षविषय, भक्ताभीष्टपूर्तित्रतैकदीक्षित, नीलमणिवत् दिव्यतम
(xxiii)
देहकान्ति से युक्त होते हुए, रसप्रख्यातकवीश्वर भगवान् वाल्मीकि के इष्ट: सर्वस्य
लोकस्य' (वा.रा.१.१८.२७) के अनुसार, सबके भजनीय हैं। तद्वत्,
इषत्कृपाकटाक्षनिक्षेपपूर्वक इन्द्र-प्रभृति लोकपालों के सर्वाभीष्ट सिद्ध करने वाली,
श्रीरघुनाथजी के अनुरूप ही सर्वमंगलगुणनिलया, अलौकिककमललोचना, विद्युतपुंजवत्
दिव्यतम अंगकान्ति से युक्त, साकेताधिपति श्रीराम के प्रति अनन्याश्रिता, पुरुषकारपूर्वक
भगवच्चरणाश्रित श्रीवैष्णवों को श्रीभगवान् का अनुग्रहभाजन बनाकर उन्हे
भगवद्भक्तिसम्पदा प्रदान करने वाली भगवती जगज्जननी श्रीजानकी भी जीवमात्र की
भजनीया हैं। अतः ग्रन्थकार महाभाग ने ग्रन्थारम्भ (१-२ पद्यों) में क्रमश:
जगन्नियन्ता सर्वाराध्य भगवान् श्रीरामभद्र एवं भगवती जनकनन्दिनी श्रीजानकी के
स्वरूप का अनुसन्धान करते हुए श्रीवैष्णवों के प्रति ध्येयतत्् का सम्यक्
प्रतिपादन किया है। तदनन्तर (पद्य ३ में), ध्येय (श्रीसीताराम) में भक्तिभाव में
आज्ञान-क्लेश-कर्माशय-विपाकादि द्वारा प्राप्त विक्षेप के निवारणार्थ एवं पूर्वोक्त
परमाराध्य में अविचल आसक्ति की सिद्धि हेतु भगवान् श्रीरघुवीर के दिव्यतम
आयुधसंघ का वर्णन किया गया है। तदुपरान्त समग्र ग्रन्थभाग (पद्य ४ से २०५
पर्यन्त) जगदगुरु श्रीमत्स्वामी रामानन्दाचार्य एवं उनके पट्टशिष्य श्रीसुरसुरानन्दाचार्य
का संवादप्राय है, जिसमें (पद्य ४ में) दशपदात्मक पद्य के माध्यम से शिष्य
अपने सदगुरु से -- तत्त्वत्रय, जप्यमन्त्र (रहस्यत्रय), वैष्णवाभिमत ध्येय,
मुक्तिसाधन, आचारमीमांसा, वेष्णवलक्षण, कालक्षेपविधि, तीर्थवास इत्यादि विषयक
-- दस प्रश्नों के उत्तर हेतु प्रार्थना करते हैं। इन प्रश्नों के समाधानार्थ ही अग्रिम
ग्रन्थभाग प्रवृत्त होता है; जहाँ (पद्य ५ में) ग्रन्थकार महाभाग, लोकसंग्रहार्थं अपने
ूर्वाचायाँ का स्मरण करके, अपने शिष्य को कृपापूर्वक समाधान देने हेतु प्रस्तुत
होते हैं।
प्रथम प्रश्नोत्तररूप तत्त्वप्रकरण (पद्य ६-९) में तत्त्वत्रय (अचित् -- प्रकृति, चित्
-- जीव, एवं ईश्वर) का विवेचन है। इनमें; प्रकृति-प्रधान-अजा-आदि नामों से प्रसिद्ध
अचित्तत्त त्रिगुणात्मिका, निष्क्रिय, सबकी प्रकृति किन्तु स्वयं अविकृति, नित्य, आज्ञ,
अचेतन, परिवर्तनशील तथा भगवदधीन है; जो, सांख्योक्तक्रमानुसार क्रमश: महदहंकारादि
के माध्यम से, परमेश्वर के संकेतानुसार इस विचित्रतम जगत् की सृष्टिपूर्वक उनको
प्रमुदित करती है। तद्विरुद्ध; चित्तत्व (जीव) नित्य, अल्पज्ञ, अजन्मा, भगवदधीन,
स्वरूपतः सूक्ष्मातिसूक्ष्म, प्रतिशरीरभिन्न, अज्ञानवशात् कर्तृत्व-भोक्तृत्व-बुद्धियुक्त तथा
नित्य-मुक्त-बद्धसंज्ञक भेदत्रय वाला हैं। जबकि; समस्त विश्व की सृष्टि-स्थिति-संहार-
निग्रह-अनुग्रहरूप पंचकृत्य के निर्वाहक, सर्वनियामक, सर्वज्ञ, एक, अविनाशी,
(XXIV)
अनन्तकल्याणगुणराशि, विश्वम्भर, सर्वैश्वर्यविभूतियुत, शरणागतवत्सल,
ब्रह्मादिदेवशिरोमणिवन्दित, योगिजनध्येय, सर्वक्लेशातीत, अजर, अमर, परब्रह्म,
परमात्मा साकेताधिपति भगवान् श्रीरामभद्र ही ईश्वरतत्त्व के रूप में प्रसिद्ध हैं।
द्वितीय प्रश्नोत्तररूप जप्यनिर्धारणप्रकरण (पद्य १०-५४) में रहस्यत्रय का
प्रतिपादन है। एकाक्षरां द्विपदां षट्पदाञ्च' (तै.ब्रा. २.८.६०) इत्यादि श्रुतिप्रतिपादित
मूलमन्त्रभूत षडक्षर रामतारकमन्त्रराज (रां रामाय नमः) तथा पच्चीस वर्ण वाले
द्वयमन्त्र (श्रीमद्रामचन्द्रचरणौ शरणं प्रपद्ये, श्रीमते रामचन्द्राय नमः) सहित
लोकविश्रुत भगवत्प्रतिज्ञारूप 'सकृदेव प्रपन्नाय तवास्मीति च याचते'
(वा.रा.६.१८.३३) इत्यादि चरममन्त्र _ ये तीनों ही श्रीरामानन्दीय वैष्णवों के लिए
जप्यभूत रहस्यत्रय हैं; जो कि श्रेयःकामी साधकों के द्वारा गुरुपरम्परया प्राप्तव्य हैं।
इनमें सर्वप्रथम (पद्य ९२-३२ में) षडक्षरमन्त्रार्थविचार गुम्फित है। मूलमन्त्रगत *रां'
बीज समस्त वेदज्ञानराशिसहित प्रणव एवं विश्वसृष्टि के प्रपंचन का आधार है तथा
ब्रह्म-विष्णु-महेश्चर द्वारा आरूढ है। 'रां' बीजगत 'र्! से सर्वशेषिरूप सर्वस्वामी
भगवान् श्रीजानकीनाथ राम का, “आ + अ - आ' से जीव की परमेश्वर श्रीराम के
प्रति अनन्यशेषता एवं अनन्यार्हता तथा 'म्' से भगवच्छेष तथा नित्य भगवत्सेवकरूप
जीवतत्त्व का ग्रहण होता है। वहीं, चतुर्थीविभक्तिघटित “रामाय' शब्द विश्वम्भर
भगवान् श्रीरामचन्द्र का इस समस्त विश्व से आधाराधेयसम्बन्ध व सेव्यसेवकभाव
ज्ञापित करता है; जबकि षडक्षरमन्त्रगत 'नमः' शब्द चित्तत््ववाचक है। अखण्डदृष्ट्या
विचार करने पर 'नमः' शब्द से सर्वशक्तिमान् श्रीरामभद्र के साथ समस्त जीवसमूह
का आत्मात्मीयभाव तथा सखण्डदृष्ट्या विचार करने पर “नमः - न + मः' शब्द
से प्रभु श्रीरामचन्द्र के साथ समग्र चेतनाचेतन प्राणिवर्ग का भोक्तभोग्यभाव ज्ञात होता
है।
इस समग्र मन्त्रराज का वाक्यार्थ है : मैं (मकारवाच्य जीवात्मा) श्रीराम (रकारवाच्य
परमात्मा) का सदा शेषरूप हूँ। “रामाय' शब्द से श्रीराम का नित्य श्रीजानकी से
योग एवं समस्त प्राणिवर्ग का अन्तरात्मत्व, सर्वविधजीवहितपरत्व, उभयलिंगत्व
(सगुणत्व -- दिव्यगुणयुक्तता तथा निर्गुणत्व -- हेयप्राकृतगुणहीनता), उपायत्व
(प्राप्पता), उपेयत्व (प्राप्तिसाधनरूपता), सर्वविभूतिनेतृत्व, सच्चिदानन्दरूपत्व आदि
ख्यापित होते हैं। इस शब्द के विचार से साधक के अज्ञानकल्पित लौकिक सम्बन्धों
की निवृत्ति तथा एकमात्र श्रीरघुनन्दनचरणशरणतोपलब्ध दिव्य प्रीति की सिद्धिपूर्वक
कृतार्थता सम्भव है। इस परमलाभ के लिए “रामाय' पद से नित्य भगवत्कैंकर्यप्राप्त्यर्थ
(75५)
प्रार्थना भी सूचित होती है। इसी षडक्षरमन्त्रराज में अर्थपंचक का अनुसन्धान भी शक्य
है; यथा 'रां' शब्द से स्वस्वरूप (जीव), “रामाय' शब्द के प्रकृतिभाग से परस्वरूप
(ईश्वर) तथा चतुर्थीविभक्ति से फलस्वरूप (नित्यशेषवृत्तिरूपता), अखण्ड “नमः'
शब्द से उपायस्वरूप (भक्ति व प्रपत्ति) तथा सखण्ड “नमः' शब्द से विरोधिस्वरूप
(अन्याश्रय-अहंकारादि) अनुसन्धेय हैं। ध्यान रहे; उक्त मन्त्रराज का तात्पर्यार्थ यही है
कि श्रीरामभद्र की भक्ति व प्रपत्ति ही सर्ववेदादिशास्त्रप्रतिपाद्य हे, अतएव सभी जीवों
द्वारा वही कर्तव्य है; जबकि मन्त्रराज के अनुसन्ध्यर्थ से श्रीराम से जीवों का
स्वस्वामिभाव-पितापुत्रादिभावरूप अनेकों सम्बन्ध ज्ञात होते हैं। इस प्रकार सर्वलोकविश्रुत
श्रीरामषडक्षर तारकमन्त्रराज के रसरहस्य का प्रतिपादन किया गया है।
तदनन्तर क्रमशः (पद्य ३३-४४ में), श्रीवैष्णवों के द्वारा गुरूपदेशश्रवणानन्तर
सर्वथा जप्य व अनुसन्धेय, दस अभिप्रायों के अभिव्यंजक, षड्पदीय पच्चीस-
वर्णात्मक सर्वमंगलास्पद द्वयमन्त्र (श्रीमद्रामचन्द्रचरणौ शरणं प्रपद्ये, श्रीमते
रामचन्द्राय नमः) का निरूपण प्रदर्शित है। मन्त्रपूर्वार्धित 'श्रीमद्रामचन्द्रचरणौ'
शब्द में प्रदर्शित 'श्री' पुरुषकारस्वरूपा भगवती श्रीजानकी का, “मत्' रूप मतुप्-
प्रत्यय भगवती श्रीजानकी एवं भगवान् कोसलेश्वर के नित्यसम्बन्ध का, “रामचन्दर'
शब्द भगवान् श्रीरामभद्र में नित्य अनन्तकल्याणगुणों की विद्यमानता का तथा
'चरणौ' शब्द भगवान् श्रीजानकीनाथ व उनके सच्चिदानन्दमय अप्राकृत
दिव्यमंगलश्रीविग्रह से नित्यसंयोग का, *शरणं' शब्द श्रीअयोध्यानाथप्रभु के
करुणामय स्वभाव का तथा 'प्रपद्ये' शब्द उपायाध्यवसाय का द्योतक है। तद्वत्
मन्त्रो्तरार्धगत “श्रीमते' से जीवमात्र के लिए सर्वेश्वर श्रीसीताराम की प्राप्यता,
'रामचन्द्र' शब्द से श्रीरघुनन्दन का निरुपाधिक सर्वस्वामित्व तथा इसकी
चतुर्थीविभक्तिघटित 'आय' से जीव की कैंकर्यपरायणता सहित “नमः” शब्द से
भगवत़्ाप्त्यर्थ समस्त प्रातिकूल्यवर्जन संकेतित हैं। ध्यान रहे कि “यह जीव
श्रीरमशरणापन्न होकर केवल उनकी भक्ति करे! -- इस भाव का संश्रय ही उक्त
मन्त्र का तात्पर्यार्थ है; जबकि सर्वप्राप्य श्रीसीतारामजी व प्रापक (जीव) के स्वरूप
व परस्पर सम्बन्ध की दृढ भावना इस मन्त्र का वाक्यार्थ है। युगलम्रभु श्रीसीतारामजी
के कैकर्य की प्रधानता ही उक्त मन्त्र का प्रधानार्थ तथा “सर्वदा स्वगत दोषों के
अनुसन्धानपूर्वक उनके शोधन हेतु जागरूक रहना” ही उक्त मन्त्र का अनुसन्ध्यर्थ
है। इस प्रकार ग्रन्थकार महाभाग के द्वारा द्वयमन्त्र के अपूर्व रसरहस्य का प्रपंचन किया
गया है।
(>5शं)
तदुपरान्त (पद्य ४५-५४ में) लोकविश्रुत भगवत्प्रतिज्ञारूप “सकृदेव प्रपन्नाय
तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम' (वा.रा.६.१८.३३)
-- इस चौदह पद व बत्तीस वर्ण वाले चरममन्त्र का रहस्यात्मक विवेचन वर्णित है।
मन्त्रपूर्वा्घगत 'सकृत्' शब्द से श्रीरामातिरिक्त सर्व साधनों व उपायों का निषेध, *एव'
शब्द से साधनान्तरानपेक्षा की दृढता, 'प्रपन्नाय' शब्द से भगवदाश्रित जीव का
रक्षास्थानत्व (भगवत्कृपाविषयत्व), “तव' शब्द से श्रीरामभद्र की परमोपायता,
'अस्मि' क्रियापद से भगवान् में उपायबुद्धि, 'इति' शब्द से उपायरूप भगवान्
के प्रति अनन्यता व उपायान्तरानुसन्धान हेतु अनुधावन की समाप्ति, 'च' शब्द
से कायिक व मानसिक शरणागति तथा प्रपत्ति के अतिरिक्त भक्ति का भी
स्वतन्त्रतः मोक्षसाधनरूप से ग्रहण तथा 'याचते' क्रियापद से अधिकारसम्पत्ति
(अर्थात् भगवन्मात्राश्रित होकर उनसे ही रक्षार्थ याचना करने वाला ही प्रपत्ति का
अधिकारी है) बोधित होता है। मन्तरोत्तरार्थगत 'अभयं' शब्द से प्राप्यरूप श्रीसीताराम
की प्राप्ति में सभी बाधकों का वारण तथा अनादिकर्मप्रवाहरूप संसार से निवृत्ति,
“सर्वभूतेभ्यः? प्राप्य श्रीराम की प्राप्ति में आने वाले प्रतिबन्धकों का, 'ददामि'
शब्द से भगवान् का अलौकिक सामर्थ्य व सर्वशक्तिमत्ता, 'एतत्' शब्द से
भगवत्रतिज्ञा की सफलता में असन्दिग्धता तथा असंशयत्व, 'मम' शब्द से
प्रतिज्ञाकर्ता भगवान् तथा उनकी स्वप्रपन्नरक्षा हेतु वचनबद्धता का पोषण तथा
'व्रतं' शब्द स्वप्रतिज्ञाविषयक अत्यन्त दृढता ज्ञात होती है।
ध्यान रहे कि 'अभयकामी जीव रक्षार्थप्रतिश्रुत शरणागतवत्सल भगवान् का
समाश्रयण करे” ~ यही इस चरममन्त्र का तात्पर्यार्थ है; जबकि निर्भयताकामी
शरणापन्न जीवात्मा के स्वरूप का प्रतिपादन इस मन्त्र का वाक्यार्थ है।
शरणागतरक्षाब्रतधर परमप्रभु सर्वेश्वर के स्वरूप का प्रतिपादन इस मन्त्र का
प्रधानार्थ तथा प्रपन्न को भगवत्प्रतिज्ञा पर विश्वासपूर्वक परमनिश्चिन्तता का अनुभव
करवाना ही इस मन्त्र का अनुसन्ध्यर्थ है।
इस प्रकार, रहस्यत्रय के प्रतिपादनानन्तर, क्रमश: तृतीय प्रश्नोत्तररूप
ध्यानध्येयप्रकरण (पद्य ५५-६०) में अनन्तसौन्दर्यलावण्यमाधुर्यशोभारत्माकर
कौशल्यानन्दन सर्वलोकाभिराम भगवान् श्रीराम के अलौकिक स्वरूप का वर्णन
किया गया है; जो कि सभी श्रीवैष्णवों के द्वारा ध्येय है। "ध्येये सक्तं मनो यस्य
ध्येयमेवानुपश्यति। नान्यं पदार्थ जानाति ध्यानमेतत्प्रकीर्तितम्' (ग.पु. १.
२३५.३०) इत्यादि वचनानुसार, ध्यानकाल में अन्य विषयों की अपेक्षा ध्येय की
अपूर्वता नितान्त अपेक्षित है; ताकि उसमें चित्त का स्वत: आकर्षण व स्थिति सम्भव
(जज)
हो। एतदर्थ ग्रन्थकार महाभाग ने भगवान् की अपूर्व सुन्दरतम छवि का वर्णन किया
है, जो कि समस्त श्रीवैष्णवों द्वारा ध्येय है। 'यश्व रामं न पश्येत्तु ... निन्दितः
सर्वलोकेषु स्वात्माऽप्येनं विगर्हते’ (वा.रा.२.१७.१४) इत्यादि वचन के द्वारा
इंगित होता है कि इस स्वरूपविशेष का ध्यान किए विना परमशान्तिरूप प्रसादसिद्धि
अशक्यप्राय है। अतएव श्रीरामस्तवराजादि में वर्णित भगवद्विग्रहस्वरूप को संक्षिप्त:
प्रकृत प्रकरण में संगृहीत किया गया है। तदनुसार; सद्योविकसित-नवनीलकमलकल्प-
विशाललोचन, शिवब्रह्मादि-मनोहरणतत्पर-सुन्दरमन्दस्मित, सतत
श्रीजानकीस्नेहदृष्टिसंसेवित, मुनिमनोभ्रमरसमास्वादितमधुर-मकरन्दपरिप्लुतचरणकमल,
अलौकिकबलसंयुत-दिव्याखसंघसुशोभित-आजानुभुज-दण्डद्गयमण्डित,
दिव्यमंगलालंकारविभूषित, सजलजलदसुन्दरमंगलवपु, कोटिमनोज-मनो5हंकारखण्डित,
सुन्दरपीताम्बरमण्डित, कल्याणगुणनिधि, कृपासिन्धु, साधुमन:कमलवासी,
प्रसादललितलावण्यविलसितमुखकमल, सर्वलोकशरण्य, परात्परपुरुषोत्तम, सपरिकर
मूर्तिमान् महोत्सव, प्रपन्नपारिजात, त्रिपुरसुन्दरीश्रीजानकी-देवीसहित सर्वेश्वर भगवान्
श्रीरामभद्र ही, सभी अनुरागी श्रीवैष्णवों के ध्येय हैं।
चतुर्थ प्रश्नोत्तररूप मुक्तिसाधनप्रकरण (पद्य ६१-११९) अत्यन्त महत्त्वपूर्ण
ग्रन्थभाग है। पद्य ६२ व ६९-७१ में 'तापः पुण्डं तथा नाम मन्त्रो माला च
पञ्चमः। अमी हि पञ्चसंस्काराः परमैकान्तहेतवः' इत्यादि वचनानुसार; भुजामूल
में धनुर्बाण की छाप, शरीर पर भगवच्चरणरूप द्वादश तिलक, भगवद्दासत्वानुसन्धान-
परक नाम-विशेष, पूर्वोक्त तीनों मन्त्र तथा कण्ठ में तुलसीमाला -- इन पाँच
संस्कारों के द्वारा श्रीवैष्णवदीक्षा का विधान प्रदर्शित है। तदनन्तर 'आचार्यो
वेदसम्पन्नो विष्णुभक्तो विमत्सरः। मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्राश्रयः शुचिः।।
गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषवित्। एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते'
इत्यादि श्रुत्यनुरूप गुरुलक्षण (पद्य ६३-६६ में) वर्णित हैं। तदनुसार; जितेन्द्रिय,
पवित्र, वैष्णवविरक्तोचित शुद्धवेशधारी, सदाचारी, कुलीन, शास्त्रज्ञ, उपदेशकुशल,
ध्यानयोगी, बुद्धिमान्, निग्रह व अनुग्रह में समर्थ विरक्तसंत ही गुरुरूप में वरणीय
हैं। तद्विपरीत; विकलांग, कपटी, कृष्णदन्ती, नेत्ररोगी, कुष्ठरोगी, बहुभाषी,
वामन, व्यसनी, निद्राप्रेमी, कुनख, बहुभक्षी व्यक्ति सर्वथा त्याज्य है। ग्रन्थकार
शिष्यलक्षण विवेचनार्थ (पद्य ६७-६८ में) कहते हैं कि श्रद्धालु, शुद्धमनस्क,
मेधावी, विनम्र, कार्यदक्ष, कुलीन, सच्चरित्र, बुद्धिमान्, दृढसंकल्प, गुरुसेवासमर्थ,
आज्ञाकारी, जितेन्द्रिय, अनुद्विग्न, अक्रोधी, भक्तिसम्पन्न एवं समर्पित व्यक्ति को ही गुरु
के द्वारा शिष्यरूप में स्वीकार किया जाना चाहिए।
(xxviii )
आगे (पद्य ७९-७४ में) लौकिककामनाविनिर्मुक्त होकर पूर्णतत्परता व अनन्यभाव
से परमात्मा श्रीजानकीनाथ के चरणारविन्द की सतत सेवारूप पराभक्ति का प्रतिपादन
है। विवेक, विमोक (निष्कामता), अभ्यास, क्रिया (नित्यकर्माद्यनुष्ठान), कल्याण
(दैबीसम्पद्), अनवसाद एवं अनुद्धर्ष (उपासनाविषयक असन्तोष) -- इन सात
सहित यमादि अष्टांगयोग के द्वारा तैलधारावत् सतत व अविच्छिन्न भगवत्स्मृति को
ही पूर्वाचारयो के द्वारा “पराभक्ति' के रूप में अभिहित किया गया है। पुनश्च वह पराभक्ति
“श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्'
(भा.पु. ७.५.२३) इत्यादि कथनानुरूप नौ प्रकार की कही गई है। वह पराभक्ति भी
"भक्तया सञ्जातया भक्तया' (भा.पु. ११.३.३१) इत्यादि विधा से भक्ति (भगवत्प्रमोदक
आचरण) का ही फल है। अत: आगे (पद्य ७५-९०१ में) ग्रन्थकार महाभाग द्वारा
भगवत्परत्यर्थ कर्तव्य एकादशीव्रत-श्रीरामनवमी-आदि ब्रतोत्सव का विस्तरशः उद्देश
करते हैं; जो कि वहीं द्रष्टव्य है।
उक्त वैष्णवोचित सदाचरण के बल पर भगवान् श्रीसाकेताधिपति का विशेष
अनुग्रह जीव पर हो जाता है; जो उसके मोक्ष में साधक होता है। श्रीरामानन्दीय
वैष्णवों को अन्य प्रस्थानों के तुल्य मोक्ष में तारतम्य या प्रभेद मान्य नहीं है;
प्रत्युत यहाँ केवल सायुज्य को ही एकमात्र मोक्ष स्वीकार किया जाता हैं।
कर्मानुष्ठान के फलस्वरूप चित्तशुद्धि तथा उससे प्राप्त हुई ईश्वरभक्ति ज्ञान में हेतु
बनती है; जबकि दीर्घकालीन साधना के अनन्तर वह ज्ञानी साधक भगवत्प्रपन्न
होता है -- यह 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते’ (गी.७.१९),
'मुक्तोपसृप्यव्यपदेशात्' (ब्र.सू. १.३.२) इत्यादि वचनों का सारसर्वस्व है। फलतः
कर्म-ज्ञान-भक्ति मोक्ष के उपायान्तर किन्तु परतन्त्रसिद्ध होते हैं, किन्तु प्रपत्ति
सर्वथा स्वतन्त्र एवं परमोपायरूप मोक्षसाधन है। प्रपन्नजीव की मुक्ति में प्रणिपातप्रसन्न
भगवती जनकात्मजा, पुरुषकारपूर्वक परमकृपालु भगवान् श्रीरघुवीर को अनुकूल
करके उसे मोक्षप्रसादसिद्ध्यर्थ, पूर्ण सहयोग करते हुए महत्त्वपूर्ण भूमिका का
निर्वाह करतीं हैं। 'आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्? इत्यादि
(३७.२८-२९) अहिर्बुध्यसंहितोक्त षड्विध शरणागतिरूप प्रपत्ति (न्यासविद्या)
में जीवमात्र अधिकृत हैं : “सर्वे प्रपत्तिरधिकारिणो मताः' (९९० )। ध्यान रहे;
“मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ (७.१४), “मां हि पार्थ व्यपाश्रित्य
येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्'
(९.३२) इत्यादि गीतोक्तियाँ भगवत्रपत्ति में जीवमात्र को अधिकृत करतीं हुई उनके
कल्याण का समुद्घोष करतीं हैं; तथापि भगवत्प्रपन्नों के द्वारा कथमपि स्ववर्णाश्रमधर्म
xxix)
का परित्याग विहित नहीं है, यह 'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवाः' (१८.४५-४६) इत्यादि गीतोक्तियों
से ध्वनित होता है। ग्रन्थकार महाभाग ने उक्त विषयविवेचनपूर्वक मुक्तिसाधन का
समासतः प्रतिपादन (पद्य १०२-९१९ में) किया है।
प्रस्तुत ग्रन्थ का पंचम प्रशनोत्तररूप सर्वोत्तमधर्मप्रकरण (पद्य १२०-१३७
में) श्रीवैष्णवों के विशेषधर्म का उद्बोधक है। समग्र चेतनाचेतन प्राणिवर्ग में
अन्तरात्मस्वरूप से भगवान् की स्थिति बृहदारण्यकोपनिषद्-अन्तर्यामिब्राह्मण),
सुबालोपनिषदादि इत्यादि द्वारा सिद्ध है। एतदर्थ प्राणिमात्र के प्रति की गई हिंसा
वस्तुतः उसके अन्तर्यामी परमप्रभु के प्रति कृत अपराधतुल्य ही है। एतावता,
प्राणिहिंसा का सर्वथा निषेध करने हेतु “कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा।
अक्लेशजननं प्रोक्तमहिंसा त्विह योगिभिः? इत्यादि (२.११.१४) कूर्मपुराणोक्ति
के आधार पर, पद्य १२०-९२३ का ग्रन्थभाग प्रवृत्त होता है। 'पदापि युवतीं
भिक्कुर्न स्पूशेद्दारवीमपि’ इत्यादि (११.८.१३) भागवतोक्तयनुरूप; पद्य १२४-
१२८ में विरक्त वैष्णवसंत के लिए स््रीपरिग्रह सर्वथा वर्जित है। कदाचित् वह
सत्रीसंग करे, तो सम्प्रदाय द्वारा वह पतित सर्वत्र बहिष्कृत किया जान चाहिए। पद्य
१२९ के अनुसार; विरक्तसाधु असंग होकर श्रीरामनामजपपूर्वक भिक्षावृत्ति से
जीवनयापन करे और भगवद्भागवतपरिचर्या में प्रवृत्त रहे। जिस भगवद्विग्रह की
परिचर्या उसके द्वारा कर्तव्य है, उसका स्वरूप तथा पूजन-स्तवन-प्रणतिनिवेदनविधि-
आदि पद्य १३०-९३६ में वर्णित है। तदनुसार; सर्वथा अर्चक के अधीन रहने
वाला श्रीभगवद्विग्रह भक्तवांछापूरक, सर्वापराधसहिष्णु, वेदागमादि के मन्त्रों द्वारा
प्राणप्रतिष्ठित होने से सर्वथा अप्राकृत (दिव्य) तथा षोडशोपचारादि द्वारा पूजित
होने योग्य होता है। शास्त्रों में उस अर्चाविग्रह के स्वयम्भु, दैव, सद्ध व मानुष भेद
से चार प्रकार प्रसिद्ध हैं। ग्रन्थकार महाभाग ने, “स्तुतिप्रियो महाविष्णुः' इत्यादि
वचनों के विचारपूर्वक, पूजनोपरान्त दिव्यस्तुतिपूर्वक भगवान् को प्रसन्न करने का
विधान करते हुए, श्रीभगवान् की दिव्य स्तुतियों को संकलित किया है (पद्य
१३४-१३६)
पीछे (पद्य ७ में) जीव के तीन भेद -- बद्ध, मुक्त व नित्य -- कहे गए थे;
मानो उसी का विस्तरशः प्रतिपादन करने हेतु, षष्ठ प्रश्नोत्तररूप वैष्णवभेदकथनप्रकरण
(पद्य १३९-१५८) प्रवृत होता है। उक्त सबमें सतत भगवत्परिचर्यासंलग्र भगवद्धामवासी
श्रीहनुमदादि दिव्य श्रीवैष्णवगण नित्यसंज्ञक हैं। स्वकर्मफलभोगपरायण संसारसमुद्रनिमग्न
समस्त जीवराशि बद्धजीव हैं, जबकि कर्मफलबन्धनविनिर्मुक्त मायोत्तीर्ण भगवत्कृपाभाजन
(XXX)
जीव मुक्तजीव हैं। प्रकारान्तर से नित्यजीव को ही 'नित्यमुक्त' तथा मुक्तजीव को ही
'कादाचित्कमुक्त' भी कहा गया हैं। इनमें अब बद्धजीव दो प्रकार के हैं -- मुमुक्षु
(मोक्षेच्छु) व बुभुक्षु (भोगेच्छु)। मुमुक्षु पुन: ज्ञानाधसाधन व चेतनान्तरसाधन भेद से
दो प्रकार हैं; जिनमें पहले तो मुक्ति के लिए ज्ञानादिसाधनों से निरपेक्ष होकर
भगवत्स्मृति में तन्मय रहते हैं तथा भगवदाज्ञा से लोकसंग्रहार्थ स्ववर्णाश्रमधर्म का
पालन करते हैं। वे भी पुन: उपासक व शुद्धभक्त के भेद से दो प्रकार के होते हैं।
तद्विरुद्ध; चेतनान्तरसाधनकोटि के मुमुक्षु ज्ञानादि को मुक्तिसाधन मानकर उनमें
लगकर भगवत़्ाप्त्यर्थ निश्चिन्त रहते हैं। जो मुमुक्षु, ज्ञानादि साधनों में उपायबुद्धि न
रखकर, भगवान् कोशल्यानन्दवर्धन की कृपा में ही महान् विश्वास रखकर उनकी
कृपामात्र से मोक्ष मानते हैं; वे प्रपन्न' कहलाते हैं। कतिपय प्रपन्न मुमुक्षु, भगवत्याप्ति
में पुरुषकार करने वाले किसी मध्यस्थ घटक को स्वीकार करते हुए, “मोक्षमूलं
गुरोः कृपा’ की भावना से भावित होकर, अपने आचार्य में पूर्णतया निष्ठ रहते हैं।
अथवा *तस्माद्विष्णुप्रसादाय वैष्णवान् परितोषयेत्’ इत्यादि के अनुसार; कुछ
गुरुसुश्रृषा के साथ युगपत् अन्य श्रेष्ठ महाभागवतों की परिचर्या में भी विशेषत: संलग्न
रहते हैं। ऐसे सभी प्रपन्न भी दृप्त व आर्त्त के भेद से दो प्रकार के होते हैं। दृप्त
प्ररब्धकर्मफलक्षयप्रतीक्षारत होकर भगवत्कृपा से मोक्ष (क्रममुक्ति) मानते हैं, जबकि
आर्त्त भगवद्विरहाग्निसन्तप्त हुए केवल तत्काल भगवत्सायुज्यरूप मोक्ष (सद्योमुक्ति)
चाहते हैं। श्रीरामचन्द्रभगवान् की श्रवण-कीर्तन-आदि नवधाभक्ति में लगे साधक
“शुद्धभक्त' कहलाते हैं। पूर्वोक्त नित्यमुक्तजीव (अथवा नित्यजीव) भी परिजन व
परिच्छद के भेद से दो प्रकार के होते हैं। श्रीहनुमद्-लक्ष्मणादि भगवत्समीपस्थ
महानुभाव “परिजननित्यमुक्त' हैं; जबकि भगवान् श्रीसाकेतनाथ के छत्र-चँवर-मुकुट-
अंगदादि परिचर्यासामग्री के रूप में विद्यमान भक्त 'परिच्छदनित्यमुक्त' कहलाते हैं।
इसी प्रकार, कादाचित्कमुक्त भी भागवत व केवल भेद से दो प्रकार के हैं। इनमें
अनन्यभाव से श्रीसीतारामपरायण भक्त “भागवत' कहलाते हैं, जो पुनः दो प्रकार के
होते हैं - ध्यानपर (भगवद्विभूति के साक्षात्कारजनित सुख की प्राप्ति हेतु) तथा
कैंकर्यपर (भगवदीय दिव्यगुणों के चिन्तनपूर्वक)। इसी प्रकार केवलमुक्त भी दो प्रकार
के होते हैं -- जो आत्मातिरिक्त सभी पदार्थों को दुःखरूप मानते हैं तथा जो
आत्मातिरिक्त किसी पदार्थान्तर का अनुसन्धान ही नहीं करते। इस प्रकार, प्रकृत ग्रन्थ
के षष्ठप्रकरण में वैष्णवभेद का अपूर्वतम कथन प्रदर्शित है।
्रीवैष्णवभेद प्रदर्शित करने के अनन्तर वैष्णवलक्षण-महिमा-संसर्गप्रभाव-वेशादि
की जिज्ञासा उपपन्न है; तदर्थ ग्रन्थगत सप्तम प्रश्नोत्तररूप वैष्णवलक्षणप्रकरण (पद्य
(0000)
१५९-१६६) सर्वथा दर्शनीय है। ग्रन्थकार के अभिमतानुसार; दैवीसम्पत्परिपुत
श्रीवैष्णवगण शिवब्रह्मादिसंसेवित दाशरथि भगवान् अयोध्यानाथ के श्रीचरणारविन्द-
मधुलिट् ही हैं; जो पंचसंस्कारसम्पन्न महानुभाव अपने श्रीअंग पर रामरज-श्री-
आदियुत द्वादश ऊर्ध्वपुण्ड तिलक, कण्ठ में तुलसीमाला धारण करते हैं। तत्रापि
विरक्तसंत सुन्दर सप्तकपाससूत्रमय कटिसूत्र व कौपीन सहित दो वस्त्र धारण करते
हैं। वे सतत कोशलेन्द्रभगवान् श्रीरामचन्द्र के नाम-रूप-लीला-धाम के रस में उन्मत्त
हुए -- 'प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः' (१.१९.८),
'येषां संस्मरणात्पुंसां सद्यः शुब्ड्यन्ति वै गृहाः। कि पुनर्दर्शनस्पर्श
पादशौचासनादिभिः।। सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि। सद्यो
नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः’ (१.१९.३२-३३), 'मद्धक्तियुक्तो भुवनं
पुनाति’ (११.१४.२४), 'निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्। अनुव्रजाम्यहं
नित्यं पूयेयेत्यङप्रिरेणुभिः' (११.१४.१६) इत्यादि भागवतोक्तियों के अनुरूप --
पवित्र तीर्थादि पुण्यस्थलों सहित लोकपावन श्रीभगवान् तक को भी पवित्र करने का
सामर्थ्य रखते हैं; तब कँमुतिकन्याय से अस्मदादि प्राकृतजनों के पवित्र होने में
शंकाकलंकपंकावकाश ही नहीं है। यहाँ तक स्वरूप व लक्षणादि के अनन्तर;
ग्रन्थकार महाभाग के द्वारा, उन श्रीवैष्णवों के कालक्षेप का विधान अभिव्यक्त करने
के हेतु, अष्टम प्रश्नोत्तररूप वैष्णवकालक्षेपप्रकरण (पद्य १६७- १७५) का प्रवचन
किया गया है। सभी श्रीवैष्णवों के लिए, विधिवत् स्नानादि सहित स्वाधिकारानुरूप
सन्ध्यादि नित्यकर्म से निवृत्त होकर, सर्वलोकमहेश्वर भगवान् श्रीसीतारामजी के
पूजनपूर्वक श्रीरामायण-महाभारतादि आर्षग्रन्थों अथवा श्रीसम्प्रदायनिधिरूप प्रस्थानत्रयी-
आनन्दभाष्य के स्वाध्याय से कालक्षेप विधातव्य है। पठन में असामर्थ्य होने पर श्रवण
तथा श्रवण में असमर्थ होने पर केवल भगवन्नामसंकीर्तन कर्तव्य है। तत्रापि असमर्थता
की स्थिति में द्वयमन्त्र (पद्य ३३-४४) का अनुसन्धान कर्तव्य है। पद्य १७०-
१७१ में श्रीवैष्णवों के लिए आजीवन भगवदीयपुण्यप्रदेशरूप तीर्थो में निवास,
भगवद्धागवतपरिचर्या, भगवत्कथा-श्रबण, गुरुपरम्पराप्राप्तमन्त्रानुष्ठान,
भगवत्पूजोपकरणसंग्रह, देवालयपरिचर्या, सत्संगादि सोत्साह व प्रमादरहित होकर
कर्तव्य है। शीक्षावल्ली के अनुरूप ही; सभी श्रीवैष्णवो के द्वारा आचायॉपदेश का पालन
कर्तव्य है।
“प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते’ इत्यादि वचनानुसार; पूर्वोक्त समग्र
श्रीवैष्णवकृत्यों का फल क्या होगा? एतदर्थ ग्रन्थकार महाभाग द्वारा, नवम प्रश्नोत्तर
(3000)
के व्याज से, वैष्णवप्राप्यनिरूपणप्रकरण (पद्य १७६-१८५) कहा गया है। ध्यान
रहे; 'जप तप मख सम दम व्रत दाना। बिरति बिबेक जोग बिग्याना।। सब
कर फल रघुपति पद प्रेमा। तेहि बिनु कोउ न पावइ छेमा' (रा.च.मा.७.९५.५-
६) इत्यादि सहित 'मदर्थ कुरु कर्माणि मा च धर्मव्यतिक्रमम्' (भा.पु.१.६२.३३)
इत्यादि के अनुरूप; श्रीवैष्णवों के समस्त कर्म केवल भगवत्रीत्यर्थ ही होते हैं। कारण
कि उनके लिए केवल नित्यैश्वर्यसंयुत, जानकीसमालिंगित, दिव्यकल्याणगुणागार,
उपनिषद्रेध, जगत्कारण, अज-अनादि, ब्रह्मादिदेवेश्वराचित, सर्वलोकप्रकाशक, अजेय,
पुराणपुरुषोत्तम, सर्वनियन्ता, सर्वतन्त्रस्वतन्त्र श्रीरघुनाथजी ही प्राप्य कहे गए हैं।
भगवत्रसादसिद्धयर्थ भागवतपरिचर्या (तत्रापि गुरुसेवा) नितान्त कर्तव्य है; जिनके
ईषदनुग्रह से प्राप्त भगवन्मन्त्र की शास्रीयोपासना से साधक को न्यासविद्याभूत प्रपत्ति
सिद्ध होती है। प्रपन्नजीव साधनापूर्वक क्रियमाण-संचितादि कर्मफलों के निराकरणपूर्वक
प्रारब्ध को निर्विकारभाव से भोगता है। तदनन्तर वह भौतिकदेह की आयु पूर्ण होने
पर उसे त्यागते समय सुषुम्नानाडी के द्वार से निकलकर ऊर्ध्वलोक में गति करता है।
तत्पश्चात् वह, अर्चिरादिमार्ग से तत्तत्स्थानीय देवताओं द्वारा सम्पूजित होते हुए,
भगवत्संकल्प से लीलाविभूति (प्राकृतमण्डल) की सीमारूपिणी विरजानदी में स्नान
करके अपनी समस्त मनोगत वासनाओं सहित सूक्ष्मशरीरादि को त्यागकर, भगवद्धाम
(श्रीसाकेत) में प्रविष्ट होता है; जहाँ वह मुक्तजीव भगवत्सायुज्य (भगवत्साम्य) प्राप्त
करके निरतिशयानन्दभागी होता है। इसके अनन्तर वह कदापि कर्मवशात् संसार में
नहीं लोटता; जो कि सर्वथा श्रुतिसिद्ध है। ग्रन्थ में अन्यत्र (पद्य ५ व १७०-१७१
में) श्रीवैष्णव साधको के लिए भगवदीय पुण्यमय दिव्यदेशों में निवास का कथन
सुलभ होता है। अत: ग्रन्थकार, दशम प्रश्नोत्तररूप वैष्णवनिवासयोग्यस्थानप्रकरण
(पद्य ९८६-२००) के द्वारा, साधनायोग्य तीर्थो व उनके अधिष्ठातृदैवत का उल्लेख
करते हुए उनमें रहकर भगवदर्चनादि स्वकृत्यों के निर्वहण की आज्ञा देते हैं; जो कि
वहीं द्रष्टव्य है। अन्तत: (पद्य २० १-२०४ में) ग्रन्थाध्ययनार्थ अपेक्षित अधिकारसम्पत्ति
(पद्च ६७-६८ के अनुरूप) का निर्वचन करके ग्रन्थपूर्ति की समुद्घोषणा करते हैं।
इस प्रकार; प्रकृत ग्रन्थ श्रीवैष्णव साधकों के लिए समस्त शास्त्रों का रसरहस्यभूत
अमृतप्राय है, जिसके सम्यग् अनुशीलन से श्रीरामानन्दीय श्रीवैष्णवसम्प्रदाय की
तत्त्व-आचार-आदि की सुन्दरतम मीमांसा सम्भव है। उक्त गम्भीर ग्रन्थ पर मान्य
ग्रन्थव्याख्याता महोदय की प्रस्तुत 'संवित्कर' नामक हिन्दीवृत्ति सहित 'पदपरामर्श'
(ज्यों)
नामक संस्कृतटीका हम-सभी छात्रों व श्रीवैष्णवजनों के सौभाग्य का विज्ञापन ही है;
जिसके रसास्वादन से सभी पुण्यात्माओं को सहज सन्तोषोपलब्धि शक्य है।
प्रस्तुत ग्रन्थ का सम्पादन करके हम भी अनुगृहीत हुए, यह भगवान् कोसलेश
के विशेषानुग्रह का विज्ञापनप्राय है। ग्रन्थावलोकनकाल में पाठकों के दृष्टिपथ में
आने वालीं त्रुटियाँ वस्तुतः इस अबोध प्राणी के प्रमाद व अनुभवहीनता के
उदाहरण ही हैं; एतदर्थ अध्येताओं से पहले ही क्षमायाचना। किमधिकम्?
श्रीजानकीनाथस्मृतयः।
>: > > > > XX
:£ कृतज्ञताज्ञप्तिः ::
कई वर्ष पूर्व 'श्रीवैष्णवमताब्जभास्कर' की प्रस्तुत संस्कृतटीका श्रीमठ (पंचगंगाघाट,
काशी) से प्रकाशित हुई थी। उस संस्करण के प्रकाशन में जगद्गुरुरामानन्दाचार्य-
राजस्थानसंस्कृतविश्वविद्यालय के दर्शनविभागीय सहायकाचार्य व मेरे आत्मीय श्री
कोसलेन्द्रदासजी वैदिक-प्रवर भाई डॉ. रामानुज उपाध्याय, व्याकरण की व्युत्पन्न
छात्रा डॉ. लक्ष्मीशर्मा, विद्यापीठ-साहित्यविभागीय परियोजनासहायक एवं मेरे स्नेहभाजन
श्रीगोपाल कुमारझाजी आदि प्रियजनों ने विशेष सहयोग किया था। अत: वे सब
सस्नेह स्मरणीय हैं। साथ ही; प्रस्तुत संस्करण में मेरे प्रिय छात्र सनातन धर्म के प्रति
बद्धादर चि. अंकुर नागपाल का नाम सबहुमान अंकित करने योग्य है। उसी बालक
के आग्रह पर इस टीका को विद्यापीठ से प्रकाशित करवाने की योजना बनी। अतः
उसके स्नेह, श्रद्धा एवं श्रम से ही समग्र प्रयास ग्रन्थाकार हुआ है।
परम करुणामय सर्वावतारी भगवान् श्रीजानकीजीवन से उक्त सभी विद्वानों के
सर्वोत्कर्ष हेतु विनीत प्रार्थना है।
छ ग्रन्थव्याख्याता
:: विषयानुक्रमणिका ::
९. प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् (१-३९)
श्रीरामस्तवनम् (१), श्रीसीतास्तवनम् (८), श्रीरामदिव्यशस्तरात्रसङ्घस्तुतिः (१३),
प्रश्नदशकोत्थापनम् (१७), श्रीरामानन्दाचार्यकृतः प्रशनानुमोदनपूर्वकस्वाचार्यसंस्तवमुखेन
समाधानोपक्रमः (१८), तत्त्वत्रये प्रकृतिस्वरूपनिरूपणम् (१९), जीवतत््वनिरूपणम्
(२१), ईश्वरतत््वनिरूपणम् (२५)
२. द्वितीयप्रश्नोत्तरे जप्यनिर्धारणनिरूपणम् (३२-७६)
जप्यमन्त्रविवरणम् (३२), मन्त्रराजमहिमा (३४), मन्त्रराजरहस्ये बीजाक्षरस्वरूप-
विवरणम् (३५), मन्त्रराजरहस्यम् (३६), मन्त्ररत्नस्य (द्वयमन्त्रस्य) स्वरूपं
तद्रहस्यञ्च (५६), चरममन्त्रस्वरूपं तद्रहस्यञ्च (६६)
३. तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् (७७-८६)
ध्यानलक्षणम् (७७), ध्येयस्य भगवद्रामस्य वर्णनम् (७८)
४. चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् (८७-१५४)
पञ्चसंस्कारस्वरूपम् (८८), आचार्यलक्षणम् (९१), शिष्यलक्षणम् (९४), गुरुकृत्यम्
(९६), शिष्यकृत्यम् (९९), भक्तिलक्षणं तत्स्वरूपं तद्धेदश्च (१००),
एकादशीक्रतनिर्णयः (१०६), श्रीरामनवमी-श्रीजानकोनवमी-हनुमन्नूसिंहजयन्ती-
श्रीकृष्णवामनद्वादशीव्रतनिर्णयः (११२), भगवत्कृपाया अहैतुकत्वम् (१२१),
मोक्षे तारतम्यनिषेधः (१२३), मोक्षोपायविचारः (१२५), श्रियो विभुत्वपुरुषकार-
त्वयोर्वर्णनम् (१२६), भगवतो दयावात्सल्ययोः स्वरूपम् (१३०), न्यासस्य
(प्रपत्तेः) स्वरूपस्य सर्वाधिकारत्वस्य च निरूपणम् (१३४), धर्मत्यागस्य
प्रपत्तिविरोधिनो लोकसङ्ग्रहस्य च विचार: (१४०), न्यासस्य रामप्रसादहेतुतायाः
सञ्जातापचारप्रायश्चित्तस्य च वर्णनम् (१४४), सद्वेष्णवे वर्णादिविचारविमर्शः (१४७),
भगवतोऽणोरणीयस्त्वस्य विचारः (१४१), क॑वल्यविमर्शः (१५०), भगवन्नामो-
च्चारणमाहात्म्यम् (१५२)
५. पञ्चमप्रशनोत्तरे सरवोत्तमधर्मनिरूपणम् (१५५-९७९१)
अहिंसाया महिमा (१५५), विरक्तस्य स्त्रीपरिग्रहनिषेधः (१५९), स्त्रीपरिग्रहे तस्य
(XXXVI)
सर्वथा बहिष्कार्यता (१६०), अर्चावतारस्वरूपं तद्धेदस्तदर्चनस्तवनादिप्रकारविवेचनम्
(१६३)
६. षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् (९७२-९८९)
भगवच्छरणवरणे जात्यादिबन्धननिषेधः (१७३), जीवस्य बद्धादिभेदविचारः (१७४),
मुमुक्षुजीवेषु भक्तप्रपन्नपुरुषार्थैकनिष्ठादिभेदानां सलक्षणं परिगणनम् (१७८), प्रपन्नस्य
आर्तदृप्तभेदेन द्वैविध्यम् (१८२), मुक्तानां नित्यकादाचित्कभेदेन विवेचनम् (१८४)
७, सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् (१९०-२०१)
संस्काराचारमुखेन वैष्णवस्वरूपकथनम् (१९१), वैष्णवानां तदधिष्ठितदेशस्य
तत्पूजनसेवनादेश्च महिमा (१९६), विरक्तवैष्णववेशकथनम् (२०१)
८. अष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् (२०२-२०९)
भगवत्पूजनरामायणमहाभारतभाष्यस्वाध्यायाभ्यां कालक्षेपकथनम् (२०३), तत्रासमर्थानां
शास्त्रश्रवणेन नामकीर्तनेन मन्त्रद्वयार्थानुसन्धानेन च कालक्षेपस्यादेशः (२०५), सत्सङ्गेन
भागवतपरिचर्यया भगवत्कथाश्रवणेन च कालक्षेपस्यादेशः (२०५), तत्राप्यसमर्थानां
तीर्थादिषु कुटीरं निर्माय तत्र मन्त्रजपेन कालक्षेपस्यादेशः (२०६), सद्गुणसम्पन्नस्य
भक्तिनिष्ठस्य महात्मनो निदेशे तत्परिचरणेन कालक्षेपः (२०७), भगवन्मन्दिरमार्जन-
पुष्पावचय-नामाभ्यासादिना कालक्षेप: (२०७), भागवतसमागम-जिज्ञासा-चरितश्रवण-
श्रावण-गुणस्मरणादिना कालक्षेप: (२०८), सपरिकर-भगवत्वँङ्कयेण कालक्षेपः (२०८)
९. नवमप्रशनोत्तरे प्राप्यनिरूपणम् (२१०-२२५)
भगवतः श्रीरामस्य प्राप्यतया तत्स्वरूपवर्णनम् (२११), प्राप्यनिश्चये तत्प्राप्तय
आचार्यवरणम् (२१८), आचार्यसेवया तद्द्वारा भगवच्छरणागतेः कर्मक्षयस्य च
वर्णनम् (२१९), ईश्वरनुग्रहेण विद्योच्छेदेन सुषुमनयोर्ध्वगतेर्वर्णनम् (२२०), अर्चिरादिना
विरजातिक्रमेण भगवत्सायुज्यावाप्त्या परमधन्यता पुनरावृत्तिनिषेधश्च (२२१)
१०. दशमप्रशनोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् (२२६-२४९)
तीर्थेषु भगवल्लीलास्थलेषु च वैष्णवनिवासस्य युक्ततायाः प्रतिपादनम् (२२७),
एतद्ग्रन्थविषयप्रशस्त्या तदध्येतव्यतानिदेशः (२४५), एतदग्रन्थोपदेशपात्रताविचारः
(२४६), ग्रन्थस्वाध्यायफलश्रुतिः (२४६)
तै.आ.
तै.ब्रा.
दे.भा.
धा.पा.
अथर्ववेदसंहिता
ईशावास्योपनिषद्
उद्धवगीता
उत्तररामचरितम्
उणादिसूत्राणि
ऋग्वेदसंहिता
ऐतरेयोपनिषद्
ऐतरेयब्राह्मणम्
कठोपनिषद्
कूर्मपुराणम्
कौषीतकचुपनिषद्
श्रीमद्भगवद्गीता
छान्दोग्योपनिषद्
जाबालोपनिषद्
तैत्तिरीयोपनिषद्
तैत्तिरीयारण्यकम्
तैत्तिरीयब्राह्मणम्
देवीभागवतपुराणम्
पाणिनीयधातुपाठः
ध्या.बि.उ. ध्यानबिन्दूपनिषद्
न.पु.
श्रीनृसिंहपुराणम्
सङ्केताक्षराणि
नी.श. नीतिशतकम्
प.पु. पद्मपुराणम्
पा.सू. अष्टाध्यायीसूत्राणि
प्र. प्रश्नोपनिषद्
बृ. बृहदारण्यकोपनिषद्
बृ.जा.उ. बृहज्जाबालोपनिषद्
बू.स्मू. बृहस्पतिस्मृतिः
बो.श्रौ.सू. बोधायनश्रौतसूत्राणि
ब्र.पु. ब्रह्मपुराणम्
ब्र.सू. ब्रह्मसूत्राणि
भा.पु. श्रीमद्धागवतमहापुराणम्
भा.मा.प. पादां भागवतमाहात्म्यम्
म.रा. महारामायणम्
मनु. मनुस्मृतिः
महा. श्रीमन्महाभारतम्
मी.सू. जैमिनीयपूर्वमीमांसासूत्राणि
मु. मुण्डकोपनिषद्
यजु. शुक्लयजुरवेंदसंहिता
यो.सू. पातञ्जलयोगसूत्राणि
र.वं. रघुवंशमहाकाव्यम्
रा.च.मा. श्रीरामचरितमानसम्
(णा)
रा.ता.उ. रामतापिनीयोपनिषद् व्या.भा. व्याकरणमहाभाष्यम्
ल.ना.सं. लक्ष्मीनारायणसंहिता श.ब्रा. शतपथब्राह्मणम्
व.पु. वराहपुराणम् शि.पु. शिवमहापुराणम्
वा.प. वाक्यपदीयम् श्वे. श्वेताश्वतरोपनिषद्
वा.पु. वामनपुराणम् सां.का. साङ्घयकारिका
वा.रा. श्रीमद्वाल्मीकोयरामायणम् स्क.पु. स्कन्दपुराणम्
वि.ध.पु. विष्णुधर्मोत्तरपुराणम् ह.ना. हनुमन्नाटकम्
वि.पु. विष्णुपुराणम् हरि.पु. हरिवंशपुराणम्
वै.भू.सा. वैयाकरणभूषणसारः
अथ
श्रीसम्प्रदायाचार्यचूडामणियतिराजसार्वभौमश्रीमद्धगवत्पादैः
स्वामिश्रीरामानन्दाचार्यचरणैः समुद्धासितः
श्रीवैष्णवमताव्जभास्करः
आचार्यजयकान्तशर्मापरनामधेयेन श्रीरामकिङ्कराचार्येण
स्वसम्प्रदायसपर्यायां विरचिताभ्यां संवित्करपदपरामर्शाभ्यां
हिन्दीसंस्कृतव्याख्याभ्यां समुपेतः
॥ श्रीसीतारामाभ्याँ नम: ॥
श्रीसम्प्रदायाचार्यचूडामणियतिराजसार्व भौमश्रीमद्धगवत्पादै:
स्वामिश्रीरामानन्दाचार्यचरणैः समुद्धासितः
अ श्रीवैष्णावमताव्जभास्करः =
( अथ प्रथमप्रशनोत्तरे तत्त्वनिरूपणम् )
श्रीमन्तं श्रुतिवेद्यमद्धतगुणग्रामाग्रयरत्नाकर
प्रेयःस्वेक्षणसंसुलज्जितमहीजाताक्षिकोणेक्षितम् ।
भक्ताशेषमनोभिवाञ्छितचतुर्वर्गप्रदं स्वर्ट्रुमं
रामं स्मेरमुखाम्बुजं शुचिमहानीलाश्मकान्तिं भजे ।।१।।
* संवित्करः *
बंदि जगद्गुरु पादुकॉहि सिय रघुवर चित लाय ।
भास्कर संवित्कर लिखों सरल भाव समुझाय ॥
नित्यश्री से समलंकृत, वेदों से जानने योग्य, आश्चर्यमय एवं दिव्य सौशील्य-
कारुण्यादि अनन्त कल्याण गुणों के सागर, परमप्रेमास्पद की प्रीतिपूर्ण दृष्टि से
अवलोकित होने के कारण अत्यन्त लज्जायुक्त हुई श्रीसीताजी के द्वारा स्नेहपूर्वक
निहारे जाने वाले, भक्तों के अभीष्ट अर्थ-धर्मादि चतुर्विध पुरुषार्थ तथा स्वभक्ति-
सेवारूप कामना को पूर्ण करने वाले कल्याणप्रद कल्पवृक्ष के समान, सर्वदा
मन्दस्मित से उल्लसित मुखकमल वाले, स्वच्छ नीलमणि-जैसी दिव्यकान्ति वाले,
भगवान् श्रीराम का मैं भजन करता हूँ।
* पदपरामर्शः *
भोगे मज्जयति ग्रसह्म भजनप्रज्ञां निपात्य द्यति
नेशत्वं गणयत्यवैति न पुनस्ते दीनरक्षात्रतम् ।
सावज्ञं त्वयि यहुनोति भगवन्! मत्वा त्वदेकाश्रयं
तन्मे पापमपास्य मां करुणया स्वं स्वानुरूपं कुरु ॥
वात्सल्यं करुणानिधे जननि! ते श्रेयो दुहानं सतां
दीनानुग्रहणब्रतं विजयते मादृक्समाश्चासनम् ।
२ श्रीवेष्णवमताब्जभास्कर:
मा त्याक्षीर्विविधापचारगणनाकाले विपत्सङ्कुले
वाश्रेव स्नपयेः सहायसुधया मामेत्य भूम्यात्पजे ॥
सीताराघवमजञ्चुलद्युतिलसदिव्यान्तरङ्ग च यद्
वक्षोदारमदर्शयज्जनकजाशीर्भूषणालङ्कृतम् ।
लाङ्गूलध्वजशोभिर्तं स्मरणजप्रेमाश्रुसम्पावितं
वन्दे जङ्गममन्दिरं रघुपतेः श्रीमत्कपीशात्मकम् ॥
लोकोद्धारधिया प्रपत्तिसुधया सिद्धिग्रवुक्ता च यो
वैषम्यप्रसुतज्वरं व्यपनयत्कारुण्यकल्पद्गुमः ।
तस्याऽऽचार्यशिरोमणेर्भगवतो भक्ति परां तन्वतो
रामानन्दयते: स्वयं रघुपतेः प्रीत्याऽऽश्रये पादुके ॥
ज्ञानवैराग्यसिन्धुयो वेष्णवत्व॑ प्रदाय माम् ।
कृपया न्यक्षिपद्रामपादयोस्त गुरु श्रये ॥
अथाऽखिलहेयप्रत्यनीककल्याणगुणनिलयः स्वेतरसमस्तवस्तुविलक्षण: सर्वशेषी
सर्वात्मा सर्वे्षरो भगवाज् श्रीरामो दयनीयजीवदशामवलोक्य करुणया स्वानादिवेद-
विद्याचरमतात्पर्यप्रकाशनेन लोकोदिधीर्षया सर्वविद्यापरमाचार्यः सन्नपि पुनराचार्य-
रूपेणावततार। स एवाचार्यचक्रवर्ती भगवाज् श्रीरामानन्द उपसन्नमुमुक्षुषु विशिष्टाद्वैत-
सिद्धान्तमादधानः षडक्षरमन्त्रराजमनुसन्दधान आचार्योचितसमुदारभावेन श्रीरामप्रपातिं
व्याचक्षाण: अयुज्ञानश्ष काश्यामधिपञ्चगङ्ग' सम्प्रदायप्रवर्तकाचार्यशुभसमाख्यासम्पर्क-
समुज्ज्वलं श्रीमठमध्युवास। तत्रैकदा श्रद्धावनतं जिज्ञासया समुपागतं शिष्येष्वन्यतमं
श्रीसुरसुरानन्दं विलोक्य तं निमित्तीकृत्य सर्वजनहितचिकीर्षया तत्पृष्प्रश्नदशकमुपजीव्य
विततगहनाज्ञानतिमिरानिरसनाय ज्ञानालोकेन जिज्ञासुमानसाम्बुजाविकासाय च
शिष्यवात्सल्याच्छ्रीवैष्णवसिद्धान्ताचारप्रबोधक श्रीवैष्णवमतान्जभास्करेत्याख्यं
शास्रान्धिमन्यनोत्थं गरन्थरत्नं समुत्रिनाय। तत्रादौ निर्वितरतापूर्वकप्रारिप्सितग्रन्थसमाप्तये
अविगीतशिष्टाचारमनुरुध्य स्वेष्टदेवतानमस्काररूपमङ्गलमाचरति -- श्रीमन्तामिति।
जगदूगुरुत्वादिह भजनस्य कर्तव्यतां शिक्षयितुं तदनुगुणं परमभजनीयस्यावधारणाय
सम्प्रदायजीवातुभूतं परमप्राप्यं सिद्धोपायतया सिद्धान्तसिद्ध सर्वस्वं पुरस्करोति,
तत्रापि स्वाचारेणाचार ग्राहयतीति स्वनिष्ठभजनकर्मीभूतं भगवन्तं दिव्यगुणवर्णनमुखेन
निरूप्य तच्छरीरभूतदेवादिभजनस्याविधिपूर्वकत्वात्सर्वात्मकतया तद्धजनस्यैव याधार्थ्येन
श्रुतिभिर्मुख्यविधेयत्वं प्रदर्शयति। श्रीमत्त्तादिविशेषणाष्टकविशिष्ट॑ं राम भज इत्यर्थः।
भजनकर्मीभूतस्य सञ्जासौष्ठवमाह -- राममिति। "रमन्ते योगिनो यस्मिन्”
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ३
(ल.ना. सं २. ४७. १५) इति श्रुतिसिद्धस्याप्यवयवशक्त्या त्रिभुवनमनोज्ञत्वं लभ्यते।
'जक्षन् क्रीडन् रममाणः? (छा.८. १२.३) इत्यादिश्रुत्या रमणस्वभावतया
अखिललोकानन्दप्रदत्वञ्च गम्यते। अत आदिकविः 'रामो रमयतां वरः
(वा.रा. ७.४२.२१) इत्युक्तवा रमयताम् आनन्दयतामापि वर इत्याशयेनाखण्ड-
पृणानिन्दप्रदर्त्वं तस्य बोधयाति। तेनानन्दययाधिकरणार्थः सूचितो भवति।
रामनाम्नोऽनादित्वसूचनाय नामकरणसंस्कारात्प्रागेव 'कौसल्याजनयद्रामम्”
(वा.रा. १.१८.१०) इति पद्ये बालमित्याद्यनुचार्य श्रुतिसिद्धं नाम निरदेशि
मधुमयभणितीनां मार्गदर्शिना महर्षिणा। इदमेव हि विशेष्यभूतं तस्य परमपुरुषोत्तमस्य
मुख्यं नाम, आँपनिषदानां जह्मसदात्मेत्यादीनां करष्णनारायणादीनाञ्च विशेषणपरतया
तत्रैवान्वयो विशेषणानां विशोष्यान्वयित्वस्य योग्यत्वात्। 'पशुना यजेत'
(बो.श्रौ.सू. २६.२), 'छागस्य वपाया मेदसः” (बो.श्रो. सू. ४.७) इत्यत्र 'छागो
वा मन्त्रवणात्” (मी. सू ६.८. ३१) इति सूत्रोक्त्या पशुशब्दस्य यथा छागपर्यवसायित्वम्,
तथैव तत्सदूनह्मनारायणादिसामान्यशन्दानां श्रीराम एव विशेषे पर्यवसानं भवतीत्यर्थः।
सर्वकर्माराध्यस्य भजनोद्देश्यत्वं सुतरां सिद्धमिति तं रामं विशिनहि ~ श्रीमन्तामिति।
श्री: सीता5स्त्यस्येति श्रीमान्, तम्, नित्ययोगे मतुप्। अत्र श्रीपदेन श्रीसीताया
ग्रहणम्, न तु लक्ष्म्याः, तस्यास्तु श्रीश्च ते लक्ष्मीश्च पत्न्यौ’ (यजु. ३१.२२)
इति श्रुतौ भेदनोधकद्विवचननि्देशाच्छ्रीपदस्य प॒थगुपादानाच्च। नित्यश्रीकमित्यर्थः,
तया नित्ययुक्तामिति यावत्। परस्परविश्लेषप्रसङ्गराहितयोरपि विश्लेषाभिनयो लीलाविभूतौ
गुनः प्राप्त्यर्थः, उभयोर्हि स्वसङ्कल्पनियता भवति काचित्स्वतन्त्रलीला, प्रत्यवतारं
नित्ययोगः, 'मया विना शुष्यति शोकदीनम्' (वा. रा ५. ३६. २८) इत्यादेरजगदम्बोक्तेः।
या स्वेतरसमस्तैः स्वरूपस्थितिपरवृत्यर्थ श्रीयते, यन्निवेशात्सर्वतर प्राशस्त्यबुद्धिजायते,
सैव श्रीरस्त्यस्योति तद्वैभवं कथं कथ्यतामिति ध्वन्यते। निरवधिकक्रीडादिमत्या
निरुपाधिकदेव्या तया प्रीतिविषयीकृतं राम भज इत्याशयः। एतेन न
केवलमभिमतानुरूपपत्नीत्तया महाभाग्यसम्पद्व्यज्यतेऽपितु तन्मुखेन भगवतो नित्यं
सुखप्रसादनीयत्वं गम्यते, भगवतः सर्वेषु व्यापारेषु श्रीसामरस्यसूचनात्। श्रीश्रीमतो:
सर्वत्र समानाभिप्रायतया नित्ययुक्तामखिलजगन्मातरं गुरस्क्रत्य महान्तोऽप्यपराधाः क्षमाप्यन्त
इति। सापराधेष्वप्यात्रितेषु निग्रहोष्पलतानिवारिकया सहधर्मचारिण्या नित्ययोगमाह
-- श्रीमन्तमिति। अग्रिपूर्यवायुसोमेन्द्रादीनामन्तर्यामितया तठ्ातिपादनपरैरपि वेदैभगवतो
वेद्यतेति तं 'श्रुविवेद्यम्! इति विशिनष्टि। 'श्रूयते नित्यमिति श्रुतिः? इति
व्युत्पत्यापौरुषेयत्वात्रिदो्षत्व शुतेर्विवक्षितम्, अमाणान्तर-व्यावर्तकत्वात् तद्रेद्यस्याबाध्यक्स्तृत्वं
सूच्यते। साधकबाधक्ग्रत्यक्षानुमानादि-प्रमाणान्तरगोचरवस्तुनि शाख्रेण प्रतिपादनं न
¥ श्रीवैष्णवमताब्जभास्करः
युज्यत ब्रह्मणोऽत्यन्तातीन्द्रियत्वात् प्रत्यक्षादिप्रमाणाविषयत्वं लभ्यते। एतेन
ब्रह्मणोऽवेद्यत्वादिपक्षा निरस्ताः! अत एव 'वेदवेद्ये परे पुंसि जाते दशरथात्मजे’,
'वेदैश्च सर्वैरहमेव वेद्यः” (गी. १५. १५) इत्यादिस्म्रतिवचनानि सङ्गच्छन्ते, 'शुद्धभाव॑
गतो भक्ता शास्त्राद्वोब्यि जनार्दनम्” (महा. ५.६८.५) इति भारतोक्तिश्च “वेदाहमेतं
पुरुषं महान्तम्” (थे. ३.८) इति श्रुतिश्चात्र प्रमाणम्।
पुनः कीदृशं रामं भज इत्यतस्तृतीयविशेषणमुत्रयति -- अद्धुवगुणग्रामाग्र्य-
रत्नाकरामिति। अद्धुताक्च ये गुणास्तेषां ग्रामः समूहस्तस्य श्रेष्ठरत्नाकरभूतम्। यद्वा
अद्धुतगुणा एव रत्नानि, तेषां ग्रामो निकरस्तस्याकरमाश्रयभूतमित्यर्थः। ग्रामशब्दः
समुदायपरः, रत्नाकरशन्दश्चाश्रयपरः; गुणेष्वद्धुतत्वेन निरतिशयवौचित्र्यमुच्यते, तेन
सर्वव्यापित्वनित्यज्ञानत्वादिस्वरूपनिरूपकाः, निरतिशयौज्ज्वल्यमाधुर्यनिरवद्यत्वादि-
विग्रहगुणा: सौशील्यसौलभ्याद्याश्रयणोपयुक्तगुणा: सत्यसङ्कल्पत्वादीष्परापर्णाहगुणाश्चेत्य-
परिच्छेद्यगुणानन्त्यं दुरवगाहत्वं तापत्रयप्रशमकत्वञ्च द्योतयितुं रत्नाकरोपमानम्। एकैकस्य
गुणस्यावान्तरानेकगुणगर्भत्वञ्च सूच्यते -- तद्यथा 'यथा रत्नानि जलधेरसङ्घयेयानि
पुत्रक। तथा गुणा अनन्तस्याप्यसङ्कचेया महात्मनः ' इति। गुणेषु अग्र्यरत्नत्वारोपेण
महाभाग्यविद्धरेव लभ्यत्वं द्योतितम्। अयमर्थः सङ्किप्य वाल्मीकिनोक्तः 'स च
सर्वगुणोपेतः कौसल्यानन्दवर्धनः' (वा. रा. १. १. १७) इति। यद्यपि निर्दोषमङ्गल-
गुणाकरत्वसूचनेनेवान्यविशेषणोक्तार्था उच्यन्ते, तथापि ब्ाह्मणवसिष्छन्यायेनान्येषां
प्थगुपादानम्।
पुना रामं तुरीयविशेषणेन विव्रणोति _ श्रेय: स्वेक्षणसंसुलज्जितमहीजाताक्षि-
कोणेक्षितमिति। प्रेयसा रामेण कृतं यच्छ्रीसीतामुखनिरीक्षणं तेन प्रियक्ृतद्शनिन
संसुलज्जिता ईषछज्जावती महीजाता भूमिजा श्रीसीता, तस्या अक्षिकोणेन कटाक्षेणेक्षितं
सस्नेहं विलोक्यमानम्। प्रीत्यमृतस्निग्धावलोकेन सन्ततसिच्यमानकमनीयविग्रहम्।
यथोक्त भवभूतिना “स्नपयति हृदयेश स्नेहनिष्यान्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव
दृष्टिः’ (उ.रा. ३. २३) इति। रामचन्त्रमुखचन्द्ररसरसिकचकोरिकयाऽ तृप्तयेवाजसरं
निपीयमानप्रतिक्षणनवनवायमानसौन्दर्ययुधारसमित्यर्थस्तेन रामालोकनतत्परामिति श्रुत्यर्थो
व्याख्यातः। महीजातेत्यनेन सम्बन्धिशब्दमहिम्रा श्रीविग्रहस्यायोनिजात्वादयर्थ्रकाशनेन
दिव्यगन्धमार्दवसोशील्यकारुण्यक्षमासहिष्णुत्वादिललितगुणा: सुतरामेव सन्निधाप्यन्ते।
'जनी प्रादुभावि' (धा. पा. ४.४४), "मह पूजायाम्' (धा. पा. १०.४०६) इति
प्रकृतिभूतधातुद्रयार्थानुसन्धानेन देवयजनभूसम्भवतया चोत्पत्तिपरिपृतत्वं संसूच्य
स्वेच्छानियताविभावलीलत्वं द्योत्यते। महीजातेत्यनेन तादृशसर्वेश्वरपतियोगं विनापि
सकलप्रथिव्या जन्मसिद्ध स्वामित्वमस्या इति ध्वन्यते। लावण्यादिगुणोज्ज्वलधर्ठुपत्यासत्त्या
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ५
महाभाग्यसम्पदमनुसन्दधानया मयैवाभीक्ष्णमवेक्षणीय: स्वत्रिभुवनमोहनसौन्दर्य
विस्मरत्यादृषटपूर्ववन्मुग्धश्रमर इव मदभिमुखं वीक्षते। तादृशचिापहारिपतिवीक्षणादि-
सुखप्रदत्वात्काम्यमप्यभिजातललनाया लज्जां जनयति। यथोक्त वाल्मीकिना 'इषत्स
लज्जमाना तामध्यारोपयत प्लवम्” (वा. रा. २.५५. १६) इति। अत्र समानाभिप्रायक-
ललितचेट्टितवर्णनात्सामरस्यगर्भ मिथ: ग्रीतिपारवश्यं सूच्यते। यच्चाश्रितकल्याणाय
कल्पते, यमर्थ समक्षयति व्याख्याक्चुरिकं पद्यम् -- 'सीताराघवयोरनुदिन-
मुपचीयमानस्य प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात्” इति।
पुनः प्रकारान्तरेण भजनीयस्यौदार्यमभिधत्ते -- भक्ताशेषमनोऽभिवान्छितचतुर्वर्ग-
प्रदामिति। पुण्यतारतम्यादनेकविधभक्तानामखिलस्यार्थधर्मकाममोक्षरूपस्य चतुर्वर्गस्य
प्रदायकमित्यर्थः। न केवल चतुर्कमिव यच्छति, पञ्चमपुरुषार्थतया भक्तिशास्रे प्रथितं
स्वप्रेमाणमपि ददातीति सवपिक्षितप्रदत्वसूचनाय भक्तमनोऽभिलपितं चतुर्वर्ञ्च प्रददातीति
समुच्चयेन युक्त व्याख्यानम्। यं स्वद्रुमोऽपि दातुमसमर्थस्तादृशमोक्षं स्वप्रेमाणञ्च
महावदान्यतयाऽयमेव दातुमर्हति, तच्च नित्यज्ञानव्यापननियमनादिसामर्थ्यं विना न
सम्भवतीति सर्वकर्मफलप्रदत्वलक्षणमीश्वरत्वमुच्यते -- 'तदन्यः को महोदारः
प्रार्थितं दातुमीश्वरः' (न.पु. ६४.९०) इत्दुक्तेः। स्वात्मपर्यन्तसर्वस्वदानशीलत्वं
निरूप्य 'एको बहूनां यो विदधाति कामान्” (थे. ६. १३) इति श्रुत्यर्थः स्मारित;।
केचन पुनरुक्तिदोषभिया भक्ताशेषमनोऽभिवाज्छितचतुर्वरप्रदमिति स्वद्रुमे बिशेषणीक्रत्य
व्याख्यान्ति। न हि स्वरद्ुमोऽपि मोक्षं दातुर्महतीति ततो विलक्षणत्वमभिधातुं विशेषणं
ततो व्यतिरेचयतीति। वस्तुतो नात्रत्रितसवपिक्षितदातृत्वरूपौदार्यमात्रं विवक्ष्यतेऽपित्वात्रित-
संरक्षकत्वमपीति स्व्टुययिति प्रथग्विशेषणम्। शब्दकल्पढुमे स्वः पदस्य शोभनार्थकत्वस्य
अप्युक्तत्वाच्छोभनव्रक्षसदृशमित्यर्थः। स्वरद्रुममित्यभेदाध्यवसायेन सर्वथा सादृश्यमुच्यते;
यथा द्रुमः पूर्व तापमपनीय पुष्पफलदानादिनाश्रितं सन्तपर्यति, तथाऽयं भगवानिति
भाव:। स्वारित्यत्र स्वरत्यप्राप्त्योपतापयतीत्यर्थकव्युत्पत्या सघनत्वादिना
सन्तप्ततापहारित्वादिविशिटम्; "नैनं कृताकृते तपतः? (श्र. १४. ७. २. २७)
इति श्रुते। अत एवोच्यते -- तेन न केवलमाश्रितार्तिहरत्वमपितु सर्वकालसुखावहत्वं
सूच्यते। अत उक्तम् -- 'राघवेत्रतरुच्छाया नातिशीता न घर्मदा। नरकाङ्गारशमनी
सा किमर्थ न सेव्यते। अतश्च तारयाप्यभाणि वाल्मीकीये -- 'निवासवृक्षः
साधूनामापन्नानां परा गतिः ' (वा.रा. ४. १५. १९) इति। यद्वा पूवोक्त दार्यस्यातिशयत्व-
प्रदर्शने तात्पयादपुनरुक्तिः। अथवोभाभ्यां विशेषणाभ्यामाश्रितसरक्षकत्वमेवोच्यते।
इषटप्राप्त्यानि्पारिहारो हि रक्षापदार्थस्तेन पूर्वेण मनोऽभिलषितप्रदत्वकथनेन
इष्प्रापकत्वमपरेण च तापहारित्वाद्यवबोधनादनिष्टनिवर्तकत्वं दर्शितम्।
६ श्रीवेष्णवमताब्जभास्कर:
विशेषणविधया मुखशोभा वर्णयति -- स्मेरमुखाम्बुजामिति। स्मेरशब्द
इषिद्विकासार्थक:, स्मेर॑ स्मयमानमीषद्धास्ययुक्त मुखमम्बुजमिव यस्य, तम्।
अम्बुजवन्मुखस्य चारुत्वोक्तेराश्रितदर्शनोह्सितत्वसौम्यत्वादिद्योतनेन भक्तसम्प्राप्ति-
जनितोत्फुळत्वातिशयत्वं सूच्यते। दृष्टमात्रेणापि भक्तचित्तप्रसादकत्वमुच्यते। यथोक्त
भागवते 'हासं हरेरवनवाखिललोकवीव्रशोकाश्रुसागरविशोषणमत्युदारम्'
(भा. ३. २८.३२) इति। एतेन स्मितपूर्वाभिभाषित्वादिक बाल्मीक्युक्त पराग्रश्यते।
सर्वविधकेङ्कयोदेश्यस्य परमप्राप्यस्य दिव्यमङ्गलविग्रहशोभातिशयमनुसन्धत्ते --
शुचिमहानीलाश्मकान्तिमिति। शुचित्वमहत्त्वाथ्या विशिष्टो यो नीलाश्या
नीलमाणिस्तत्कान्तिरिव कान्तिर्यस्य, तम्। अमृतक्षालितमसुणितष्युत्या
निरतिशयोज्ज्वलत्वमनेन सूच्यते। महद्विशोषणेन चाश्रिताश्रयणानुगुणवैपुल्यञ्च
नीलमण्युपमानेन विग्रहस्यानवद्यश्यामललावण्यमुच्यते। यच्चैवमालक्ष्यते -- भूयिष्ठ
तेज एवाद्विर्बहलाभिम्रदूक्रतम्। चक्षुरानन्दजनकं लावण्यामिह कथ्यते'। अत्रैव
श्रीभगवद्विग्रहशोभावणनिन 'आदित्यवर्ण तमसः परस्तात्’ (थे. ३.८) इति श्रुत्योक्तं
दिव्यत्व परामृश्यते। बभाण चेममर्थमादिकविः "स्निग्धवर्णः प्रतापवान्”
(वा. रा. १.१.११) इति। अत्र श्रीमदाचार्यचरणोपात्तेन भगवत: श्रीरामस्य
गुणाहकेनोपनिषदमात्मनो गुणाएक संलक्ष्यते; तद्यथा "एष आत्मापहतपाप्मा
विजरो विगृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः
(छा.८.१.५)। अत्रापि महानीलाश्मनश्शुचित्वविशेषणदानेनापहतपाप्मत्वम्,
महीजाताक्षिकोणेक्षितमित्यनेन स्प्रहणीयनित्यकेशोर्यसूचनाद्विजरत्वम्, नित्यश्रीकार्थक-
श्रीमत्पदेन नित्यसौभाग्यबोधनाद्रिग॒त्युरिति, स्मेरमुखाम्बुजपदेन विशोकत्वम्, अनश्न-
नरित्यादिश्रुतिवेद्यतया विजिघत्सत्वम्, रत्नाकरोपमानेनापिषासुत्वम्, चतुर्वप्रदत्ववर्णनात्
सत्यकामत्वम्, स्वर्द्रमत्वाख्यानेन सत्यसङ्कल्पत्वञ्च सूच्यते। अन्धमङ्खले अयुक्तदशपदानि
ग्रन्थस्य दशप्रमेयप्रतिपादनपरत्वं सूचयन्ति। तत्राद्यपद्यस्यादौ स्वसम्प्रदायाभिधानसूचकं
सर्वातिशयिमङ्गलवाचक श्रीतिशुभाक्षरं ग्रयुज्यानुक्तवाषि तत्र किञ्चत्स्वाभिनिवेशम्
अनुग्रहैकस्वभावाया श्रीसीतायां दर्शायन्त्याचार्याः। भजनीयस्य च नवभिः
पदेर्बोधनात्परिपूर्णतां द्योतयन्ति। मङ्गलप्राशस्त्यार्थमिहानुबन्धचतुषटयमपि दर्शितम्;
तस्य च प्रवृत्तिजनकज्ञानप्रयोजकज्ञानविषयत्वात्। श्रीमन्तं रार्मं भज इत्यनेन
शुभगुणौकाश्रयसर्वेक्षररामाविषयकप्रीतिर्भक्तिविषियः, साध्योपायतया तस्या एव
प्रधानप्रमेयत्वात्। भक्ताशेषमनोरथप्रदत्वकथनान्मुमुक्षुभक्तानामधिकारित्वम्, यद्वा
स्वरद्रुमोपमानेन तस्य पात्रापात्रविचारं विनेशप्रापकतया भगवदाश्रयणोक्तया
तद्वचद्रोधकगरन्थेऽपि सर्वाधिकारः सूचितः। निर्दोषयुणरत्नाकरत्वकथनाच्छुतिवेद्यमित्यादिना
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ७
च निर्विशेषत्वावेदयत्वादिपरपक्षनिराकरणेन कैष्णवमतबोधनं प्रयोजनम्, .प्रतिपाद्यप्रतिपादक-
रूपः सम्बन्धः प्रथित एवेति।
अविच्छिन्रभगवत्स्मतिसन्तानजन्या या परमप्रीतः सा भक्तिः, 'महनीयाविषये
ग्रीतिर्भाक्तिः ' इत्युक्तः, तादृशप्रीत्यनुकूलपरिचरणात्मकव्यापारो भज्-धात्वर्थः। श्रीरामं
भजे एजनवन्दनादिव्यापारेण श्रीरामं ग्रीणयामीत्यर्थः। मत्निष्ठवन्दनादिव्यापाखयोज्य-
ग्रीतिरूपफलाश्चयत्वाच्छ्रीरामः कर्म श्रीरामनिष्छप्रीत्यनुकूलो मदेकनिष्छो वर्तमानकालिको
व्यापार इति बोधः, 'भावप्रधानमाख्यातम्” इति निरुक्तकारयास्कवचनात्।
पद्योऽस्मित्नेकस्मिन् राम उपमेये रत्नाकरस्वद्गुमयोभेदभाजोरुपमानयोरारोपाद्भेदभाव-
परम्परितरूपकमिति ज्ञेयम्। पद्यगतश्ुचिमहानीलाश्मकान्तिमिति रामविशेषणीभृते
पदे शुचिश्च महाक्ष नीलश्च योऽश्मा, तस्य कान्तिरिव कान्तिर्यस्योति वाचकळुप्तोपमापि
समग्रप्रधानीभूते रूपकालङ्कारे गौणतामुपयाति।
टिप्पणी - 'श्रीरामजी की भक्ति एवं प्रपतति ही वेदों का परमरहस्य है तथा वही
मानवकल्याण का राजपथ है” - इस दिव्य भाव का उदार उद्घोष एवं सार्वभौम प्रयोग
कर जिन वैदिक-सनातनधर्म के महनीय आचार्य ने मानवमात्र के लिये मुक्ति का द्वार
उद्घाटित किया, सामाजिक एवम् आध्यात्मिक अन्तर्ज्वर का उपशमन किया, कबीर-
रैदास-जैसे लोकविश्रुत अनेक शिष्यों तथा तुलसी-मीरा-नाभादास-जैसे अनेक परवतीं
प्रशिष्यों को दिव्यजीवन एवं लोकमंगल चेतना प्रदान कर परमधन्य बनाने वाले, उन
श्रीरामानन्दाचार्य की सर्वमान्य यह संस्कृतरचना 'श्रीवैष्णवमताब्जभास्कर' के नाम से
विख्यात है।
आचार्यचरण ने अपने इस ग्रन्थ के मंगलाचरण में सर्वेश्वर भगवान् श्रीराम की स्तुति
कर उपास्यविषयक मान्यता को निर््रान्तरूप से स्पष्ट कर दिया कि श्रीसम्प्रदाय के
परमाराध्य तथा परमाचार्य सर्वेश्वर भगवान् श्रीरामचन्द्र ही हैं। वे केवल अवतार ही नहीं,
सर्वावतारी हैं वही परमप्रेमास्पद हैं, सर्वस्व हैं और परमप्राप्य भी। अत: जीवमात्र के द्वारा
वे ही भजनीय हैं। उनका कैंकर्य ही जीवन का परमोद्देश्य होना चाहिए। प्रकृत मंगल
श्लोक का अभिप्राय है कि प्रभु का केवल श्रीसीताजी के साथ ही नहीं, अपितु
दिव्यशोभा एवं अचिन्त्य विभूति आदि के साथ भी नित्यसम्बन्ध है, वे वेदान्तवेच्च हैं
(अर्थात् वेदान्त के द्वारा जानने योग्य है), वे अद्भुत एवं अनन्त कल्याणमय गुणों के
सागर हैं। आचार्यचरण रामालोकनतत्पराम्' श्रुति के अभिप्राय को ललितविशेषण द्वारा
सुलभ कराते हुए कहते हैं कि जगन्माता भूमिजा श्रीजानकी सर्वदा अत्यन्त स्नेहपूर्ण
नयनों से उन्हें निहारती हैं, कभी-कभी सहसा उनपर प्रभु की दृष्टि पड़ जाती है, तो
जगदम्बा निसर्गशीलसुकुमारता के कारण लज्जित हो स्नेह नम्र एवं संकुचित कटाक्षों से
निहारने लगती हैं, जिससे उनका हदयहारी अवलोकन और भी सरस एवं मनोज्ञ हो जाता
८ श्रीवेष्णवमताब्जभास्कर:
है। श्रीगोस्वामीजी ने उनके इस मधुर अवलोकन को अनिर्वचनीय मानते हुए भी इन शब्दों
में व्यक्त किया है : “रामहि चितव भायँ जेहि सीया। सो सनेह सुख नहि कथनीया'
(रा.च. या. १. २४२. ६)
इस प्रकार श्रीसीताजी के द्वारा कटाक्षनिक्षेपपूर्वक सर्वदा अवलोकित भगवान् भक्तों
के अर्थ-धर्म-काम-मोक्ष नामक पुरुषार्थचतुष्टय को ही नहीं, वरन् पंचम पुरुषार्थ के रूप
में प्रसिद्ध अपनी भक्ति-प्रीति को भी प्रदान करते हैं। अतः आश्रितों के लिये साक्षात्
कल्पवृक्ष के समान हैं। जैसे विशालतरु सघन छाया से आश्रितों का ताप दूरकर अपने
पुष्पों व फलों द्वारा उसका अभिनन्दन एवं पोषण करता है, वैसे भगवान् श्रीराम भी
अपने आश्रितों का संरक्षण एवं सम्पोषण करते हैं। अतः वाल्मीकिरामायण में
वालिपत्नी तारा ने इसी भाव से उनका परिचय करवाया था : “निवासवृक्षः साधूनामापन्नानां
परा गतिः' (वा.रा.४.१५.१९) मैं उन पवित्र एवं विशाल नीलमणि-जैसी उज्ज्वल
कान्ति वाले तथा सर्वदा मन्दस्मित से उल्लसित मुखकमल वाले परमप्रभु श्रीराम का
भजन करता हूँ।
प्रकृत पद्य में शार्दूलविक्रीडित छन्द है तथा रूपक अलंकार है।
ऐश्वर्य यदपाङ्गसंश्रयमिदं भोग्यं दिगीशैर्जग-
च्चित्रं चाखिलमद्धुतं शुभगुणा वात्सल्यसीमा च या ।
विद्युत्पुञ्जसमानकान्तिरमितक्षान्तिः सुपदोक्षणा
दत्तान्नेऽखिलसम्पदो जनकजा रामप्रिया साउनिशम् ।।२।।
* संवित्करः ४
इन्द्रादि दिक्पालों द्वारा भोग्य सम्पूर्ण अद्भुत ऐश्वर्य एवं निखिल ब्रह्माण्डों का
आश्चर्यमय वैभव जिनकी कृपाकटाक्ष निक्षेप के अधीन रहता है, जो सर्वमंगल
गुणों से परिपूर्ण हैं, जो वात्सल्य की तो चरम सीमा ही हैं, जिनकी दिव्य
अंगकान्ति विद्युत्पुंज के समान है, जो अपरिमित क्षमा धारण करती हैं, जिनके
सुन्दर कमल के समान चारु नयन हैं, वे परमप्रभु श्रीराम की प्राणवललभा
श्रीजानकीजी हमें सर्वदा भक्तिप्रीतिरूपी दिव्य सम्पदा प्रदान करें।
* पदपरामर्शः *
पूर्वश्लोकस्य सामान्यतो वाक्यार्थबोधेऽपि तदाद्यपदाद्यश्रीपदार्थविशेषं कल्याणाय
तदुपादेयताञ्चाविषकर्तुम्, पूर्वपद्ये श्रीमन्तमित्युपक्रम्य मह्लीजाताक्षिकोणेक्षितमित्यनेन
भगवतो विग्रहस्य यद्युक्तियत्ीतिसमीक्षणप्रयुक्तं वैभवगुक्तम्, अत्यासत्त्या स्म्॒तायास्तस्याः
स्वरूपवैभववर्णनस्यानन्तरवक्तव्यत्वं युज्यते। किञ्च पूर्वोक्तस्य भगवतः प्राप्तौ
पुरुषकारत्वेनाभित्रतया च विळसन्त्याक्च तस्याः सर्वसमाश्रयनीयताज्ञापनाय तत्कटाक्षनिक्षेपस्य
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ९
लोकोत्तरवैभवं प्रकाशयितुञ्ज प्रसादसम्पत्यार्थनामुखेन पद्यमवतारयति -- ऐश्वर्यमिति।
भगवान् वाल्मीकिरपि 'सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्’ (वा. रा. ३. १ ५.६),
'सीतामुवाचातियशा राघवञ्च महाव्रतम्” इत्यादिना श्रीसमक्षं विहितस्य तदनुग्रहपूर्वकं
कृतस्य श्रीरामं प्ति स्वप्रयोजनसाधकसंवादविशेषस्य वर्णनं विधते यद्वा श्रीमह्लीजातेतिपदाभ्यां
सञ्जातोत्कण्ठाविशेषशमनस्य, श्रीमदादिविशेषण-विशिष्टस्य भगवतः श्रीमत्तादिक
कित्निबन्धनमित्युतर्यनस्य चौचित्यादुच्यते -- सा तत्रिया जनकजोति। ययोपश्लिद्टो
भगवान् नित्यं शोभते, सर्वथा परिपूर्णोऽपि भगवान् यां प्रीत्यतिरेकादवेक्षते, यया च
सोऽपि निर्निमेषमुषोषिताभ्यामिव नयनकमलाभ्यां पेपीयते, लीलादिषु यदनन्वितं भगवतो
न किमपीति सविशेषमभिदधाति -- ऐश्चर्यीमिति।
गोस्वामिपादेनापि 'नतोऽहं रामवह्भाम्' इत्युक्ता। वाल्मीकिरपि 'अस्या देव्या
मनस्तस्मिस्तस्य चास्यां प्रतिष्ठितम्। तेनेयं स च धर्मात्मा मुहूर्तमपि जीवाति’
(वा.रा.५. १५.५.२) इत्युक्तवा अनन्यप्रियत्वमुवाच। एतेन देवजुशमिति श्रीयूक्तार्थः
प्रकाशितः। अत्र हि देवशब्दो भगवत्परः, देवेन भगवता ्रीतिविषयीकृतामिति
तदाशयः। यतश्चात्र दद्यात्रेऽखिलसम्पदमित्यनेन सर्वसम्पत्यार्थनायां स्तुतिवाक्यं
पर्यवसितमत औदार्यवणनिन स्तोतव्यगतप्रकर्ष निरूपयति -- ऐश्वर्य यदयाङ्गसंश्रयामिति।
दिगीशै: पूर्वादिदिशामीशैरिन्रादिभिर्भोग्यं सुखदुः खान्यतरसाक्षात्कारविषयः शन्दादिः
तदुपस्थापक भोगोपकरणं वा ऐश्वर्य देवलोकस्य सामान्यलोकादतिशयितभोगः न
केवलं तदेवापितु इदञ्च पुरोदृश्यमानतयोपास्थितं सत्रिकृमापामरवेद्यमानं,
भोगभोगोपकरणवैचित्रयादद्धुतं सम्पूर्ण जगदपि यदपाङ्गमेव संश्रित्यावतिष्ठते। अत्र
दिगीशोर्भॉग्यमैश्षर्यम्, इदञ्चाखिलमद्धुतं चित्रश्च जगद्यदपाङ्गसश्रयामित्यन्वयः,
यद्वाखिलमद्धुतमिति पदद्वयमौश्चर्यं विशिनाडि चित्रामिति भोग्यं वा। अत्र
स्वरूपगुणसंस्थानादीनां वैचित्र्यादद्धुतत्वम्, कर्मभेदपरयक्त्रक्रतिपरिणामविशेषतया
चित्रत्वम्, सततमपूर्वतयानुभाव्यत्वेन ग्रक्तिपरिणामविशेषत्वेऽ प्याक्षर्यमयत्वम्। इदं
सर्व यत्कटाक्षलीलयेव भवतीत्यन्येर्मनसाप्यचिन्त्यं यस्याः अकिञ्चित्करमिति भावः।
'लोकेशेशाविभूतीनां कारणं यत्निरीक्षणम्' इत्युक्तेः एतेनेन््रादिवैभवानामन्वय-
व्यतिरेकाभ्यां तत्कटाक्षनिक्षेपाधीनत्वं सूच्यते। वस्तुतस्तु तस्याः सादरपूर्णनेर्वणननित्यपात्र
भगवानेव, ब्रह्मादयस्तु नान्तरीयककटाक्षशीकररक्षणलक्ष्यम्, युक्तमुच्यते श्रीगुणरत्नकोशे
(४) -- 'यद्धभङ्गाः प्रमाणं स्थिरचररचनातारतम्यं मुरारेः? इति। न केवलं
तावदेव, स्थावरजङ्गमात्मकं जगदपि भगवान् यत्कटाक्षतारतम्यं विलोक्य तारतम्येन
सृजति। नित्यविभूतावपि सरष्टयादिकारणभूतस्य भगवतो रामस्य तादृशकारणतां स्वापाड़:
प्रसाधयन्ती रामवछभा तस्य परत्वस्योत्तम्भिका भवति। अङ्गीकारसूचिकया नयनलीलया
१० श्रीवेष्णवमताब्जभास्कर:
स्वानुमोदनेन चेयं तादृशविधानव्यसनं सफलयति, अन्यथा जगत्सषयादिलीला विरसा
स्यात्। तदुक्त 'यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्। क्रीडेयं
खलु नान्यथास्य रसदा स्यादैकरस्यात्तया' इति। यथा चेयं वाल्मीकिपदधोरणी
स्मितविकसितगण्डं क्रीडविश्रन्तनेत्रं मुखमवनमयन्ती स्पष्टयाचष्ट सीतेति।
अत्र केचनाहु -- इयं भगवतो रामस्य सर्वविधायकस्याधिष्ठेया प्रकृति:
सत्ताहन्ताप्रभाशक्तिविद्येच्छाभोकतोत्यादिरूपेण वर्तते शास्रेपु तत्र तत्र तथाव्यपदेशादिति
तन्नः आचार्यपादेन रामग्रियेत्युक्तघा चेतनत्वव्यपदेशात्तत्रिरासात्। तादृशोक्तया
तदितरसर्वशेषित्वमुच्यते। रामग्रियेति कथनेन सर्वेक्षरोऽपि भगवान् रामः ग्रीतिपारवश्यात्
कदापि यदभिमतं नातिक्राम्यति, यव्ग्रसादे सर्वेश्षरादपि भर्य नास्तीति द्योत्यते।
भगवता नित्ययोगान्नित्यापि सावतारदशायां लीलाविभूतौ जनकजेत्याख्यायते, अतिपक्त्रिण
निजचरित्रेण लोकस्य पावनी तद्वंशस्यालङ्कारभूतेति लभ्यते। मिथिलायां प्रदीप्तायां
न मे किञ्चिद्मदह्यति' इति प्रसिद्धोत्तया ख्यातविरकतेस्तादृशनह्मनिष्ठशुकाद्युपदेष्टत्वेन
प्रथितज्ञानस्य ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः? (गी. ३. २०) इत्यादिना
भगवता वासुदेवेन प्राथम्येन संस्म्रतस्य च राजर्षिजनकस्यापत्यतया सत्कुलप्रसूतत्वरूपं
महाभिजात्यं सूच्यते। यच्च निपुणं ग्रत्यभिज्ञापयति वाल्मीकिः (इयं सा धर्मशीलस्य
जनकस्य महात्मन:। सुता मैथिलराजस्य सीता भर्तुदूढव्रवा' (वा.रा.५. १६.१५)
इति। तत्तपःसाधनजन्यं सुफलमेव सोति लभ्यते। यद्वा जनयतीति जा, 'जनी
ग्राढु्थीवे' (धा. पा. ४.४४) इत्यतो ड:, जनकानामपि जा जनकजोति। उत्पत्त्यादिक्रिया-
जनकानां ब्रह्मादीनामपि जनिकोत्पादिका प्रयोजिकेत्यर्थः, ब्रह्मादीनां नियम्यतया,
अ्योज्यकर्त्त्वमस्याक्च नियामकत्वेन प्रयोजककर्तत्वं लब्धं भवति। तदनुगुणसामर्थ्यप्रदानेन
तदन्तर्यामितया नियोजिकेति भाव:। सरति सर्वलोकग्रसिद्धिं सूचयति।
बुद्धिस्थपरामर्शकसर्वनामाश्रयणेन “स्वादु स्वादु पदे यदे” इत्युक्तरीत्या प्रतिक्षणं
नवनवायमानापरिमेयदिव्यगुणास्वादनपरसहदयैकानुभाव्यलक्षणं वैलक्षण्यं सूचितं भवति।
अत एव शुभा: कल्याणमया असङ्कयेयाः सौशील्यपात्क्रित्यमाधुर्यसोकुमार्यौदार्यादिगुणाः
सन्ति यस्याः सा शुभगुणेति विशिष्यते। गुण्यते आवर्त्यते पुनः पुनरात्रितैरनुसन्धीयत
इति गुण: सौशील्यादिः। अत्रादौ स्वरूपगुणाः शुभगुणेति वात्सल्यसीमेत्यमितक्षान्तिरिति
पदैरुच्यन्ते तदनु विद्युत्पु्जसमानकान्तिरिति विग्रहगृणः कथ्यत इति प्रथङ्निरदेशः।
यथा च वाल्मीकीयेऽपि 'गुणाद्रूपणुणाच्चापि प्रीतिर्भूयोऽभिवधति' इत्युक्तम्। वस्तुतो
यदवलोकनात्युद्राणामापि गृणसिद्धिस्तस्या भर्तृशुश्रृषादिशुभगुणशालित्वे कथं कथ्यताम्।
भगवतो यथा साँशील्यं निषादादिषु तथास्यास्रिजटादिषु प्राथितमेव।
सम्प्रत्यात्रितसङ्ग्रहणसरक्षणयोर्विशेषत उपयुक्तगुणो निर्दिश्यते -- वात्सल्यसीमोति।
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ११
वात्सल्यं दोषतिरस्कारिणी प्रीतिस्तस्य सीमा चरमावधिर्निरवधिककारुण्येति भाव:।
निरवधिकत्वं च स्वापेक्षयोत्कषविधिराहित्यम्। यथा वाल्मीकीये भगवान् रिपृणामपि
वत्सलः ग्रोक्तस्तथेयन्तु वात्सल्यस्य सीमैव। अखिलजन्तून् प्रति मातृत्वाद्धितचिन्ता-
रहितेष्वाहितचिन्तकेष्वपि च तद्वात्सल्यम्, दुस्सहनिरन्तरापराधे दोषैकनिधौ रावणेऽपि
सोन्मादपुत्र इव जननीत्वेन जातवात्सल्या प्रसादयस्व त्वं चैनमित्यादिना तद्भ्रमप्रशमने
प्रयतत इत्यादि कथाशतं पराम॒श्यते।
नित्यनिरवद्यस्य श्रीविग्रहस्य शोभां वर्णनद्वारा विशिनष्टि -- विद्युत्पुञ्जसमानकान्तिरिति।
विद्युतस्तडित: पुञ्जेन समुदायेन समाना सदृशी कान्तिदीप्तर्यस्याः सा। एतेन "हिरण्यवर्णाम्
इत्यादिश्रीसूक्तोकतार्थः सूच्यते। आमितापरिमेया क्षान्तिः क्षमा यस्याः साऽमितक्षान्तिः।
अव्यवहितपदस्थापनेन यथास्या भास्वदङ्गकान्तेः माठुमशक्यता तथा तदनुरूपमेवात्मगुणस्य
क्षमाया अप्यमेयतेति भाव:। न ह्यशक्तः क्षमां कुरुत इति पूर्वमैशचर्यमुत्तवा तदनु
क्षमाशीलताप्रतिपादनं युज्यते। अनुगरहेकस्वभावतया कदाचिदप्यत्यन्तापकारिष्वपि निग्रहरुविर्न
सम्भवतीति सापराधैरप्याश्रयितुं शक्येति लभ्यते। भगवांस्तु 'क्षमया प्राथिवीसमः '
(वा.रा.१.१.१८) इति वाल्मीकिनोक्तः, किन्त्वियन्तु प्रथिव्याः साक्षादपत्यभूतेति
ततोऽप्यतिशय्य क्षमाशीलेति। शीताशयोऽपि भगवानविच्छित्रमहापराधान् जीवान् प्रति
कदान्निग्रहाभिमुखो भवति, किन्तु कः कृष्वेद्वानरोत्तमेति वदन्त्याः निग्रहभावलेशोऽपि न
सम्भवति। इयन्तु क्षमापणयोग्यैरालोकालापादिभिर्भगवन्तं प्रसाद्य स्वजनयाति।
स्वाविषयासह्यापचारकत्तरि जयन्तमापि भगवत्पादयोः संयोज्य क्षमापयति। न
काश्चन्नापराध्यति' (वा. रा. ६. ११६.४५) इति तयोक्ते रावणादिवधापशिज्ञानेऽविरतापराध-
ाक्षसीरपि हनूमन्तं चित्रवधातनिवार्य रक्षितवतीति क्षमाविशेषानुसन्धायकवृततान्तशतं स्मारयति
अमितक्षात्तिरित्यनेन। यदपाङ्गाश्रयं जगत्तदीक्षणसौष्ठवमभिधतते सुपदमेक्षणेति। विशेषणेन
नूतनत्वविकसित-त्वादिगुणमहितं यत्पदं तद्वदीक्षणे लोचने यस्याः सा। निसर्गचारुत्वेऽपि
सुपद्मवद् ईक्षणयोक्चारुत्वमाश्रितदर्शनप्रीतिविकासितत्वेन।
यच्च यस्य भवति स तद्दातुं प्रभवतीति रामप्रियेव रामप्रीतिं दातुर्महति।
रामप्रीतिरेवाखिलसम्पद्, फलरूपतया तयैव कृतार्थता, “भक्ति लब्धवतः साधो
किमन्यदवाशिष्यते' इति भागवतोक्तेः (११.२६.३०) अखिलसम्पत्सर्वस्वं भवति
स्वशब्दस्य सम्पद्वाचकत्वात्। रामप्रियाया अखिलसम्पत्सर्वस्वं रामभक्तिः, 'भर्तुभीक्तिं
पुरस्कृत्या' इति जगदम्बोक्तेः। यद्वा सम्पद्धगवत्स्म्तिः, 'विषद्विस्परणं विष्णोः
सम्पन्नारावणस्प्रति: ' इति द्रसिद्धेः। भगवत्स्प्रतावखिलत्वं नाम विजातीयस्म्रतिशयून्यता-
रूपमविच्छित्नत्वम्। यद्यप्यभीएदान उभयोः समानाभिप्रायत्वम्, तथापि ग्रीतोऽपि पिता
युक्तमेव ददाति हितपरतया पितुर्विगश्यकारित्वदर्शनात्, मातुश्च प्रियपरत्वात्तदपेक्षया-
१२ श्रीवेष्णवमताब्जभास्कर:
भिमतदान ओदार्याधिक्यं लोकानुभवसिद्धमतो याज्ञाया मोघत्वासम्भावनया स्वाभीष्टं
पराम्बामेव याचितुं युक्तमिति तामेव याचते -- दद्यान्नोऽखिलसम्पदं जनकजेति।
यथा पूर्व्ये भगवतो विशेषणाहकन्तथात्रापि श्रियो विशेषणाटटकोक्तचोभयोरे्वर्यतारतम्यं
निरस्यते, शोषित्वस्योभयनिष्छत्वात्। उभयोरपि ज्ञानानन्दस्वरूपत्वं जगदुत्पादकत्व-
शरण्यत्वप्राप्यत्वादि च समानम्; "त्वं यादृशोऽसि कमलामापि तादृशी ते दारान्
वदन्ति युवयोर्न तु भेदगन्यः' इत्युक्तेः। अत्रायमभिसन्धिः -- यथा कर्मकाण्डे
महेनद्रदेवतात्वे नेन्द्रो देवता किन्तु महत्वविशिषटेन्द्रो देवता, तथैव श्रीविशिष्टो
भगवान् ब्रह्म शेषी वा। पत्युः पत्न्या अपीति लोकात् उभयाधिष्ठानञ्चैकं
शेषित्वमविभागस्मरतेः। पूर्वमीयांसायां 'लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः ' (६.१.६)
इति सूत्रे यजेतेत्यत्रैकत्वेऽपि स्वत्वस्योभयनिष्ठत्वादुभाभ्यां द्रव्यत्यागस्य सम्पाद्यत्ववर्णनं
लभ्यते, किद्चाग्रीषोमीययाग उभयोरप्येकदेवतात्वं यथा तथा श्रीश्रीमतोर्भगवतोरेक
शेषित्वमिति भावः। पद्योऽस्मिन् विदयुत्पु्जसमानकान्तिरित्यत्र विदयुत्पु्जसमाना कान्तिरिति
आथी उपमा, अपि च सुपद्येक्षणेत्यत्र सुपद्ये इव सुन्दरे ईक्षणे यस्या इति विग्रहाद्धर्मबाचक-
लुप्तोपमा स्पष्ठा। आद्यपद्यद्वये शार्दूलविक्रीडितं छन्द:। स्थाने चेदं श्रीश्रीमतोर्भगवतो:
शार्दूलवदप्रतिहतैश्वर्यवर्णने। भगवच्छस्रास्रसङ्घस्य ठु माल्यवत् शोभाकरत्वसूचनाय
तन्निरूपणे सग्धराच्छन्दोउनुगुणतया प्रयुक्तम्।
टिप्पणी - पूर्व पद्य के प्रथम पद 'श्रीमन्तम्' के द्वारा भगवान् श्रीराम की नित्यश्रीमत्ता
का कथन हुआ है। वहाँ श्रीशब्द से किसका निर्देश है? उनका स्वरूप तथा वैभव क्या
है तथा सर्वार्थसिद्धि में उनकी क्या उपयोगिता हैं? इन जिज्ञासाओं के समाधान हेतु
प्रकृत पद्य में श्रीसीतातत्त्व का सम्पत््ार्थनामुखेन निरूपण किया गया है। श्रीवैष्णवीयागम
तथा तदनुरूप मान्यता के अनुसार श्रीसीताजी सम्प्रदाय की प्रवर्तिका आचार्या हैं। अतः
इस अनादि वैदिकसम्प्रदाय को 'श्रीसम्प्रदाय' कहा जाता है। श्रीसूक्त इत्यादि में श्रीशब्द
से श्रीसीताजी का ही निर्देश है। वैष्णवाचार्य मोक्षसिद्धि में इनके अनिवार्य पुरुषकारत्व
का प्रतिपादन करते हैं। भगवान् की स्वरूपशक्तिरूप होने के कारण अभिन्न होने पर भी
यह जीवात्मा एवं परमात्मा के मध्य घटक बनकर परमप्रभु के द्वारा जीवों का उद्धार
करवाती हैं। इनके पुरुषकारत्व (घटकत्व अर्थात् अगुआई, सिफारिश) के विना जीव का
उद्धार असम्भव है। भगवत्पाद ने इनके वैभव का प्रतिपादन करते हुए लिखा है कि यह
परम आश्चर्यमय सम्पूर्ण जगत् तथा इन्द्रादि दिक्पालों के द्वारा भोग्य सम्पूर्ण ऐश्वर्य जिनकी
कृपाकटाक्ष पर आश्रित है, जिनमें सभी शुभ गुण परिपूर्णतः विद्यमान हैं, जो वात्सल्य
की तो चरम सीमा ही हैं, जिनके दिव्य श्रीअंगों की उज्ज्वल कान्ति विद्युत्पुंज के समान
है तथा जिनमें अपरिमित क्षमाशीलता है, पूर्णविकसित कमल के समान जिनके सुन्दर एवं
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् १३
विस्फारित लोचन हैं, ऐसी श्रीरामचन्द्रजी की प्रिया जनकनन्दिनी श्रीसीताजी हमें सर्वदा
धर्म-भक्ति-भगवत्प्रीतिरूपी दिव्यसम्पदा प्रदान करें।
पिता का हितपरत्व तथा माता का प्रियपरत्व सर्वानुभवसिद्ध है। साथ ही पिता की
अपेक्षा माँ स्वल्पायास से ही शीघ्र प्रसादनीय होती है; जिसे महर्षि वाल्मीकि भी
'प्रणिपातप्रसन्ना' (वा.रा.५.२७.४४) शब्द से सूचित करते हैं। अत: बालक पिता के
समर्थ होने पर भी अभीष्ट वस्तु की याचना मां से ही करता है। जो वस्तु जिसके पास
हो, उसी से उसकी याचना उचित है। कहा जाता है कि “विपह्विस्मरणं विष्णोः
सम्पन्नारायणस्मृतिः'। अत: श्रीरामप्रेम ही वैष्णवों का अभीष्ट परम धन है, महासम्पत्
है। रामप्रिया रामपदारविन्दप्रीति की साक्षाद् मूर्ति हैं, वह रामपदप्रीति प्रदान करने में
अधिकृत हैं। उनके कृपाकटाक्षनिक्षेप से देवताओं को भी वैभव प्राप्त हुआ है और वे
स्वयं स्वभाव से ही करुणामयी हैं। उनके प्रति की गई प्रार्थना की सफलता असन्दिग्ध
है। इसी भावना से यहाँ विदेहवंशवैजयन्ती जगदम्बा श्रीरामवल्लभाजू से भक्तिसम्पदा की
प्रार्थना की गई है।
प्रत्यूहव्यूहभङ्गं विदधदुरुबलश्शक्तिमान् सर्वकारी
भूरिश्रेयःप्रतापो मुनिवरनिकरैः स्तूयमानो विमानः ।
रक्षोदैत्यादिनाशी क्षुभितजलनिधिर्लोकजिल्लोकमान्यो
धन्यो नो मडुलौघं सपदि सुकुरुताद्रामशस्त्रास्त्रसङ्कः ।।३।।
* संवित्करः ४
जो समस्त विप्नों की व्यूहरचना के भंजक एवं अपरिमित बल से सम्पन्न हैं,
प्रबल शक्ति से युक्त, सर्वविध कार्य सम्पादन में समर्थ तथा कल्याणमय प्रचण्ड
प्रताप वाले हैं, श्रेष्ठ मुनिजनों के द्वारा संस्तुत तथा अभिमानशून्य हैं, जो राक्षस-
दैत्यादि को नष्ट करने वाले एवं अगाध समुद्र को भी क्षुब्ध करे देने वाले हैं, जो
सर्वलोकविजेता एवं सर्वलोकसमादृत हैं, भगवान् श्रीरामके उन धनुष-बाण-
खड्गादि दिव्य आयुधों का समूह हमारा शीघ्र परम मंगल करे।
* पदपरामर्शः *
पूर्वोक्तयोर्भगवतो मह्णानीलमणित्वेन भगवत्याक्च विद्युत्पुञ्चकमनीयतया
वर्णनादुभयोर्नित्ययोगाद्रि्युसितेन्त्रचापाभिराममेघचारुतां संस्मृत्य प्रत्यासत्त्या
सर्वाभिगमनीयताप्रयोजक' सङ्कल्पानुगुणसाधुपरि्राणदुष्टनियमनार्थमहावीरोचितव्ग्रिहभरण-
दिव्यायुध्षोपसेव्यत्वं सूचयितुं परिकरभावेनावस्थितमचिन्त्यप्रभावं दिव्यशस्रास्रसङ्घं
विद्रध्वंसपूर्वक मङ्गलं प्रार्थयते -- प्रत्यूहव्यूह भङ्गमिति। वस्तुतो मङ्गलानां मङ्गळन्तु
भगवानेव, तदर्थभकतेरप्यव्यवहितोपायतया च मङ्गलत्वम्, तादर्थ्याताच्छन्द्म्। तादृशध्यान-
१४ श्रीवेष्णवमताब्जभास्कर:
वेदनादिशन्दवाच्याया भक्तेः सत्त्तविवृद्धिसाध्यतया तद्विरोधिपापान्येव प्रत्यूहभूतानि,
अतस्तद्रूहभञ्जनस्य सुदृढमूलसंस्काराणां पापानां निरसनस्य सत्त्व्रृद्धियशवदातलञ्ञानक्रमेण
मङ्गलमयभक्ति प्रति हेतुता सूचिता। सर्वाभीष्टमाङ्गल्य-सम्पादनाय तळातिबन्धकीभूतपापानां
निरासस्यावश्यकतया सर्वादौ तमेव विशेषणविधया कामयते। लोकमान्यत्वादिविशिष्टो
रामशस्रास्रसङ्घो नः सपदि मङ्गलाँषं सुकुरुतादिति वाक्ययोजना।
रामस्य त्रिलोकीरक्षणविलक्षणस्य शस्त्राणां बाणखड्गादीनामस्रणां ब्रह्वास्रदीनां
निकरस्तत्पादप्रीतिमीहमानानान्तदनुगुणं प्रयतमानानां पुण्यतारतम्येनानेकभेदभिन्नानां
सपरिकराणामस्माकं मङ्गलानां ततिं तन्यात्। सर्वविधं कल्याणं विदध्यादिति भावः।
व्यूहशन्दो यथा शतरुसौन्येन रक्षार्थमभेद्यागम्यव्यूहरचना कृतापि दिव्यास्रेण भज्यते
तथानेन गहनप्रविष्टटूढतरपापमयविघ्रानिकरोऽपि भज्यतामिति ध्वन्यते। आद्यपद्ये
भजे इत्येकवचनस्य द्वितीयपद्ये प्रकृतपद्ये च नः इति बहुवचनस्य प्रयोगाद्
मदेकसाध्यभजनजन्यमङ्गलफलमन्यैरपि लभ्यतामिति तथाविधमहात्मोचितमो दार्य गम्यते।
एतेनास्मदो द्वयोश्चेति पाणिनीयमनुशासनं व्यापारितमिति च सूच्यते। रामशख्रात्रसङ्घ
इत्यत्र रामेति घुणाक्षरन्यायेनापि यत्प्रत्यासत्ति्महनीयजनकाम्या भवति
तादृशनित्यसहचरभावेन सम्बद्धानां तेषां काचित्ित्यसायुज्यधन्यता व्यज्यते। अतो
धन्य इति तद्विशेषणं सङ्गच्छते। सङ्घ इत्यनेन न केवलं मर्ततामूर्तानामनेकाविधत्वं
तेषामपितु भगवत्सङ्कल्पानुसारं यथाकालमेकस्यानेकरूपतापतिं सूचयति। स्वरूपतोऽपि
तेषामप्राक्रतत्वाद्धगवदनुरूपापरिमेयता सूचिता भवति। अत्र धर्मकालेन््रविष्णुशिवचक्राणि,
वारुणाग्रेयपाशुपतनारायणवायव्यकोञ्चगारुडादीनि दिव्या्रणि, दयितमोहनप्रस्वापन-
प्रशमनवर्षणशोषणसन्तापनविलापनमादनादिगान्धर्वमानवपैशाचसौरत्वाट्रप्रभृतीनि
रामायणोक्तिनि सङ्घशब्देनोच्यन्ते। एतेन सर्वकारीति विशेषणार्थ उच्यते। सर्वेषामायुधानां
सर्वावुधकर्मकरणरशक्तत्वं संसूच्याचिन्त्यशक्तित्वकथनं युज्यते, कुठारटङ्ककृद्दालादि-
कार्यशालशैलवसुधातलभेदनादिकं तदेकबाणसम्पाद्यमिति रामायणे वणितिम् --
'बिभेद च पुनस्तालान् सप्तैकेन महेषुणा। गिरिं रसातलञ्च जनायन् प्रत्ययं
तदा” (वा.रा.१.१.६६), "निष्पत्य च पुनस्तूर्णी तमेव प्रविवेश ह”
(वा. रा. ४. १२.४)। शात्रुगातवीर्यबलदर्षोत्सेकाना समूलोच्छेदनसामर्थ्यन्तु
साक्षात्पराम्बयैवोक्तम् -- 'स ते वीर्य बलं दर्पमुत्सेकञ्च तथाविधम्। अपनेष्यति
गात्रेभ्यः शरवर्षेण संयुगे’ (वा. र. ३.५६. १५) तेषामन्यतमेनापि अलयान्तसर्वकार्य-
करणं सम्भवति किमुत सङ्घेन। किञ्च रामाणामभिरामाणां शस्रा्रणां सङ्घ
इत्यर्थकरणादनभिमतकाठिन्याद्यभावेन निरतिशयसुखस्पर्शत्वहेमरत्नमुक्तादिमयत्वादि तेषां
बोध्यते। यद्यपि शस्राणां विनाशहेतुतया ततो मङ्गलविधिकथनं न युज्यत इति न;
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् १५
तत्क्रतस्य व्यापादनादेरपि मोक्षजनकतया तथात्वोपपत्ते, भगवन्मयानां कल्याणरूपत्वात्।
तदस्र तस्य वीरस्य स्वर्गमार्गप्रभावनमू। रामबाणासनक्षिप्त- मावहत्परमां
गतिम्” इति रामायणोक्तेः (४. १७.८)
शस्रास्राणां पौष्कल्यानुगुणं सम्पाद्ममङ्गलानामपि पआचुर्य कुं अयुक्तोषशब्दः सर्वधानुगुण
एव, तादृशसङ्केन मङ्गलस्यैकांशेन सम्पादनस्याननुगुणत्वात्। रामशस्रास्रसङ्घ
इत्यत्रेतरव्यावर्तकरामपदं दिव्यत्वेन प्रथितेभ्यः पाशुपतादिभ्यो5पि कक्चिद्विशेष एवेति
सूचनाय। अत एव युद्धे विष्णुचक्रपरिक्षतोऽपि जीवन् रावणः पक्चाद्रामदिव्यास्रेण
व्यापादित इति रामायणोक्त सङ्गच्छते। आयुधं किञ्च रामस्येतिप्रष्टया शूर्पणखयोक्तार्थ-
परामुश्यते "शक्रचापनिभं चापं विक्ष्य कनकाङ्गदम्! दीप्तान् क्षिपति
नाराचान् सर्पानिव महाविषान्।। नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम्।
न कार्मुक विकर्षन्तं रामं पश्यामि संयुगे।। हन्यमानं तु तत्सैन्यं पश्यामि
शरवृष्टिभिः। इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मव्ष्टिभिः? (वा.रा.३.३४.६-८)
इति। उरु प्रभूतं बल॑ वेगो यस्येति विग्रहाद्यथा राघवनिर्मुक्तः शरर्क्षसनविक्रम
इत्यायुक्तार्थ: प्रकाश्यते, तेन भगवत्सङ्कल्पानुगुणस्वरूपसामर्थ्यगतिप्रवृततिमत्तसूचनेन
श्रमप्रसङ्गराहितसर्वधारणसामर्थ्यं बोध्यते। अतिशयिता शक्तिरस्येति मठुपा शक्तिमान्,
तेन स्वेतरसर्वनिर्वाहकत्वबोधनेन सहकार्यनपेक्षत्वनिर्भयप्रवेशपरनिराकरणपर्यन्त-
व्यापारत्वाकम्पनीयत्वाप्रतिहतत्वादिकं सूच्यते। विस्मयावहवेगेन सह पञ्चास्यवद्धीषणत्वञ्च
कथ्यते। सर्व कर्चु शीलः यस्येति रामेष्टकारित्वमुच्यते/ एतेनापि भगवतोऽ धृष्यत्वं
गम्यते; यथोक्त वाल्मीकिना 'शरार्चिवमाधचष्यं चापखड्गोन्धनं रणे। रामाग्नि
सहसा दीप्तं न प्रवेष्टुं त्वर्महसि’ (वा. रा. 3.३७.१५), "भित्त्वा वेलां समुद्रस्य
लोकानाप्लवयोद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरेः' (३.३१.२५)
इति। भूरिश्रेयः प्रतापः, अनल्पप्रशस्ततयप्रतापवानित्यर्थः। यथोक्तं रामायणे "स
सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन्। विधूम-
वैश्वानर भीमदर्शनो जगाम शक्राशनिभीमविक्रमः' (६.६.१७०), 'को
ब्रह्मद ण्डप्रातिमप्रकाशात्नार्चिष्पतः कालनिकाशरूपान्। सहेत बाणान्
यमदण्डकल्पान् समक्षमुक्तान् युधि राघवेण’ (६.१५.१३) इति।
एतादृशाद्धुतप्रतापत्वादेव मुनिवरैरगस्त्यविश्चामित्रादिभिस्तस्य स्तूयमानत्वम् -- 'एतान्
राम महाबाहो कामरूपान् महाबलान्। गृहाण परमोदारान् क्षिप्रमेव नृपात्मज”
(वा.रा. १.२७.२०) इति विश्वामित्रोकतेः। 'इदं दिव्यं महच्चापं हेमवज्रवि भूषितम्।
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा।। अमोघः सूर्यसकाशो ब्रह्मदत्तरशरोत्तम: ।
दचौ मम महेन्द्रेण तूणी चाक्षयसायकौ” इत्याद्यगस्त्योक्तेश्ष। तथाविधयुनिवरस्तूयमानत्वे
१६ श्रीवेष्णवमताब्जभास्कर:
अपि चेतनत्वबोधकविमानेत्यनेन परिकरत्वेन भगवत्परभाववेतृत्त्तं सूच्यते। एतेनास्य
केड्रयानुरूपगुणविशेष: प्रोच्यते; यथोक्तं रामायणे तदिव्यास्रै: स्वयम् -- 'इमे स्प
नरश्रादूलि शाधि कि करवाम ते। उपतस्थुर्महास्राणि सर्वाण्यस्राणि राघवम्।।
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा। इमे च परमोदार किङ्करास्तव
राघव। यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै”
तस्यास्रसङ्कस्य रक्षोदेत्यादिदलनव्यसनित्वं सूचयितुमुच्यते -- रक्षोदैत्यादिनाशीति।
क्षुभितो जलनिधियेनिति विग्रहः। यत्सम्पर्केण प्रदीप्तोऽप्यग्निः शाम्यति, तादृशजलस्य
निधिमप्यक्षोभयदित्यक्षोभ्यक्षोभणादशक्यसम्पादनवर्णनात्कालानलम्रतिमोऽतिलोकप्रभावः
सूच्यते। लोके शीताशयो जनो नाचिर क्षुभ्यति, अयन्तु जलनिधिरित्यनेन
नितान्तमक्षोभ्यत्वं द्योत्यते। रक्षोदैत्यादिनाशीत्यनेन दुटटात्मनिग्रहः, क्षुभितजलनिधि-
रित्यनेन भगवत्कार्यप्रतिबन्धकीभूतप्रकृतिनिग्रहक्च सूच्यते। तद्यथा रामायणोक्तम् --
'चापमानय सौमित्रे शर्राश्चाशीविषोपमान्। समुद्रं शोषयिष्यामि पद्भयां यान्तु
प्लवङ्गमाः' (६.२१.२२), 'शरनिदग्धतोयस्य परिशुष्कस्य सागर। मया
निहतसत्त्वस्य पांशुरत्पद्यते यहान्’ (६.२२.२), समुद्र क्षोभयामास
शरैरादित्यसन्निभैः' (१.१.७९) इति।
लोक्यत इति लोक:, स्थावरजङ्गमात्मक जगत्, तन्निग्रहसमर्थतयास्य लोकजित्त्वं
प्रोच्यते। लोकं जितवानिति लोकजित्। न केवलमवतारदशायामपितु सर्वदैवं
लोकान्तरेऽप्यप्रतिहतगतितया यथाभीष्टनिखिलाभिभवनस्याकुण्ठसामर्थ्य सूच्यते। एतेन
त्रिभुवनप्रथितप्रभावस्य जयन्तादिनिग्रहवृत्तान्तोऽनुसन्धीयते। यथोक्त वाल्मीकीये --
न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु च। यस्तस्य वमतो बाणान्
स्थातुमुत्सहतेऽ ग्रतः (५.३९.१५) रामं विरुध्य लोकान्तरं गतस्यापि न देवेन्द्रः
सन्नपि पिताभवच्छरणम् ~ 'स दीप्त इव कालाग्निर्जज्वालाभिमुखं द्विजम्।
त्राणकाण इमं लोक सर्वञ्च विचचार ह।। स पित्रापि परित्यक्त: सर्वैश्च
परमार्षिभिः। त्रीक्लोकान् संपरिक्रम्य तमेव शरणं गतः? (५.३८.३२)
अनिष्टानिवारणेऽतिनैपुण्येन प्रत्यनीकभयावहतया च लोकाञ्जयति वशीकरोति,
यथाकामस्फुरिताकारतया लोकेषु सर्वोत्कर्षेण वर्तत इत्यर्थः। नित्यसूरिभिः समाविष्टतया
भगवत्परिकर भावेनावस्थितस्य लोकमान्यत्वं सुतरां युज्यते।
यद्वा लोकजिल्लोकमान्य इत्येक पदम्, लोकजितामपि लोकेन समूहेनापि मान्यः
एजनीय इत्यर्थः। धन्य इति न केवलमस्य नित्यभगवदङ्गसङ्गपरयुक्त सौभाग्यमुच्यतेऽपितु
नित्ययुक्तत्वाद्धगवता सह सेव्यमानस्य मुनिजनदुर्लभा भक्तजनकाम्यातिशयमञ्जुल-
भगवत्करकमलयो्धारणसंस्पर्शनाकर्षणविमोक्षणग्रहणाव्यवहितपरिष्वङ्गविहरणादिजन्या
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् १७
काविद्धन्यता बोध्यते। यक्ष समर्थः सन् सर्वविधसेवाकर्मणि अवर्तते, हितावहगुणप्राशस्त्याद्
मुनिजनसंस्तूयमानो भवति; तथापि विमान: सन् तिष्ठति, स एव लोकमान्यो
भवति, सर्वलोकं वशीकरोति, सर्वविधं दुरितं क्लेशञ्चापनेतुं भवति, असाध्यं
संसाध्य लोकमङ्गलं करोतीति भगवन्तमात्रित्येवैवंविधा महद्गुणा भवन्तीतिवस्तुविशेषो
गम्यते।
तत्त्वं किं किञ्च जप्यं परमिह विबुधैर्वैष्णवैर्ध्यानमिष्टं
मुक्तेः किं साधनं सत्सुमतिमतिमतो धर्म एकोऽस्ति कश्च ।
धर्माणां वैष्णवास्ते गुरुवर! कतिधा लक्षणं किञ्ज तेषां
कालक्षेपः किमाप्यं कथमुरुशुभदं कुत्र कार्य्यो निवासः ।।४।।
* संवित्करः #
श्रीसुरसुरानन्दाचार्य ने अपने सद्गुरु श्रीस्वामी रामानन्दाचार्यजी से अत्यन्त
विनम्रतापूर्वक पूछा, “भगवन्! तत्त्व क्या है? भगवदाश्रितों के द्वारा जपने योग्य
मन्त्र क्या है? वैष्णवों के अभिमत ध्यान का स्वरूप क्या है? मुक्ति का साधन
क्या है? सदबुद्धिसम्पन्न मनीषियों के द्वारा आचरणीय सर्वश्रेष्ठ धर्म क्या है?
वैष्णव कितने प्रकार के होते हैं? वैष्णवों का लक्षण क्या है? वैष्णवों को
कालक्षेप कैसे करना चाहिए? वैष्णवों का कल्याणप्रद प्राप्य क्या है? एवं
्रीवैष्णवों को कहाँ निवास करना चाहिये?” -- इन दस प्रश्नों का समाधान
करने की कृपा करें।
* पदपरामर्शः *
‘आचार्यवान् पुरुषो वेद” (छा. ६. १४. २), 'यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः (थे ६. २२), "तद्विज्ञानार्थं
गुरुमेवाभिगच्छेत् (मु. १.२.१२) इति श्रुतिगणेन सकलानर्थभूताज्ञाननिवर्तनाय
यथावस्थितज्ञानाप्तये च गुरूपसत्तिरादिश्यते, आचार्यप्रसादस्य सर्वीसिद्धिहेतुत्वात्।
मुमुक्षुभ्यो हि यथावस्थितं तत्वज्ञानं भक्तियोगाधिकारनिर्वर्तकं भवतीति तादृशज्ञानस्य
साध्यभक्ता साधकत्वनिश्षयातत्वजिज्ञासया श्रीसुरसुरानन्दाचार्यः स्वाचार्यं तत्वज्ञान-
महानिधिप्रदातारं भगवन्तं श्रीरामानन्दाचार्यवर्यं ज्ञेयविषयाणामानन्त्येऽपि मुमुक्षुजनवेद्यं
दशस्वेवान्तभाव्यन् प्रच्छति -- तत्त्वं किमित्यादिना। तत्र तत्त्वानामपि सन्मिथ्यारूप-
भेदस्यारोपितानारोपितभेदस्य च दर्शनान्तरे असिद्धया सिद्धान्ते सर्वादौ तत्वशोधनमावश्यकमिति
तदेव प्रथमं एच्छति - तत्त्वं किमिति। अनारोपिताकारेण यथावस्थितबुद्धिरेव हि
१८ श्रीवेष्णवमताब्जभास्कर:
तत्त्वज्ञानम। तत्त्व प्रामाणिकं वस्तु। जिज्ञास्यविषयञ्चानसम्पत्ति सूचयन् जिज्चासासमाधय
औचित्यनिर्वाहकसामर्थ्यानुगुणसम्बन्धमुखेनाभिमुखीकरोति -- गुरुवर ड्ति।
अज्चानलक्षणान्धकारनिरोधकेषु श्रेष्ठ इत्यर्थः। तत्त्वं किमिति थमः .प्रश्न:। इह विवुधैः
सुधीभिवैष्णवेर्विष्णुदेवताकै: परं सर्वोत्कृष्टं जप्यं मन्त्ररूपेणावर्तनीयं किमिति द्वितीयः
अश्न:। इष्टमाभीक्ष्ययेनातितरामभी्टं ध्यानं किमिति तृतीयः .प्रश्न:। अविद्यानिवृतिपूर्वक-
निरतिशयानन्दरूपाया: मुक्तेः सत्साधनं किमिति चतुर्थः ग्रश्नः। धर्माणां मुख्यः
अज्ञावतामभिमतो धर्म क इति पञ्चमः .प्रश्न:। वैष्णवाः कतिविधा भवन्तीति पृष्ठ: प्रश्नः
वेष्णवलक्षणं किमिति सप्तमः ,प्रश्न:। वैष्णवानां कालक्षेपः कथं कार्य इत्यष्टमः प्रश्न:।
वेष्णवाणामुरुशुभदमाप्यं किमिति नवमः ,प्रश्न:। वैष्णवानां कुत्र निवासः कार्य इति
दशमः प्रश्न: अत्र पञ्चमप्रश्ने धर्मविशेषणतयोपात्तस्य सत्सुमतिमतिमत इतिपदस्यैवं
विग्रह: सुष्छु मतिः सुमतिर्येषाँ ते सत्युमतयः, तेषां मत्या मतोऽभिमतः पूजितः
सत्युमातिमातिमत इति। मतो सुष्छुत्वन्तु ग्रहणधारणोहापोहार्थविज्ञानादिविशिष्टत्वेन।
एतेषां दशानां प्रश्नानां समाधिज्ञानस्य सववेदसारभूतभक्तघुपकारित्वं क्रीडीकृतसकल-
श्रुतिविषयत्वञ्च बोध्यते। अत्र स्रग्धराच्छन्द:।
इत्थं पृष्टस्त्वया यः सकलहितकरः प्रश्नराशिर्गरिष्ठो
वेद्यः सर्वश्रुतीनां जगति सुरसुरानन्द॒ सद्यो मया सः ।
प्राचीनाचार्य वर्यान् यतिपतिसहितान् सादरं सम्प्रणम्य
सम्यक् शास्त्रनुसारं गुरुनिरत! समाधीयते श्रूयतां तत् ।।५।।
* संवित्करः *
भगवत्पाद श्रीरामानन्दस्वामी बोले, हे सुरसुरानन्द! तुमने सर्वकल्याणकारी तथा
वेदज्ञान के द्वारा जानने योग्य जिन गौरवपूर्ण प्रश्नों को पूछा है। मैं अपने आचार्यचरण
स्वामी श्रीराघवानन्दजी तथा उनके भी पूर्ववर्ती श्रीमद्वोधायनाचार्य-आदि प्राचार्यो को
प्रणाम कर, शास्त्रवचनों का आश्रय लेकर, उनका समुचित समाधान करता हुँ।
समाहित चित्त से श्रवण करो।
* पदपरामर्शः ॐ
“तस्मै स विद्वानुपसन्नाय” (मु. १.२. १३) इति श्रुत्या वत्सलेव धेनुराचार्यवर्यः
कण्ठोक्त्या वेदान्तरहस्यं विशदं सरलभाषया प्रकाशयितुमुपक्रमते। स्वपरस्वरूपावगति-
पूर्वकत्याज्योपादेयविभागार्थ गकृत्यात्मश्रमस्वतन्त्रात्मश्रमानिवृत्यर्थं वेदान्तोक्तभोक्त-
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् १९
ोग्यनियन्तृक्रमेण यथायथमवबोधयत्याचार्यवर्यः -- इत्थं पृष्टस्त्वयेति। भगवत्कृपयैव
तत्वविषयिणी जिज्ञासा समुदेति। स्वेनोपदिदिक्षितानामेव प्रष्टत्वेन तत्क्रतप्रश्नानां समाधेयतया
शिष्यमनुरागातिशयेन सनामग्राहंप्रोत्साहयाति -- सुरसुरानन्द इरति। सुराणामपि सुरो
भगवान् तत्रानन्दो यस्येति विग्रहेण नाम्नापि भगवदासक्तिलक्षणयोग्यता, गुरुनिरतेत्यनेन
यशोक्तकारित्वानुगतत्वादिसूचनेन शाखश्रवणपात्रता च सूचिता। उभाभ्यां सञ्जातमोक्षाभिलाषत्वं
शमदमादिसम्पच्च लभ्यते। स्वगतस्यार्थस्य चिर प्रतिपिपादयिषितस्य जिज्ञासुला भेन
सहर्ष सम्बोधयति -- स सद्यो मया समाधीयते। एतदर्थमपेक्षमाणं समवधानता-
विशेषमालक्ष्य श्लाघते -- गुरुनिरत ड्रति। त्वत्सद्ृश एव गुह्यमपि श्रोतुर्महतीति
भावः। सकलहितकरत्वात्मश्नमभिनन्दति, बुधजने; श्रोत्रियें: समादृतत्वाच्छरतीनामेतदर्थ-
प्रकाशनपरत्वाच्च वेद्य: सर्वश्रुतीनाम् इति प्रश्नराशिं विशिनहि। गहनाशयगर्भत्वेन
विग्श्य समाधेयत्वादुर्वितियत्वाच्च प्रर्नराशेर्गरिष्ठत्वम्, न तुप्रश्ववैपुल्यात्। गरिष्ठोऽपि
प्रश्नराशिर्मया सद्यः सम्यक् समाधीयते इत्यनेन सर्वोत्पनिषत्सारस्य करामलकवदुप-
स्थितिरबोध्यते, अत एव समाधास्यत इत्यनुत्तवा सद्यः समाधीयत इत्दुक्तम्।
अनादिरपीश्चरकृपाचार्यक्रपामपेक्षते, आचार्यक्रपा तु तत्निग्रहमपि शमयति, ईक्षरस्य
तु क्वचित्कर्मानुरोधेनाधोनिनीषापि श्रूयते, किन्तु गुरोः सर्वत्रीनित्रीपैव। अतस्तदुचितां
वृत्िमालम्बते। यद्यप्याचार्यपङ्किः स्वयमभिवन्द्यते तथाप्युपदेशारम्भ आचार्यपरम्परा-
स्मरणवन्दनादेः शाख्राचारसिद्धतया शिष्यशिक्षार्थं चानुतिष्ठति आ्राचीनाचार्यवर्यानित्यादि।
आचीनाचार्यास्तु श्रीमद्गोधायनप्रभ्रतयस्तान्, यतिपतयः स्वाचार्याः श्रीमद्राघवानन्दाचार्यास्तिः
सहितान् सादरं प्रणम्येति कथनेनाभिलवितार्थलाभे पुनः समित्युपसर्गः श्रद्धातिशयं
द्योतयति। शाख्रानुसारं समाधीयत इति कथनाच्छ्रोतव्यः श्रुतिवाक्येभ्य इति शास्रार्थः
स्मारितः, शास्रस्य यथार्थीनिणये बाधकाभावात्। प्रतिपादने श्रुतिपर्मिहपरकर्षादाप्ततमत्वं
सूच्यते; ऋषीणामपि यव्ज्ञानं तदय्यागमपूर्वकम्” (वा. प. १.३०) इत्युक्तेः।
पृष्टानामेकमाद्यं त्रिकमपि शृणु तद्भेदतो नामभेदै-
निंत्याऽज्ञाऽचेतना सा प्रकृतिरविकृतिर्विश्वयोनिश्शुभैका।
नानावर्णात्मिकाऽजा त्रिगुणसुनिलयाऽव्यक्तशब्दाभिधेया
निर्व्यापारा परार्था महदहमितिसूरुच्यते तत्त्वविद्धिः।।६।।
* संवित्करः *
हे वत्स! तुम्हारे तत्त्वविषयक प्रथम प्रश्न का उत्तर सुनो। यथावस्थित प्रामाणिक
वस्तु को तत्त्व कहते हैं; जो चित् (जीव), अचित् (प्रकृति) एवं ईश्वर के नाम से तीन
प्रकार के होते हैं। उसमें अचित्तत्त्व (प्रकृति) नित्य, अज्ञ, अचेतन एवं परिवर्तनशील
२० श्रीवैष्णवमतान्जभास्करः
हैं। वह किसी की विकृति नहीं, अपितु विश्व की कारणभूता है। एक होते हुए भी अनेक
रूपों में दृष्टिगोचर होती है। वह सत्त्व, रजस् और तमस् नाम वाले तीन गुणों से युक्त
रहती है। वह प्रकृति प्रधान, अजा इत्यादि अनेक नामों से जानी जाती है। स्वयं तो
निष्क्रिय है, तथापि भगवदधीन है। वही महत् (बुद्धि), अहंकार आदि को उत्पन्न करती
हैं; ऐसा तत्त्वज्ञ महापुरुष बताते हैं।
* पदपरामर्शः *
पष्टक्रमेण समाधेरुचितत्वात्पष्टानां दशप्रश्नानां यदाद्यं प्रथमं तत्त्वं किमिति
ततत्वविषयकप्रश्नमाश्रित्योच्यते -- प्रृष्टानामिति। सिद्धान्ते प्रक्तिजीवेश्वराख्यस्य
तत्वत्रयस्य स्वीकारात्रयस्यापि निरूपणीयतया ततिकमपि श्रण्विति भावः। “भोक्ता
भोग्यं प्रेरितारं च मत्वा’ (थे. १.१२) इति श्रुत्या त्रिधा भिन्रस्यापि तत्त्वस्य
अमाणसिद्धतया निर्विशेषचिन्मात्रं अह्मैव सत्यं तदतिरिक्तं मिथ्येति वदन्तो दूरमुत्सारिताः।
तत्रादौ तत्वेषु सर्वप्रत्यक्षतया सिद्ध क्रतितत्वं मिथः प्रथत्तवानुसन्धानेन परस्परव्यावर्तक-
विवेचनेनावगमयितुमुपक्रमते -- नित्याज्ञाचेतना सा प्रकृतिरिति; स्थूलात्
सूक्ष्मनिरूपणस्योचित्यात्। श्रुतिरपि हि अन्रमयकोशादारभ्यानन्दमयकोरपर्यन्तस्य
विवेचनं करोति। बह्मसूत्रेषु ईक्षत्यधिकरणानन्दमयाधिकरणयोर्यथाऽ चेतननिरूपणानन्तरमेव
चेतननिरूपणं तथाऽत्रापि पूर्वमचित्रिरुपणं ततश्चित्निरुपणं शास्रसिद्धक्रमानुरूपम्।
या नित्या अज्ञा अचेतना अविकतिर्विक्षयोनिरेका शुभा नानावर्णात्मिका अजा
त्रिगुणनिलया अव्यक्तशन्दाभिधेया निर्व्यापारा परार्था महदहमितिसू: सा तत्त्वविद्धि:
प्रकृतिरिति उच्यत इति पदानामन्वितिः। भगवता प्रकृति स्वामवष्टभ्य विसजामि”
(गी.९.८), “मयाध्यक्षेण प्रकृति: सूयते सचराचरम्’ (गी९. १०.) इत्युक्तेः।
महदाद्यखिलजडवर्गमुत्पादयतीति तथाप्यविक्रतिः स्वयं न कस्यापि कार्यभूता।
उत्पादविनाशरहितत्वाद् नित्या, ज्ञानरहितत्वाद् अन्ना, चेतनाभ्यां जीवेश्वराभ्यां
भिन्नत्वाद् अचेतना, विश्वस्य सर्वकार्यवर्गस्योपादानत्वाद् विश्वयोनिः, स्वरूपत
एकाप्यनेकरूपतया शोभमानतया एका शुभा च। लोहितशुक्लकृष्णामिति श्रवणाद्
नानावर्णात्मिका, तरिगुणेषु सत्वरजस्तमस्सु सम्यङ्निलयः यस्या इति त्रिगुणसुनिलया,
अव्यक्तशन्देनाभिधीयमानतया अव्यक्तशब्दाभिधेया, कृतेज्ञनिच्छाजन्यत्वेन तस्याश्च
जडत्वात्स्वतन्त्रतया व्यापाररहितत्वेन निर्व्यापारा, तथापि स्वप्रवृत््या परस्य पुरुषस्य
भोगापवर्गौ भवत इति परार्था, किञ्च महदहङ्का्मेण सर्व सा सूत इत्यतो महदहसूरित्येवं
तत्वविद्धिः सोच्यते। प्रकृतिश्व कार्यकारणोभयावस्थापन्ना भवति। कारणावस्थमचिद्-
्रव्यमव्यक्तम्, महदादिविशेषान्तं तदारन्धदेवतिर्यङ्मनुष्यादिरूपं कार्यजार्त व्यक्तमिति
भाव्ः।
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् २१
नित्यो ज्ञश्चेतनोऽजः सततपरवशः सूक्ष्मतोऽत्यन्तसूक्ष्मो
भिन्नो बद्धादिभेदैः प्रतिकुणपमसौ नैकधा सूरिवर्य्यैः।
श्रीशाक्रान्तालयस्थो निजकृतिफलभुक्तत्सहायोऽभिमानी
जीवः सम्प्रोच्यते श्रीरघुपतिसुमते! तत्त्वजिज्ञासुवेद्यः ।।७।।
* संवित्करः *
हे भगवन्निष्ठ सुरसुरानन्द! चित्तत्व जीवात्मा है; जो नित्य, अल्पज्ञ, अजन्मा
तथा सर्वदा भगवान् के अधीन रहने वाला है। वह स्वरूपतः सूक्ष्म से भी
अतिसूक्ष्म है। इसके बद्ध-मुक्त-आदि अनेक भेद होते हैं। प्रतिशरीर भिन्न-भिन्न
होने से जीव अनेक माने जाते हैं। वह भगवान् से व्याप्त शरीर में रहकर अपने
कर्मफल को भोगता है। सभी दशाओं में इसे भगवत्सान्निध्य प्राप्त रहता है
(अर्थात् इसकी आत्मा के रूप में भगवान् विराजमान रहकर इसका सदा नियमन
करते हैं)। यह अज्ञान के कारण देहादि में अहंबुद्धि तथा अपने कृतकर्म के प्रति
कर्तृत्वबुद्धि रखता है। इस प्रकार तत्त्ज्ञानियों ने जानने योग्य चित् (जीवात्मा) का
स्वरूप निश्चित किया है।
* पदपरामर्शः ४:
'तराति शोकमात्मवित्’ (छा. ७.१.१३) इति श्रुत्यात्मज्ञानस्य शोकतरण-
हेतुत्वेनोक्तेरात्मपदार्थोऽवश्यं ज्ञेयतामेति। अत्र क्षेत्रज्ञ आत्मा पुरुषः? इत्यमरे
(१.४.३१०) ग्रहीतनाम्नः क्षेत्रज्ञपुरुषपदबोध्यस्यात्मनो नूनं ज्ञातव्यता; दप्ति प्रत्यगात्मनो
याथात्म्यदर्शनमुपासनाया अङ्गभूतम्। यावज्ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मन
इति शोषत्वबोधो न भवति, तावत्स्वस्वरूपानुगुणपुरुषार्थस्यापक्षैव न स्यात्।
स्वशेषत्वानुसन्धानपूर्वकेण सहजसम्बन्धपरिज्ञानेन लब्धाधिकारस्यादेह- पातादुपायनिष्पत््या
कृतार्थतिति जीवात्मपरमात्मनोः प्रथम चित्पदवाच्यं जीवात्म-तत््वमुपदिश्यते --
तत््वजिज्ञासुवेद्यो जीव ड्रति। शिष्यं प्रीत्याभियुखीकरोति -- श्रीरघुपतिसुमते।
श्रीरपुपतौ सुमतिर्यस्य, भगवत्क्रपया विशदतमायां तव सुमत्यां रहस्यमचिरेण,प्रस्फुरिष्यतीति
सम्बुद्धेराशयः। सुरिवरय्यैः नित्यत्वादिविशिष्टो जीवः सम्प्रोच्यते, इत्यत्र सूरिवर्य्यपदं
“सदा पश्यान्ति सूरयः? (क्र. १.२२.२०) इति आम्नायोक्तया
सततभगवत्साक्षात्कारवैभवपरयुक्ताप्ततमत्वसूचनेन श्रमप्रमादादेरत्यन्ता-सम्भावनीयता
व्यज्यते/ अतस्तव्प्रोक्ते अप्रामाण्यप्रयोजकशङ्रानवकाश इति। ताटूशेलीक्षतो जीवो
नित्यः, अनादिनिधनः प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगत्वरूप इति
पूर्वानुभूतार्थप्रतिसन्धानाद् 'न जायते ग्रियते' (गी. २.२०), ज्ञाज्चौ द्वावजौ' (धे. १.९)
२२ श्रीवेष्णवमताब्जभास्कर:
इत्यादिश्रुतेश्ष। किञ्च जीवानित्यत्वेउकृताभ्यागमक़तविप्रणाशरूपदोषद्गयं अ्रसज्येत। तथा
च ब्रह्मसूत्रम् - “नात्माउश्रुतोनित्यत्वाच्च ताभ्यः? (२.३.१७) इति।
आकाशादिवज्जीवस्याप्युत्पत्तिरस्तीत्याशङ्कघ समाधीयते -- 'नात्माऽश्चुतेः, न
जीवात्मोत्पद्यते, न तादृशी काचिदपि श्रुतिरस्ति यत्र जीवोत्पत्तिः श्रुता स्यात्;
प्रत्युत श्रुतिभ्यो नित्यत्वमेवावगम्यते’ इति तत्राऽ5नन्दभाष्यम्। नित्यत्वाद्
अपरिणामित्वमुच्यते, प्रक्ृतिवत्सततपरिणामैनन्वीयते। ‘इमानि भूतानि जायन्ते'
(तै ३.१.३), प्रजा असृजत' (ते.ा. २. २. १. १) इत्यादिश्रुतयस्तु जीवस्य देहसम्बन्ध
उत्पत्तिस्तद्वियोगो नाश इति प्रतिपादनाभिप्रायेण नेया:। एतेनात्मानित्यत्ववादिनो
निरस्यन्ते।
जीवो ज्ञः, जानातीति ज्ञः, ज्ञातृत्वावगमाज्ज्ञानगुणको न तु ज्ञानमात्रस्वरूपः;
न पश्यो मत्युं पश्यति’ (छा.७.२६.२), “मन्ता बोद्धा कर्ता विज्ञानात्मा”
(ग. ४.९) इत्यादिश्रुतिभिरात्मनो ज्ञातृत्वोक्ते। आत एव ब्रह्मसूत्रमपि -- 'ज्ञोऽत
एव” (२.३.१८) इति। यद्यपि ज्ञ इत्यनेन ज्ञानाश्रयत्वरूपं चेतनत्वमुच्यते तथापि
जीवो न केवल ज्ञानाश्रयरूपोऽपितु प्रत्यगपीति बोधनाय पृनश्चेतनपदम्। प्रत्यक्त्वं
नाम स्वयमेव स्वस्मै भासमानत्वम्। स्वयम्प्रकाशत्वादयमनन्याधीनप्रकाशः,
इदमेवास्याजडत्वम्। परस्य तु तज्ज्ञानविषयतयैव प्रकाशते, स्वस्यापि नियम्यत्वाणुत्व-
नित्यत्वादिविशिष्टरूपेण ज्ञानविषयत्वमस्त्येव। जीवोऽज्ञश्चेतनोऽज इति पाठे अज्ञ
इत्यनेन तस्य धर्मभृतं नित्यं किञ्चिज्जञानमस्ति, किन्तु संसारदशायां कर्मणा तस्य
सङ्कोचविकासदर्शनात्सङ्कोचावस्थायामल्पज्ञोऽनित्यज्ञानत्वादित्यर्थः। अनुदरा कन्येति
वदीषदर्थे नञ्। एतेनास्य स्वयम्प्रकाशता ज्ञतृत्वञ्चोभयं सिद्धयति। तेन चिन्मात्रमेवेति,
ज्ञातृत्वमेवेत्यादय: पक्षा निरस्यन्ते।
वस्तुतः कर्मफलसम्बन्धाददेवमनुष्यादिशरीरेषु वसन्नपि स्वरूपतो जन्ममरणादि-
विकाररह्वित एवेति बोधयितुमुच्यते -- अज इति। विनाशित्वनिराकरणेन
जननादिकमप्यर्थतो निरस्तम्, जननादीनां देहधर्मत्वात्। वस्तुतोऽज इत्यनेन
यथावस्थिताकारो विविच्याभिधीयते न तु देहसंयोगवियोगलक्षणजन्ममरणप्रतिक्षेपः
क्रियते। तस्य जीवस्येक्षराधीनत्वमभिदधाति -- जीवः सततपरवश्ञ इति। अत्र
परशब्देन “ब्रह्मविदाप्नोति परम” (ते. २. १. १) इत्यादिश्रुतिबोधितः सर्वेक्षणों भगवान्
रामः कथ्यते, तेनेश्वरनियम्यो जीव इति लभ्यते। 'अन्तःग्रविष्टश्शास्ता जनानां
सर्वात्मा” (तै.आ. ३. १ १), "आत्मानमन्तरो नियमयति’ (श.ब्रा. १४.६.७.३०)
इतिश्रुतेः। जीवस्य कर्तृत्वादिकं तदधीनमिति "भ्रामयन् सर्वभूतानि यन्त्रारूढानि
मायया” इति गीतोक्तेश्च (१८. ६ १)। एतेन 'पराचु तच्छुतेः' इति ब्रहमसूत्राशयः
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् २३
(२.३.४१) प्रकाशित: अत एव च नियम्यनियामकभावप्रयुक्तो भेदोऽपि सुतरामेव
सिद्ग्याति -- 'गृथगात्मानं प्रोरितारञ्ज मत्वा’ (थे. १.६) इति श्रुतौ
प॒थक्शब्दस्योपादानात्। तथाविधसमर्थेनेश्वरेण नियमनात्क्रतकर्मफलभोक़त्वमसमर्थजीवस्य
युक्तमिति चेन्न; परात्मना दचतैस्तदाधारैश्च करणशरीरादिभिस्तदाहितशक्तचा च स्वयं
जीवात्मा कर्मनिष्पत्तये स्वेच्छया प्रयत्नमारभते। परमात्मा च तदन्तरवस्थित:
स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्य स्वबुद्धयैव प्रवृततिहेतुत्वमस्ति, आतस्तस्य
कर्तृत्वं विधिनिषेधभात्तवञ्च सिद्धयति; अन्यथा तस्य तदधीनकर्तृत्वेनानियोज्यत्वमेव
स्यात्तेन विधिनिषेधशाख्रण्यनर्थकानि स्युः। तथा चेममर्थ समर्थयते 'क्रतप्रयतनापेक्षस्तु
विहितप्रतिबिद्धावैयर्थ्यादिभ्यः' इति ब्रह्मसूत्रम् (२.३.४२) आतो जीवस्य
शाख्रवश्यत्वप्रतिपादनाय कर्तत्वं तदनुगुणफलभोक्कत्वञ्च कुं विशेषणमुखेन लक्षयति
निजक्रातिफलभुगिति। कर्तुरेव तत्फलभोक्त्वस्यौचित्यात् 'तयोरन्यः पिप्पलं स्वाद्वत्ति’
(शे. ४. ६) इति श्रुत्यर्थः प्रकाशितः।
वे्रयिकसुखदुः खोपभोगे प्रक्ृतिसंसगों हेतुः, गुणसङ्गस्य विहितनिषिद्धकर्मद्रारा
तत्फलानामनुभवार्थ विचित्रजन्म प्रति हेतुत्वमस्ति, सदसद्योनिग्राप्तेः कर्ममूलत्वात्।
एतेन जीवस्य साध्वसाधुकर्मफलप्रवाहरूपेण विचित्रानन्तयोनिसम्बन्धो जायते।
देहजन्यकर्मफलभोगाय पुनदेहावाप्तेबीजाङ्कृरन्यायेनानादित्वात्। आत्मत्वं हि
प्रत्यात्मकर्मतत्फळतद्धोगार्थभेदात् शरीरप्रतिसन्धित्वमिति बोधनायोच्यते --
प्रतिकुणपमसौ नैकधेति। प्रतिशरीर जीवो भिन्न: कस्यचित्युखित्वकालेऽ न्यस्य
दुःखित्वदर्शनात् शुकवामदेवादीनां श्रुत्या मुक्तत्वकथनात्। एकास्मिन्मुक्ते
सर्वमुक्तिप्रसङ्गात्संसारोच्छेदापतिक्ष स्यात्। "नित्यो नित्यानां चेतनश्चेतनानामेको
बहूनां यो विदधाति कामान्” (4. ६.१३) इत्यादिश्रुतयो जीवानेकत्वे प्रमाणम्।
'नानात्मानो व्यवस्थात” इति न्यायसूत्रेऽपि जीवानेकत्वमेव स्थापितम्। साङ्कचेष्युक्तम्-
जननमरणकरणानां प्रातिनियमादयुगपत्परवृत्तेक्ष। पुरुषबहुत्वं सिद्धं
त्रैगुण्यविपर्ययाच्च' (सां. का. १८) इति। एकस्मिन् म्रियमाणे सर्वे म्रियेरन्, किन्तु
जननमरणयो: काचिद्र्यवस्था दृश्यते, अतो हेतो: प्रतिशरीरं भिन्नो नाना जीव इति
सिद्धयति। यद्यपि देह भेदस्तु नात्मभेदनियामको भवितुर्महति सौभरिशरीरे जीवभेदस्यादर्शनात्,
तथापि सौभर्यादिक्षेतरज्ञव्यतिरिक्तस्थल एव देहभेदो जीवभेदस्य नियामक इति भाव:।
जीवभेदस्वीकारे जीवत्रह्मभेदोऽपि सिद्धयति। "नेह नानास्ति किञ्जन' (क. २.१.११)
इत्यादिश्रुतयस्तु सर्वस्य ब्रह्मशरीरतया तद्ग्यतिरिकतनिषेधार्थकाः। एतदेव हि ब्रह्याद्रैतम्,
तस्य प्रकार्यद्रैते तात्पर्यात्। ब्ह्मशरीरभूतानां अकाराणां जीवानामनेकत्वेऽपि तेषां
सर्वेषामात्मभूतस्य प्रकारिणो ब्रह्मण ऐक्यात्। मुक्तावपि न जीवन्रह्मणोरैक्यम्, 'सदा
२४ श्रीवैष्णवमताब्जभास्करः
पश्यन्ति सूरयः” (ऋ. १. २२. २०) इति मन्त्रवर्णात्, किन्तु साम्यमात्रम् 'मय
साधर्म्यमायता” (गी. १४.२) इति भगवदुक्तेः। जीवानेकत्वादेव बद्धयुक्तानित्यभेदेन
त्रैविध्यं तस्य प्रतिपाद्यते, बद्धा अनिव्तसंसाराः, मुक्ताश्च भगवदनुकम्पयाऽविर्भूतगुणा्काः
परमानन्दरह्मानुभववन्तो नित्याश्च कदाचिदपि संसाखसक्तयभाववन्तः श्रीहनुमदादय्ः।
ननु जीवात्मा विभुः शरीरव्यापिसुखाद्युपलन्धेः, देशान्तरेऽपि तद्वोग्यवस्तृत्पत्तेश्ष।
तत्र हि जीवादूर्ट कारणम्, तस्य तत्र सत्रिधानमपेक्षते; कार्यकारणयोः
सामानाधिकरण्यनियमात्। तच्चादृषटाश्रयमन्तरेण न सम्भवतीत्यगत्या जीवात्मनो
विभृत्वमङ्गीकर्तव्यमिति पूर्वपक्षीयं जीवात्मनो विभुत्वं ्त्याख्यायाणुत्वं प्रतिपादवितुमुच्यते
-- सूक्ष्मतोऽ त्यन्तसूक्ष्म इति। अयञ्जीवोऽणुपरिमाण उत्क्रान्त्यादिश्रवणात्। जीवस्य
विभुत्वे उत्क्रान्तिर्गतिरागतिक्च याः श्रुत्युक्तास्ता नोपपद्येरन्; तथा च श्रुतिः
‘बालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीव: स विज्ञेयः सचानन्त्याय
कल्पते” (थे. ५.९) इति। “यद्यापि जीवात्मनो न सर्वशरीरव्याप्तिस्तथापि
तद्धर्मस्य ज्ञानस्य सर्वशरीरव्याप्त्या युगपदनेकविषयानुभवः सिद्धयति। सर्वगतस्य
विभोर्गतिश्षागतिश्च नोपपद्यते, तस्मादात्मनोऽ णुत्वमेव’ इत्याऽऽनन्दभाष्यम्।
तादृशस्य जीवस्य स्थितिमाह -- श्रीशाक्रान्तालयस्थ इति। त्रिय ईशो भगवान्,
तेनाक्रान्ते आलये षाद्काँशिके शरीरे तिष्ठतीति भावः। यत्रान्तर्यामित्वेन भगवान्,
ततरैवात्मतया जीवोऽपि जीवाधिकरणमपि शरीरमीश्वरव्याप्तम्। एतेन ईश्वरस्य सर्वाधारतया
जीवस्याधेयत्वरूपभगवदाव्रितत्वं प्रतिपाद्यते, जीवस्य परमपुरुषायत्तस्वरूपस्थिति-
प्रवृत्यादिर्लभ्यते। ईक्षराक्रान्तालये कथं तत्स्थितिरित्यत आह -- तत्सहाय इति;
तदनुचर इति यावत्। अत एव समानव्क्षारूढपक्षिद्रयवदुभयोस्सख्यं श्रुतिप्रतिपादितम्।
नरकादावपि तदन्तर्यामितया न जीवं मुञ्चति भगवान् सहायत्वात्, उभयो;
सांसिद्धिकसम्बन्धसत््वात्। यद्रा स भगवानेव सहायस्सर्वथोपकारको यस्य, तादृशो
जीव: अतः सर्वभूतसुहृत्वकथनं भगवतस्सङ्गच्छते, सकलदुः खनिवर्तनपूर्वक-
स्वरूपानन्दप्रापकत्वात्। 'किन्तस्य शत्रुहनने कपयः सहायाः? इति भागवतोक्तया
(९.११.२०) अल्पसत्त्वजीवकृतस्य तत्सहायस्य नितरामयुक्तत्वात्। ईश्वरस्य
परमकारुणिकत्वाचतोऽन्यो न तत्सहाय इति भाव:। अज्ञानवशाज्जीवो देहादावहम्भावं
मत्वाउह स्थूल: क्रश इति मन्यते। देहयोगादेव धनपुत्रादौ ममैतदिति भावस्तस्य
जायते, अतोऽभिमानीत्युच्यते। स्वरूपयाधार्थ्यविज्ञानानन्तरन्तु यथेष्टविनियोगहित्वरूप-
शेषत्वबोधोदयाद्दासोऽहं कोसललन्दरस्येत्याकारकाभिमानस्तिष्ठति स्वस्य विषयज्ञानचिकीर्षा-
प्रयत्नाश्रयलक्षणा कर्तृता गुणप्रयुकतेत्युसन्धायाहं कर्चेत्यादिकं न मन्यते। तस्य न
स्वरूपप्रदुक्त कर्दृत्वमपितु गुणसम्पर्कक्रतमिति, तथापि गुणाभिष्वङ्गादभिमन्यत इत्यभिमानीति
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् २५
भाव:। शेषत्वे सति ज्ञातृत्वमिति लक्षणसत्त्वेडापि विविधविशेषणमुखेन
केवाञ्चित्स्वरूपनिरूपकधर्माणां कथनद्वारा प्रकृतिसंश्लि्ठतयाउसंश्लिएश्च जीवस्तथा
लक्षितो येन सिद्धान्वसम्पतं तत्स्वरूपमाविष्कृतं स्यात्।
वस्तुतोऽत्र नित्य इत्यनेन देहात्मवादादिनिरास:, ज्ञ इत्यनेन चिन्मात्रवादिशाङ्कर-
मतनिरास:, चेतन इति ज्ञातृत्वमात्रवादिमतनिरासः, सूक्ष्म इति विभृत्ववादनिरासः,
नैकधेति एकात्मवादनिरासश्च भवति। ईश्वरतत्वापेक्षया जीवतत्त्वस्य पूर्वनिरूपणे श्रौती
सङ्कतिरपि दृश्यते 'तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्रन्योऽभिचाकशीति'
(मु.३.१.१) इत्यत्र भोकतजीवनिरूपणात्परमीश्वरस्याभोकत्वनिरूपणम्।
विश्वं जातं यतोऽद्धा यदवितमखिलं लीयते यत्र चान्ते
सूर्यो यत्तेजसेन्दुः सकलमविरतं भासयत्येतदेषः।
यद्भीत्या वाति वातोऽवनिरपि सुतलं याति नैवेश्वरो ज्ञः
साक्षी कूटस्थ एको बहुशुभगुणवानव्ययो विश्वभर्ता ।।८।।
* संवित्करः #
जिससे यह विश्व प्रकट होता है, पालित होता है तथा अन्त में जिसमें लीन
हो जाता है, सूर्य-चन्द्र-आदि प्रकाशक जिसके तेज से प्रकाशित होते हैं, जिसके
भय से वायु निरन्तर चलती है और पृथिवी पाताल में नहीं डूबती, वह
सर्वनियामक, सर्वज्ञ, सर्वसाक्षी, अविचल, एक, अविनाशी, अनन्तकल्याणगुणसम्पन्न,
विश्वम्भर परमात्मा ईश्वरतत्त्व (प्रभु श्रीराम) हैं।
* पदपरामर्शः *
ूर्वमचित्तत्वं निरूप्य ततश्षेवनत्वात्तदपेक्षयेत्कृएं चित्तत्त्वं प्रतिपाद्येदानीं तत्त्वत्रयान्तर्गतं
चरममीश्चरतत््वं बोधयितुमुपक्रमते -- विश्वं जातमित्यादिना/ तत्रेयं प्रकृतिः
स्वगुणैर्यदधीनसत्ताका, पुरुषश्च यदपराधाद्वद्धः, यत्मसादाच्च मोक्ष्यते, उभयस्यापि
यथेच्छनियमनाद्युभयापेक्षया नितान्तविलक्षणमेव वस्त्वन्तरमेवेश्वरतत््वम्। अत एव
भगवदधीनत्वरूपसाम्यधिया चिदचिदोस्स्वरूपमेकैकपद्योन समुन्नीय तदपेक्षया
वेशिष्यमाविष्कर्तु तत्नियामकेश्चरतत्तं द्वाभ्यां निरूप्यते। 'मायि सर्वमिदं प्रोतम्’
(गी ७.७), "इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्” (गी १ १.७) इत्याधुक्तप्रकारेण
चिदचिदोरेकदेशवर्तित्वकथनात्, तस्योभयात्मभूतस्यानुचिन्तनार्थमुच्यते अनितरसाधारण-
विशेषणैः। तत्रादौ श्रुतिसिद्धजगत्कर्तृत्वादिलक्षणमीश्वरत्वं पुरस्करोति -- विश्वं जातं
यतोऽ द्धा यदावितमाखिल लीयते यत्र चान्त इति) अखिलमशेषं चराचरात्मकं विश्वं
जगद्यतो जातमित्यन्वयः। यत इत्यत्र हेतौ पञ्चमी, तेन यद्धेतुकं जगज्जन्मादीति
२६ श्रीवेष्णवमताब्जभास्कर:
लभ्यते। यद्वा यतो जातं कार्यवर्गस्तत्र विपुलतरत्वद्योतनाय सर्वार्थकविश्वशब्द:। न
केवलं सर्व विश्वं यतो यस्मात्सर्वेक्षराज्जातं :्रादुर्भृतमपितु यदवितमू, येन पालितं रक्षितं
सत्स्थितिं लभते, रक्षणार्थकावधातुप्रयोगात्। जननीवानिष्टानिवार्य पयः पानादिना पुष्णातीति
सर्वदोषप्रसहनानुगुणवात्सल्यं व्यज्यते। न केवल कार्यकारणोभयावस्थजडप्रकृत्य-
पेक्षयेवापित्वचिन्मिश्रात् क्षरपदवाच्याद्रिशुद्धा-च्चाक्षरपदवाच्याच्चेतनाद् व्यापनाद्धरणा-
त्स्वाम्याच्चेश्षरस्यान्यत्वं श्रुतिस्म्तिसिद्धम्। यस्य सर्वव्यापित्वन्तु यस्मिंश्च पुनरन्ते
प्रलयावसारे लीयते नामरूपविभागार्नहरूपेण संश्लिष्ट भवति। 'यतो वा इमानि
भूतानि जायन्ते येन जातानि जीवान्ति, यद्ायन्त्याभिसाविशत्ति' (तै. ३. १.३) इति
्रुतेः। अत्राद्धेतिपदं तत्त्वे त्वद्धाञ्जसा द्रयमित्यमरकोबाद्यथार्थपरन्तेनाद्वौतिसम्मतं
जगदुत्पत्यादेः पारमार्थिकत्वाभावनोधक-ग्रातीतिकत्वादिकं निरस्यते, जातं विश्वमद्धा
सर्वेक्चरस्य जनयितृत्वादिकं चाद्धेत्युभयान्वयात्। पर्यायशन्दस्यार्थान्तरसंश्लेषादद्धा-
शन्दस्याञ्जसेत्यप्यर्थस्तेन जगदुत्पत््यादिकं सहायान्तरनिरपेक्षस्य तस्यानायासेन
सङ्कल्पमात्रेणेवेति सूच्यते। अयमत्राभिसन्धिः -- घट ग्रति ग्रतिकावत्कार्यूपेण परिणामयोग्यं
वस्तूपादनकारणम्, घट प्रति कुलालवद्य उपादानवस्तुनः कार्यरूपेण परिणामं करोति
स कर्ता निमित्तकारणम्, बट प्रति दण्डचक्रादिवत्कार्योत्पत्ुपकरणं वस्तु सहकारिकारणञ्च
भवति। अत्र सक्ष्मचिदचिद्विशिष्टतयोपादानं बहु स्याम्' (तै २.६. १) इति सङ्कल्पविशिष्टतया
निमित्त ्ञानशक्तयादिविशिष्टतया च सहकारिकारणामिति जगतख्रिविधमपि कारणं सर्वेश्वरो
भगवान् श्रीराम एव। सहकारिकारणस्य निमित्तेऽन्तर्भावात्निमित्तोपादानकारणत्वं तस्योच्यते।
यथैक एव जीवात्मा तैस्तैरुपायैः स्वसुखाद्युत्पादयति, स्वयमेव च तस्य समवायिकारणं
भवति तथैवैकस्यापि भगवतो निमित्तोपादनोभयकारणता न विरुध्यते) अत्र 'यथोर्णनाभि
सजते गरह्मवे च' (मु. १. १. ७) इतिश्रुतिः ग्रमाणम्। अत एव चैकविज्ञानेन सर्वविज्ञानमिति
सङ्गच्छते। एतेन परमाणुकारणतावादः, परमाणूनामुपादानत्वमीश्चरस्य च निमित्तत्वमिति
वदतो वैशेषिकस्य वादश्च प्रधानकारणातावादक्च यथायथं निरस्ता भवान्ति।
न केवलं जगदुत्पादकत्वादि तदैश्वर्य वदत्यपितु चराचरभासकत्वमपि, पराग्भवतु
अत्यग्वा सर्व यद्धाम्नेव प्रकारात इति सर्क्रकाशकत्वं प्रस्तौति -- सूयो यत्तेजसेत्यादिना।
एव सूर्य एष इन्दुर्यतेजसैतत्सकलमविरतं भासयतीत्यन्वयः। लौकिकप्रकाराके सूर्यो स्तङ्गते
शान्ते चाग्नौ यश्च सर्व प्रकाशयति, सर्वस्य तठाकाशाधीनप्रकाशकत्वात्। अत एवोक्त
भगवता -- 'यदादित्यगतं तेजो जगद्धासयतेऽखिलम्। यच्चन्रमसि यच्चाग्नौ
तत्तेजो विद्धि मामकामिति' (गी. १५. १ २)। ग्रहेशस्य नक्षत्रेशस्य चोपादानादिदमाकृतं
भवति। याभ्यां लोको नियम्यते तयोरापि भगवत्नियम्यत्वम्; यस्तेजोऽन्तरो यमयाति'
(बृ. ३.७.१४) इति श्रुतेः। सर्वस्यापि स्वस्वकार्यजनकत्व-मेतदधीनमेवेति
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् २७
साक्षात्सवन्तिर्यायित्वं भगवतो रामस्य। यच्च वाल्मीकिनाप्युक्तम् 'सूर्यस्यापि भवेत्यूर्यो
ह्यग्नेरग्निः प्रभोः प्रभुः? (वा. रा. २.४४. १५) इति। एतेन 'तमेव भान्तमनुभाति
सर्व तस्य भासा सर्वमिदं विभाति’ (मु. २. २. १ १) इत्यादिश्रुत्याशयः प्रकाशितः।
तत्र तत्र तदनुगुणशक्तचाधानेनान्तर्यामितया नियमयतीति भावः। अत्र विवक्षितभाः
ज्ञानपर:, स चानन्दादेरप्युपलक्षणम्; तस्याविद्यानिवर्तकतया निरतिशयानन्दप्रत्वात्।
यदुक्तं “मत्तः स्म्रतिज्ञानमपोहनं च' (गी. १५.१५) इति, 'यं लब्ध्वानन्दी भवति’
(तै. २.७.१) इति चा यथाग्न्यादिप्रकाशकस्य हि शीतापहारकत्वं भयनिवर्तकत्वं
प्रकाशकत्वञ्च तथास्यापीति लभ्यते। प्रकाशकतायाः कादाचित्कत्वव्यावृत्तये --
सकलमविरतम् इत्युक्तम्। आतो भागवते "धाम्ना स्वेन सदा निरस्तकुहकम्'
(१.१.१) इति ध्येयं विशिनष्टि/ 'भयादस्याग्निस्तपाति भयात्तपति सूर्यः।
भयादिन्रश्च वायुश्च मृत्युधविति पञ्चमः ' (क. २.३.३) इति श्रोतमनन्याधीनशासकत्वं
प्रस्तोतुं भीतिगुखेन चिदचित्रियमनं दर्शयति -- यद्धीत्येति। यद्धीत्या वातो वाति,
अवनिरापि सुतलं न याति। एतेन भगवतस्सागरनिग्रहणादिकं स्मारितम्। इदमेवेशितरत्वम्।
नित्यासङ्कचितज्ञानेभ्यो नित्येभ्योऽप्यप्रतिहतेश्षर्यम्। यथोक्ता नियमनगुणाः श्रीरामायणे
(२.१.२५) -- 'यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः? इति हन्त्येव
नियमाद्वध्यानिति च। रामायणेऽपि 'तत्र तत्र नाशयामि जगत्सर्वम्” इत्यादिना
भयप्रदर्शन दृश्यते। अतएव च 'कस्य बिभ्यति देवाश्च (१.१.४) इति वाल्मीक्युक्त
सङ्गच्छते यत्तदोर्नित्यसम्बन्धात्स इतीक्वरपदे रथमान्तेऽन्वेतव्य:। यस्यैवमतिलोककार्यम्,
यश्च ज्ञ: साक्षी कूटस्थोऽव्ययो बहुशुभगुणवान् स विश्वभर्ता ईश्वर एक इत्यन्वयः।
ईश्वर: सर्व स्वरूपतः प्रकारतश्च जानातीत्यतो ज्ञ इति तं विशिनष्टि। एतेन नैव तस्य
ज्ञानस्य कालतो विषयतश्च सङ्कोचो विद्यते, तस्य नित्यज्ञानत्वातु. 'यः सर्वज्ञः
सर्ववित्’ (म. १. १. ९) इति श्रुतेश्च। साक्षात्काररूपज्ञानाश्चय एव लोके वेदे च
साक्षीति व्यपदिश्यते, न ज्ञाप्तिमात्रम्। यथाऽऽह पाणिनिः “साक्षाद्द्रष्टरि
सञ्ज्ञायाम्’ (५.२.९१) इति। कारणादिव्यापारं विनापि ज्ञानसङ्कोचहेत्वभावात्
सर्वदैवातिरोहितप्रकाश एव जगत्सर्जनाजीवकर्मफलदानादावुपादानादिविषयज्ञानवानेव
तद्रचनायाम्प्रभवतीति भावः।
कूटे तिष्ठतीति कूटस्थः, स्वस्वरूपे न शेथिल्यादिरूपो विकार इत्यर्थः। कस्यामप्यवस्थायां
न स्वरूपाच्च्यवते। पञ्चधा विभक्ते परव्यूहविभवाचन्तिर्यामिरूपे न स्वरूपं व्यभिचरतीति
भावः। अवतारादिदशायामप्यजत्वाव्ययत्वसर्वेक्षरत्वरूपा या पारमेश्वरप्रक्रतिः, तां न
कदापि जहाति; सदेकरूप इत्यर्थ्ः। अव्ययो भगवान् विकारानहो विकारित्वयाहकप्रमाणाभावात्।
वस्तुतः कूटस्थोऽव्यय इति शब्दाभ्यां धर्मतः स्वरूपतश्च विकाराभावबोधनान्न पुनरुक्ति:।
२८ श्रीवेष्णवमताब्जभास्कर:
जीववदनेकत्वव्यावर्तकैकशब्द:। अन्यनिरपेक्षपर:, एकपदं न तद्ग्यतिरिक्ततत्वाभावपरमपितु
ततुल्यनिवारणपरम्, यद्वैकोऽन्यः जीवलक्षणपुरुषराशिबहिभूर्ततया विलक्षण एव हि
भगवान्, उत्तम: पुरुषस्त्वन्यः (गी. १५. १७), 'अतीतो5हमक्षरादपि' (१५.१८)
इति स्म॒तेः। अत उक्तमादिकविना -- 'साधुरेको विनिश्चितः” (वा.रा. २. १.८) इति।
एतेनाधिकसाम्यविमुक्तत्वमुच्यते, 'न वत्समश्चाभ्याधिकश्च दृश्यते' (थे ६.८) इत्वुक्तेः।
“एके मुख्यान्यकेवला' (३.३.३४५) इत्यमरान्मुख्यार्थतया, त्रिषु तत्त्वेषु मुख्य
इत्यर्थः। अस्य त्रिषु मुख्यत्वं विश्वभत्तत्यनेन ग्तिपाद्यते, भर्तृपदं धारणपोषणार्थकभृञ्-
धातोर्निष्पत्या "भर्ता धातरि पोष्टरि' (३.३.४६५) इत्यमराच्च न केवलं स्वाम्यं
सूचयति, अपितु धारकत्वं पोषकत्वञ्च। रूढ्यापि चराचरजगत्स्वामित्वन्तु गम्यत एव,
“पर्ति पतीनां परमं परस्तात्’ (थे. ६. ७) इति श्रृतेः। यदुक्तं भगवता "गामाविश्य
च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रमात्मकः ”
(गी. १५.१३) इति
केवलं धारणपोषणप्रयुक्त भर्तृत्वमेव न तस्य, अपित्वेवंभूतानेकप्रशस्तगुणास्तस्य
सन्तीत्यत आह -- बहुशुभगुणवानिति। वस्तुतः साक्षी कूटस्थो विश्वभर्तेति
चेति कथनेन निर्दयनियमनौदासीन्यनिर्विकारत्वादिप्रतीत्या समाश्रयणीयताप्रयोजका
जीवसङ्ग्रहणानुकूलतत्सौशील्यवात्सल्यादय आभिगमिकगुणा न स्युरित्यत आह
-- बहुशुभगुणवानिति। बहुपदमसङ्घयेयार्थमाह सर्वभूतहितपरत्वात्तदनुकूलकल्याण-
मयत्वं गुणानां वक्ति शुभशन्दः। बहवश्शुभाः कल्याणमया: गुणा अस्य सन्तीति
प्रशंसायां नित्ययोगे च मतुपू; भूमप्राशांस्त्ययोस्त्ववयवार्थत्वात्। “स्वाभाविकी
ज्ञानबलक्रिया च' (श्रे. ६.८) इति श्रुत्या गुणानामौपाधिकत्वव्यावृत्तिः।
शुभगुणानामानन्त्येऽपि भगवतः कल्याणगुणाः वाल्मीकीवरामायणस्य बालकाण्डायोध्या-
काण्डयोराद्यसर्गयोरुपाा:; केचन गुणा विशिष्टाः सन्निधाप्यन्ते। तथापि केचनात्र
तत: सङ्गह्योपन्यस्ता उपादीयन्ते -- 'सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवमू।
विद्या च गुरुशुश्रूषा श्रुवाण्येतानि राघवे’ (वा. रा २.१२.३०), 'आउशंस्यमनुक्रोश:
श्रुतं शील दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्’ (२.३३.१२)
बहुशुभगुणवानित्यत्र न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेतदर्थप्रतिपत्तिकर इति
नियमात्तदर्थप्रतिपत्तों वृत्तिद्वयाश्रयगौरवं स्प्रशति, तथापि प्रत्ययस्थात्कादिति सूत्रे सुन्वत
इति महाभाव्यप्रयोगेण तदनित्यत्वबोधनान्र दोषः। अत एवं हंसचिह्नदुकूलवान्”
(र.वं. १७.२५) इत्यादयः कालिदासप्रयोगाः सङ्गच्छन्ते इत्थं जगदुत्पादकत्व-
प्रकाशकत्वनियामकत्वनित्यज्ञानत्वनिर्विकारत्वाद्वितीयत्वविश्षभर्तृत्वादिलक्षणमीश्वरत्वं
विशेषणमहिम्ना प्रकाशितम्।
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् २९
श्रीमानर्च्यः शरण्यो बहुविधविबुधैर्योगिगम्याडिस्प्नपद्मो5-
स्पृश्यः क्लेशादिभिः सत्समुदितसुयशाः सूरिमान्यो वदान्यः।
शश्वच्छीरामचन्द्रः सुमहितमहिमा साधुवेदैरशेषै-
निर्मित्यु: सर्वशक्तिर्विकलुषविजरो गीर्मनोभ्यामगम्यः ।।९।।
* संवित्करः #
जो सर्वैश्वर्यविभूति से नित्यसम्पन्न श्रीजानकीपति शरणागतवत्सल हैं, जिनके
चरणकमल ब्रह्मादि देवताओं के द्वारा वन्दित तथा श्रेष्ठयोगिजनों के द्वारा ध्येय हैं,
जो अविद्या-अस्मितादि पंचक्लेशों से नितान्त असंस्पृष्ट हैं, जिनके सुयश का
सत्पुरुष सर्वदा गान करते हैं, जो नित्यमुक्त एवं सतत कैंकर्यपरायण सूरिजनों के
द्वारा पूजित एवं परम उदार हैं, सभी वेद जिन्हें अजर अमर सर्वशक्तिसम्पन्न
निर्मल नित्यकिशोर अविनाशी एवं मन एवं बुद्धि से परे बताते हैं, वे नित्यैश्चर्यसम्पन्न
पुण्यश्लोक श्रीरामचन्द्र ईश्वरतत्त्व के रूप में ज्ञेय हैं।
* पदपरामर्शः *
पूर्वश्लोके विश्वभर्तृत्वाद्युक्तघा य ईश्वरो बोधित: स श्रीरामचन्द्र एवेत्यवधारायितुं
प्रत्यभिज्ञाप्यते, तत्रापि ग्रथमोपस्थितत्वत्रिरवद्यविग्रहशोभा वदति श्रीमानिति।
श्रीशन्दस्य शोभासम्पद्वेषरचनाबुद्धयादौ दर्शनाठाशस्ता श्री: शोभाऽस्त्यस्येति
सर्वातिशायिशोभावैभवं सूच्यते, सर्वसमृद्धिबोधनाच्च परिपूर्णत्वं लक्ष्यते। रामानन्यास्तु
श्रियो लक्ष्म्या ई:, श्री: लक्ष्म्या: स्वामिनी श्रीसीता, तद्वत्नित्यं तद्युक्त इति व्याख्यान्ति।
बहुविधाश्च विबुधा देवा विद्वांसक्च, वैरप्यर्च्यं इति। न विदुषागैकमत्यमथाप्वत्रार्थे
समान्रवृतिदर्शनाद्भगवदर्चनस्य समुदायसिद्धमौचित्यं ध्वन्यते। विबुधा अविधिपूर्वकं यं
कमपि नार्चन्ति, तेषामात्मानमुपासीतेति शरुत्यर्थपर्यालोचनया सुदढनोधसम्पत््यात्मधिया
भगवानेवार्चनीय इति निश्चयो भवतीति भावः। यथा चोक्तं ब्रह्मसूत्रे -- 'आत्मेत्युपगच्छत्ति
ग्राहयन्ति च' (४. १. ३) इति। कुर्वान्ति हि त्वायि रतिं कुशलाः स्व आत्मन्’ इति
भागवतोक्तेः (१०. २९. ३ ३) एतेन यत्र निर्दुष्टविवुधत्वं यत्र तत्र भगवदर्चापरत्वमिति
काचिद्र्याप्तिविविक्ष्यते। न केवलं भगवतो ब्रह्मादिदेवार्चनीयता, अपितु तत्पादकमलयोः
योगिभिरपि समासाद्यतां वदति योगिगम्याह्ग्परपद्ध इति। नित्यं योगो ध्यानमेषान्तँः,
योग: सेवया नित्यसङ्गतिर्भगवतास्त्येषान्तैः, यद्वा फलरूपतया प्रशस्तो योगः साध्योपायो
भक्तियोग एवान्तैस्तदेकविषयचित्तवृत्तिभिः प्रयोजनान्तरैर्शरण्यान्तरत्यागिभिः योगिभिः
प्राप्ये अङ्झ्िपद्मे यस्य स भगवानित्यर्थः। एतेन तत्पादपद्मयोर्भक्तैक भोग्यत्वं सूच्यते,
भक्तियोगस्याव्यवहितोपायत्वात्।
३० श्रीवेष्णवमताब्जभास्कर:
अङ्स्रिद्वयस्य पद्योपमानेन सुराभित्वसुखस्पर्शशुचित्वादि व्यज्जितम्, तेन योगिनां
भक्तानां मधुकरत्वद्योतनेन तदेकजीवनत्व तत्रापि सारतमग्राहित्वं ध्वन्यते। भगवानपि
स्वस्य स्थिरभक्तियोगसुलभत्वमभिदधाति 'तस्याहं सुलभः पार्थ नित्ययुक्तस्य
योगिनः (गी.८. १४) इति। न केवलं लीलाविभूतावपितु भगवद्धाम्न्यषि त्रिकालेऽपि
संसायप्रसक्तिरहितेरपहतपाप्पत्वादिगुणाष्ट कप्राप्तैनित्यूसरिभिरापि मान्यो यथायथं पूजितो
भगवानिति। एतेन मुक्तोपसप्यत्वव्यपदेशादिति सूत्रार्थः स्मारितः। भूलोके देवलोके
श्रीसाकेते च भगवदचावर्णनात्तस्य त्रिलोकपज्यतां दर्शयति। पातञ्जलमी्षरलक्षणमनुसन्धाय
भगवन्तं श्रीरामचन्द्रं विशिनाटि -- क्लेशादिभिरस्पृश्य इति। अत्राऽऽदिना
कर्मविपाकाशयानां ग्रहणम्। जीवानामिव तद्वश्यत्वन्तु दूरमास्ताम्, तैस्तस्य स्पर्शोऽपि
न, यथा सूर्यस्य तमसेति भाव:। सर्वेक्षरो भगवान् रामचन्द्ररशरण्यो वदान्योऽर्च्य
इति सत्समुदितसुयश्ाः। शरणे रक्षणे साधुश्शरण्यः, अनालोचितविशेषाशेषलोक-
शरण्य इति भाव:। एतेन "अभयं सर्वभूतेभ्यो ददामि’ (वारा. ६.१८.३३), न
त्यजामि कदाचन” (व.पु. १६९.१९) इत्यादि व्रतं घोषयन्, समाश्रितोऽरिरपि
रक्षितव्य इति विधिमुच्चारितवान् प्रपत्रजनतासरक्षणैक्ग्रती श्रीराषवः पराम्र॒श्यते।
वदान्य इत्यनेन भगवतः स्मितपूर्वप्रियभाषित्वेन स्वात्मपर्यन्तसर्वस्वदानशीलत्वं सूच्यते।
न भगवान् पात्रलाघवमाद्रियते न च देयगौरवम्, प्रभूतं प्रदायापि न तृप्यतीति
प्रत्युपकारनिरपेक्षमौदार्यमुपस्थापयाति ~ वदान्य इति एतेन विभीषणाय राज्यदानादेः
कथाऽनुसन्धीयते। भगवतो वदान्यशरण्यत्वादिगुणळुन्धहृदयेव्यासवाल्मीकिप्रभ्रतिभिः
सद्विर्गीयमानयशस्कतया याथार्थ्येन पुण्यरलोकता लभ्यते। पुण्यैरपि श्लोक्यते
इति तदर्थात्। अत एव 'विश्रामस्थानमेकं कविवरवचसाम्” (ह. ना. १. १) इति
युज्यते। वेदा इत्यत्र स्वतो निरवद्यतया तत्र साथ्वितिविशेषणं न युज्यते, अतः
साधवः सत्पुरुषा वेदाश्चेति द्वन्द्देग विग्राह्मम्। पुरुषार्थावाप्तये येऽलौकिकमुपायं
वेदयान्ति ते, परकार्यसाधनपरा निर्दुशचरणाश्ष साधवस्तैः सुपूजितवैभवस्य भगवतः
स्प्हणीयगुणाकरत्वं प्रतिपाद्यते। वस्तुतः साधुविशेषणं पूर्वभागं व्यावत्योत्तरभागीयान्
वेदान्तान् बोधयति। एतेनाशोषैः साधुवेदौरिति कथनेन सर्वश्रुतीनां तद्गुणप्रतिपादनपरत्वं
विवक्ष्यते। तेन सर्वासां सविशेषविषयत्वमेव निश्चीयते।
एतेन सगुणश्रुतिभि: सविशेष ईश्वरो निर्गुणश्रुतिभिश्च सकलोपाधिविनिर्मु्तं चिन्मात्रं
शुद्धं ह्म प्रतिपाद्यते, किञ्च सगुणनिर्गुणोभय्रुतीनां विरोधे तेनेवापच्छेदन्यायेन निर्गुणवाक्यानां
गुणापेक्षत्वेन परत्वाद्वलीस्त्वाद्वाधकत्वपिति वदतां मतं प्रत्याख्यातम्; तेषां मिथो विरोधाभावात्।
वस्तुतो यश सद्वि: क्रान्तदर्शिभिर्वल्मीकिम्र्रतिभिरर्च्यशरण्य-वदान्यसूरिमान्येत्यादिशुभगुण-
बोधकवचोभिर्भगवतो रामचन्द्रस्य महिमा गीयते। स एव वेदैर शोषैविकळुषविजरवि्गरत्यसर्वशक्ति
प्रथमप्रश्नोत्तरे तत्त्वनिरूपणम् ३१
गीर्मनोऽ गम्येत्यादिशन्देरभिधीयते। अत्रैष अपहतपाप्मा विजरो विमृत्युः' इति (८. १.५)
छान्दोग्यश्रुत्यर्थ उपस्थाप्यते। सर्वशक्तिरित्यनेन 'परास्य शक्तिर्विविधैव श्रूयते'
(थे. ६.८) इति श्रुत्यर्थं स्मारयति। गीर्मनोभ्यामगम्य इत्यनेन 'यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह" (ते. २. ९. १) इति श्रुत्यर्थः सत्निधाप्यते। तेन वाङ्मनसापरिच्छेद्यत्वं
भगवतो निरूप्यते। इत्थं बैदिकलौकिकशान्दराशिभिर्बहुधा वर्ण्यमानस्य भगवतो
मङ्गलसमाख्योच्यते -- श्रीरामचन्त्र इति। श्रीयोगस्य कादाचित्कत्वव्यावृततये शश्चत्पदम्।
रामचन्द्रेति सञ्ज्ञामहिम्नेव पित्राज्ञापालनाश्रितरक्षणप्रजारञ्जनाद्यनेकधर्मिछगुणगरिम्णा
सर्वलोकप्रसिद्धं तदेकविषयं पृरुषोत्तमत्वं लभ्यते। रामक्चन्र इवेति नामैकदेशेनापि न
केवलं सोमोऽस्माकं ब्राह्मणानां राजा” (यजु. १०.१८) इति श्रुतिसिद्धं
ब्राह्मणरञ्जकत्वमुच्यतेऽपितु लोकाह्णादकत्वाम्रतमयत्वादिप्रयुक्तं सर्वसुखदत्वं द्योत्यते।
तदुक्तं वाल्मीकिनापि ~ इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः?
(वा.रा. १.१८.२७) इति। किं बहुना रामेति रामचन्द्रेति नाम्नोर्नित्यशुभाश्रयत्वमनुमाय
ऋषिभिस्तद्गुणानुसन्धानेन लोकेऽप्येवमनुशिष्यते -- (््क्षरं चतुरक्षरं वा नाम
कृतं कुर्यात्र ताद्धितम्' इति। अत्रास्प्रश्योऽपि विबुधेररच्य:, गीर्मनोभ्यामगम्योऽपि
योगिगम्याद्म्रिपद्म इति विरोधाभासालङ्कारः। एवमेव श्रीमत्तवे वदान्यत्वं, सर्वशक्तित्वे
शरण्यत्वं महिमशालित्वे बुधजनानां भक्तानाञ्च समादरभाजनता, सेव्यता नित्यश्रीकत्वेऽपि
निरवद्यविग्रहतेति स्पुहणीयगुणानां मणिकाञ्चनसंयोग इव दुर्लभसमवायो भगवत्येव
युज्यत इति भाव:॥
भः + ( इति प्रथमप्रशनोत्तरे तत्त्वनिरूपणम् ) # #
।। श्रीसीतारामार्पणमस्तु ।।
( अथ द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् )
सञ्जप्यस्तारकाख्यो मनुवर इह तैर्वह्विबीजं यदादौ
रामो डेप्रत्ययान्तो रसमितशुभदस्वक्षरः स्यान्नमोऽन्तः ।
मन्त्रो रामद्वयाख्यः सकृदितिचरमप्रान्वितो गुहागुह्यो
भूताक्ष्युत्सङ्क्धवर्णः सुकृतिभिरनिशं मोक्षकामैर्निषेव्यः ।।१०॥।
* संवित्करः #
जिसके आदि में बह्विबीज “रा”, मध्य में चतुर्थ्यन्त रामपद 'रामाय” तथा
अन्त में नमः" है -- ऐसा परम गोपनीय षडक्षर तारकमन्त्रराज ( “रा रामाय
नमः 0, शश्रीमद्रामचन््रचरणौ शरणं प्रपद्ये, श्रीमते रामचन्द्राय नमः? --
इस प्रकार पच्चीस अक्षरों वाले द्वयमन्त्र एवं “सकृदेव प्रपन्नाय तवास्मीति च
याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् ब्रतं मम’ इस प्रकार बत्तीस अक्षरों
वाले चरममन्त्र का जप पुण्यशाली मुमुक्षुओं को सर्वदा करना चाहिए।
* पदपरामर्शः *
प्रोक्ततत्वत्रय उत्कृष्टत्वादीधवर इष्टदेवताप्रत्ययेन तत्सम्प्रत्ययार्थं 'स्वाध्यायादिष्टदेवता-
सम्प्रयोगः” (यो. सू २.४४) इति पातञ्जलोक्तया स्वाध्यायस्य कर्तव्यत्वे निश्चिते
'स्वाध्यायो वेदजपयो:” इत्युक्तेः "वेदमेव जपेन्नित्यम्’ (मनु. ४. १४७) इति
स्मृतेश्च वेदजपस्य विधेयता स्थीयते, स्मर्यते च सवाश्रमसाधारण्येन सिद्धिहेतुता
जपस्य, 'जपात्सिद्धिर्वरानने' इत्यनेन, उपब्रहितञ्च भगवता यज्ञान्तरेभ्यः प्राशस्त्यं
जपयज्ञस्य, यज्ञानां जपयज्ञोऽस्मि’ (गी. १०.२५) इति स्वविभूतिवणनि। अतश्च
युज्यते तत््वनिरूपणात्परं जपविषयिणी जिज्ञासेति जपनीयं निश्चिनोति ~ सञ्जप्य
ड्रति। सञ्जप्य इत्यत्र पुरुषप्रवृत्तिपर्यवसायित्वेन पोरदुपधादिति विधिनोधको यत्,
प्रमाणान्तराप्राप्तार्थप्रापकत्वेन 'जप्तव्यो मन्त्रिणा' (११) इति रामतापनीयश्रुतेः।
अतोऽधिकारित्वाय गुरुतो गृहीतमन्त्रराज इति विषयतया सुतरां ज्ञातो भवति। अत्र
पवर्धिन वडक्षरमन्त्रराजस्याकार उत्तरार्धेन च मन्त्रद्वयस्य चरममन्त्रस्य चाकारो निर्दिश्यते।
मनुवरस्तारकाख्यः ... राम इत्यत्र मन्त्रमन्त्रार्थयोस्तादात्म्याध्यवसायाभिप्रायेण
सामानाधिकरण्यम्। अत एवादौ मन्त्रमभिलक्ष्य सञ्जप्यः, मन्त्रार्थमभिप्रेत्यान्ते निषेव्य
इति युज्यते। जापकांस्तृतीयान्तैरुपन्यस्यति -- तैः सुक़्ातिभिर्मोक्षकामैरिति। न
भगवत्क्रपां विना55चार्यप्राप्तिस्त विना चास्याधिगतिनेति, ये सुक्रतिनस्त एव मोक्षकामा
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ३३
भवन्ति। अत: सुकृतिभिरुत्कटमुमुक्षाये मुमुक्षुमिश्ष मोक्षाय जप्यो; मन्त्रस्य मोक्षफल-
पर्यवसायित्वात्। यद्वाउक्षरराशिरूपमन्त्रबुद्धया सज्ञप्यः साक्षाद्बह्वरूपतया च निषेव्य
इत्युभयोरुपादानं “शब्दब्रह्मणि निष्णातः पर ब्रह्माधिगच्छति’ (ब्र. पु. २२४.६२)
इत्युक्ते। संसारसागरसमुत्तारणानुगुणसमाख्यामाह -- वारकाख्य ड्रति। रुद्रस्तारकं
ब्रह्म व्याचष्टे' इति जाबालश्रुतेः (१), 'उपदिशाम्यहं काश्यामन्तकाले नृणां
श्रुतौ”, 'रामेति तारकं मन्त्रं तमेव विद्धि पार्वति’ इत्यानन्दरामायणे शिवोक्तेश्र/
यथा भगवान् साकेतनाथः सर्वेामवताराणामवतारी तथैव तदीयोऽयं मन्त्रः सर्वेषं
मन्त्राणां मूर्ध्नि स्थित इत्यभिप्रायेणाह ~ मनुवर इति। मन्त्रश्रे्छोऽतो मन्त्रराज
इति नाम्ना ग्सिद्ध:। श्रियो जीवेषु कारुण्यात्तदनुरोधाद्धगवत आरभ्य दिव्यमहर्षिक्रमेण
मर्त्यलोकेऽम्ृतविद्योबोपलम्भित इति दुर्लभोपलन्धिमाह ~ इह्लोति। अतोऽत्यादरेण
सञ्जप्य इत्यत्र समा अङ्गन्यासकरन्यासविनियोगध्यानादिविधिपूर्वकत्वं जपस्य विवक्षितम्।
एवमेव निषेव्य इत्यत्रापि नियमेन सेव्य इत्यर्थः। मननालाणनाद्भवतु प्रयोगसमवेतार्थ-
स्मारकत्वाद्वा मन्त्रो भवतु, तस्य यथाविधि गुरुमुखोच्चारणानुच्चारणपृरस्सरलभ्यत्व
एव यथार्थस्वरूपाधिगतिर्मन्यते; बअह्यविद्यारूपत्वात्। अतश्चोरादिभ्यो दुर्लममणिरिव
परमगोप्य इत्यत्र गुह्यगुह्य उक्त मन्त्रं तु गोपायेद्धीमान्” इत्युक्तेः। गोप्यत्वादेवास्य
सर्वत्र यथाश्रुतानुपूर्व्याः ग्रकाशोऽयुक्त इति शास्रप्रथितपद्धत्याद्यन्तावयवसन्धानेन
उपलभ्याकारतयोपलम्भयति ~ यदादौ वह्विबीजं ङेग्रत्ययान्तो रामो नमोऽन्तः
स्यादिति। स्यादिति घुणाक्षरन्यास इव साक्षात्निदेशाभावेऽपि पारोक्ष्येण कथनं देवस्य
सिद्धप्रकृतिं सूचयति -- 'परोक्षप्रिया इव हि देवाः’ (ऐ. १.३.१४) इत्युक्तेः।
मन्राक्षपरिमितियपि तयैव शौल्याभिधत्ते ~ रसामितिशुभदस्वक्षर ड्रति। रसपदं
षट्सङ्क्यापरमुः रसनाग्राह्वरसस्य षदूत्वान्न तु काव्यशास्रीयरसानुसन्धानम्। षट्परिमितानि
शुभदानि स्वक्षराणि यत्र सः, षडक्षर इत्यर्थः। अक्षरेषु सुष्टुता दग्धसंयुक्तविकटश्रुति-
कटुत्वराहित्यादनुनासिकाल्पप्राणतया रसमयत्वेन माधुर्यापारुष्येण सोकुमायदिर्थ-
पोव्कल्येणौदार्याच्च। असंयुक्तो रेफोऽपि तेजोमयतया कान्तिं माधुर्यञ्चाभिव्यनक्ति,
इत्थं नमस्कारगर्भप्रार्थनापरे मन्त्रे तदनुगुणरसाभिव्यञ्जकवर्णसुयोगात्सुतरां सौष्वम्।
मन्त्रघटितवर्णानां शुभदत्वन्त्वेतच्छ्लोकसिद्धम् - "मकारो मङ्गलं दत्ते नकारो
मोददायकः। लक्ष्मी यः पापदाहेन सूते रेफः शुभ सदा रामद्रयाख्यो मन्त्रो
भूताक्ष्युत्सङ्कयावर्णः। भृतपदं पञ्चसाङ्कघापरमक्षिपदञ्च द्वित्वबोधकम्, वामतो गत्या
पञ्चविंशत्यक्षरात्मकं मन्त्रद्वयम्। प्रथम: तच्छरणप्रपदनपरः पञ्चदशवर्णात्मकोऽपरः
श्रीमदादिनमोऽन्तो दशवर्णात्मक:। उभयोः रामपदघाटितत्वेन रामद्वयेत्याख्या ग्रोक्ता।
तृतीयञ्च मन्त्रं निर्दिशति -- सकृदिति। श्रीरामायणे भगवतोक्तं प्रपत्रजनताया
३४ श्रीवेष्णवमताब्जभास्कर:
अभयदानायोदारघोषणारूपम्। सम्रदाये चरममन््रत्वेन प्रसिद्धिं सूचयाते -- चरमप्रान्वित
इति। चरयपदं चरमोपायपरम्, चरमोपायेन भगवता ्रान्वितस्सम्बद्धो बोद्धबोद्धव्यान्वयेन
युक्त:। यद्वा चरमं चरमोपायं प्राति परयति चरमग्रो भगवान्, तेनान्वितस्तदुच्चरितत्वात्
सम्बद्धो मन्त्रक्षरमग्रान्वित इति। मन्त्रनिषेवणकालमवधारयति -- अनिशामिति।
वस्तुत एतत्कालावधारणं सामीप्याद्द्वयस्यैव, न तु मन्त्रराजस्यापि, तस्य त्वपवित्र-
करोऽ शुद्ध: प्रलपन्न जपेत्क्वचिदित्यादिनारभ्य जपकालावस्थानिषेधवर्णनात्। कलो
तु मानसजपस्य सवविस्थायामनुमतत्वम्, "अशुचिर्वा शुचिर्वापि गच्छंस्तिष्ठन्
स्वपन्नपि। मन्त्रैकशरणो विद्वान् मनसैव सदाभ्यसेत्’ इत्यृकतेः।
मन्त्राणां व्यापकानां भगवत इह चाव्यापकानान्तु मध्येऽ-
तिश्रेष्ठो व्यापकः स श्रुतिमुनिसुमतः शिष्टमुख्यैर्गृहीतः ।
नित्यानामाश्रयोऽयं परित उरुशुभो राममन्त्रः प्रधानः
प्राप्योऽथ प्रापकश्च प्रचुरतरगुणज्ञानशक्तथादिकानाम् ।।११।।
* संवित्करः *
व्यापक एवं अव्यापक -- दोनों प्रकार के भगवन्मन्त्रो में श्रीराममन्त्र ही सर्वश्रेष्ठ
है। वेदों एवं मुनियों द्वारा सुसम्मत तथा सदाचारसम्पन्न महापुरुषों द्वारा जिसे धारण
किया गया है। जो नित्यमुक्त श्रीआंजनेयादि भगवत्पार्षदों का आश्रय तथा सर्वमंगलप्रदायक
मन्त्रों में परम प्रधान हे। जो सदगुरुओं से प्राप्य तथा ज्ञान-भक्ति- शक्ति-आदि
भगवद्गुणों के साथ भगवत्स्वरूप को प्राप्त कराने वाला है।
* पदपरामर्शः *
वैष्णवमन्त्रेष्वपि श्रीराममन्त्रस्य सोपपत्तिकं द्राधान्यमाभिधत्ते -- मन्त्राणामिति।
सर्वेषां शब्दानामीश्चरवाचकतया देवतान्तरमन्त्रोऽपि भगवत एवेत्यभिप्रेत्याह --
भगवत इति। शरीरभूतपरिच्छित्राकारदेवादिप्रतिपादकत्वादव्यापकानां सूर्येन्दरव्निय्रभ्नति-
दैवतमन्त्राणाम्, सर्वश्रयभूतविशेष्यनह्मवाचकत्वादपरिच्छन्नाकारसर्वात्मकभगवद्विषयकत्वेन
व्यापकानां वैष्णवमन्त्राणाञ्च मध्येऽतिश्रेष्ठो राममन्त्रः धानः, सर्वाधिष्ठानरूपत्वात्
सर्वमूलतया परिपूर्णतया च सवीर्थावभासकत्वाच्च। गाणपतेषु शैवेषु शाक्तसौरेष्वभीष्टदः,
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिक इति तापनीयश्रुतेः। अस्य वेदमूलकत्वमाह
— श्रुतियुनिसुमतः वेदवेदार्थमन्तजनसमादृत इति। वैदिकत्वेऽ प्यन्यथाप्रतिपन्नताव्यावर्तये
मुनिपदम्। श्रमप्रमादविप्रलिप्सादिदोषशून्यव्यासवाल्मीकिम्र भृतिमुनिसमवायेन
विमर्शूर्वकसर्वाविरोधेन सर्वानवद्यतया संस्तुत इत्यर्थः। न केवलं तादृशामत्र सम्मतिरेवापितु
शिष्ठमूर्धन्यैस्तस्य स्वश्रेयसे सादरं परिग्रहणमपीत्याह -- शिष्टमुख्येगृहीत इति।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ३५
वसि्ठलोमशपराशय््भ्रतिभिः समुपात्तो लोकहिताय समुपदिष्ट:। नित्यानां श्रीहनुमदादीना-
मपि जीवनाश्रयः परमाधार:। परित उरु अधिकं शुभं येन तादृशः सर्वतो मङ्गलाकारः।
आश्रितानामेक्षर्याद्युपलम्भकत्वमपि स्वत एवानुछातूणां ज्ञानशक्तयादिभिः
सहानेकगुणलाभो भवतीति। अपेक्षितज्ञानशक्तचादिलाभोऽनायासेनैव भवति। अत
आचायदियं लब्धुं योग्य: स्वश्रेयस इति सङ्घेपः।
यावद्वेदार्थगर्भ प्रणव जगदुदाधारभूतं सविन्दु
प्रव्यक्तं रामबीजं श्रुतिमुनिगदितोत्कृष्टषड्व्याप्तिभेदम्।
रेफारूढत्रिमूर्ति प्रचुरतरमहाशक्ति विश्वोन्निदानं
शश्चत्संराजते यद्विविधसकलसम्भासमानप्रपञ्जम् ।।१२।।
* संवित्करः #
जिसमें सम्पूर्ण वेदार्थ ही नहीं वरन् वेदसार प्रणव भी समाहित है, जो सकल
संसार का परम आधार है, वही बिन्दुसहित रेफ 'रां' सम्पूर्ण सृष्टि का मुख्य
कारण है। वेदों व मुनिजनों ने जिसकी उत्कृष्टता का निरूपण किया है। नाम-रूप-
लीला-धाम-गुण एवं मन्त्र नामक छह व्याप्तियों से परिपूर्ण तथा उत्पत्ति-स्थिति-
प्रलयरूप अदम्य महाप्रभावों का आश्रय हैं। अर्थात् बीज के रेफ पर ब्रह्म-विष्णु-
महेश नामक त्रिमूर्ति आरूढ हैं। जो जगत्कारण होने के साथ सर्वगोचर नामरूपात्मक
जगत् के रूप में प्रकाशित होकर सर्वदा विराजमान हैं।
* पदपरामर्शः *
'यथैव वटबीजस्थः प्राकृतश्च महाहुम:। तथैव रामबीजस्थं जगदेतच्चराचरम्”
इति (२. २-३) रामतापनीयश्रुत्याशयमेव श्लोकात्मनावतारयति ~ यावद्वेदार्थगर्भम्
इति। रामबीजं शश्वत्सराजत इति मुख्यांशोऽन्यत्सर्व रामबीजविशेषणम्। शा्चत्सराजत
इति नित्यत्वं गम्यते। यावद्वेदार्थमिति यावदवधारण इति समासः, तद्वर्भे यत्कुक्षौ
विद्यात इति याथार्थ्येन बीजधर्म:; सूक्ष्मेऽपि महार्थसात्रिवेशात्। वेदप्राणतया प्रसिद्धः
प्रणव ओङ्कारोऽप्यत्रेव पारिस्फुरतीति मत्वथीयान्तं ग्रणवि, 'ओङ्कारप्रभवा देवा
ओड्कारप्रभवाः स्वराः। ओङ्कारप्रधव सर्व त्रैलोक्यं सचराचरम्” (ध्या.वि.उ. १६)
इत्युक्तसर्वकारणातावत्ाणवोऽपि तदन्तर्गत इति सर्वकारणमपि क्रोडीकृत्य तिष्ठतीति
भाव:। यश्चाक्षरत्रयात्मको वेदत्रयसारः प्रणवः सोऽप्यत्र, "अकारं चाण्युकारं च
मकारं च प्रजापतिः। वेदत्रयान्रिरदुहद्धूरभुवस्युवारितीति च” (मनु. २.७६)
“भूरिति ऋग्वेदादजायत भुव इति यजुरवेदात्युवारिति सामवेदात्। तानि
शुक्राण्यतपन्। तेभ्योऽभितप्तेभ्यस्रयो वर्णा अजायन्त। अकारोकारमकार
३६ श्रीवेष्णवमताब्जभास्कर:
ड्रति। तानेकधा समभरत्तदेतदोम्” (ऐता. २५.७) इति श्रुते। न केवलं वेदार्थो
वेदप्राणो वाउपितु यदाधारेणेव सर्व जगत्तिष्ठति, सत्तास्थितिप्रव॒त्यादीनामखिलस्याधिछान-
भूतम्। नाधारमात्रमपितु मुख्यकारणमपि तदेवेत्याह -- विश्वोत्रिदानमिति। चराचरात्मके
जगति कारणत्वादेव उत्कृष्ट: षट्व्याप्तिभेदा यदीया: श्रुतिभिस्तदर्थानुसन्धातभिर्मुनिभिश्च
ग्यन्ते, नामरूपगुणादीनां व्याप्तिभेदतयोक्तेः। अत्र ब्रह्मविष्णुरुद्ररूपिण्यस्रिमूर्तायो
रेफमारुह्य विलसन्ति, वस्तुतो रामिति बीजे द्वयोरकारयोर्मकारस्य त्रिदेववाचकतया
रेफ़ाश्रितत्वादेवमुक्तिः, यदेकदेशमा्रित्य त्रिदेवस्य स्थितिरिति लभ्यते। तच्च बीजं
सबिन्दु, बिन्दूपलक्षितम्। "मो महाबिन्दुः' इति तात्तिकोक्तेः। 'बिदि अवयवे”
(धा.पा. १.६६) इत्यस्माद् बिन्दति प्रपञ्चयतीति बिन्दुः, तेन सहितो बिन्दुमान्
विष्णुरित्युक्तेः। न केवलमेतावदेव, तेषां सर्वविधं विपुलं च सामर्थ्यमप्येतन्मूलमेवेत्याह
-- अचुरतरमहाशक्ति। यथा बीजे पुष्पफलाद्युत्पादनसामर्थ्य तिरोहितं तिष्ठति
तथैवास्य प्रचुरतरा महती च शक्तिरस्तीति एतेन बीजानुष्छानेन तन्मध्यपतितन्यायेन
ब्रह्मादिमन्त्रानुष्छार्न तघ्युक्तोत्पादनस्थितिविनाशप्रयोजकशक्तघनुष्छानमिच्छा-
ज्ञानक्रियात्मकशक्तिसमाराधनं स्वतो जायते “ब्रह्मादीनां वाचको यं मन्त्रोऽ न्वर्थादि-
सब्ज्ञकः' (रा.ता.उ. १.११) इति श्रुतेः। तदेव रामबीजं स्थावरजङ्गमात्मकजगद्रूपेण
कार्यात्मना प्रविभागेनाभिव्यज्यते, इत्याह -- अ्रव्यक्तमिति। न केवलं प्रव्यक्तं
स्फुटाकारेण प्तीयतेऽपितु सवर्थिप्रकाशकत्वादेव भोकभोग्यभोगरूपेणावस्थितं सकलप्रपञ्चं
भासयति, 'तस्य भासा सर्वमिदं विभाति’ (मु. २.२.११) इति श्रुतेः। इत्थं बीज
एवाविकल' ब्रह्मलक्षणं समन्वितं वाच्यवाचकयोस्तादात्म्यात्।
तत्राद्येन पदेन रेण भगवान् सीतापतिः प्रोच्यते
श्रीरामो जगतां गुणैकनिलयो हेतुश्च संरक्षकः ।
तच्छेषी पदतोऽप्यतो भगवतोऽनर्न्याहशेषत्वकं
व्यावृत्तिस्तु सुरान्तरादिगतसत्तच्छेषताया मुहुः ।।१३।।
* संवित्करः #
'राँ' बीज में 'र, आ (अ,अ), म्' -- ये तीन पद हैं। प्रथम र्-पद
श्रीपदबोध्यश्रीसीता के पति साकेतनाथ उभयविभूतिनायक दिव्यगुणाकर जगत्कारण
त्रिभुवनसंरक्षक सर्वशेषी भगवान् श्रीराम का बोध करवाता है। मध्यवर्ती अ- पद
जीव की अनन्यशेषता तथा अनर्न्याहता का बोध करवाता है। इस प्रकार पुन: वही
अ-कार निषेधविधि से यह भी सूचित करता है कि म्-कारवाच्य जीव भगवान्
राम के अतिरिक्त किसी अन्य देवता-आदि का शेष या भोग्य नहीं है (अर्थात् जीव
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ३७
भगवान् की ही शेषता के अनुरूप होने से उन्हीं का अनन्य सेवक होने योग्य है)
* पदपरामर्शः *
वेदार्धज्ञानस्य प्रशस्त्यानर्थज्ञस्य स्थाणुत्वभारहारित्वादिवचनोर्निन्दनाद्यदधीतमविज्ञातं
निगदेनैव शब्द्ते, इत्याहुक्त्या तन्नैदून्यप्रतिपादनादनर्थकं माधिगीष्महीत्यनेनानर्थप्रसक्त्या
च मन्रार्थज्ञानस्यावश्यविधेयता लभ्यते, योगसूत्रकारेणापि 'तज्जपस्तदर्थभावनम्'
(१.२८) इत्यनेनार्थभावनपूर्वकजपो निरदेशीति गन्तरार्थज्ञानस्यानिवार्यतां हृदि निधाय
मन्राक्षराशेरिव तदर्थस्याप्यधिकारिभ्य एव प्रदेयां गोपनीयताञ्च द्योतयितुं तदर्थस्य
रहस्यनाम्ना व्यवहार:। तदित्थं मन्त्रराजस्य रामिति बीजस्य श्रौतनिर्वचनाधारेण
नित्यत्व-समाकलिताखिलनिगमार्थत्व-क्रोडीक्तप्रणवाक्षरत्व-जगत्कारणत्व-जगद्धारकत्व-
विपुलार्थविस्तारत्व- वन्दितव्यापकत्व--्रिभूत्याश्रयत्व-निहितानन्तशक्तित्व-सकलाथवि-
भासकत्वादिकं प्रतिपाद्य प्रस्फुरन्महासारतया पृष्पितफालितप्रतिमण्डितन्रह्माकारतया
चाचिन्त्यप्रभाववणनिनाखण्डं महावैभवं ग्रकाशितम्। इदानीं तदवयवार्थसमुत्निनीषया
प्रवर्तते -- तत्राद्येनेति। रेफाकारद्वयमकारा अत्रावयवाः, रेफस्य भगवत्परत्वं मकारस्य
जीवपरत्वमकारस्य तु मिथस्सम्बन्धबोधकत्वम्, अनन्याहशेषत्वेनापि शन्दशक्तिस्वाभाव्याद्
व्याकृत्तांश: प्रकाश्यते तदिदमखिलमवयवार्थाविष्कारेणावगमयति। रेण श्रीरामः प्रोच्यते
'रमन्ते योगिनो यस्मिन्” इति श्रुतेः। "राष्र सामर्थ्ये’ (धा. पा. १. १ १८) धातो
राघते प्रभवति समर्थो वर्तत इति डप्रत्ययान्तो रः, तत्करोतीति ण्यन्तात् कर्तरि विवप्,
र्, तस्य सर्वसामर्थ्यलक्षणभगवत्तां वदति, रजति, रमयति रसयतीति च सीतापतित्वम्,
रचयति रोहति रघ्यतीति जगद्धेतुत्वम्, राजते रुण्टतीत्यादि दीप्तिसौशील्यादि-
गुणौश्चि्तापहारित्वम्, रक्षतीति रक्षकत्वम्, राति यथेच्छमादत्त उपयुङ्क इति
यथेष्टविनियोकत्वरूपं शेषित्वञ्चेति व्रतत एव लभ्यम्। रेणेत्यत्र व्यञ्जनमात्रै विवक्षितम्,
प्रत्ययस्थात्कादितिवत्। पश्चद्र्तिवर्णबोध्यमाह अतोऽपि पदतः। 'शब्दादर्थ
प्रतिपद्यामहे” इतिवत्पञ्चम्यर्थेऽपादाने च तसिल् तसिक्ष। सम्पूर्णमपि चराचरं जगद्
भगवत एवानन्याहशेषभूतम्, नान्यस्येति व्यावृतिं दर्शयाति -- 'व्यावृत्तिस्त्वाति”/
मृहुरित्यनेनेतरव्यावर्तकत्वादेवैतछ्भ्ये पुननिषिधवाचकाकारेण द्रढयतीति भावः। 'अ
निषेधे पुमान् विष्णौ” इत्युक्तेः। ब्रह्मादिसुरान्तरानिरूपितशेषत्वस्य व्यावृत्या
भगवन्निरूपितशेषत्वस्य निश्चय; सत्यन्यस्मिज् शेषिणि शेषस्य शेषत्वस्वीकार-
स्यायुक्तत्वात्। यथोक्तम् -- 'रकारार्थो रामः सगुणपरमैश्वर्यजलधिर्मकारार्थो
जीवः सकलविधकैङ्कयीनिपुणः। तयोर्मध्याकारो युगलमथसम्बन्धमनयोरनरन्याहं
्रुते त्रिनिगमस्वरूपोऽयमतुलः' इति। शेषत्वं न केवलः मवाच्यजीवनिष्ठमापितु
चेतनाचेतनोभयवाचिजगत्रि्ठमिति नात्र मकारार्थकथनमिति ध्येयम्। अत्र तकारस्तु
३८ श्रीवेष्णवमताब्जभास्कर:
निसर्गत: सोख्यदायकस्तस्यावृत्या कृत्यनुप्रास: शन्दालङ्कारः। 'आद्येन पदेन रेण",
'पदतोऽ प्यतो थगवतो? इति प्रथमतृतीयपादयो: समुच्छलत्पदशय्या च हृद्या।
पितापुत्रत्वसम्बन्धो जगत्कारणवाचिना ।
रक्ष्यरक्षकभावश्च रेण रक्षकवाचिना ।।१४।।
शेषशेषित्वसम्बन्धश्चतुर्थ्या लुप्तयोच्यते ।
भार्याभर्तृत्वसम्बन्धो ऽप्यनर्न्याहत्ववाचिना ।।१५।।
अकारेणापि विज्ञेयो मध्यस्थेन महामते ।
स्वस्वामिभावसम्बन्धो मकारेणाथ कथ्यते ।।१६।।
* संवित्करः *
रेफ भगवान् श्रीराम की जगत्कारणता के साथ यह भी बोध कराता है कि
जगत्पिता प्रभु के साथ जीव का अनादि पिता-पुत्र का सम्बन्ध है। जगत् के
संरक्षक होने के कारण उनसे जीव का रक्ष्यरक्षकभावरूपी सम्बन्ध भी स्वाभाविक
ही है। बीज में 'र' के आगे वाली चतुर्थी विभक्ति का छान्दस् लुक् (लोप) हो गया
हैं; किन्तु उस लुप्त चतुर्थी विभक्ति के द्वारा भगवान् श्रीराम तथा जीव का
शेषशेषिभावरूपी सम्बन्ध ज्ञापित होता है अर्थात् यह जीव भगवान् का शेष
(स्वेच्छा से विनियोगयोग्य) है और भगवान् इसके शेषी (स्वेच्छानुरूप विनियोग
करने वाले हैं)। संक्षेपतः जीव भगवान् के लिये ही है, इसके अतिरिक्त उसका
दूसरा प्रयोजन नहीं। रेफ तथा मकार के मध्य में विद्यमान अकार इसी अनर्न्याहत्व
का वाचक है, जिसके द्वारा जीवात्मा एवं परमात्मा के बीच भार्या-भर्तृ-(पतिपत्नी)-
सम्बन्ध ज्ञात होता है अर्थात् सम्पूर्ण जीवसमूह के संरक्षण की योग्यता होने से
जीवराशि भार्या तथा पुरुषोत्तम प्रभु श्रीराम सबके एकमात्र भर्त्ता है; ऐसा बोधित
होता है। *रां' बीज के अन्तिम वर्ण 'म्' से जीवों का प्रभु के साथ स्वस्वामिभाव-
सम्बन्ध प्रतिपादित होता है (अर्थात् जीव प्रभु की स्वाधीन वस्तु है और प्रभु इसके
निरुपाधिक स्वामी)।
* पदपरामर्शः *
जगद्रचयति, जगद्रक्षतीति जगदुपपदाभ्यां निर्दि्धातुभ्यां डप्रत्ययेन तन्निबन्धने-
नाभस्यापि टेलोपेन ण्यन्तात्किविपि जगत्कारणवाची जग्रक्षकवाची रेफो निष्पद्यते। यो
जनयति स एव जनको भवति, स एव लोके पितेत्युच्यते, यश्च पिता भवति स एव
रक्षति, पातीति तद्ग्युत्पत्तः। किन्निरूपितं जनकत्वं रक्षकत्वं वेत्याकाङ्कायां जन्यस्य
रक्ष्यस्य च नियमेनोपस्थितेर्जन्यजनकभावो रक्ष्यरक्षकभावश्च सम्बन्धो मिथो लभ्यते,
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ३९
सम्बन्धस्य हि सम्बन्धिभ्यां भिन्नत्वे सति द्विष्छत्वे सत्याश्रयतया विशिष्टबुद्धिनियामकत्वात्।
एतेन रेफेणोक्तं सम्बन्धद्वयं लब्धं भवतीति भावः। भगवद्वाचकात् शुद्धव्यञ्जनरूपाद्रेफात्
तादर्थ्ये या चतुर्थी, तस्याः 'सुपां सुळुक्मूर्वसवर्णाच्छेयाडाङ्यायाजालः ' (७. १.३९)
इति पाणिनीयसूत्रेण च्छान्दसो लोप:, तया लुप्तया चतुर्थ्या द्योत्यं सम्बन्धरूपमर्थमाह
-- शेषशेषित्वसम्बन्ध इति। यथेष्टविनियोगहित्वं शेषत्वम्, यथेष्टविनियोक्तत्वं
शेषित्वमिति। तादृशशेषत्वे 'शेषः परार्थत्वात्’ (३. १. २) इति मीयांसासूत्रे यथा
परोद्देश्यप्रवृत्तपुरुषकतिव्याप्यमेव प्रयाजादीनां यागशेषं, तेन स्वोद्देश्याभावेन
स्वार्थाभावस्सिद्धस्तथैव भगवतातिशायाधानातिरिक्तस्य स्वार्थस्यात्राभावो विवक्ष्यते, न
तेनाचेतनतुल्यतया चेतनत्वमेव व्यर्थमिति। यथोदारस्य परः दुखापनोदनार्थमेव पअव्रततिस्तदा
तस्मिन्न शेषित्वमव्याप्तं यतस्तस्य परार्थस्यात्मार्थत्वमेव। यथा एकस्मिन् स्वार्थपरार्थप्वृत्तयोर्न
मिथो विरोधः, दासादेवेतनग्रहणादिजन्यस्वसन्तोषार्थ प्रवृत्तावप्यत्यन्तसेवकस्य
स्वसन्तोषोऽपि स्वामिसन्तोष एवान्तर्भवतीति स्वार्थ प्रवर्तमानोऽपि दासादिः परार्थमेव
प्रवर्तते। चेतनस्य जीवस्य स्वार्धप्रवृत्तावषि तदंशस्यानुषङ्गिकतया परमात्मप्रयोजनस्यैव
प्राधान्यमिति तच्छेषतोपपद्यते। वस्तुतस्तु जीवस्याविवेकदशायां स्वानर्थाधर्थुप्रृतिदशनिन
तस्याश्च भगवदर्थत्वे पर्यवसानायोगतः शेषत्वाप्रतीतावपि प्रबोधानन्तरकाले
भगवन्मुखोछलासार्थमेव तेन पवृते: शेषत्वोपपत्तिर्भवतीति, नायं सम्बन्धः कादाचित्को न
वा यत्नेनापि नाशयितुं शक्य इत्यनौपाधिकतया यावत्स्वरूपभावीति फलति। यदा
स्वात्मनो निरुपाधिकभगवच्छेषत्वं निश्चीयते तदैव स्वभरसमर्पणपूर्वकं तच्चारितार्थ्यं
भवति नान्यथा। प्रत्ययवाचकत्वपक्षमनुसन्धायाह -- उच्यत इति। अन्यथा द्योत्यत
इत्येव वदेत्। रेफमकारयोर्मध्यस्थेनानन्याहत्ववाचिनाकारेण भार्याभर्तृत्वसम्बन्धो विज्ञेय
इत्याशय:। अवतीत्यः, अवतेः 'विट्वलोपो दीर्घश्च वा’ विट: सर्वलोपे धातोर्वलोपे
च कृते 'अ” इति सिद्धयति, दीर्घविकल्पाद् 'आ' इत्यपि। 'रक्षितव्यास्त्वया
राजन् गर्भभूतास्तपोधनाः' इति (३. १. २०) रामायणोक्तया जीवा व्यापारनिरपेक्ष-
मप्यवश्यं भरणीया भार्या उच्यन्त इति। बिभर्तीति भरणाद्भगवान् भर्तोच्यते "पतिं
पतीनाम्” (थे. ६. ७) इति श्रुतेः। यथा भार्याभर्तृसम्बन्धः शास्रक्तो यावद्वेहं तथैवायं
यावत्स्वरूपं तिष्ठति। यथा भार्यायाः परपुरुषयोगो महते पापाय, तथैव जीवस्यापि
भगवद्ग्यतिरिक्ते भर्दृत्वबोधो स्वरूपश्रान्त्यैव जायमानोऽ युक्त एवेत्यनन्यार्हता गम्यते।
‘आदिरन्त्येन सहेता’ (पा.सू. १.१.७१) इत्यस्य वृत्तयक्तार्थवदत्राद्यन्तावयवाभि-
प्रायेणाकारस्य मध्यस्थत्वमुच्यतेऽ न्यथा चतुर्वणात्मकतया समसङ्कयाके बीजेऽ कारस्य
मध्यस्थत्वं नोपपद्योत। केचन रात्युपादत्ते ददातीति क द्रत्ययपक्षेऽकारान्तरेफाकारमकाररूप-
्रिवर्णात्मकेऽकारस्य मध्यस्थत्वमक्लिष्टं साधयन्ति।
४० श्रीवेष्णवमताब्जभास्कर:
प्रकृतश्लोकेऽ प्येकस्यैवाकारस्यार्थकथनाल्यवयवकत्वं गम्यते। यद्यापि तथा सति
श्रुत्युक्त रेफारूढ्रिमूर्तित्वं न सङ्गच्छेत, तथापि सञ्जातदीर्षाभिप्रायेण तन्मध्यस्थत्वं
तस्योपयाद्यम्, तथात्वेऽकारेणापीत्यस्य स्थाने आकारेणेत्येवावक्ष्यत्। महामत इति
गृढाथावबोधनसामर्थ्यमनुचिन्त्योक्तम्। मन्यते मनुते वेतिडे णिचि क्विपि व्युत्पन्नेन
जीववाचिना मकारेणात्र स्वस्वामिभावसम्बन्धः कथ्यते, सर्वस्वामिन ईश्वरस्य जीवेन सह
तादृशसम्बन्धस्य निसर्गसिद्धत्वात्। राजपुरुष इत्यादौ स्वस्वामिभावसम्बन्धः
क्रियाकारकभावपूर्वक एव, यतो राजा पुरुषाय द्रव्यं ददाति, ततोऽसौ पुरुषस्य स्वामी
भवति, अश्रुतापि दानादिक्रियाऽनुमीयते, किन्तु प्रह्लादस्त्वत्र सोपाधिकत्वं निरस्यति
-- 'आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः। न स्वामी भृत्यतः
स्वाम्यमिच्छन् यो राति चाशिषः।। अहन्त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।
नान्यथेहावयोरर्थो राजसेवकयोरिव” (भा. पु. ७. १०.५-६) इति। जीवो भगवतस्स्वमिति
भगवत्स्वामिकः। भगवतः स्वामित्वमवगमयनत्नन्यथानुपपत्त्या जीवे स्वत्वमवगमयति।
इत्थं सर्वत्रान्यानपेक्षया स्वतन्त्रस्वामित्वं भगवतः, तस्य निरपेक्षस्वत्वं जीव इति
तात्पर्यमवसीयते। इत्थं शलोकोक्ताधारेण रामिति बीजेन पञ्च सम्बन्धाः प्रोक्ता:।
आधाराधेयभावोऽपि ज्ञेयो रामपदेन तु ।
सेव्यसेवकभावस्तु चतुर्थ्या विनिगद्यते ।।१७।।
* संवित्करः #
तारक मन्त्रराज का मध्यम पद 'रामाय' है, उसके प्रकृतिभूत राम-पद के द्वारा
सकल विश्व के आधारस्वरूप श्रीराम का जीवों के साथ आधाराधेयभाव-सम्बन्ध
प्रोक्त होता है (अर्थात् चराचर विश्व आधेय एवं विश्वेश्वर प्रभु श्रीराम सबके आधार
है -- ऐसा बोधित होता है)। प्रकृतिबोध्य-सम्बन्ध समझाकर डे-प्रत्यय (आय)
के द्वारा नित्य सेव्यसेवकभाव-सम्बन्ध सूचित किया गया है (अर्थात् जीवराशि
सेवक एवं प्रभु श्रीराम नित्यसेव्य है) इस प्रकार का उभयनिष्ठ-सम्बन्ध चतुर्थी
द्वारा प्रतिपादित होता है।
* पदपरामर्शः *
मन्त्रराजस्य बीजाक्षरगतवर्णबोध्यार्थं प्रकाश्य मध्यवर्तिनश्चतु्थ्यन्तस्य रामायेति
पदस्य क़्त्यर्थ्रत्ययाथविधारणायाह -- आधाराधेयभावोऽ पीति। चतुर्थ्यन्तरामायेत्यत्र
प्रकृतिभूतेन रामेति पदेनाधाराधेयभावस्तूत्तरवर्तिन्याः श्रूयमाणायाक्षतुर्थीविभक्तेश्च
सेव्यसेवकभावो विनिगद्यते। आधाराधेयभावस्य प्रकृत्यर्थत्वे एष सेतुर्विधरणः,
'यद्रयन्त्याभिसंविशयान्ति’ (तै ३. १. १) इत्यादिश्रुतयः, यस्मिंश्च प्रलयं यान्ति’
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ४१
(महा. १३. २५४. १ १), 'यस्मित्रिदं यतश्वेदम्' (भा. पु. 2. ३. 3) इति स्म्रतिकचांसि,
रमन्ते योगिनो यस्मिन्नित्यधिकरणसाधनविवृतिश्च प्रमाणम्। एतेन भगवतः सर्वाधारता
तङ्ग्यतिरिक्तस्य च चराचरस्याधेयता प्रतिषाद्यते। यद्यापि भगवान् सर्वाधारः,
तथाप्याधारस्याधेयतां प्रति साकाङ्कतया जगनत्निष्ठाधेयतानिरूपिताधारता भगवन्निष्ठेति
विवक्षिता चिदचितोर्नियताधेयत्वं स्वसत्ताव्यापकाधेयत्वमित्यर्थः। तेनाधेयत्वे सति
चोतनत्वामिति जीवलक्षणं फलति आधेयत्वादेलक्षणत्वकथनेन जीवस्य
्रह्मशरीरत्वसिद्धिर्भवति। आधेयत्वसम्बन्धनियमात्कदाचिदाधेयत्वादिमतो घट पुत्रादे-
भूतलपित्रादिकं प्रति शरीरत्वव्युदासः। यद्यत्प्राति नियताधेयत्वादिमद्द्रव्यं,
तत्तत््रतिशरीरमिति भावः। रामपदेन भगवत आधारत्वं जीवस्य चाधेयत्वमुपपाद्य
रामपदोत्तरचतुर्थ्या जीवस्य विधेयत्वं सेवकत्वं कथ्यते व्यत्ययो बहुलमिति षष्ठयर्थे
चतुर्थीस्वीकारात्सेव्यसेवकभावार्थोपपादनं सुकरम्। श्रीरामः सेव्यस्तद्ग्यतिरिक्तः सर्वोऽपि
जीवनिकरः सेवकः। न हि तथाविधे सेव्ये सति सेव्यान्तरं सम्भवतीति भावः।
स्वस्वामिभावसम्बन्धे स्वत्वं चेतनाचेतनसाधारणं किन्तु सेव्यसेवकभावस्तु चेतनैकनिष्ठ
इति विशेषः, "जुष्टस्ततस्तेनामृतत्वमेति’ (थे. १.६) इति श्रुतेः।
नमःपदेनाखण्डेन त्वात्मात्मीयत्वमुच्यते ।
षष्ठ्यन्तेन मकारेण भोग्यभोक्तृत्वमप्युत ।।१८।।
* संवित्करः #
मन्त्रराज का अन्तिम अवयव 'नमः', सखण्ड एवं अखण्ड भेद से, दो प्रकार
का विवेचित हुआ है। अखण्ड “नमः” पद से जीवात्मा एवं परमात्मा के मध्य
आत्मात्मीय-सम्बन्ध बताया जाता है (अर्थात् श्रीराम सकल जीवों की आत्मा हैं
तथा जीवसमूह उनका आत्मीय)। सखण्ड पक्ष में 'नमः' षष्ठ्यन्त मकार से
भोक्तभोग्यभाव-सम्बन्ध प्रतिपादित होता है (अर्थात् चेतनाचेतनरूप विश्व प्रभु का
भोग्य है तथा परमप्रभु श्रीराम इसके भोक्ता)।
* पदपरामर्शः ४
नम इति पदमखण्ड सखण्डमिति द्विविधम्, तत्र अखण्डेन नमः पदेन आत्मात्मीयत्वं
निरूप्यते। न म: इत्याकारेण सखण्डस्य च पुनश्चरमेन षप्उ्यन्तेन मकारेण भोग्यभोक्त्वम्
उच्यते/ अस्यायमाशयः -- नम इति निपातः। नमनं नम इत्यत्र *णम् ग्रह्नीभावे'
इत्यतः 'सर्वधातुभ्योऽ सुन्? (उ.सू. ६३०) इत्यसुन्। नमनञ्च महत्तमे परस्मिन्
युज्यते, स॒ च नमनीय आत्मैवेत्यात्मात्मीयभावः फलति। (आत्मा महान्यरः'
(क. १.३.१०), 'अधोक्षजो मे नमसा विधीयते” इति (४ ३. २३) भागवतोक्ते्च।
४२ श्रीवेष्णवमताब्जभास्कर:
सखण्डपक्षे मिभीयते भूङ्ग इति डे मो भगवान्, 'अत्ता चराचरग्रहणात' (त्र सू १.२.९),
'भोक्ता च प्रभुरेव च' (गी. ९. २४) इत्युक्ते। यद्वा गानयत्याराधयतीति मः
रसमयत्वेनास्वाद्यतया भोग्यत्वं भगवतः, आस्वादयितृत्वेन भोक्तृत्वं जीवस्येति भावः
'तयोरन्यः पिप्यलं स्वाद्वत्ति’ (मु. ३. १. १) इति श्रुतेः। भोक्तत्वं भोगाश्रयत्वं,
भोगक्चानुकूलतया प्रतिकूलतया वा कस्यचिदनुभव:। इत्थमात्मेक्षर आत्मीयं शेषभूतं
तदतिरिक्तं सर्व तनत्नियम्यत्वात्। जीवस्य स्वाधीनभोक्तृत्वं आन्तिसिद्धमिति तस्य
स्वतन्त्रतया पापपुण्यफलभोक्त्वं नास्तीति। स्वातनत्यं नाम स्वेच्छानुविधाविप्रब्रतिशीलत्वम्,
वायूदकप्रेरिततृणादिवत्परेच्छया .्रवर्तमानत्वं पारतन्त्यम्। जीवो यथाकामं दृष्टार्थ कृष्यादिषु
प्रवृत्तिमदृषटार्थ यागादिषु च प्रवति करोतीति तस्य स्वातन्त्यमेव। सर्वप्रकारको भगवान्
स्वप्रशासितृत्वसिद्धये चेतनाचेतनात्मके जगति भोग्यत्वमचेतनेषु भोकत्वं चेतनेषु
तदनुगुणज्ञानशक्त्यादिकञ्च सङ्कल्प्य विहरति तदनु जीवश्च भगवत््रदज्ञानतया
हिताहितमवधार्यं भगवदाहितशक्तया यथाप्रतिपत्ति तत्र तत्र प्रवर्तते/ इत्थं जीवस्य
भोक्त्वमीक्षरसङ्कल्पायत्तमेव। ईश्षराधीनप्रवृत्तित्वे यथा निगाडितपुरुषे धावनादेशवत्
स्वातन्तर्यहानेस्तं प्रति शास्रीयविधिनिषेधसाफल्यं कथं भवेत्त्रेदमुच्यते -- यथा
गमनादो शरीरेन््रियादुष्टामाद्यनेकपदार्थसापेक्षत्वेऽपि न जीवस्य विधेयत्वे विरोधस्तथैव
'दैवञ्चैवात्र पञ्चमम्’ (गी. १८.१४) इत्युक्तेरीश्वरसापेक्षत्वेऽपि न विरोधः।
स्वतन्त्रस्यापि भगवतो रामस्य जीवृप्रव॒तिं ति अत्यक्षप्रतिबन्धकाभावान्न निगडनतुल्यता।
लोकेऽनन्याधीनस्वव्यापारवत््वं कर्तत्वं प्रसिद्धमिति कथमीश्वराधीनजीवस्य पुण्यपापकर्ठ्ृत्वं
तत्फलभोक्तृत्वं चेति? तत्रोच्यते क्रियाजन्यफलशालितया कर्त्राभिप्रेतत्वमेव
कर्मत्वं यथा, तैव कर्तृत्वं समभिव्याहृतक्रियाकारकान्तरव्यापारानधीनतत्तक्रिया-
नुकूलव्यापारवत्वमिति निर्णीतम्। सेवक: काष्ठैः स्थाल्यामोदनं पचतीत्यत्र सेवकस्य
स्वामीच्छाधीनप्रवृत्तिमतोऽपि समभिव्याहतपाकक्रियाकारकान्तरकाष्छादिव्यापाराधीन-
प्रवृत्तिमत्वाभावेऽपि पाकक्रियाकर्तृत्वमुच्यते। न हि सेवकस्य पाके स्थितं स्वातन्त्र्यं
स्वामिपारतन्तर्यविरोधि। न हि स्वामी पाकक्रियाकारकान्तरम्, येन तत्पारतन्त्यं सेवकस्य
पाकक्रियास्वातन्त्यं विहन्यात्। भगवता जीवः कर्म करोतीति ग्रयोगदर्शनाद्धगवतः
करणतया तदधीनस्य जीवस्य कथं तत्क्रियाकर्त॒त्वमिति तत्रोच्यते -- "साधकतमं
करणम्” (१.४.४२) इति पाणिनीयसूत्रे तमपा प्रकर्षत्वलाभाद्भगवतः साधारण-
कारणतया जीवकर्तूकक्रियायां न करणत्वम्। उक्तप्रयोगस्तु हेतुतृतीयया साध्यः,
हेतुतृतीयाया अकारकविभक्तितया न तदर्थ: कारकमिति भावः।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ४३
ज्ञानानन्दस्वरूपोऽवगतिसुखगुणे मेन वेद्योऽणुमानो
देहादेरप्यपूर्वो विविदितविविधस्तत्तप्रियस्तत्सहायः ।
नित्यो जीवस्तृतीयेन तु खलु पदतः प्रोच्यते स्वप्रकाशो
जिज्ञासूनां सदेत्थं शुभनतिसुमते शास्त्रवित्सञ्जनानाम् ।।१९।।
* संवित्करः #
हे विनयविवेकसम्पन्न सुरसुरानन्द! मन्त्रराज के तृतीयपद “नमः” के मकार का
अर्थ जीव है; जो ज्ञानस्वरूप भी है तथा ज्ञानगुणवान् भी, आनन्दस्वरूप भी है
तथा आनन्दगुणवान् भी। अत्यन्त सूक्ष्म होने से अणु परिमाण है, वह देह-
इन्द्रिय-मन-बुद्धि-आदि से भिन्न एवं विलक्षण तथा बढ्ध-मुक्त-नित्यादि अनेक
भेदों वाला है। वह नित्य एवं स्वयंप्रकाशरूप भगवत्य है, भगवदात्मक है। इस
प्रकार शास्त्रज्ञ मनीषी मकारवाच्य जीव का स्वरूप बताते हैं।
* पदपरामर्शः *
मकारवाच्यस्य जीवस्य नवभिर्विशेषणैः सिद्धान्तसम्मतं स्वरूपमाविष्करोति --
ज्ञानानन्दस्वरूप इति। हे शुभनतिसुमते! तृतीयेन मेन पदतो जीवः प्रोच्यते, मो जीवो
जिज्ञासूनां शा्रवित्सज्जनानां सदेत्यं पूर्वोक्तविशेषणनोध्याकारो वेद्य इति वाक्ययोजना।
शुभे नतिर्यस्य, सुषु शोभना मतिर्यस्येति शुभनतिश्चासौ सुमतिस्तत्सम्बुद्धौ शुभनतिसुमते।
यद्वा शुभनत्या सुमतिर्यस्य तत्सम्बुद्धौ शुभनतिसुमते। पूर्वेण विनयविवेकसम्पठाकाश्यते,
नत्याभिमानशून्यता सुमत्या च जाड्यशून्यता। द्वितीयेन च भगवद्धागवतवन्दनपरायणस्य
स्वयं सढुद्धिर्भवतीत्यर्थतः सिद्ध्या सदाचारस्य ज्ञानपर्यवसावित्वं बोध्यते। यथा चाह
श्रुतिः -- 'क्रियावानेष ब्रह्मविदां वारिष्ठः' (मु. 3. १. ४) इति। तेनाचारे परिणतं
ज्ञानं बिभ्राणस्य श्रीसुरसुरानन्दाचार्यस्य सच्छिष्यलक्षणं द्योतयित्वोपदेशपात्रतोन्रीयते।
तृतीयेन मेनपदत इत्यत्र पदपदात्ृतीयार्थे सार्वविभक्तिकस्तसिः, पदेनेत्यर्थः। मेन जीवः
प्रोच्यते, “मकारार्थो जीवः सकलविध- कैङ्कर्यनिपुण: ' इत्युक्तेगनुत इति व्युत्प्तेश्च।
स च जीवः क्षेत्रज्ञो ज्ञानानन्दस्वरूप:, ज्ञानमानन्दश्च स्वरूपं यस्य तथाभूतः; न केवलं
ज्ञानानन्दस्वरूपोऽपितु ज्ञानानन्दगृणकोऽ5पीति। अवगर्तिर्ञानं सुखमानन्दः। अवगतिसुखे
गुणौ यस्य, तादृशः। उभयोरुपादानाद्धर्यधार्मिभावः सिद्धः। स्वरूपभूतं ज्ञानं, धर्मभूतं
ज्ञानञ्चेति विवक्ष्यते। अहं जानामीत्यबाधितप्रत्यक्षेणात्मनोऽहमर्थत्वम्, "अत्रायं पुरुषः
स्वयञ्योतिः ... न विज्ञातुर्विलोपेर्विपारिलोपो विद्यते’ (बृ. ४.३. ९, 3०) इति
रत्यात्मनो ज्ञानस्वरूपतापि। ज्ञानस्य द्रव्यत्वाङ्गीकारेण ज्ञानस्वरूपस्याप्यात्मनो ज्ञानगुणकत्वे
न गुणे गुणानङ्गीकारसिद्धान्तविरोधः, सुषुप्तावप्यत्मानुभवो विद्यत एव; एतावन्तं कालं
हि श्रीवेष्णवमताब्जभास्कर:
सुखमहमस्वाप्समिति सुप्तोत्थितस्य परामरशात्। सुषुप्तिकाले तद्व्यवहाराभावस्तु तदानीं
धर्मभूतज्ञाविकासाभवादप्दुपपद्यते। प्रत्यत्तवैकत्वानुकूलत्वविशिषतयात्मन: स्वरूपेण सर्वदा
भानं भवति, नित्यत्वाणुत्वादिधर्मविशिष्टतयात्मनः सुषुप्तिभित्रकाले धर्मभूतज्ञानेन
भानमित्याशायः। अत्र केचन यद्यात्मा स्वरूपातिरिक्तेन धर्मभूतज्ञानेनापि भासेत,
तदा तस्यापि घटादिवज्जडत्वापत्या स्वयम्प्रकाशता न स्यातु; अनन्याधीनप्रकाशत्वस्यैव
स्ववग्रकाशत्वरूपादिति। अत्रोच्यते -- नित्यत्वाणुत्वादिना केनचिदाकारेण धर्मभूतज्ञानेन
वेद्यत्वेपि.प्रत्यक्तवेकत्वादिनाकारान्तरेण तत्निरपेक्ष््रकाशत्वमप्यस्तीत्याकारभेदेनोभयोपपादनं
कर्तव्यमिति नानयोरन्योन्यप्रतिक्षेपकत्वम्। घटमहं जानामीति त्रिपृटीसाक्षात्कारे
माठृमेययोरिव मितेरपि भानात्तस्या आपि विषयप्रकाशनवेलायां स्वाश्रयपुरुषाय
स्वयम्प्रकाशत्वमुपेयम्, सा च वेला वर्तमानावस्थैव ततश्च तस्या एव मितेः कालान्तरे
ज्ञानान्तरवेद्यत्वमप्यविरुद्धम्। धर्मज्ञानस्य विषयप्रकाशनकाल एव स्वयम्प्रकाशतोक्तचा,
बद्धस्य च कदाचिदेव विषयप्रकाशो भवतीति तदीयधर्मभूतज्ञानस्य सङ्कोचविकासः
सिद्धयति; धर्मिणस्तु सदा स्वयम्प्रकाशत्वान्न सङ्कोचादिरिति भेद:। एतेन निर्गुणत्वान्न
चिद्धर्मोति, ज्ञानं नैवात्मनो धर्मो न गुणो वा कदाचनेत्यादि वदन्तः साङ्घ्यादयः
प्रत्याख्याता:। किञ्च विज्ञानघन एवेत्यत्रैवकारेण ज्ञानगुणकत्वव्युदास इति व्याचक्षाणा
निराकृता:। वस्तुतस्तत्रैवकारो षनशब्दोक्तनेरन्तर्यस्य जडांशमिश्रत्वं व्यावर्तयति।
यत्तु सुखादेरात्मधर्मत्वेनान्यत्रापि सुखाद्युत्पत्तिस्थले तत्सत्वमावश्यकामिति तस्य
सर्वगतत्वेन विभृत्वमवर्जनीयम्, "नित्यः सर्वगतः स्थाणुः ' (२. २४) इति गीतोक्तेरिति
वदतां मतं प्रतिक्षिपत्राह -- अणुमान इति। अणुर्मानं परिमाणं यस्य सोऽणुमानो जीव
इत्यर्थः। जीवस्याणुत्वं साक्षादेव श्रूयते 'एषोऽणुरात्मा चेतसा वेदितव्यः
(मु ३.१.९) इति। श्रृतिरियमीश्वराणुत्ववत्सौकषम्यादिपरतया न नेया, 'बालाग्रशतभागस्य'
(क्षे ५. ९) इत्यादिनाणुसदृशं कित्रिद्वस्तृदाहत्याणुत्व-प्रतिणदनात्तत्रेव तात्पर्यस्य दृढीकरणाय
यद्यापि जीवात्मनो न सर्वशरीरव्याप्तिस्तथापि तद्धर्मभूतज्ञानस्य सर्वशरीरव्याप्त्या
युगपदनेकविषयानुभव: सिद्धयति। उत्करान्त्यादिश्रवणादप्ययमणुस्तद्यथा उत्क्रान्ति-
स्तावच्छुयते -- तिन अ्रद्योतेनैष आत्मा निष्क्रामापि चक्षुषो वा मूर्धनो वा
अन्येभ्यो वा शरीरदेशेभ्यः? (बृ. ४.४.२), गतिरपि श्रूयते -- “ये चैके
चास्माल्लोकाद्रयन्ति चत्रमसमेव ते सर्वे गच्छन्ति’ (को. उ. ३.३), आगतिरापि
श्रूयते -- 'तस्मा्लोकात्पुनरेत्यास्मै लोकाय कर्मणः? (बृ. ४. ४. ६) इति। विभुत्वे
ह्येत उत्लान्त्यादयो नोपपद्योरन्। "नित्यः सर्वगतः स्थाणुः? इत्यादो प्रकरणस्य
जीवविधुत्वे तात्पर्यानिश्चयादेकैकस्य जीवस्य सर्व्ानुप्रवेशयोग्यत्वादिकमेव तत्र विवक्षितम्।
अटन्नपि मही कृत्स्नामिति स्मृत्याउहं गच्छामीति स्वानुभवञ्चानुसत्यञ्च तथोपपत्तेभोक्न-
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ४५
विशेषविषयकप्रसादादिरूपादृष्ठवत् सर्वगतेश्वरसंयोगस्य तत्र तत्राक्षततया भोक्तुस्तत्र-
तत्रासनत्निधानेऽपि भोग्यपदार्थोत्पत्तेन हानिरिति भावः। यथा तत्र तत्र शरीर-
वत्तद्त्युप्तात्मगमनस्यापि सिद्धौ तत एव शरीरस्येव तस्य विभुत्वमनपेक्षितम्।
प्रदीपवदावेशमाह सूत्रमपि ~ तदर्थस्तु एकदेशे स्थितस्याप्यात्मनः सर्वशरीरेष्वपि
चँतन्यद्वारानुप्रवेशो नानुपपन्नः ग्रदीपवदेकदेशस्थस्यापि प्रदीपस्य यथा द्रभया देशान्तरेषु
व्याप्तिस्तद्वत्। एतेनात्मविभुत्ववादो निरस्तः। अयञ्जीवो देहेन्रियमन:प्राणादिभ्यो विलक्षण
इत्याह -- देहादेरप्यपूर्व डराति। इदं शरीरमिति शरीरविषयिणी मति: पराग्वृतिः, अहं
जानामीति प्रत्यग््तिरहमिति मतिः सा चेदङ्कारगोचराद्धित्रमेव स्वविषयमुपस्थापयति।
किञ्च चैतन्यमपि देहे नोपपद्यते कार्यदरव्यगतविशेषगुणानां कारणगुणपूर्वकत्वात्। अनुमानेनापि
देहस्यानात्मत्वं सिद्धयति। तथा चोक्तम् -- 'उत्पत्तिमत्वात्पराथ्यत्सित्निवेशाविशेषतः।
रूपादिमत्वाद्धतत्वाददेहो नात्मा घटादिवत्। सच्छिद्रत्वाददेहित्वाददेहत्वान्म्ृतदेहवत्'
इति।
चक्षुषा पश्यामीत्यादिप्रतीतिविरोधाद्दरटदिश्षक्कुरादिभ्यो भिन्न एवप्रतीयते। किज्ञेद्धियाणां
प्रत्येकं चेतनत्वं सम्भूय वा, अत्येकचेतनत्वे इन्द्रियान्तरदृएस्येद्धियान्तरेण,प्रतिसन्धाना-
भावप्रसङ्घ:, तच्च भवति -- 'यमहमदराक्षं तमहं स्परशामि' इति। न चेद्धियसमूहश्षेतनो
न हि पञ्चभिरिन्द्रियै: सम्भूयौकं वस्त्वनुभूयतेऽनुसन्धीयते वा। किञ्चेन्द्रियविगमे मरणप्रसङ्ग
इति नेद्भियाणि जीवः। मनसोऽ प्यजीवत्वम्ः मनसो ज्ञानकरणत्वप्रतीतेः। सुखानि संवेदनानि
करणवन्ति क्रियात्वाद्रूपादिज्ञानवदित्यनुमानमपि प्रमाणम्, तदेवं ज्ञानकरणतयाकगतस्य
मनसः कथमिव ज्ञाने कर्तत्वम्। प्राणोऽपि न जीवो मम प्राणा इति व्यतिरेकोक्ते:, किञ्च
प्राणो न जीवो वायुत्वाद्वाह्मवायुवदित्युनुमानेनाषि तदनात्मत्वप्रत्ययः। संविदः
स्वयम्प्रकाशत्वात्तस्या एवात्मत्वमित्यापि न युक्तम्, स्वयम्प्रकाशकत्वं हि नात्मत्त्वस्य
व्याप्यं किन्तु व्यापकम्, लाघवमप्यप्रयोजकम्, 'न विज्ञातुर्विज्ञतेर्विपरिलोपो विद्यते”
(बु. ४.३.३०) इति श्रुतौ संविततद्वतोः प्रथगदर्शनात्। किञ्च सांविदो जीवत्वे
्वेदुर्दटमपरेद्युरहमदर्शमिति कथमिव प्रत्यभिजानीयादित्थं जीवो देहादितो नितान्तं
विलक्षण एवेति स्थितम्। एकजीववादं प्रत्याख्याठुमाह ~ विविदिताविविध इति।
उपपादितभेदतयानेक इत्यर्थः। जीवः प्रतिशरीरं भिद्यते, अत एव कस्वचित्सुखित्वकालेऽ न्यस्य
दु:खित्वं दृश्यते, देहभेदस्तु न तन्नियामकः सौभरिशरीरे तददर्शनात्। किञ्च
सुखदुः खयोरेकाश्रयत्व उभयप्रतिसन्धानमेकस्यैव स्यात्। वामदेवो मुक्त इति श्रत्यैकस्मिन्मु्त
सर्वेपि मुक्ताः स्युस्तथात्वे संसारोच्छेदापतिः। जीवैक्ये न बन्धमोक्षव्यवस्था स्यान्न वा
शिष्याचार्यन्यवस्था भवेत्। देवतिर्यङ्मनुष्यादिभेदेन विषयस्रष्टिश्च नोपपद्येत। चैत्रात्मा
मत्रतादात्प्यरह्नितस्तदनुभवजन्यस्म्रत्यनाधारत्वात् कदाचिदपि तद्वतसुखादिप्रतिसन्धान-
४६ श्रीवेष्णवमताब्जभास्कर:
रहिताद्वेति प्रयोगोऽपि मानम्। "नित्यो नित्यानां चेतनश्चेतनानाम् (8.६. १३)
इत्यादिश्रुतिरपि प्रमाणम्। अत एवेश्वरकृष्णेन 'जननमरणकरणानाम्' (५) इति
साङ्क्घकारिकामुत्थाप्य जीवानेकत्वं साधितम्। अत्र तु बद्धा मुक्ता नित्याश्च सर्केऽ प्यनेकधा
विभक्ता:।
स भगवान् राम आत्मत्वेनानन्दययत्वात्रिय: प्रेछो यस्य स तत्मियः। “आनन्दो
ब्रह्मेति व्यजानात्' (ते. ३. ६. १), “एवास्य परमा गतिरेबास्य परमा सम्पदेषोऽ स्य
परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि
मात्रमुपजीवान्ति' (ब्र. ४. ३. ३२) इति श्रुते: प्रेष्ठो भवांस्तनुभ्रतां किल बन्धुरात्मा’
इति गोपीजनोक्तेश्च भागवते (१०. २९.३२) न केवलं जीव एव तं प्रीणाति,
सोऽपीति बोधयितुमाह -- वत्सहाय ड्रति। भगवानेव सहायोऽनुकूलवुद्धिसामार्थ्यादिदानेन
सत्प्रेणयोपकारको यस्य स तत्सहायः। 'साधु कर्म कारयति’ (को.उ. ३.९) इति
श्रुते, 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इति (१०.१०) गीतोक्तेश्च।
'प्रियकृग्रीतिवर्धन: ! इति विष्णुसहस्रनामोक्तेश्च। नरकादिष्वपि स्वशरीरेण जीवात्मना
सहायत अन्तर्यामीति भगवान् सहायः द्रोच्यते। अतो यत्र देवा अपि मनुष्यगन्धमसहमाना
छर्दनपूर्वकं कुत्सयन्तो योजनादुपरि स्थित्वा हरिराददते, भगवांस्तु मर्त्यलोके कौसल्यागर्भे
वर्षमवस्थाय जात इत्यहो सहिष्णुत्वकाष्ठेत्यवर्णि भूषणकारेण। भगवान् सहायः
सखा यस्यः "सयुजा सखायाः' (मुः ३. १. १) इति श्रुतेः, "सुहृदं सर्वभूतानाम्”
इति (५.२९) गीतोक्तेश्च। यद्वा परोपकारव्यसनी भगवान् सहायोऽनुपकारिण्यपि
किमस्य भविष्यति किं करवाणीति शुभाशंसी शोभनहृदयो भवति। यद्वा सहायते
सहायः सहचरः सेवक इति। तस्य भगवतः स्वरूपत एव सहचरः सेवको भवति
जीवः।
विज्ञानात्मवादिनामात्मक्षणिकत्वंप्राणेत्धियात्मवादिनामाशरीरस्थावित्वञ्च प्त्याख्यातुमाह
-- नित्य इति। जीवो नित्यो नत्वनित्यः; पूर्वानुभूतार्थप्रतिसन्धानात्, “न जायते
म्रियते? (क. १.२.१८), ज्ञाज्ञौ द्वावजावीशनीशौ? (थे. १. ९) इत्यादिश्ृतेः,
'अजो नित्य: (२.२०) इति गीतोत्तेश्। देहात्मवादे जन्मान्तराभावेनाकृताभ्यागमक्रत-
विप्रणाशदोषप्रसङ्ग:ः। जातमात्रे जन्तुः स्तन्यादिवाज्छायुक्तस्तदर्थपरवृत्या निश्चीयते,
तदवस्थस्य च रागादयो जन्मान्तरीयसंस्कारोदयमन्तरेण न युज्यन्ते/ आत्मानमुत्तरकाला-
नवस्थाविनं मन्यमानो न किङ्चिदुदिश्य प्रवर्तेत, .प्रज्ृतिर्हि खळूत्तरकाले सुखे दुः खनित्र
वानुसन्धायैव भवति। सा कथं घटेत? फलकाले स्वाभावात्, स्वकाले फलाभावात्।
पारलौकिकं फलमाभिसन्धाय यज्ञादो पवर्ति्न स्यात्। जीवस्य ज्ञानरूपतया सुषुप्त्यादो
तस्य नाशो भवतीति तस्य नित्यत्वं नेति वक्तुं न शक्यते य एवाहं सुषुप्तः स एवाहं
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ४७
अबुद्ध इति अत्यभिज्ञप्रत्यक्षेण पूर्वापरकालयोरात्मानुव्रत्तिलाभात्न सुषुप्तौ अप्यात्मनाशः।
यश्च प्राणेन्द्रियादिष्वन्यतमस्यात्मनो देहेन सह विनाशदर्शानात्र देहान्तरपराप्ति वदति तं
अति भगवान् गौतम आह -- 'वीतरागजन्मादर्शनात्' इति (३. १. २४) न्यायसूत्रेण।
सरागस्यैव जन्मदर्शनादुत्तरजन्महेतुभूतो रागः पूर्वजन्मानि आवश्यक इति
तयोरेकात्मानुव्रतिरावश्यकीति नात्मनो देहावधिकत्वं युक्तियुक्तम्। यदि जीवोऽनित्यः
स्यात्तदा मोक्षमागोपदेशानर्थक्यं स्यात्। यथोक्तम् -- 'अहमर्थविनाशाश्चेन्मोक्ष
इत्यध्यवस्याति। अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः? इति। यच्च विज्ञानघन
एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीति जीवविनाशः श्रूयते, तच्च
लोकधीरूढानुवादमात्रम्। पुनश्च जीवो विशेषणविधया निरूप्यते -- स्वप्रकाश इति।
स्वयम्प्रकाशत्वमनन्याधीनप्रकाशात्वमिति यावत्। इदमेव तस्यासङ्गत्वम् अत्रायं पुरुषः
स्वयञ्योतिर्भबाति’ (बृ.४.३.९) इति श्रुतेः। जीव: स्वयम्प्रकाशो
जञानत्वाद्धर्मभूतज्ञानवदित्यनुमानप्रकारः। ज्ञानाणुत्वामलत्वादयस्तस्य स्वरूपनिरूपकधर्माः,
परस्य तु ज्ञानविषयतयेव प्रकाशते, स्वस्यापि द्रमाणान्तरोक्ताणुत्वशेषत्वनियम्यत्वादि-
विशिष्टरूपेण ज्ञानविषयत्वमस्त्येव। शा्रवित्सु सज्जनानां जिज्ञासूनां सदेत्थं जीवो
वेद्यः, शास्रं विज्ञायापि ये स्वदुराभिसन्धिना युक्तास्ते कामं नेत्थं विदन्तु; किन्तु ये
शास्रविदः सन्तः सज्जनास्तेषामित्थमेव जीवो वेद्य इति भावः। जिज्ञासुपदेन
विषयप्राशस्त्याद्बुद्धिशौचं द्योतयित्वा तत्वज्ञानाधिकारः प्रकाशितः। शास्रविदित्यनेन
स्वरूपयोग्यता, सज्जनपदेन च काप्ट्यविरहात्पात्रता सूचिता, तेन जिज्ञासाच्छलेन
बुद्धिपरीक्षणविजिगीषादिदोषानत्निरस्य बुद्धिनेर्मल्यं द्योतितम्। यतस्ते शा्रविदोऽतस्ते
सज्जना अतस्ते सर्वदा जिज्ञासवो भवन्ति, तादृशानां बेद्यः। जिज्ञासुत्वं त्वायि
प्रश्नकरणात्सुतरामेव सिद्धं सज्जनत्वं शा्रवित्वञ्च सम्बुद्धयैव प्रकाश्यते --
शुभनतिसुमत इति।
मवाच्योऽहं रवाच्याय शेषभूतोऽस्मि सर्वदा ।
इतीत्थमेव बोध्यो ज्ञैर्वाक्यार्थस्तद्विवित्सया ।।२०।।
* संवित्करः *
राममन्त्र के प्रतिपदार्थबोधन के अनन्तर, उसका समुदित वाक्यार्थ इस प्रकार
जानना चाहिए : मकारवाच्य मैं (जीवात्मा), रेफवाच्य परमात्मा श्रीरामजी का सदा
शेषरूप हूँ।
४८ श्रीवेष्णवमताब्जभास्कर:
* पदपरामर्शः ॐ
रवाच्यो भगवान् मवाच्यो जीव इत्यादिरीत्या ज्ञातवृत्तिकस्यैव शाब्दबोधो भवतीति
पदपदार्थोपस्थितौ बीजवाक्यार्थ निष्कृष्योपस्थापयाति ~ मवाच्योऽ हामिति। अहञ्जीवो
मपदवाच्यो रपदवाच्याय भगवते रेफाव्यवहितोत्तरलुप्तचतुर्थीबोध्यशेषशेषिसम्बन्धतया
शेषभूतः सर्वदास्मीति बीजाक्षरस्य फलितार्थः, शेषशेषिभावस्य सम्बन्धत्वेऽपि तादर्थ्ये
चतुर्थी वाच्येति चतुर्थी मुक्तये हारे भजति, ब्राह्मणाय दधि, यूपाय दारु,
इतिवत्साक्षात्परम्परया वा स एवार्थस्तदर्थस्तद्धावस्तादर्थ्यम्; तत्र ष्यञ्। ष्यजा
सम्बन्धोऽभिधीयते, कृत्तद्धितसमासेभ्यः सम्बन्धामिधानं भावप्रत्ययेन अत्रापि
बष्ठीवत्सम्बन्धप्रतियोगिवाचकादेव चतुर्थी न तु सम्बन्धानुयोगिवाचकविशेष्याज्जीवात्।
आत्महविरुददेश्यभूतदेवतात्वं श्रीराम इति तादर्थ्यसम्बन्धविशेषः सिद्धचति। सम्बन्धस्य
सांसिद्धिकत्वं विवक्षन् कादाचित्कत्वं वारयति सर्वदा इत्यनेन। शोषवृततिर्भगवत्कैङ्क्य
तदतिरिच्य मेऽन्यठ्ायोजनं नास्तीति पदपदार्थतदन्वयार्थनिश्चयेनैवमेव बीजवाक्यार्थो
जिज्ञासुभिर्विविच्यावगन्तव्यः। वाक्यार्थविवित्सया परस्परव्यावर्तकधर्मेण प्रधत्तवमनुसन्धाय
गुनरन्वितार्थबुभुत्सयेत्यर्थः। अयं गरकृत्यर्थोऽयं ग्रत्ययार्थोऽ यज्ञ समुदितार्थ इति रीत्या
विच्छिद्य हि वाक्यस्यामर्थं इति निर्धायते।
रामायेति चतुर्थेन श्रिया देव्यास्तु सर्वदा ।
चेतनाऽचेतनानाञ्च रमणाश्रयतेर्यते ।।२१।।
* संवित्करः *
“रामाय' - इस चतुर्थ्यन्त पद के प्रकृतिभाग से यह प्रतिपादित होता है कि प्रभु
श्रीराम श्रीपदवाच्य श्रीसीता के साथ सभी चेतनाचेतन के रमणाश्रय है (अर्थात्
सबमें रमण करते हैं तथा सबको स्वयं में रमण करवाने वाले हैं)।
* पदपरामर्शः ४:
रामिति बीजार्थं विविच्य मन्त्रराजस्य रामायेति मध्यवर्ति चतुर्थ्यन्तं पदं रक्तिप्रत्ययार्थ-
प्रबोधनेनोपलम्भयति रामायेतीति/ रामायेति चतुर्थेन पदेन रमणाश्रयतेयति
प्रतिपाद्यते। चठुथेनित्यनेन तत्तूर्ववर्तिनो बीजस्य त्रिपदात्मकता सिद्धयति। अत्र चतुर्थ्यन्तस्य
रामेति प्रक्ृतिभागस्यार्थ उच्यते प्रत्ययार्थस्य श्लोकान्तरेण वक्ष्यमाणत्वात्, रमते
रमयति श्रियं चेतनाचेतनाद्चेति “रामो रमयतां वरः” (वा. रा. २.५३. १) इत्यार्षनिर्वचन-
बलात्कर्तयीषि कारके घञ्। नारकएूरुषादिवदन्येषामपि दृश्यत इति दीर्घः। रमणाश्रयतेत्यत्र
रमणं भावे ल्युट्, तदाश्रयो रमणकर्ता तद्भाव ईर्यत इति। न केवल स्वयं रमते,
स्वरूपशक्तचाः श्रीदेव्याः श्रीसीताया वाऽयं रमणोऽपितु चेतनाचेतनानामपि रमण:।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ४९
चेतन: प्राणी तद््यतिरेकेणाचेतनो जडः, ज्ञानाश्रयचेतनरमणस्य सम्भवे$चेतनरमणं
कथं युज्यते। तत्रोच्यते -- 'मोदते भगवान् भूतैर्बालः क्रीडनकैरिव’
(हरि पु. २. १०२. ३७) इत्यत्रेव चेतनाचेतनोभववाचकभूतशब्द्रयोगवदत्रापि चेतनाचेतनपदं
युक्तम्। यद्वेषदर्थे नजाचेतनतिर्यगजातीयानां खगम॒गादीनां विरहलीलायां स्थावरादिभ्यः
स्वसंश्लेषदानेन च रमणं युज्यते। यद्वा चेतन: स्यात्सहृदय इति कोषात्सहदयानां
भक्तिद्रुतचेतसामसहृदयानामचेतनानां निसर्गक्रूरमनसां राक्षसानामपि स्वाभिरामगुणैः रमण
इति। अतो 'रामः कमलपत्राक्षः सर्वसत्वमनोहरः' इति (२.६६.८)
वाल्मीकीयरामायणपच्ये बहुसत्वमनोहर इत्यनुत्तवा सर्वसत्वमनोहर इत्युक्तम्। इत्यं भगवतो
रामस्य स्वाधीनलीलोपकरणत्वमनितरचेतनपेर्यत्वं च रमणे लभ्यते।
स सर्वविधबन्धुत्वं सर्वप्राप्यत्वमेव च ।
सर्वप्रापकता तेन तथा चोभयलिङ्गता ।।२२।।
उच्यते तत्पदेनैव सच्चिदानन्दरूपता ।
यावद्विभूतिनेतृत्वं श्रीरामब्रह्मणो मतम् ।।२३।।
* संवित्करः #
“रामाय पद के प्रकृतिभाग से यह भी प्रतिपादित होता है कि वही श्रीराम
जीवमात्र के सर्वथा बन्धु (विपन्निवारक), सभी के परमप्राप्य तथा अपनी प्राप्ति
करवाने में उपायभूत भी हैं। इस प्रकार, वही पद उनके उभयलिंगत्व (अर्थात्
निर्गुणत्व/सर्वदोषराहित्य तथा सगुणत्व/सर्वकल्याणगुणाकरत्व) -- दोनों का
बोध कराता है। आशय यह है कि श्रीरामजी ही अकेले प्रियपरायण माता के
वात्सल्य, हितपरायण पिता के संरक्षकत्व, सखा के सौहार्द, भ्राता के सहायकत्व,
गुरु के ज्ञानप्रदत्व, पति के आनन्दप्रदत्व आदि सम्बन्धमूलक भावों का निर्वाह
करते हैं। सकलदोषरहित आनन्दमय परमब्रह्म होने से सबके प्राप्य तथा
वात्सल्यशरण्यत्व सौशील्यादि-गुणों से युक्त होने के कारण करुणावश जीव को
स्वयं की प्राप्ति के हेतु (प्रापक) भी बन जाते हैं -- यही उनकी उभयलिंगता है।
“रामाय - इस चतुर्थ्यन्त पद के प्रकृतिभूत राम-शब्द से परख्रह्म श्रीरामजी की
सच्चिदानन्दरूपता (नित्यज्ञानानन्दमयता) के साथ यावद्विभृतिनेतृत्व (लीलाविभूति
एवं त्रिपादविभ्रूति -- दोनों की एकमात्र नायकता/स्वामित्व) का प्रतिपादन किया
जाता है।
* पदपरामर्शः ४
यतस्तेन रामेति.प्रातिपदिकेन प्रथम स राम उच्यते, ततस्तद्वाचकप्रातिपदिकावयवार्थ-
५० श्रीवेष्णवमताब्जभास्कर:
महिम्ना लथ्यास्तद्वता धर्मविशेषा आश्रयणोपयुक्ताः प्रकाश्यन्ते -- सर्वविधबन्धुत्वं
सर्वप्राप्यत्वं सर्व्रापकतोभयलिङ्गता साच्चिदानन्दरूपता यावद्विभूतिनेतृत्वञ्चैते धर्मविशेष
श्रीरामब्रह्मणस्तत्पदेनैवोच्यन्ते। मतमिति नपुंसकमनपुंसकेनैकवच्चास्यान्य-
तरस्यामित्येकशेषः। रमयति प्रीत्याबध्नाति स्वसौशील्यादिनेति राम इति व्युत्पत्या
सर्वसम्बन्धानिवहिकत्वेन च सर्वविधवन्धृत्वमुच्यते 'ऐतदात्म्यामिदं सर्वम्’ (छा. ९.८.७)
इति श्रुतेः। राति कुक्षौ विश्वं गृह्णातीति रः, अम्यते प्राप्यते इत्यमः; रश्चासावमश्चेति
राम इति व्युत्पत्या ग्राप्यत्वमृच्यते। इत्यममयति प्रापयति स्वमात्मानमिति रामस्तेन
सर्व्रापकतोच्यते। रेरि्भियौर अम न ग्राप्तिरस्योति राम इत्यनेन अवाङ्मनसगोचरत्वम्।
रमयति कल्याणगुणैरिति शुभगुणाकरत्वरूपमित्युभयलिङ्गतोक्ता। 'रमन्ते योगिनोऽ नन्ते
नित्यानन्दे चिदात्मानि' इति (१.६) रामतापनीयश्रुत्या तु सच्चिदानन्दरूपतोच्यते।
रापयति प्रकाशयतीति रं, रात्यानन्दमिति रं साकेताख्यं धाम, र त्रिपादविभूती रौ
भूमिराजानावितिकोषाद् रां भूमिञ्चामयति नियमयतीति रामः, एतेनोभयविभूतिनायकत्वं
लभ्यते।
रागादिकारणे बन्धौ तेनैव विनिवर्त्त्यते ।
बन्धुत्वप्रतिपत्तिश्च भासमाना विचारतः ।।२४।।
* संवित्करः #
इसी चतु्थ्यन्त *रामाय' पद के प्रकृतिभाग से ही आज्ञानकल्पित, लौकिक
माता-पिता-मित्र-पुत्र-कळत्र-आदि में रागादि के कारण जो बन्धुत्व (अपनेपन)
तथा सहायकत्व का भ्रमात्मक बोध हो गया है, उसका निवारण भी हो जाता है;
क्योंकि अच्छी तरह से विचार करने पर यह बात समझ में आती है कि प्रभु
श्रीराम ही मेरे अपने हैं, सार्वत्रिक सर्वकालिक बन्धु हैं। लौकिक सम्बन्धियों में जो
बन्धुत्व की प्रतीति होती है, वह आज्ञानजन्य रागादि के कारण है; वास्तविक नहीं।
* पदपरामर्शः *
'सर्व वाक्यं सावधारणं भवाति’ इति पूर्वश्लोकनिरदिष्टानुसारेण सर्वविधबन्धुत्वं
भगवति श्रीराम एव नान्यत्र। अतस्तेनैव रामपदेन रागादिहेतुके लौकिकबन्धौ या
भासमाना देहादिसम्बन्धेन कल्पिता बन्धुत्वप्रतिपतिरयं मे बन्धुरित्याकारको दुरवग्रहः,
सा विनिवर्त्यते स्वयमेव रामपदार्थस्य विचारतो विचारेण दूरयुत्सार्यते। बध्नातीति
व्युत्पन्नो बन्धुशन्दः सम्बन्ध्यादिपरः। स स्वयमविद्यापाशबद्धः कर्मकूपे पतितः
कालव्यालग्रासभूतः कथमन्यं रक्षेत्? वस्तुतः सर्वसम्बन्धनिवाहकः सर्वेपाञ्चेतनानां
सर्वे जन्मसु सर्वविधोपकारको भगवाज् श्रीराम एवेति स एव याथार्थ्येन हितसाधकोऽहित-
निवर्तको बन्धुः। अतश्च त्वमेव बन्धुश्चेत्येवकारः सङ्गच्छते। अन्ये भगवत्परेरणया
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ५१
स्वानुकूलक्रत्यमनुश्रित्य यधासामर्थ्वगेवो पकुर्वन्ति। भगवांस्त्वनन्यप्रयोज्यो निरपेक्षक:
सर्वधोपकरोति। यथोक्तं भागवते (५.५.१८) -- गुर्र्न स स्यात्स्वजनो न स
स्यात् पिता न स स्याज्जननी न सा स्यात्। दैवं न तत्स्यान्न पतिश्च स स्यान्न
मोचयेद्यः समुपेतमृत्युम्’ इति। भासमाना बन्धुत्वप्रतिपत्तियावत् स्वस्वरूप-
परस्वरूपयोर्याधाथ्येन प्रतिपतति्नास्ति तावद्रज्जौ सर्पख्यातिरिवातात्तिकी अतीति:। तेनास्या
ज्ञाननिवर्त्यत्वं सूचितम्। देहसम्बन्धेन यो व्यव्हारमयः स्नेहो रागो वा रागान्धता एव
कारणं यत्र तस्मिन् सांसिद्धिकं सम्बान्धिनं गोचारयति। युक्तमाह श्रीलक्ष्मणो रामायणे
(२.५८.३१) -- 'अहन्तावन्महाराजे पितृत्वं नोपलक्षये। भ्राता भर्ता च बन्धुश्च
पिता च मम राघवः” इति
तच्चतुर्थ्या स्वानुरूपकैङ्कर्यप्रार्थनोच्यते ।
विषयान्तरसेवाऽपि प्राप्ता सा विनिवरत्त्यते ।।२५।।
* संवित्करः #
“रामाय' पद में प्रकृतिभूत राम शब्द के आगे जो चतुर्थी-विभक्ति (अर्थात् डे-
प्रत्यय) है, उसके द्वारा अनुरूप कैंकर्य की प्रार्थना का प्रतिपादन किया जाता है।
साथ ही; वह विषयान्तर (श्रीरामजी के अतिरिक्त देवादि) की रागप्राप्त सेवा की
व्यावृत्ति भी करता है। श्रीरामसेवा ही जीव के स्वरूप के सर्वथा अनुरूप है,
विषयान्तसेवा स्वरूप के अनुरूप नहीं। अत: धटो न पटः” -- इस स्वतः
इतरव्यावृत्ति की प्रतीति के समान उसकी व्यावृत्ति स्वयं होती है। आशय यह है कि
हे भगवन्! मुझे (इस जीव को) स्वरूपानुरूप आपके कैंकर्य का लाभ मिलना ही
चाहिए” इस प्रकार की दीनप्रार्थना चतुर्थी-विभक्ति के द्वारा प्रतिपादित होती है।
* पदपरामर्शः *
रामायेत्यत्र प्रक्रतिभागस्य समुदायशक्तचाऽवयवशक्तचा च लभ्यमर्थजातं परिगणय्य
इदानीन्तदुत्तरवर्तिश्रृयमाणचतुर्थीविभक्तेबोध्यार्थ व्याचष्टे ~ तच्चतुर्थ्येति। तच्चतुर्थ्या
तद्रामपदाव्यवहितपरवर्तिचतुर्थ्यत्यर्थः। तस्य चतुर्ध्येत्यत्रोह्देश्यविधेयभावसम्बन्धं मनस्याधाय
समास उपपाद्यः, न सामीप्यादिः षष्ठ्यर्थ इत्येवं ग्रौढमनोरमादौ भूम्ना विग्रशत्।
उद्देश्य: सम्प्रदानचतुर्थ्यर्थ इत्यनुसन्धाय "कुरुष्व मामनुचरम्' (वा. रा. २.३१.२२)
इति श्रीलक्ष्यणोक्तबनुगुणं भगवत्कैङ्कर्यमेव जीवनोदेश्यं शोषस्य; तदप्राप्त्या तस्य च
भगवदिच्छाधीनतया तव्पार्धनायां तत्पर्यवस्यति। 'किन्तस्य शत्रुहनने कपयः सहायाः '
इति (९.११.२०) भागवतोक्तया पूर्णकामस्य सत्यसङ्कल्पस्य सर्वेश्वरस्य भगवतो
न काचिदपेक्षा; तथापि स्वरूपानुगुणशेषवृत्तिस्तत्कैड़र्य परमप्राप्यतया प्रार्थनीयमेव,
५२ श्रीवैष्णवमताब्जभास्कर:
'दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मन:' (११) इति श्रीनरसिंहमन्त्रराज-
पदस्तेत्रुक्ते। स्वानुरूपेति पाठः श्रेयान्, तेन स्वल्पसत्त्वस्यापि बद्धजीवस्य यथाधिकारं
यावढुद्धिबलोदयं साध्यं यदित्यर्थलाभः।
विचित्रदेहसम्पतिरीश्वराय निवेदितुमित्युक्तमुपेक्ष्य विषयान्तस्प्रवणेन्द्रियाणां
सदसद्विवेकायेवात्मानमुपासीतेति शास्रं अवृत्तम्। आत्मा खलु चिदचिदात्मा भगवान्
श्रीराम एव; सुबालोपनिषदः 'यस्य प्रथिवी शरीरम्, यस्यात्मा शरीरम्” इत्यादिश्रुतेः
'जगत्सर्व शरीर ते! इति (६.११७.२५) श्रीरामायणोक्तेश्च। तदुपासनविधानेन
सेव्यविषयानियमनादसेव्यप्रतिषेधः सुतरामेव गम्यते, तद्यथा -- पयोव्रतो ब्राह्मण
इत्युच्यते, व्रतं नामाभ्यवहारार्थगुपादीयते, शक्यं चानेन शालिमांसादीन्यपि ब्रतयितुम्।
तत्र नियम: क्रियते पयसव ्रतयेदिति यथा वा ब्रीहीनवहन्ति' इत्यत्र व्रीहीणां
वैतुष्यमवघातेनेव सम्पादनीयमिति नियमः प्रतिपाद्यते; तद्वदत्र श्रीराम एव सेव्य इति
नियम्यते। नियमस्यान्यनिवृत्तिफलकत्वादाह -- विषयान्तरसेवापि द्रप्ता सा विनिवर्त्यते
इति। रागतः प्राप्ता, अर्थादिकामनया वा प्राप्ता विषयान्तरसेवा, ब्रहलन्द्रादिदेवतासेवा
तदितरमनुष्यादिसेवा वा, सापि निवार्यते सुबालोपनिषदः 'यस्यादित्यः शरीरम्”
इतिश्ुत्ये्रादीनामप्यात्मभूतस्य परमपुरुषस्यैव साक्षादाराधनस्य विहितत्वाद्धगवद्-
व्यतिरिक्तसेवाया आविधिपूर्वकत्वमाह भगवानापि 'ये त्वन्यदेवताभक्ता यजन्ते
श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्’ (गी. ९. २३) इति।
आत्मस्वरूपस्य यथावस्थितज्ञानाभावे विषयान्तसेवाया रागप्राप्ताया अप्यविहितत्वाद्
निव्रृत्तिर्विधीयते चतुर्थ्येति भाव:। वस्तुतो विज्ञाते च तस्मिंस्तत्कङ्कर्येहया धर्मशास्रसिद्धां
मातापित्रादिसेवामप्यनादूत्य पखिजन्ति महात्मान: सर्वशरीरसेवायाः सर्वशरीरिसेवा-
पर्यवसायित्वात्।
पदेन नेनात्र तु पञ्चमेन प्रकथ्यतेऽथो तदनन्यशेषता ।
हेयं तदन्यार्थमपि स्वतन्त्रता निवर्त्यतेऽतः सततं स्वकीया ।।२६।।
पदेन षष्ठेन म इत्यनेन स्वस्वाम्यनर्न्याहकशेषताऽपि ।
समुच्यते चेतनवाचिना तु तत्किङ्करत्वैकफलत्वमेव ।।२७।।
* संवित्करः *
मन्त्र के चरम भाग 'नमः' को सखण्ड (न + मः) मानते हुए, उसके पूर्ववर्ती
पंचम पद 'न' के अर्थ का प्रतिपादन किया जा रहा है। इस पंचम पद 'न' के द्वारा
जीव की अनन्यशेषता बतलाई गई है (अर्थात् जीव प्रभु श्रीराम का ही अनन्यशेष
है)। इसी 'न' पद के द्वारा जीव की अन्यार्थता (किसी अन्य जीव का शेष होना,
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ५३
उसके लिए ही होना तथा उसके अधीन होना) का परित्याग द्योतित होता है। इसी
के साथ; इस निषेधवाचक 'न' के द्वारा जीव की स्वतन्त्रता की निवृत्ति भी
प्रतिपादित होती है (अर्थात् जीव के भगवदधीन होने से उसका कर्तृत्व स्वतन्त्र
नहीं है सखण्डपक्ष में मन्त्र का षष्ठ पद 'म' है, जो “न्यते इति मः” इस
व्युत्पत्ति के अनुसार चेतनवाची होने से जीव का बोधक है। वह षष्ठ पद “म' जीव
की अपने स्वामी प्रभु श्रीराम के प्रति अनर्न्याहशेषता का निर्देश करता है, साथ
ही प्रभु का कैंकर्य ही उसका एकमात्र प्रयोजन एवं फल है; ऐसा बोध कराता है।
* पदपरामर्शः *
मन्रराजीयचरमखण्डस्य नमः इत्यस्य सखण्डतापक्ष आद्यक्षरनकारस्य गम्यार्थ
तेन पुनव्याव्रिचार्थक्लाकळयाति -- पदेनेति। अथो मध्यमखण्डव्याख्यानन्तरमत्र
मन्त्रराजव्याख्याने पारिशेष्यात् पञ्चमेन पदेन नेन जीवस्य तदनन्यशेषता भगवतो
रामस्यैवायं यथेष्टविनियोगाहो जीवो नान्यस्य कस्यचिदन्यस्य शेष इति तद्वृत्तिधर्मः
प्रकथ्यते। पर्युदासो नजृद्योत्यः, अन्यशेषतायाः पर्युदासादनन्यशेषता ग्रतिपाद्यते।
नजो निवर्तनस्वभावात्स्वप्रतिपाद्यादन्यत्कि निवर्त्यत इति जिज्ञायासामाह -- हेयामिति।
अनन्यशेषतामुक्तवायं नकारो भगवदतिरिक्तप्रयोजनं हेयमिति निवर्तयति, तेनानन्यशेषत्वम्
अनन्यप्रयोजनत्वञ्चायातम्। अर्थः प्रयोजनम्, अन्यार्थमन्यप्रयोजनत्वम्, तदन्यार्थ
तदन्यप्रयोजनत्वं हेयम्। किञ्च निवत्यान्तरमाह -- स्वतन्त्रेति भगवदधीनतया
स्वकीया स्वतन्त्रता निवर्त्यते; परावत्तकर्तत्वाद्यथेष्टविनियोगाहत्वाच्च शेषभूतस्य जीवस्योति।
“दृष्टा मन्ता” (प्र. ४. ९) इति श्रुतेर्मनुत इति व्युत्पत्या 'म' इति जीववाची। "नम:
इत्यत्र चरमेण षष्ठे पदेन मेन जीवात्मन: स्वाम्यनन्याहकशेषता समुच्यते, "यतिं
पतीनाम्” (शे. ६.७) इति श्रुतेजीवस्य स्वत्वं परमात्मनश्च स्वामित्वं निरूप्यते।
जीवस्य भगवद्ग्तिरिक्तः स्वामी न सम्भवति, यतः स तदेकशोष इत्यर्थः समुच्यते।
तथाविधस्वामिन: कैङ्कर्यमेवैर्क फलं जीवस्येत्यर्थोऽप्याषिना समुच्चीयते।
अत्राप्यन्ययोगव्यवच्छेदार्थकेनैवकारेणान्यकेङ्कर्यं व्यवाच्छिद्यते।
उपायार्थपरेणासावखण्डनमसोच्यते ।
उपायो हि मवाच्यस्य रवाच्यो राम एव स: ।।२८।।
* संवित्करः =
अखण्डपक्ष में 'नमः' पद उपायरूप अर्थ का बोधक है, जो भकारवाच्य जीव
के लौकिक एवं पारलौकिक अर्थसिद्धि में रेफवाच्य श्रीरामजी ही एकमात्र उपाय हे”
-- ऐसा बोध करवाता है।
५१ श्रीवेष्णवमताब्जभास्कर:
* पदपरामर्शः ४
नमेति वर्णद्रवात्यकतया नमश्शन्दस्य सखण्डस्य प्रतिवर्णमर्थमुत्तवा तस्याखण्ड-
पदस्यार्थमुत्रयति -- उपायार्थेति। अखण्डनमसोपायार्थपरेणासावृच्यते। नमस
उपायवाचकतया भगवानेवोपायो जीवस्येति प्रोच्यते। उपायतेउनेनेतिव्युत्पत्त्या
भगवदुपलन्धिसाधनत्वं बोध्यते, यदुक्तं तत़्ाप्तवे प्रधानोऽयं पन्था नमनवानिति।
नमस्तु भाववाचनम्, स च भाव इत्थं निर्दिष्ट -- “भगवान् मे परो नित्यमहं
प्रत्यवरः सदा। इति भावो नमः प्रोक्तो नमसः कारणं हि सः? इति।
अहंममकारनिवर्तकत्वमपि निरुच्यते -- मि नेत्येवं समीचीनबुद्धया सात्र निवायति।
नाहं मम स्वतन्त्रोऽहं नास्पीत्यस्यार्थ उच्यते’ इति। स च नमसा निर्दिष्टोपायः क
इत्यत्राह मवाच्यस्य जीवस्य रवाच्यो राम एव स उपाय इति; 'यमेवैष वृणुते तेन
लभ्यः? (क. १.२.२३) इति श्रुतेः। स न केवलमुपेयभावेन विलसति, अपितु
साधनहीनप्रपन्नेषु करुणया प्रसह्यात्मानमुपलम्भयतीति प्रापकत्वादृपायभावमपि धतत;
“यमूर्ध्व निनीषति तेन साधु कर्म कारयति' (को. ३.९) इति श्रुतेः। 'यद्वा
तयासि ते निष्ठा स एव मदनुग्रहः” (भा.पु. ३.९.३८) इत्युत्तेराश्रितजीवस्य
भगवद्विषयकज्ञानेच्छाप्राप्त्यनुगुणप्रवृत्यादिकं यत्किमपि भवति, तत्सर्वन्तदनुग्रहेणैव
जायते; स्वविषये प्रवर्तकत्वात्स एवोपाय इति भाव:। यश्चानुष्छानवेलायामपि
प्रियङ्करत्वात्सिद्धतया सिद्धोपायः, स्वभक्तेच्छापूर्तिसाधनतयोपाय उच्यते। अत उक्तं
सहस्रनामस्तोत्रे -- "सिद्धिदो सिद्धिसाधनः? इति। यो हि भक्तयनुगुणदेहसम्पत्-
प्रदानेन समर्थकरणदानेन, प्रवर्तकानादिवेदविद्याप्रकाशनेन अवतीयदारचरितेन
ध्येयस्वरूपोपलन्ध्या करुणया संसारमग्नान् स्वाभिमुखीकरोति। अत एव च
'अभ्यासेऽ प्यसमर्थोऽसि’ (गी. १२.१०) इत्यादिरीत्यानेकाविकल्पप्रदानेन
यथाकथिञ्चन्मामिच्छाप्तुं धनञ्जयेत्यधिकारिभेदादुपायप्रदर्शनं सङ्गच्छते। मद्याजी मां
नमस्कुरु’ (गी.९.३४, १८.६५) इत्यादेशेनापि न नमति तं शास्रविधिसम्पू्त्य
नमयति। यथोक्तम् -- 'प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन्। अतो वा
नम उद्दिष्ट यत्तं नामयति स्वयम्।। वाचा नम इति प्रोच्य मनसा वपुषा च
यत्। तन्नमः पूर्णमुदिष्टमतोउ न्यन््यूनमुच्यते' इति। नम इत्यनेन भगवानेवोपाय
इति बोधनात्स्वाधीनस्वार्थकर्तुत्वाभोकत्वादिभ्रमं निरस्य प्रार्थयिष्यमाणस्य परमफलस्य
तदेकसम्पाद्यता प्रकाश्यत इति भावः।
बीजेनैवाथ जीवस्य स्वरूपं प्रतिपाद्यते ।
रामायेति परस्यापि चतुर्थ्या तत्फलस्य च ।।२९।।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ५५
उपायस्य त्वखण्डेन नमःखण्डेन चोच्यते ।
सखण्डेन मकारेण षष्ट्यन्तेन विरोधिनः ।।३०।।
* संवित्करः *
मन्त्रराज में प्राप्ता, प्राप्य, प्राप्तिफल, प्राप्त्युपाय एवं प्राप्तिविरोधिरूपी अर्थपंचक
का ज्ञान समाहित है। इसी आशय से बताया गया है कि 'रां' बीज से प्राप्ता
(जीव) का स्वस्वरूप, 'रामाय' पद के प्रकृतिभाग से प्राप्य (अर्थात् परतम
भगवान् श्रीराम) का स्वरूप एवं चतुर्थी-विभक्ति के द्वारा भगवत्य्ाप्ति का नित्यशेषवृत्तिरूप
प्राप्तिफल बताया गया है। अखण्ड 'नमः' पद के द्वारा भगवत््राप्ति के उपाय
(भक्ति या प्रपत्ति की दृष्टि से स्वयं भगवान्) का संकेत है। सखण्ड (“नमः”) पक्ष
में षष्ठ्यन्त मकार खण्ड (अर्थात् मः? -- इस षष्ठ्यन्त भाग) से प्राप्तिविरोधी
(अन्याश्रय एवं अहंकारादि) के स्वरूप का कथन हुआ है।
* पदपरामर्शः *
वेदमहासारस्य मन्त्रराजस्य बह्र्थरत्नाकरतां ददर्श ज्ञेयपौष्कल्येऽ पीह मुमुक्षुजनवेद्यानां
पञ्चस्वेवार्थेपु समावेशादवश्यवेदनीयतया परथितं प्राप्टृप्राप्यप्राप्तुपायप्राप्तिफल्प्राप्तिविरोधि-
रूपमर्थपङ्घकमप्यत्र निहितमिति द्वाभ्यां दर्शयति -- बीजेनैवाथेति। रामिति बीजेन
रवाच्याय भगवते मवाच्योऽहं जीवश्शेषभूतोऽस्मीत्युत्तरपदार्थ्रधानतया ज्ञानानन्दस्वरूपस्य
ज्ञानानन्दगुणस्य निरुपाधिकशेषस्य जीवस्य स्वरूपं प्रतिपाद्यते तेन प्राणार्थः सूचितः।
रामाय इति मध्यवर्तिनो भागस्य रामेति प्रकृत्या परस्य, तदुत्तरवर्तिचतुर्थ्या च
भगवत्कैङ्कर्य ्राप्तिफलमिति फलस्वरूप प्रतिपाद्यते। नम इत्यखण्डेन चरमभागेनोपायस्य
स्वरूपं प्रतिपाद्यते, 'सामित्साधनकादीनां यज्ञानां न्यासमात्मनः। नमसा योऽ करोद्वेवे
स स्वध्वर डतीरितः। नमस्कारात्मक यस्मै विधायात्मनिवेदनम्” इत्युक्तया
नमस्कारस्य भक्तिप्रपत््युभयसाधारणतया निरूपणादुपायतोकतेः। सखण्डस्य नम इत्यस्य
षष्ठ्यन्तेन मकारेण ग्राप्तिविरोधिन: स्वरूपमुच्यते। अहं स्वतन्त्रोऽहं भगवदन्यस्य
देवादेर्वा शेष इत्यादिश्रमः प्राप्तिविरोधीति। यथोक्तं 'अनादिवासनारूढमिथ्याज्ञान -
निबन्धना। आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः। मे नेत्येवं समीचीन -
बुद्धया सात्र निवार्यते। विरोधिनः स्वरूपं तन्निरसनायोपादीयते’ इति।
तात्पर्यार्थो शेषवेदशास्त्राभिरुचिसंश्रयः ।
वाक्यार्थः प्राप्यसम्बन्धिस्वरूपाभिनिरूपणम् ।।३९।।
तारकस्य प्राधानार्थस्वस्वरूपनिरूपणम् ।
सम्बन्धस्यानुसन्धानमनुसन्ध्यर्थ इष्यते ।।३२।।
५६ श्रीवैष्णवमताब्जभास्कर:
* संवित्करः *
सम्पूर्ण वेदादि शास्रों की अभिरुचि (अभिप्रेत अर्थ) भगवान् श्रीराम की भक्ति-प्रपत्ति
है, उसका संश्रय (अर्थात् जीव द्वारा समाश्रयण) किया जाए -- यही मन्त्रराज का
तात्पर्यार्थं है। प्राप्यसम्बन्धी स्वरूप का निरूपण ही उसका वाक्यार्थ है (अर्थात्
प्राप्यभूत भगवान् श्रीराम के तात्विक स्वरूप का प्रबोधन ही वाक्यरूप मन्त्रराज का
अर्थ है)। तारकमन्त्रराज का प्रधानार्थ स्व (जीवात्मा) के स्वरूप का निरूपण है तथा
स्व एवं पर (अर्थात् जीवात्मा एवं परमात्मा) के स्वस्वामि-पितापुत्रादि-भावरूप अनेक
सम्बन्धों का अनुसन्धान ही अनुसन्ध्यर्थ है।
* पदपरामर्शः *
श्रीरामतारकमन्त्रराजस्य रहस्यनिरूपणमुपसंहारिष्यंस्तातपरयार्थवाक्यार्थप्रधानार्थानु-
सन्ध्यर्थनाम्ना चतुर्धा विभक्तमर्थजातं द्वाभ्या सङ्गह्णाति -- तात्पर्यार्थविति।
यदर्थीविबोधयिषया शास्रं प्रवृत्तं तदर्थस्तात्पर्यार्थ, अशेषवेदानां तदनुगुणशा्रणां
च यदर्थेःभिरुचिस्तत्र भगवति श्रीरामे सर्वलोकानां संश्रयः समाश्रयणं जायतामिति
मन्त्रराजतात्पर्यम्। अत्रार्थे वेदाद्याभिरुचिस्तत्रैव शास्रतात्पर्य मत्वा सर्वैरपि
भगवद्रामचन्रचरणाश्रयणं कार्यमिति तात्प्यार्थः। शास्रं हि तत्वमावेदयति हितञ्चानुशास्ति,
तत््वतक्षिदचिद्विशिष्टं भगवन्तं श्रीसीतानाथमाह, हिततया च तत्ाप्तिसाधनभूतां
तद्वक्ति विधत्ते। इत्थमर्थे शास्राभिरुचेस्तदनुगर्ण संश्रयस्यैव तात्पर्यर्थत्वात्। तात्पर्यज्ञानस्य
वाक्यार्थज्ञाने हेतुतया वाक्यार्थीिरूपणात्याक्तात्पयार्थिकथनं युक्तम्। वाक्यार्थमाह
— प्राप्यसम्बन्थिस्वरूपाभिनिरूपणामिति। योग्यताकाङ्कादिविशिष्टस्य मन्त्रघाटित-
पदजातस्य परस्परान्वयेन मुख्यवृत्त्या लब्धो3र्थ: प्राप्यभूतो भगवानेवेति तन्निरूपणं
वाक्यार्थो भवति। सर्वीविधवन्धुत्वादिरूपेणान्वितपदार्थानां तत्रैव पर्यवसानात्।
स्वस्वरूपनिरूपणं तारकस्य प्रधानार्थस्तत्र स्वपदेन जीवो विवक्षितः, देहादिविलक्षणस्य
ज्ञानानन्दस्वरूपस्य तस्य भगवदनन्यशेषत्वादिरूपेण प्रतिपादनमेव प्रधानार्थः, तदुद्दिश्य
कृत्यानुशासनमुखेन मन्त्रप्रवृततेस्तस्यैव शाख्रवश्यत्वाच्च। आचार्यक्रपया ्राप्तमन्त्रस्य
मन्त्रार्थबोधादनन्तरं सततमनुसन्धेयमर्थमाह -- सम्बन्धस्यानुसन्धानामिति। अत्र
जीवात्मपरमात्मनोर्मिधो ये नवधा सम्बन्धाः प्रोक्तास्तेषाञ्चितनमयमेव योगः प्रोच्यते।
यथोक्तम् -- दृशः परमात्मायं प्रत्यगात्मा तथेदृशः। तत्सम्बन्धानुसन्धानमिति
योगः प्रकीर्तितः' इति।
उत्तवेत्थं तारकार्थ तु द्वयार्थः प्रतिपाद्यते ।
विमत्सराः प्रपश्यन्तु प्रगृह्णन्त्ववयन्तु च ।।३३।।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ५७
* संवित्करः *
इस प्रकार श्रीरामतारक षडक्षरमन्त्रराज के रहस्य का प्रतिपादन कर, अब द्वय-मन्त्र
के स्वरूप एवं रहस्य का प्रतिपादन किया जा रहा है। विद्वज्जन इसके रहस्य एवं प्रभाव
का मत्सररहित होकर विचार करें, इसे स्वरूपत: ग्रहण करें तथा उपपत्तिपूर्वक
हृदयंगम करें।
* पदपरामर्शः *
इत्थमेवं तारकार्थ मन्त्रराजरहस्यमनेकधा विशदं प्रतिपाद्येदानीं द्वयमन्त्रस्यार्थो
रहस्यं निरूप्यते। तं प्रतिपाद्यमानं विमत्सराः सन्तः प्रपश्यन्तु जानन्तु प्रगह्वन्तु
धारयन्तु तदनुगुणमेव जपादो निश्चित्यावयन्तु ध्यायन्तु ्हहणमननध्यानादीनामुत्तरोत्तरा-
नुधववेशद्यद्योतनाय व्यापारत्रयोक्तिः। उत्तराधें दवयार्थपरामशकि तमिति द्वितीयान्तमध्याहार्यम्।
विमत्सरा इति रहस्यावगतौ चिचशुद्धिनिबन्धना पात्रता निर्दिश्यते, यदभावेऽ परे
उप्तबीजमिव विफलो भवत्युपदेशः। परोत्कर्षासहनं मत्सरः खलु मनोमलः। निर्मत्सरे
हृदि जले तैलमिवोपदिष्टार्थः प्रकामं प्रसीदति! एतेन सल्लक्षणमुक्तं "रमणीयं प्रसन्नाम्बु
सन्मनुष्यमनो यथा” इति (१.२.५) श्रीरामायणोक्तेः।
श्रीरामद्ठयमन्त्रमद्धततमं वाक्यद्र्यं षट्पदं
बाणाक्षिप्रमिताक्षरन्तु खलु विद्धि त्वं दशार्थान्वितम् ।
युक्तं तत्त्रिपदैस्तु तत्र सुमते पूर्व शुभस्यास्पदं
वाक्यं पञ्चदशाक्षरं तदनु दिग्बर्णात्मकं तूत्तरम् ।।३५।।
* संवित्करः *
'श्रीमद्रामचन्द्रचरणौ शरण प्रपद्ये, श्रीमते रामचन्द्राय नमः” -- यह
श्रीरामजी का परम विलक्षण तथा कल्याणप्रद द्वयमन्त्र है। पूर्व वाक्य में तीन पद
तथा पन्द्रह अक्षर हैं तथा उत्तरवाक्य में तीन पद तथा दस अक्षर हैं। इस प्रकार
षट्पदात्मक एवं पच्चीस अक्षरों वाला यह मंगलास्पद द्वयमन्त्र दस अभिप्रायों को
प्रकाशित करने वाला है।
* पदपरामर्शः *
एकस्यैव मन्त्रस्य वाक्यद्वयात्मकत्वाद् द्राववयवावस्य तदृद्वयम्, द्वयं मन्त्र इति
द्वयमन्त्र; द्रवोर्वाक्ययो रामपदघटितत्वाच्छ्रीरामद्गयमन्त्रत्वम्। अत एव मन्त्रमित्येकवचानं
सङ्गच्छते। अतश्च मन्त्रद्वयमिति नोक्तम्। मन्त्रस्य वाक्यपदाक्षरात्मनाऽ थतिक्ष स्वरूपमाह
-- 'श्रीमद्रामचन्रचरणौ शरणं प्रपद्ये, श्रीमते रामचन्द्राय नमः ' इति वाक्यद्वयम्,
प्रतिवाक्यं त्रीणि त्रीणि पदानीति षट्पदम्। बाणाक्षिप्रमिताक्षरं पञ्चविंशतिवर्णात्मकं
५८ श्रीवेष्णवमताब्जभास्कर:
वक्ष्यमाणरीत्या दशविधैररथैरन्वितं युक्तमिति। श्रौतत्वात्स्वयं सिद्धत्वाद्वस्तुप्राशस्त्याद्
चास्याचिन्त्यप्रभावमाह -- अद्धुततमामिति। विमत्सराः प्रपश्यन्त्विति पूर्व सामान्येनोत्तवापि
वात्सल्याच्छिष्यं तदर्थगौरवं सूचयन्रात्मीयतातिरेकाष्युष्पदा सम्बोधयति -- त्वं विद्वीति।
तस्य अहणधारणाद्यनुगुणयोग्यतामाचष्टे -- सुमत इति। उत्तरार्धे पर्वोतरवाक्यभेदेनोभयत्र
वर्णान् परिगणपति -- पूर्व वाक्यं पञ्चदशाक्षरं तदनूत्तर दिग्वणात्मिकं दशाक्षरमिति।
वाक्यपद पूर्वमृत्तरामित्युभयत्रान्वायि। एवमेव त्रिपदैर्युक्तं शुभस्यास्पदामिति च
विशेषणद्वयमुभयान्वयि। पूर्व तदन्विति पदाभ्यां नियतानुपूर्वीतां विज्ञाप्य क्रमेऽभिनिवेशं
संसुच्यैकमन्त्रत्व विवक्षितम्। सकलशुभाकरयोः श्रीरामेति पदयोयोगादमोषभगवच्छरणवरणे
विनियुज्यमानतया च शुभास्पदत्वं लन्धम्। सर्वादौ प्रपदनक्रियावसितपूर्ववाक्यस्य
यदाद्यं सर्वसौभाग्यसूचकं सकलमङ्गलस्याकरं श्रीतिपदं तद्गोध्यतत्ायोजनप्रभाव-
रहस्याविष्कारेण व्याचष्टे -- सर्वाधीशेश्वरस्योति। त्विति कोषोक्तरमादिप्रसिद्धार्थवयवृत्यर्थम्।
अत्र नित्याम्नायसिद्धस्य श्रीसम्प्रदायस्य द्वयमन्त्रे श्रीत्यनेन सीताभिधीयते। शक्त
पदमित्यभिप्रायेणाह -- पदेनेति। शब्देनेत्यर्थः, पद्यते ज्ञायतेऽनेनेति करणे घज्,
सञ्जापूर्वकत्वाद्वद्वयभावः। श्रीश्च ते लक्ष्मीश्च’ (यजु ३१. २२) इति मन्त्रे लक्ष्म्याः
प्रथक्तया तदपेक्षयाभ्यर्हितत्वा्ाथम्येनोपात्ततया श्रियः समाख्याविशेषं यथाशास्रं
स्थिरयति स्रीतेति। यद्यपि “अथ मे कृषतः क्षेत्रं लाङ्गल्यादुत्थिता ततः।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता” (गा. रा. १. ६६. १३) इति जनकोक्तचा
'सीराग्रान्निर्गता यस्मात्सीतेत्यत्र प्रगीयते” इत्यानन्दरामायणोक्तेश्च लोकसिद्धत्वं
सञ्ज्ञाया ज्ञायते, तथापि 'सीते वन्दामहे त्वा’ इत्याम्नायस्तूयमानतयानादित्वं
सिद्धयति। सूयते चराचरम्, सवतीछे, स्यति भक्तक्लेशम्, सुवति भगवत्कैङ्कय
प्रेरयति, सिनोति बध्नाति स्वदिव्यगुणेर्भगवन्तमित्याद्यनेकधाठुभिः एषोदरादित्वादिदं
व्युत्पाद्यते शान्दिकै:। 'सीतया भाति चन्द्रचद्रिकया यथा” इति श्रुतेः। यच्चरित्रेण
रामायणं जीवति ~ 'श्रीमद्रामायणमपि पर प्राणिति त्वच्चारित्रे/ इति (१४)
श्रीगुणरत्नकोशोक्ते:।
सर्वाधीशेश्वरस्यारप्तेहितुरत्राभिधीयते ।
सीता पुरुषकारार्था श्रीत्यनेन पदेन तु ।।३६।।
* संवित्करः #
पूर्ववाक्य में 'श्री' पद से श्रीसीताजी का ग्रहण होता है, जो सर्वेश्वर भगवान्
श्रीराम की प्राप्ति में कारणस्वरूपा हैं। इसके साथ ही वह मुमुक्षुजीव एवं परमप्रभु के
मध्य घटक (जीव को प्रभु के समक्ष उपस्थित कर उसे स्वीकार करने हेतु आग्रह करने
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ५९
वाली पुरुषकाररूप) मानी जाती है। आशय यह है कि इनकी कृपा के विना
भगवद्राप्ति असम्भव है।
* पदपरामर्शः ॐ
साक्षात्साध्यप्रापणानुगुरणं तस्याः प्रभावविशेषमाह -- सर्वाधीशेश्वरस्याप्तेहितुरिति।
जगज्जनन्येव जगत्पितुरभयोत्सङ्गोपलम्भने प्रभवति नान्यः कश्चित्तस्य एव तत्र
अभुत्वादानुगुण्यादधिक्रतत्वाच्च। आव्विहेतुरिति पाठे पदार्धैकादेशान्वयदोष इत्याप्तेहितुरिति
व्यस्तपाठो निदु्टः। आ्वेहेतुरित्यत्राप्तिपदेन सायुज्यमुच्यते तेन ज्ञानदशनि तु
कैमुत्यसिद्धे। हेतुरित्यनेन मुख्यहेतुरुक्तस्तेनान्वयव्यतिरेकाभ्यां तदनुकम्पां
विनेश्वरावाप्तेरशक्यत्वं सूचितम्। यथोक्तं तच्चरणाश्रितैः 'श्रेयो न ह्यरविन्दलोचनमनः
कान्ताप्रसादादृते' इति। 'ब्रह्मविदाप्नोति परम्” (तै. २.१.१) इति श्रृत्यनुगुणं
सर्वेक्षरलक्षणं पारम्यं भगवतो रामस्य प्रथमषष्छयन्तेन सूचयति -- सर्वाधीशेश्वरस्येति।
सर्वाधीशश्चासावीश्वरश्चेति कर्मधारयः, तस्य। सर्वाधीशेत्यनेन सर्वीनियामकत्वमीश्वरेत्यनेन
स्वरूपस्वभावान्यथाभावराहित्यं च सर्वकर्माराध्यत्वसर्वफल-प्रदत्वसत्यसङ्कल्पत्वाद्युच्यते।
तेनात्र न पुनरुक्तदोषः। तदित्थं सर्वशरीरित्वेन सवविस्थशुभाश्रयत्वेन च स्प्रहणीयनित्य-
ज्ञानानन्दमयत्वादीप्सिततमत्वं द्योत्यते। वस्तुतस्तु लोके ब्रह्मरुद्रादीनामधीक्चर-
शङ्कास्पदानामपीक्षरस्य नियामकस्येत्यर्थस्तेषामी्वरत्वव्याप्यत्वेन सोपाधिकस्वामित्वेन
परापेक्षकर्तृत्वेनोपायनिष्छत्वेनेक्षरधार्यत्वेन चेशितव्यत्वात्। तस्याः सापराधजीवेष्वपि
जननीसुलभवात्सल्याद्दोषक्षमापणादिविधिना निग्रहाभिरुचिवारणेन तव्माप्तावनितरसाधारणं
विनियोगमाह -- पुरुषकारार्थेति। लोके यथा परावरयोर्मिधः-सम्बन्धसिद्धौ कञ्चिकुशल:
पुरुषो घटकतयाश्रीयते, तद्गदिय जीवात्मपरमात्मनोः। घटकतया प्रापकत्वं
स्वयमीश्चरकोटावनुप्रवेशाच्च प्राप्यत्वञ्चास्या इति विशेष:। अस्या घटकत्वममोघमिति
युज्यते, यथोक्तं तन्माह्ात्म्यचिन्तकैः 'अर्थस्वभावानुष्ठानलोकदृष्टिगुरूक्तिभिः।
श्रुत्या स्मृत्या च संसिद्धं घटकाथावलम्बनम्' इति। एवंविधमहनीयार्थस्य वाचकमाह
-- श्रीति। श्रीयते भक्तैः, श्रयते भगवन्तम्, श्रणोति प्रार्थनाम्, श्रावयति व्यथाकथां
भगवन्तम्, श्रणाति दुःखततिम्, श्रीणाति सुफलं पचति भक्तेभ्य इत्यनेकधा व्युत्पत्यैव
तन्माहात्म्यं स्फुटति
मता मुरुषकारस्य नित्यसम्बन्ध उच्यते ।
रामचन्द्रेति पदतो वात्सल्यादिगुणस्य च ।।३७।।
* संवित्करः *
ूर्ववाक्य के मतुप्-प्रत्ययान्त 'श्रीमत्' शब्द के मतुप् प्रत्यय के द्वारा श्रीमान्
६० श्रीवैष्णवमताब्जभास्कर:
भगवान् राम का पुरुषकारस्वरूपा श्रीवाच्य श्रीसीताजी के साथ नित्यसम्बन्ध बताया
गया है। “रामचन्द्र' पद से श्रीरामप्रभु के साथ वात्सल्य सौलभ्य-सौशील्य-कारुण्य-
शरण्यत्वादि अपरिमित गुणों का नित्ययोग ज्ञात होता है (अर्थात् ये कल्याणमय गुण
कभी भी प्रभु से पृथक् नहीं होते)।
* पदपरामर्शः अ
श्रीपदाभिधेयामभिधाय तदुत्तरवर्तिमतुपो मतुबन्तविशेष्यभूतरामचन््रेति पदस्य
लभ्यमर्थमुदीरयति -- मतेति। मतेति 'तदस्यास्त्यस्मित्निति मतुप्’ (पा. यू: ५. २. ९४)
इति विहितस्य मतुपोऽनुबन्धविनिर्मुक्तस्वरूपस्य तृतीयान्तेन निर्देशः, भूगनिन्देति
श्लोकवातिकिन परिगणितेष्वर्थेषु नित्ययोगे मतुन्विधानात्तेन मुपा श्रीश्रीमतोर्नित्यसम्बन्ध
उच्यते; "अनन्या राघवेणाहं भास्करेण यथा प्रभा' इति (५.१९.१४ श्रीरामायणोक्तेः।
मुपा नित्ययोगं विवक्षता मणिप्रभादीनामिव कदाचिदपि विश्लेषप्रसङ्गराहित्यं द्योत्यते,
भगवान्नपूर्वो मणि: स्वयं प्रकाशतेऽ न्यप्रकाशने तमोनिरसने च ग्रभास्थानपत्नी श्रीसीतादेवीं
प्रतीक्षते यथोक्तं प्रभावान् सीतया देव्या परमव्योमभास्करः” इति। मतुपा
पुरुषकारस्य घटकस्य नित्ययोगमुक्तवा तदीयाभयदानसमाश्षासनस्य साफल्येऽ सन्देहो
गम्यते। पुरुषकारस्य केन सह नित्यसम्बन्ध इत्यनुयोग्याकाङ्कायां श्रीमत्तया स्वयं
भगवान् समुपतिष्छते, तेन श्रीप्रतियोगिको भगवदनुयोगिको नित्यसम्बन्ध इति फलति।
मतुबन्तश्रीमत्पदोत्तरवर्तिरामचन्द्रपदगम्यमाह ~ वात्सल्यादिगुणस्य नित्ययोग उच्यत
इति। "विदितः स हि धमात्मा शरणागतवत्सलः ' (वा.रा. ५. २१.२०) इत्याद्युत्तवा
वात्सल्यादिगुणयोग लभ्यते, आदिपदेन सोशील्यमाधुयौंदार्यदुव्ातत्वसत्यवादित्वसामर्थ्य-
सौन्दयादयो गुणा: संसूचिताः -- "रघोः कुलेऽखिलं राति राजते यो महीस्थितः।
स॒ राम इति लोकेषु विद्वद्धिः प्रकटीकृतः।। राक्षसा येन मरणं यान्ति
स्वोद्रेकतोऽथवा' (रा. ता.उ. १. १-२) इति श्रुतेः। आनरशंस्यमनुक्रोशः श्रुतं शील
दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्” इति (२.३३.१२)
श्रीरामायणोक्तेः। अत एव पौरैरुक्तम् 'बहवो ऱप कल्याणगुणाः युत्रस्य सान्ति ते।
गुणान् गुणवतो देव देवकल्पस्य धीमत: ।। प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽ द्य
तान् श्रणु" (२. २. २६-२७) इति च। नाम्नापि रमणाश्रयता लोकाभिरामसौम्यताम्रत-
स्रावित्वपोषकत्वप्रकाशाकत्वादयो गुणा अर्थतस्सिद्धा भवन्तीति रामचन्रोति पदतो
वात्सल्यादिगुणस्य नित्ययोग उच्यते इत्युक्तम्।
चरणावित्यनेनैव वात्सल्यादिकसीतयोः ।
विलक्षणस्य दिव्यस्य विग्रहस्याश्रयस्य च ।।३८।।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ६१
* संवित्करः *
'चरणौ' पद से यह ज्ञात होता है कि जैसे वात्सल्यादि गुणों तथा श्रीसीता के
नित्य आश्रय भगवान् श्रीराम हैं, वैसे वे अपने अद्भुत सच्चिदानन्दमय दिव्य
श्रीविग्रह के भी नित्य आश्रय हैं (अर्थात् दिव्यगुण, एवं श्रीसीताजी के साथ जैसे
उनका नित्ययोग है, वैसे उनके अप्राकृत दिव्य श्रीविग्रह के साथ भी नित्ययोग है)।
* पदपरामर्शः *
अत्र प्रपदनकर्मीभूतं चरणाविति विशिष्टं शक्तिस्वाभाव्यादाधारपरतयाश्रर्यं सूचयति,
तस्य स्वानुयोगिनं प्रति नित्यसाकाङ्कतया विशेषणार्थानुसन्धानेन तत्रित्ययोगार्थाध्याहारेण
च व्याख्याति चरणावित्योति। पूर्व श्रीपदेन पुरुषकारभूता श्रीसीतोक्ता, मतुपा
नित्ययोग:, रामचन्द्रपदेन वात्सल्यादिगुणस्य तत्र नित्ययोग इत्युत्तवा अत्राश्रयभूतचरणयोः
तदाश्रयताभिधीयते। वात्सल्यादिकं सीता च वात्सल्यादिकसीते, सीतेत्यस्याल्पाच्त्वेऽपि
बष्छीसमासश्रमवारणाय पर्योगः; तयोराश्रयस्य च मिथो नित्ययोगश्चरणावित्यनेनोच्यते
वात्सल्यादिगुणानामाश्रयस्य च नित्ययोगः सीतायाश्चाश्रयस्य च मिथो नित्ययोग
उच्यते, न केवलं तयोरेवापितु विलक्षणदिव्यविग्रहस्याप्याश्रयस्य च मिथो नित्ययोग
उच्यते इति पदानामन्वयः। चरणावित्यनेनान्याङ्गापेक्षा सौलभ्यन्तु स्वतो गम्यते,
तावेव सम्पूर्णविग्रहस्याश्रयभूतावित्यपि सर्वानुभवसिद्धम्। भगवच्चरणावात्रित्य विलसतो
भगवद्विग्रहस्य वैशिष्टयमाह द्वाभ्यां पदाभ्याम् -- विलक्षणस्य दिव्यस्योति।
प्रतिक्षणमदृटपूर्वतया निरतिशयौज्ज्वल्यापूर्वरूपसंस्थानवैभवादिविस्मयावहत्वेन
नवनवायमानत्वेन चानुभूयमानतयाद्धुतत्वमेव विलक्षणत्वम्। तदेव शुभाश्रयत्वेऽपि
सुकुमारौ महाबलावित्यादिना विरुद्धगुणाश्रयत्वरूपं विलक्षणत्वमाहादिकावि अत
उक्तम् ~ 'रूपसंहननं लक्ष्मीं सौकुमार्य सुवेषताम्। ददृशुर्विस्मिताकारा
रामस्य वनचारिणः” इति (३. १. १३)। नित्यकैशोरयेर्णं समस्तहेयराहित्येन
शुद्धसत्त्वमयत्वाच्चाप्राक्ृतत्वं द्योतयति -- दिव्यस्येति। अत एवोक्तं ब्रह्मणा अस्यापि
देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि। नेशे महित्ववसितुं
मनसान्तरेण साक्षाचवैव किमुतात्मसुखानुभूतेः? (भा. पु. १०. १४. २)। यश्च
सेव्यते स एव सेवकस्याश्रयो भवति भर्तु: पादच्छाया विशिष्यत इत्यभिदधानाया:
श्रीसीतादेव्या भगवच्चरणावात्रित्येव जीवन्त्यास्तदेकाश्रयत्वन्तु सिद्धमेव। 'सा श्रीः
स्ववासमरविन्दवनं विहाय तत्पादसौभगमल भजतेऽनुरक्ता’ इति (१.१६.३४)
भागवतोक्तेः, वने निवत्स्यामि यथा पितुगृहि तवैव पादावुपगृह्य सम्मता’ इति
(वा.रा. २.२७.२१) श्रीसीतादेवयुतेश्च। या खलु पातालप्रवेशाकसरेऽपि मनसा तावेवाश्रयन्ती
विवरं प्राविशत् "ध्यायन्ती रामचरणौ विवरं प्राविवेश ह’ इति (९.११.१५)
६२ श्रीवेष्णवमताब्जभास्कर:
भागवतोक्ते:। आश्रयभूतयोश्चरणयोर्वात्सल्यादिगुणैनित्ययोगस्तु निपुणतरमुपपाद्यते 'ध्येयं
सदा परिभवष्नमभीष्टदोहमू' इति (११.५.३३) भागवतपद्यमाश्रित्य। तथाहि सदा
ध्येयमिति, सोन्दर्यसौलभ्यादि, परिभवष्नमिति नीचानादृतजनदोषाद्वविचारेण स्वीकरणं
सौशील्यम्, अभीष्टदोहमित्योदार्यम्, तीर्थास्पदमिति परमपावनत्वम्, शिवविरिक्िनुतमित्यनेन
महैश्वर्यम्, शरण्यमित्यात्रित-वात्सल्यम्, भृत्यातिहिमिति कारुण्यम्, प्रणतपालेत्यस्य
समस्तएववियवतया विशेषणत्वपक्ष आश्रितरक्षकत्वं भवान्धिपोतमिति संसाराणवितारकत्वमिति
सूचितगुणेर्नित्ययोगः प्रतिपाद्यते चरणावित्यनेन।
शरणेतिपदेनैवोपायस्तद्विग्रहो बुधैः ।
उपायाध्यवसायस्तु प्रपद्य इति वर्ण्यते ।।३९।।
* संवित्करः #
“शरण' पद से उपाय विवक्षित है। वह उपाय प्रभु का करुणामय विग्रह
(स्वभाव) ही हे (जिसे गोस्वामीजी ने प्रभु मूरति कृपामयी है” इस शब्दों से व्यक्त
किया है)। “प्रपद्ये' क्रियापद से उपायाध्यवसाय (अर्थात् उपायविषयक निश्चयात्मिका
अन्तःकरण की वृत्ति) का निर्देश किया गया है।
* पदपरामर्शः *
“शरणं प्रपद्ये' इति पदद्वयगम्यमर्थमेकैकमभिधत्ते -- शरणेतीति। रक्षाप्रार्थनायां
रक्षितोपायो भवति, स चात्र शरणपदेन वर्ण्यते "शरणं गृहरक्षित्रेः' (३.३.४५०)
इत्यमरकोषात्। अहि्बुध्न्यसंहितायामप्यस्योपायपरत्वमुक्तम्। उपाये गृहरक्षित्रेश्शब्द:
शरणामित्ययं वर्तते साम्प्रतस्त्वेष उपायाधैकवाचक:। शरणं न केवलगुपायस्तद्विग्रहोऽपि।
रक्षितुगोप्तित्वेन वरणविधौ शब्दात्मना मन्त्रे तन्निवेशाच्छरणमित्युक्तेरुपायाकारता,
शरणमित्युक्तिक्षमं रक्षतीत्युक्ते। प्रपद्ये इति प्रपूर्वकादिवादिगणस्थात् 'पद गतो”
इति (४.६५) पाणिनीयधातोः कर्तरि लट्युत्तमपुरुषैकवचने रूपम्। सोपसर्गधातु-
विशेषोऽयमत्राध्यवसायवैशिष्टयं व्यनक्ति! अतः प्रपत्तिरिति वैष्णवनिकाये सविशेषं
प्रथते, सा च शरणशब्दान्वितप्रपद्योपदप्रयोगेण प्रार्थनान्वितो भरन्यासः। यद्यपि
परपद्य इत्यत्र गत्यर्था बुद्धचर्था इति रीत्या बुध्यर्थकेन धातुनाऽ ध्यवसायमात्रमुपस्थाप्यते,
तथापि समभिव्याहतशरणशन्दार्थपरामर्शादुपायाध्यवसाय इत्युच्यते; तेन
प्रर्थनाद्यन्वितात्मभरन्यासं विदधामीत्युक्तं भवति। विषयमधिकृत्य गौरेवायमित्यवसायो
निश्चय एवाध्यवसायो भवति। व्यवहर्ता स्वकर्तव्यमध्यवसीयैव प्रवर्तते, तत्र योऽयं
कर्तव्यमिति विनिश्चयः स बुद्धेरसाधारणधर्मरूपोऽध्यवसायः प्रोच्यते। अत्र रक्षकत्वेन
वृत उपायभूतो भगवान्रून॑ मां रक्षिष्यतीत्येवं बुद्धोर्निश्चिय एवोपायाध्यवसायः; स च प्रपद्य
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ६३
इति क्रियापदेन निरूप्यत इति भाव:। अत्र लटा विधीयमानो वर्तमात्व-
व्यपदेशोऽनुष्ठानकालाभिप्रायेण, यथा बहिदेवसदनं दामीतित्यत्र दामीत्यनुष्ठान-
कालमभिपरत्यैव पयुक्तं तद्गदिति। इत्थं "शरणं प्रपद्ये' इत्यनेन गोप्ुत्ववरणमात्मनिक्षेपश्चेति
रयं सम्पद्यते।
प्राप्यं मिथुनमेवेति श्रीमते पदतो मतम् ।
रामचन्द्रेति पदतः स्वामित्वं प्रतिपाद्यते ।।४०।।
* संवित्करः #
उत्तरवाक्य के “श्रीमते? पद से यह प्रतिपादित होता है कि जीवमात्र के प्राप्य
युगलस्वरूप श्रीसीतारामजी हैं। “रामचन्द्र' पद से प्रभु का निरुपाधिक सर्वस्वामित्व
प्रतिपादित होता है।
* पदपरामर्शः *
उत्तरवाक्यस्य “श्रीमते’ इति चतुर्थ्यन्तस्य पदस्याभिप्रेतार्थमाह -- ग्राप्यामिति।
ब्रह्मविदाप्नोति परम्" (तै २. १. १) इति श्रुतिबोधितं परपदबोध्यं पराप्यं मिधुनं युगलं
श्रीसीतारामात्मकमुभयोनित्यियोगादित्येवार्थः “श्रीमते' इत्यनेनाभीष्ट:। मिधुनामिति कथनादेव
तदतिरिक्तस्य प्राप्यत्वनिवृत्त्यात्रत्यैवकारेणोभयोरगौणमुख्यभावो व्युदस्यते।
महेनद्रदेवताकयागवदुभयोरात्महविरुदेरशाहत्वं सर्वविधकेङ्करयप्रतिसम्बन्धित्वञ्चैतेन सूच्यते
शोषित्वस्योभयनिष्छत्वात्। उत्तरार्धेन रामचन्द्रेति पदावसेयमाह -- स्वामित्वामिति।
निरुपाधिकरोषित्वमित्यर्थः। देवतान्तरस्यास्वामित्वात्कषायपानवद्विरसमपि हितबुद्ध्या तदुपासनं
सम्बन्धाज्ञानमूलम्। रामचन्द्रोति नाम्नैवा विषयाभिरूप्येण विकृतभयङ्कर-
तत्वान्तरभजनाद्वचावृततिर्भवति। 'स्वामित्रित्यैश्वये” इत्यनुशासनादैश्वर्य एव स्वामित्रिति
निपातनात्पदमिदमीश्चरविषयम्। राजादिकूपचारतो नियमनवैभवादितल्वेशदर्शना्मयुज्यते,
नित्यनियमनव्यापनसार्वज्यादिसामर्थ्यवति श्रीरामे भगवति तु स्वामित्वयोगो युक्त एव,
तदतिरिक्तस्य सर्वस्य तनत्नियम्यत्वात्। अतो राजा रामचन्द्र एव, अद्यापि लोके राजा
रामः”, 'रामराज्यम्' इत्याद्यनन्यसाधारणतया जोघुष्यते। समुदायस्य स्ज्ञात्वेऽपि प्रत्येक
स्वामित्वं श्रुतिस्म्॒त्यादिसिद्धम्। 'राजते यो महीस्थितः' इति (रा.ता.उ. १. १)
श्रौतनिर्वचनाद्रामपदेन “सोमोऽस्माकं ब्राह्मणानां राजा” इति (यजु. १०.१८)
श्रुतेश्वन्त्रपदेनापि राजलक्षणं स्वामित्वं ग्रकाश्यते। अत एव भगवन्तमुदिश्य दण्डकारण्ये
तापसौरुक्तम् 'नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वर” (वा. रा. ३. १. २०) इति।
विभक्तद्यायेतिपदतः शेषवृत्तिर्महात्मभिः ।
विरोधिनो निरासस्तु नमः पदेन वर्ण्यते ।।४१।।
६४ श्रीवैष्णवमताब्जभास्करः
* संवित्करः *
'रामचन्द्राय' पद की चतुर्थी-विभक्ति (डे-स्थानिक आय”) के द्वारा जीव की
शेषवृत्ति (अर्थात् कैंकर्यपरायणता) का निर्देश किया गया है तथा “नमः” शब्द से
भगवत्प्राप्ति के विरोधी का निरास (अर्थात् प्रातिकूल्यवर्जन) सूचित किया है।
* पदपरामर्शः *
रामचन्द्रायेत्यस्य ग्रकतिभागस्य स्वामित्वरूपमर्थमभिधायेदानीन्तदुत्तरवर्ति-
चतुर्थ्येकवचनस्य डेस्थानिकयादेशतत्निमित्तदीर्षविशिष्टाकारतां ्राप्तस्यायेत्यस्य
विभक्तित्वातिदेशेन तदर्थमवधारयति -- बिभक्तचायेतीति। महात्मभिर्विशदवुद्धिभि-
्तुर्थ्याऽत्र शेषवृततिर्भगवदधीनताप्रत्ययदाढ्येन तत्कैङ्कर्यमिति वर्ण्यत इत्यर्थः।
अत्ययमात्रस्यापि कृते पदशब्दव्यवहारः प्रत्ययवाचकतापक्षमाश्रित्य शेषव्रतिरूपोऽर्थविशेषः
पद्यते ज्ञायतेऽनेनेत्यर्थीविशेषाभिधायकत्वाभिप्रायेण। वस्तुतः शान्दिकनये वाक्यस्फोटस्य
मुख्यत्वे प्रक्तिप्रत्ययविभागस्य तु काल्पानिकत्वमेव। यथोक्तं हरिणा “उपेयप्रतिपत्त्यार्था
उपाया अव्यवस्थिता” इति। शेषस्य वृत्िर्व्यापार:ः, भगवदर्थोऽहमिति तदधीनशेषस्य
मम वृत्तिर्भगवदर्थवर्तनमनन्यकैङ्कर्यं तदनन्यदास्यामिति। यथा सौर्य चरु’ इति
सूयदिवतोद्देश्यकमिति भगवदुद्देश्यकजीवस्य तादर्थ्येन वर्तनमित्यर्थः। "तादर्थ्ये चतुर्थी
वाच्या” इति (१४५८) वार्तिकेन तादर्थ्यस्य चतुर्थीविभक्तचर्थतयोक्तेः। यदा च
तादर्थ्यस्य सम्बन्धत्वेन प्रत्ययस्तदा भगवतोऽहामित्यादौ षछ्यापि जायते
चरमपदत्वेनोपस्थितस्य "नमः? इत्यस्य सखण्डतां मनस्याधाय मः मृपदवाच्यस्य
जीवस्य जीव: शोषो नेत्यर्थबोधनाज्जीवो भगवतो नित्यशेषः स॒ भगवद्व्यतिरिक्तस्य
कस्याप्यन्यजीवस्य स्वस्य वा शेषो भवितुं नाहतीत्यर्थः। भगवदनन्यशेषस्य जीवस्य
तदतिरिक्तशेषत्वे सहानवस्थानत्वरूपो विरोधः, अनन्यभगवच्छेषत्वस्यान्यशेषत्वस्यौ-
कस्मिन्रधिकरणे सहावस्थानस्यायुक्ततया तत्निरासस्य युक्ततया नमःपदेन विरोधिनो
भावस्य निरासो वर्ण्यते। नित्यभगवदेक शोषत्ववृत्तेजीवस्यान्यशेषत्वनिवृत्त्या विरोधिनो
भावस्य निरासो जायते। वस्तुतो सर्वशेषित्वं भगवत्येव, जीवस्य नित्यभगवच्छेषत्वम्;
तथात्वे तस्य पुनरन्यशेषत्वश्रमः स्वरूपविरोधी, नित्यभगवदैकशेषे तदन्यशेषत्व-
स्यायुक्तत्वातु; न ह्युपाधेरुपाधिर्भवतीति। युक्तमाह महाभाष्यकारेण 'उभयत आश्रयणे
नान्तादिवत्” इति विवेचनावसरे 'लोके यो द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति,
स तयोः पयायिण कार्य करोति। यदा तु तमुभौ युगपग्रेषयतो नानादिक्षु च
कार्ये भवतस्तदा यद्यसाविरोधार्थी भवति तत उभयोर्न करोति। किम्पुनः
कारणमुभयोर्न करोति, यौगपद्यासम्भवात्' (व्या. भा. ६.१.८५) पारतन्तर्यविरोधादिति
भावः। यद्वा कैङ्कर्यनिष्ठाचार्यनिष्छाद्यभावः कामादिविकारसत्वम्, वैराग्याद्यभावोऽक्रत्यकरणं
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ६५
विहिताचारोपक्षेत्यादयो दोषा भगवत्य्राप्तों विरोधिन:, इत्यम्भूतविरोधिनो निरासो 'नमः'
इत्यनेन वर्ण्यते।
तात्पर्यार्थो$स्य विज्ञेय आचार्यरुचिसंश्रयः ।
वाक्यार्थो मन्त्ररत्नस्य त्वथ निर्णीयते बुधैः ।।४२।।
प्राप्यप्रापकसम्बन्धस्वरूपाभिनिरूपणम् ।
प्रधानार्थस्तु तद्युग्मकैङ्कर्यस्य प्रधानता ।।४३।।
स्वदोषाभ्यनुसन्धानमनुसन्ध्यर्थ उच्यते ।
एवमेवानुसन्धेयं मोक्षकामैरहर्दिवम् ।।४४।।
* संवित्करः #
आचार्य की रुचि (यह जीव परमप्रभु श्रीरामजी का शरणापन्न हो उनकी भक्ति
करें, इस प्रकार के आशय) का संश्रय (अनुसरण करना) ही इस मन्त्र का
तात्पर्यार्थ है। प्राप्य (सर्वेश्वर श्रीरामजी) तथा प्रापक (जीव) के स्वरूप एवं परस्पर
सम्बन्ध की दृढ भावना ही मन्त्र का वाक्यार्थ है। अत: विद्वज्जनों ने ऐसा निर्णीत
किया है कि युगलप्रभु श्रीसीतारामजी के कैंकर्य की प्रधानता ही प्रधानार्थ है।
सर्वदा अपने दोषों का अनुसन्धान कर उसके परिमार्जन के लिए जागरुक रहना!
ही अनुसन्ध्यर्थ है। मुमुक्षुओं को इस प्रकार मन््रार्थ का सर्वकाल अनुसन्धान करते
रहना चाहिए।
* पदपरामर्शः *
द्रयमन्त्रस्य मन्त्ररत्नमिति श्रौती सञ्ज्ञा, यो दाशरशेर्द्र्याख्यं मन्त्राणां प्रवरं
मन्त्ररत्लमधीते, स सवान् कामानश्नुते विपश्चिता वेन सह मोदते” इति श्रुतेः।
मन्त्ररलेत्यनेन शास्रोदधिमन्थनसमुत्थिततया दुर्लभत्वमद्धुतत्वं महासारत्वममूल्यत्वं
रक्षणीयत्वञ्च बोध्यते। तादृशमन्तररत्नस्य तात्पर्यार्थवाक्यार्थप्रधानार्थानुसन्ध्यर्थनिकरो
बुधैर्यासम्प्रदायं मन्तराक्षरस्वारस्यकोविदेर्निणीयते विम॒श्येदमित्थमिति निक्षीयते। अथ
तात्पयर्थिमाह -- अस्य मन्त्ररत्नस्याचार्यरुचिसंश्रयस्तात्पर्यार्थो विज्ञेयः। आचार्यस्य
मन्त्रेपदेष्ट रुचेजीवो मुक्तये श्रीश्रीमतोः सीतारामचन्द्रयोश्चरणावुपायधिया अपदेतेत्याकारका-
भिलावस्यानुसारेण संश्रय: अपत्यनुष्ठानं विधेयमिति तात्सर्यार्थ। कतुराचार्यस्येच्छाविषयस्यैव
ततत्वद्वङ्गायां घोष इत्यस्य शीतत्वपावनत्वप्रत्यायनेच्छयो- च्चरितत्ववत्। वाक्यगतपदार्थानां
मिथोऽन्वयेन निश्चितं वाक्यार्थपाह -- प्राप्यप्रापक- सम्बन्धस्वरूपोति। पूर्ववाक्ये
अपद्य इत्यनेन प्रपदनक्रियाश्रयप्रापकस्वरूपमुत्तरवाक्येन च नमस्करणक्रियाविषयभूतस्य
श्रीसीतारामात्मकस्य प्राप्यस्य स्वरूपं प्रकाश्योभयोः स्वस्वामिभावादिसम्बन्धस्य निरूपणं
६६ श्रीवेष्णवमताब्जभास्कर:
क्रियते। पूर्व-प्रापकस्य पश्चाल्माप्यस्योत्त्यापि समासेऽ ल्पाच्त्वादभ्यर्हितत्वाच्चोक्तिक्रममुपेक्ष्य
आप्यपदस्य पूर्वप्रयोग:। सम्बन्धस्य मिथोनिरूपितत्वेनो भयनिष्छत्वाच्चात्रोभयोरुपादानम्।
किमुदिश्य यदुपजीव्य मन्त्रः अवृत्तस्तदेव प्रधानार्थस्तमाह -- अ्रधानार्थस्त्विति। युग्मस्य
श्रीसीतारामात्मकस्य परमसेव्यस्य युगलस्य यत्कैङ्कर्य दास्यं तदेव प्रधानार्थस्तस्यैव
वाक्ये पराधान्यात्नित्यकेङ्कय्रपतेरेव परमपुुषार्थभूतमोक्षरूपत्वाच्च। गोक्षकागैमुमुक्ुभिरहर्दिवं
अतिदिनं किमनुसन्ध्येवमित्यतो-नुसन्ध्वर्थमाह -- स्वदोषानुसन्धानमिति। अन्यशेषत्वादि-
अमप्रयुक्तदोषाणां स्वकीयानामनुसन्धानं विचारः सर्वदोषाणां मिथ्याज्ञानमूलत्वात्।
एतेनात्मकार्पण्यमुक्तम्। यद्यप्यत्र दोषाणां निवारणीयतया तत्निवारणे साधकजागरुकता
विवक्षिता, तथापि निवारणप्रवृततेः पराक्तेषां हेयतया स्वस्मिन्विद्यमानताबोध आवश्यकः;
लोके स्वदोषानपि गुणतया परिगणाय्याभिमन्यमानामपि दर्शनात्। न मे धमद्यिनुष्ठाने
अवृतिः, परमपुरुषार्थे वाभिरुचिः, अत्युत शाख्रविधानोळ्रमणं जगति विद्यादेमिथ्याभिमानो
निर्दयता कामक्रोधदम्भादयो भगवत्क्रतोपकारविस्मरण-मित्यादीन्यनन्तान्यतिषोराणि पापानि
सन्तीति महत्तरदोषभराक्रान्तत्वादेव मायि परमकारुणिकोऽपि भगवान्न मोक्षमार्गे पअवर्तयत्येवं
भूयो भूयो विचार एव स्वदोषानुसन्धानम्; बद्धस्यापराधयोगस्तु निसर्गसिद्धो, न
कश्चिन्नापराथ्यति' इति (४.२६.११, ६.११६.४५) श्रीरामायणे जगज्जनन्युकतेः।
प्रोक्ता वत्सक! मन्त्ररत्नविवृतिः सन्मानसाभीष्टदं
सद्वेद्यं सकृदित्यवेहि चरमं निर्णीतवाक्यार्थकम् ।
रामीयं हि तदीयमन्त्रनिरतैरुद्घोधनीयं परं
दवात्रिंशत्प्रमिताक्षरं मनुपदं द्वयर्द्ध जगद्ठिश्रुतम् ।।४५।।
* संवित्करः #
वत्स! मैंने पूर्वश्लोकों के द्वारा मन्त्ररत्न (द्वयमन्त्र) का विवेचन किया। अब जो
सन्तों को अभीष्ट फल देने वाला, सत्पुरुषों के द्वारा जानने योग्य निर्णीत वाक्यार्थ
वाला, राममन्त्रपरायण साधकों को अवश्य बताने योग्य, अभयदायी श्रीरामजी का
उदारघोषणास्वरूप, बत्तीस अक्षर वाला जगत्रसिद्ध चरममन्त्र 'सकृदेव प्रपन्नाय
तवास्मीति याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम" है। इसमें चौदह
पद तथा पूर्वार्ध एवं उत्तरार्ध के रूप में दो विभाग हैं। उसका रहस्यात्मक विवेचन
श्रबण करो।
* पदपरामर्शः ४
विशदतमाथाविबोधनसमर्थेन तवाचार्येण मयका मन्त्ररत्ननाम्ना प्रथितस्य द्वयस्य
वित्त रहस्यानुसन्धानार्था पदपदार्थन्वयविच्छित्या महता द्रागल्भ्येनोक्ता। इदानी क्रमप्राप्तं
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ६७
चरममन्त्रं तद्रहस्यं विवक्षता पूर्व शब्दात्मना तदाकारमवधार्य तदर्थानुचिन्तनस्य
वैष्णवैरवश्यकर्तव्यतामभिधाठुमुपक्रम्यते -- प्रोक्तेति। तत्रादौ वक्ष्यमाणार्थगौरवानुगुणा-
पेक्ष्यमाणावधानतायै द्रवद्वात्सल्यसिक्तसम्बुद्धयाऽभिमुखीकरोति ~ वत्सक ड्रति।
अत्रानुकम्पार्थक: स्वार्थकश्च तद्धितः कः परामौचिती बिभर्ति। स्तन्यमात्रावलम्निनो
स्तनन्धयस्येवानुपेक्षणीयत्वाभिव्यञ्जनेनाचार्यक्रपामात्रैकपरिपाल्यत्वं द्योत्यते; उपदेशस्य
च वात्सल्यैकप्रयोज्यत्वम्। सकृदित्यारभ्यमाणं वाल्मीकीयरामायणोक्तं पद्यं त्वं
चरममन्त्रेत्याकारेणावेहीति वाक्ययोजना चरमामित्यस्य विशेष्यभूतं द्वितीयान्तपदं
मन्त्रमित्यध्याहार्यं मन्त्रार्थविवेचनप्रस्तावात्। चरममन्त्रस्वरूपञ्चैवम् -- 'सकृदेव
प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम’ इति
(वा.रा.६. १८.३३) अत्र मन््रस्याद्यौकदेशसकृत्पदगुपादाय तदादिसकलपदघाटितः
श्लोकः: परागष्टः। लोक इतिपदं पदार्थविपर्यसाकत्वात्समभिव्याहृतशन्दस्वरूपद्योतकम्।
इतिशन्दस्यादिपरत्वमपि, तेन सकृदादिपदकदम्बकलसितमित्यर्थः। रामायणस्थो यः
सक्रदित्यारभ्यमाणश्श्लोको जगति भगवळातिज्ञावाक्यतया विशरुतसतं पूर्वाचायैश्वरममन्त्रतया
समादुतं सेवितञ्च वैष्णवत्वा्तदनुगामी त्वं चरममन्त्र इत्याख्ययावधारयोति भावः।
अत एव जगद्विश्रुतम् इत्युक्तम्। सवावितारेषु सर्वाधिकग्रसिद्धस्य श्रीरामस्य वेदात्परं
सर्वादौ काव्यात्यनाउवतीर्ण तत्पावनचरितोत्तम्भकं रामायणमेव विश्रुतम्, तत्रापि
वैष्णवसिद्धान्तजीवातुभूतप्रपत्तिस्वरूपोपस्थापकतया भगवत््रतिज्ञावाक्यत्वेनोदाराभय-
दानोद्घोषकतया च सर्वस्वभूतं निहितार्थगोरवेण जगद्विश्रुतमितिभावः। गुरूपदेशाभावेऽपि
रामायणतः पाठकमात्रेणोपलन्धेः। ये न रामभक्ताः सान्ति न वा वैदिकधर्मानुछातारः
तादृशेष्वपि प्रसिद्धमिति यावत्। अतोऽस्य सम्ग्रदायान्तरेऽपि समादरो बोधितः।
शास्रान्वितत्वात्परिनिछितशब्दमात्रस्य सम्यणज्ञानप्रयोगद्वारकं कामधुत्तवं शास्रे प्रोक्तमस्य
तु मन्त्रत्वेन दिव्यशब्दराशित्वातत्सुतरामित्याह ~ सन्मानसाभीष्टदामिति। सतां
तदुपासकानां मानसाभीहट' मनोरथं ददातीत्यर्थः। यद्वा सन्निर्मगल मानसं येषां तादृशां
विमलचेतसामभीटटदं वाज्छितपूरकामिति। तेनास्य भगवत्ापकत्वमपि सूचितं भवति, न
हि निर्मलान्तःकरणानां सता भगवद्व्यातिरिक्ते वस्तुनीट्टताबुद्धिायते। मन्त्रस्य
विषयप्राशस्त्यमाह -- सब्वेद्यम् इति सद्भिः साधुभिवेद्यं वेदितुं योग्यम्। न हि
सन्तोऽसद्वस्तु बुद्धावानयन्तीति -- सद्वेश् नाम परमार्थवस्तु/ न गुरुमुखात्
तदक्षरराशिग्रहणमात्रे पर्यवसेयमपितु पदाथविधारणद्वारा यथावस्थिताकारेण तद्रहस्यं
निश्चेयमिति भावः। यद्वा सच्छब्दस्य प्रशस्ताभ्यार्हितयोः सत्तवा्रशस्तज्ञेयमिति।
अभयहेतुप्रतिपादकत्वादभ्यर्हितत्वमपि। यथोक्तं 'वेद्यं वास्तवमत्र वस्तु शिवदं
तापत्रयोन्मूलनम्” (भा.पु. १.१.२) इति। चरमामिति मन्त्रार्थस्य सर्वापवादतया
६८ श्रीवेष्णवमताब्जभास्कर:
विद्यान्तराबाध्यत्वं सूच्यते, न हीमं सम्यग्विज्ञाय किमपि ज्ञातव्यं शिष्यत इत्यमोघाभय-
फलोपधायकतया पर्यवसितमिति यावत्। चरमोपायप्रतिपादकत्वाच्चरमत्वम्। प्रसादगुण-
सम्भ॒तत्वात्रिणीतः ग्रभूतोपोहापोहेन विविच्य निर्धारितो वाक्यार्थः पदानामन्वित्या
विम्रृष्टसमुदायार्थो यस्येति बहुव्रीहौ समासान्तः कप्। नात्र पदाध्याहारापेक्षा
नानन्वितार्थकता, न दूरान्वयता न वा जफरी तुफरीतिवन्निरर्थकपदकदम्बकामिति
प्रतीतिसोकर्यमुक्तम्।
अभयप्रदाता स्वयं धगवानेवास्याद्योपदेशेति वछमूलकं वैशिष्टयमाह ~ रामीयामिति।
रामप्रोक्तं रामसम्बन्धि वार्थः। रामाल्लन्धतया तस्य प्रसादरूपतेत्यतः परमुत्कृष्मनु-
पेक्षणीयम्। अहो उपेय एव करुणयोपायतां गत स्वावाप्तावनिष्टनिवारणस्यामोषसाधनं
अयच्छतीत्यौदार्यकाष्ठा। यथाक्षरसमाम्नायो महेक्षरात्पाणिनिना लब्धस्तथा सत्यसङ्कल्पात्
'अप्यहं जीवितं जह्याम्’ (वा.रा. ३. १ ०. १९), 'रामो द्विर्नाभिभाषते’ (२.१८.३०)
इत्येवं टुढप्रतिज्ञतया लोकविश्रुतनामधेयाद्रामाव्याप्तमिति भावः। तदेकर्यानुरूपनिरुपाधिक-
कारुण्यात््रपन्रजनतासरक्षणदीक्षिताद्रगवत ऋषिभिरवाप्तम्। तथाविधसर्वसमर्थस्य
तस्येवंविधं प्रतिज्ञानं युज्यते नान्यस्येति सूचयितुं विशिनहि ~ रामीयामिति। तेन
अतिज्ञातुराप्ततमत्वाछन्धस्य यथावस्थिताकारेण परिग्रहोवित्यं सूच्यते। रामीयत्वात्परमुत्करदटं
तत एव तदीयमन्त्रनिरतैरुद्वोधनीयमिति हिद्योतयति। परमुत्कृष्टम्, परशब्दस्य
केवलार्थतया, तदर्थोद्रोधनेऽपि कल्याणं ध्रुवमिति। तत्पदेन पूर्वोच्चारितपदप्रकृत्यर्थो
राम: पराम्रश्यते। राममन्त्रानुछानपरायणौराचार्यैरुद्रोधायितुं योग्यम्। निरतैरित्यनेन
नामार्थयोरभेदाधिया मन्त्रे परमासक्तिर्ध्वन्यते। णिच्यणिचि रूपसाम्यात्तदर्थवेतृभि-
राचावैरुद्रोधनीयं ज्ञाप्यम्, तज्जिज्ञासुभिस्साधकैश्च ज्ञेयमिति चार्थः; परमासक्तया
मन्त्रपरिग्रहेण सञ्जातसत्वशुद्धयाऽचिरेण तदर्थः प्रस्फुरतीति भाव:। यद्यपि साधकयक्षे
प्राप्तमनत्रजपावसरेऽपि सामान्यः पदपदार्थोपस्थित्या कश्चिदर्थस्तु नियमेन द्रतीयत
एव, तथापि निरन्तरानुष्छानेन निर्मलचोतस्सु तात्पर्यीविशेषावगतयेऽभिलाषो जायत
इत्याकूतम्। तेन यन्तरार्थग्रहणपात्रता तेषां सूच्यते। उद्गोधनीयम् इत्यनेन
जपापेक्षयाउभिप्रायाठुसन्धानस्य समधिकफलप्रदत्वं विवक्षितम्। चतुष्पादात्मकस्य चरममन्त्रस्य
तदानुपूर्वीशन्दस्वरूपं तद्घटिताक्षरपदादिपरिच्छेदेन परिचाययति -- द्वात्रिंशळामिता-
क्षरमित्यादि। अनुटुप्ताद् द्वात्रिंशता सङ्घयया प्रमितानि; अन्यूनानतिरिक्तवृत््या
परिगणितान्यक्षराणि यस्मिन् तम्, पूर्व साधनं कृतेति समासस्ततो बहुन्रीहिः। अत्र
प्रमितशन्दादक्षराणामेव गमितत्वं न तु तदाशयस्य, रहस्यवैपुल्यादित्यर्थो ध्वन्यते।
अक्षरत्वन्तु शुद्धस्य विशिष्टस्य च वर्णस्य, शुद्धवर्णवाचित्वे तु त्वत्रठृष्ट्॒थं स्वरूपं
नोपपद्येत। अतो 'रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः ' इति वचनं सङ्गच्छते।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ६९
यथाक्षरसमाम्नाये क्रमविशिष्टे: ग्रमिताक्षररल्ल प्रतिपाद्यते, तथैवात्र नियतानुपूर्व्या परिमितेरेव
वर्णैः शा्रसार इति। पदपरिगणनमुखेनाचष्टे -- मनुषदामिति। मनुपदं चतुर्दशसङ्कापर,
तेन मनुमितानि चवुर्दशपदानि यत्र, चतुर्दशपदात्मकमिति यावत्। यद्वा मनोर्मनीविजनमाननीय-
तयोत्कृष्टवा तादृशमुत्क्रष पदं स्थानं यस्येत्यर्थो वा। शरणागतिप्रधानभागवतधर्मककषु
भागवतस्य मनोरप्यन्यतमत्वेन भागवतोक्तेः, पदशब्दस्य च व्यवसित्यर्थकतया मनोरप्पत्रार्थे
व्यवसित्या प्रपत्तेगुख्यधर्मता निरूप्यते। व्यर्थम् इत्यनेन चरममन्त्रस्य पूर्वाधोततरार्धभेदेन
स्वरूपविभागः श्रोक्तः। वस्तुतस्त्वत्र तवास्मीत्यनुसन्धानाकारः, अभयं ददामीत्यन्तो
ब्रताकारश्चेति पूर्वोततरार्धयोर्जञानाकारद्वय-घाटितत्वमपीति विशेषः। चरमश्लोकगतानां
चतुर्दशपदानां यथाक्रमं तल्न्धं रहस्यं ्रतिपादयति सप्तभिः। तद्यथा सक्रत्पदेनोपायान्तरस्य
निव्रतिः, एवकारेणोपायनिरपेक्षता, अपनायेत्यनेनोपायस्थानमू, तवेत्यनेन भगवत उपायत्वम्,
अस्मीत्यनेनोपायस्वीकार इतिशान्देनोपायानन्यता, चकारेणान्य उपायः, याचत
इत्यनेनोणायसंसेविनोऽधिकारिणो लक्षणम्, अभयमित्यनेन आ’प्तौ प्रतिबन्धकस्य वारणम्,
सर्वभूतेभ्य इत्यनेन द्राप्यस्य प्राप्तौ प्रतिबन्धकम्, ददामीत्यनेनोपायस्य सर्वशक्तिता,
एतदित्यनेनासंशयत्वम्, वतमित्यनेनोत्तार्थदार््यम्, ममेत्यनेन निर्भरत्वानुसन्धानञ्च प्रतिपाद्यत
इति प्रतिपदमर्थसङ्ग्रहः।
अत्रोपायान्तरस्याथो निवृत्तिः प्रतिपाद्यते ।
सकृदित्येवकारेण तूपायनिरपेक्षता ।।४६।।
प्रपन्नायेतिणदतस्तूपायस्थानमुच्यते ।
उपायत्वं भगवतस्तवेति पदतस्तथा ।।४७।।
* संवित्करः *
इस चरममन्त्र में आवृत्ति का निषेधबोधक जो 'सकृत्' पद है, उससे भगवान्
श्रीराम से अतिरिक्त सभी साधनों की निवृत्ति बताई जा रही है। प्रपत्ति की दृष्टि से
भगवत्प़ाप्ति में भगवान् ही उपाय है, अतः यहाँ साधनान्तर का उपायबुद्धि से आश्रयण
मान्य नहीं हैं। “एव' के द्वारा यह सूचित किया जाता है कि भगवत्प्रपत्ति में किसी
अन्य उपाय (साधन) की अपेक्षा ही नहीं होती है। 'प्रपन्नाय' पद से उपायभूत भगवान्
पर ही पूर्णतः आश्रित जीव का रक्षास्थानत्व (अर्थात् भगवत्कृपाविषयत्व) प्रतिपादित
होता है। प्रपन्न, निश्चय ही भगवत्करुणा का भाजन बनता हुआ, अभय प्राप्त करता
है अथवा प्रपत्तिरूप उपाय का अनुष्ठाता होने या भगवान् की प्राप्ति के लिए उपायान्तर
से निवृत्त हो उपायभूत भगवान् में सुदृढ स्थिति होने से उसे उपायस्थान कहा जाता
है। *तब' पद से भगवान् श्रीराम की परमोपायता कही जाती है।
७० श्रीवेष्णवमताब्जभास्कर:
* पदपरामर्शः #
तत्रायमभिसन्धि: -- यद्यपि सकृच्छन्दस्य सहैकवारयोरर्थयोवृतिस्तेनाशत्तिनिषेधो
गम्यते, किन्त्वाचार्यस्तु सूक्ष्मदार्शित्वात्ततोऽपि गहनमर्थ पश्यतीत्युच्यते -- अत्रेति।
क्रियाजन्मगणनक््ते: सङ्ग्चाशब्दात्सवार्थे तद्धितविधानक्रमे एकस्य सक्नदित्यनेन सक्रदादेशेन
सह सुचो विधानात्सक्रदिति पर्द निष्पद्यते। तत्रैकशन्दः क्रियाविशेषणम्। तत्राप्यमरकोषे
“एके मुख्यान्यकेबला' (३.३.३४६) इत्येकशन्दार्थेु केवलार्थकस्य उपादानात्तेन
तद्व्यतिरिक्तस्य निव्रति: शक्तिस्वाभाव्यात्सुतरामेव बोध्यत इत्युक्तम् -- उपायान्तरस्य
निवृत्ति: प्रतिपाद्यत इति। प्रपत्तौ भगवानेवोपायतयावस्थितः, अतस्तादृशमुपायं
विहायोपायान्तरस्यावलम्बनान्तरस्य सुदृढनिवर्तनमेव सक़दित्यनेन बोध्यत इति विवक्षितम्।
एवकारेण चोपायनिरपेक्षता प्रतिपाद्यते। प्रसक्तमेव निवार्यतेऽत्र भगवत्पत्तौ
अपत्तिव्यतिरिक्तसाधनानां यागप्रश्नतीनामपेक्षैव नास्ति, तस्या: प्रपत्तेस्तस्य वोपायभूतस्य
भगवतः साध्यसाधनरूपतया सर्वार्थसाधकत्वादिति भावः। भगवत्प्रपत््यैव
नित्यकैङ्क प्राप्तिपर्यन्तं च फलमविनाभावेन लभ्यते। अत्रोपायान्तरव्यवधाननिपरेक्षता
एवकारेण द्योत्यते। 'प्रपन्नायोति तृतीयपदेनोपायस्थानमुच्यते' इत्यस्यायमाशय:
उपायभूतायाः प्रपत्तेः कुत्रावकाश: > किं वा ्रवृत्तिस्थलम् 2 यत्र प्रपतिश्चरितार्था भवति,
यन्निमित्तं तस्या उपायभावः, स च प्रपन्न एव, भयनिव॒त्तये सर्वभावेन भगवन्तमाश्रितः,
यत्र भगवत आश्रितपस्िहणादिकं चरितार्थ भवति। तादृशो भगवदेकाश्रयो जीवः प्रपत्तेः
स्थानमिति तृतीयपदेनोच्यते। गोप्तृत्वेन भगवद्वरणकर्ता प्रपन्नः स्वरक्षणं
याचमानस्तद्तविषयभूतो भवतीति भावः, "विभीषणो वा सुग्रीव यदि वा रावणः
स्वयम्” (वा. र ६. १८.३४) इति सामान्यतः -परतिज्ञातत्वात्। तवेति पष्छ्यन्तं चरमश्लोकस्य
चतुर्थं पदम्, तदुच्यमानविशेषमुन्र्याति -- भगवत उपायत्वामिति। युष्मदर्थं उपेय
एवोपायभावं गतस्तद्ग्यतिरिक्तस्याल्पज्ञस्याल्पसत््वस्य कस्यचिज्जीवस्य देवतादेर्वा
सर्वभूतेभ्योऽभयदानं न युज्यते, अतोऽत्र प्रपत्तौ भगवत एवोपायत्वमिति चतुर्थपदेन
गम्यते। मोक्षदाने तस्यैवाधिकृतत्वादन्यस्य तु रक्ष्यत्वादभयदानस्य सम्प्रदानरूपत्वादिति
भाव:। अत एवोक्तमहिबृध्न्यसंहितायाम् -- 'अहमस्म्यपराधानामालयोऽकिञ्चनो -
5गतिः। त्वमेवोपायभूतो मे भवेति प्रार्थनामातिः' इति, 'राक्षिता जीवलोकस्य”
इति (१.१.१३) रामायणोक्तेश्च। भगवानेवोपायः, न पुनः क्षणिकं तत्क्रियास्वरूपं
तत्साध्यं कञ्चिदपूर्वादिकं वा। अभयं ददामीति वक्तयोवोपायबुद्धिरुचितेति भावः।
अस्मीत्यनेन चोपायस्वीकारः प्रतिपाद्यते ।
समाप्त्यर्थेतिशब्देन तूपायानन्यतोच्यते ।।४८।।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ७१
* संवित्करः *
'अस्मि' क्रियापद से भगवान् को उपायबुद्धि से स्वीकार करना प्रतिपादित होता
है। यहाँ 'इति' पद समाप्त्यर्थक है, अत: उससे उपाय के प्रति अनन्यता बोधित
होती है। इसका आशय है कि भगवान् को उपायरूप में पाकर उपायान्तर के प्रति
अनुधावन की समाप्ति।
* पदपरामर्शः *
अस्मीति तिङन्तेन पञ्चमपदेनोपायतया प्रपन्नद्वारा भगवतस्स्वीकरणं सर्वतोवरणं
प्रतिपाद्यते, क्रियापदस्य स्वीकरणाक्रियाप्रतिपादनोचित्यात्। भगवानेव मे परमोपाय:
शरणं रक्षकोऽभयदातेत्याकारेण वरणामिति। तत्रोपायभूते भगवत्यनन्यता इतिशब्देन
षष्ठेन पदेन बोध्यते। अस्मीत्यन्वयेन उपायभूतभगवद्वरणामितिना व्यतिरेकेण
तद्ग्यतिरिक्तस्रिकालेऽपि उपायो नास्त्येव तत्रानन्यतोच्यते। अन्यत्रोपायताधीस्तस्य
समाप्ता भवति, इतेः समाप्त्यर्थकत्वात्। तथा चोक्तममरे ‘इति हेतुप्रकरणप्रकर्षादि -
समाप्तिषु’ (३.३.८३८) इति
चकारतोऽनुक्तसमुच्ययार्थतो निगद्यते त्वन्य उपाय आत्मवित्।
उपायसंसेव्यधिकारिलक्षणं पदेन वै याचत इत्यनेन तु ।।४९।।
* संवित्करः *
'च'कार अनुक्त का समुच्चयार्थक होता है, अत: यहाँ का 'च' पद वाचिक के
अतिरिक्त कायिक व मानसिक शरणागति का भी संग्रह करवाता है। अथवा;
भगवत्यराप्ति में प्रपत्ति के अतिरिक्त भक्तिरूप स्वतन्त्र साधन को भी संगृहीत करता
है। “याचते' क्रियापद से उपायसंसेवी (अर्थात् भगवन्मात्र पर अवलम्बित हो रक्षार्थ
याचना करने वाला) ही प्रपत्तिरूप साधन का अधिकारी है -- ऐसा कहा गया है।
* पदपरामर्शः *
चेति निपातः सप्तमं पदम्। चकारोऽनुकतार्थमपि समुच्चिनोतीति ततो मानसप्रपत्तरतिरिक्ता
कायिकी वाचिकी च प्रपतति: समुच्चीयते। कर्मान्तरवदेवमेवेति व्यवस्थाभावात्सौकर्यं
सूच्यते। ज्ञानाभावे यथाशक्ति यथाकथिञ्च्रपदनेऽपि न दोष इति भावः। अभयमेव
फलं मोक्षरूपत्वात्, तादृशफलयाच्जयाऽयमुपायसेवीति गम्यते। अतो याचत
इत्यहमपदेनोपायानुष्छातुरधिकारिणो लक्षणं सूचित भवति, येन रक्षणाय उपायभूतो
भगवान् याचितस्तेन ग्रपत्तिरूपोपायोऽनुष्ठितः, महाविश्वासपूर्वक॑ तदेकोपायतायाच्ना
हि शरणागतिर्भवति। महाविश्वासपूर्वकाभयग्ार्थनाश्रयत्वमेवात्राधिकारित्वमतः सर्वाधिकारत्वं
अफ्त्ते:।
७२ श्रीवेष्णवमताब्जभास्कर:
अथाभयमिति प्राप्तिप्रतिबन्धकवारणम् ।
सर्वभूतेभ्य इत्येव प्राप्यस्य प्रतिबन्धकम् ।।५०।।
* संवित्करः #
प्राप्यभूत भगवान् श्रीसीतारामजी की प्राप्ति में जो प्रतिबन्धक (बाधक) हैं,
उनका वारण ही 'अभय' पद से कहा गया है। वस्तुत: अनादिकर्म-प्रवाहरूप
संसार ही भय है, उसकी निवृत्ति ही अभय (मोक्ष) है। यहाँ 'सर्वभूतेभ्यः' पद से
प्राप्य की प्राप्ति के उन प्रतिबन्धको का निर्देश किया गया है, प्रपन्न के जिन
प्रतिबन्धकों का वारण भगवान् करते हैं।
* पदपरामर्शः *
अभयमितिपदेन आप्तिप्रतिबन्धकवारणमुच्यते। अस्यायं भावः -- संसारहेतुभूता
याऽनाद्यविद्या, सैव भगवत्माप्तो प्रतिबन्धकीभृता; तस्या निवृत्तिरेवाभयमित्यर्थः।
अत एव प्राप्तिकारणभूतबुद्धिदानं भगवता स्वयमुच्यते -- 'ददामि बुद्धियोगं तं
येन मामुपयान्ति ते! (गी. १०. १०) इति। एतेन भगवतोऽज्ञानसंशयविपर्ययप्रतिक्षेपसामर्थ्य
सूचितं भवति सत््वरजस्तमोमये दैहेन््रित्वेन भोग्यत्वेन चावस्थितैभाविर्भगवत्माप्तिः
प्रतिबध्यते, अनादिकालप्रवृततदुष्कृतप्रवाहोऽपि तठ्मतिबन्धक:; अपत्या तु तत्निवर्त्यत
इति विशोषः। भगवत्मप्तौ प्रतिबन्धकीभूतानां येषां वारणमभयमुच्यते। तत्रतिबन्धकं
किमिति -- सर्वभूवेभ्य इति नवमेन पदेन प्रतिपाद्यते। कर्मजन्यं भगवत्साक्षात्काररूप-
प्रकाशस्य प्रतिबन्धकीभूतं तमः, किञ्च विषयप्रावण्यमापि तत्र प्रतिबन्धकम्। किञ्च
रजस्तमोमूलभूतपापमपि तठातिबन्धकम्, इत्येवमनर्थपरम्परति प्रोच्यते -- सर्वभूतेभ्य
इति। प्रकतिगुणसङ्गेन तत्र जातरागाद्यनुवृत्तिहेतुतयाऽत्यन्तभयावहः संसारः,
यतश्चाभयमभीट्टम्, तत्रतिबन्धकमितिभावः। सर्वभूतेभ्य इत्यत्र भूतशब्दो न केवलं
चेतनमात्रपरोऽपितु प्राकृतगुणपरोऽपि। अत उभयस्य साधारण्येन बोधकं भूतपदं द्रयुक्तम्।
सर्वभूतेभ्यो बाधहेतुथ्यो भयहेतुभ्यश्च मोचयति; यथा माता शिशूननिष्ट-सपरन्यादिभ्यो
निवार्य रक्षति तथेति भावः। पापाज्ञानादेर्भगवञ्वक्तिप्रतिबन्धकत्वं तु भगवता स्वयमुच्यते
-- न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं
भावमाश्रिताः? (गी. ७. १५) इति। रजस्तमोमूलपापस्य ज्ञाननाशकत्वं तु प्रथितमेव
-- 'पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः। नष्टप्रज्ञ: पापमेव पुनरारभते
द्विज” इति (महा. ५.३५.५२)
ददामीतिपदेनाथोपायस्य सर्वशक्तिता ।
एतदित्येबपदतो ऽसंशयत्वमितीर्य्यते ।।५१।।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ७३
* संवित्करः *
'ददामि' पद से उपायरूप भगवान् की सर्वशक्तिमत्ता कही जाती है। जो सर्वशक्ति
से सम्पन्न होंगे, वहीं सर्वभूतों से अभय देता हूँ' ऐसा कह सकते हैं और वे
सर्वसमर्थ श्रीभगवान् ही हो सकते हैं। असन्दिग्ध तथा सन्निकृष्टितर वस्तु को बताने
के लिए 'एतत्' शब्द का प्रयोग होता है। यहाँ भी “एतत्' पद से प्रपन्नजनरक्षाविधान
में अपने व्रत में असंशयत्व (संशयरहितत्व) का बोध कराया गया है।
* पदपरामर्शः *
ददामीतिपदेनोपायस्य भगवतः सर्वशक्तिमता प्रकाश्यते, अभयदानसामर्थ्यप्रकाशनेन
सर्जनधारणनियमनप्रवेशनव्यापनपोषणरक्षणाद्यनेककार्यसम्पादनसामर्थ्यं कथ्यते। जीवस्तु
स्वापाद्यवस्थायां स्वसामर्थ्यं न वेत्ति, जानन्नपि किमपि न धारयति। यदि धारयति
तर्हि तस्य सर्वथा नियमनं कर्तु नाहति। कदाचित्तथा शक्तोऽपि नूनं ग्लानो भवतीत्यतो
भगवत एव सर्वविधसामर्थ्यं नान्यस्येति ददामीत्येतेन प्रतिपाद्यते। स्वायत्तचराचारं
स्वेच्छयात्मपर्यन्तं दातुमुद्यतमिह मां को निग्र्लीयादिति भाव:। वक्ष सकलभयहेतुवारणशक्तो
भवेत्स एवाभयं ददामीति वक्तुं शक्नुयात्। भयात्तस्याभयं कुर्विति सुग्रीवेण प्रार्थितो
भगवास्तद्भयहेतुं तथाविधं वालिनं व्यापाद्य स्वाचिन्त्यशक्तिमत्तां ग्राकाशयद्यां निपुण
बभाण सुग्रीवः ~ “सेन्द्रानपि सुरान्सर्वास्त्वं बाणैः पुरुषर्षभ। समर्थः समरे
हन्तु किं पुनर्वालिन प्रभो” (वा. या. ४. १२.८) इति। स्वयञ्चोक्तं भगवता विभीषणप्रपति-
प्रसङ्गे "पिशाचान् दानवान् यक्षान् प्रथिव्याञ्जैव राक्षसान्। अङ्कल्यग्रेण
तान्हन्यामिच्छन् हरिगणेश्वर’ (६. १८.१०) इति। इत्थं ददामीत्यनेन प्क्नत्यर्थमुपेक्ष्य
प्रत्ययार्थस्य व्यापाराश्रयत्वस्य विवक्षणात्सर्वक्रियासम्पादनसामर्थ्यं प्रकाश्यते। एतदिति
पदेनासंशयत्वं प्रतिपाद्यते! तस्यायं भावः ~ समीपतरवर्ति चैतदो रूपमित्युक्तेस्तथाविध-
समर्थस्य क्छुस्तत्सामर्थ्यस्य च समीपतरवर्तित्वात्तदर्थे न संशयस्य प्रवृत्तिरिति
बोधनायैतदिति पदम्। एतदः सर्वनामत्वा्रधानपरामरित्विनाव्यवहितपूर्वोक्ताकारेण
ग्रह्ममाणपिण्डीभूतार्थ प्रतिज्ञातं ुद्धावधिरूढं पराग्र॒श्यते। आपामरप्रतिपत्यनुगुणं सकलं
स्फुटमाकर्ण्यमानमिति लभ्यते, स्फुटत्वाद्यावदर्थीवधारणेऽसंशयत्वमुच्यते; स्वसामर्थ्ये
सन्दिहानः स्फुटः प्रतिज्ञातुं नार्हतीति भाव:।
ब्रतमेतत्पदेनाथो तद्दाढर्यमभिधीयते ।
निर्भरत्वानुसन्धानं ममेति प्रतिपाद्यते ।।५२।।
* संवित्करः *
“मम' पद से प्रतिज्ञाकर्ता भगवान् का बोध होता है और वे प्रपन्न को अभयदानार्थ
७४ श्रीवेष्णवमताब्जभास्कर:
वचनबद्ध हो रहे हैं। अत: “मम' पद से इस भाव की पुष्टि होती है कि उनके ऊपर
यह सोचकर निर्भर रहना चाहिए कि वे प्रपन्नजनों का रक्षण अवश्य करते हैं।
संकल्पवाचक 'ब्रतम्' पद से उनकी वचनबद्धता में अत्यन्त दृढता की प्रतीति होती
है।
* पदपरामर्शः *
ब्रतं सङ्कल्पस्सत्यसङ्कल्पभगवद्विषये तु नित्यपरिएहीतो निहितुकः स नित्यधर्मतया
कस्याञ्चिदप्यवस्थायां त्यागार्नह इत्यर्थः। यदुभशेन त्रतिनोऽखिलधर्षलोपभयाठ्ाणपणेन
तस्य सुदूढपरिपाल्यं सूचितं भवति। यथोक्तं वाल्मीकीये प्रतिज्ञायां हि नष्टायां
धर्मोऽ यं विलयं ब्रजेत्' (७. १ ०६.९) इति। नियमतो परििहात्रियमस्यावधारणार्थकतया
च अन्भक्ष इतिवदप एव भक्षयतीत्यनुभवादत्रापि ्रतपदेन दुरपह्ववरूपाकम्प्यत्वार्थकं
दाढर्य प्रतिपाद्यते। “रामो द्विनाभिभाषते' (२. १८.३०) इत्याद्युक्तचाप्रच्युतस्वभावस्य
अप्रतिहतसामर्थ्यतया सत्यसङ्कल्पस्य स्वायत्तसर्वोपकरणस्य सर्वेश्वरस्य साक्षाद्धर्मविग्रहस्य
दाशरथेममेत्यर्थः। दृढप्रतिज्ञत्वन्तु 'लक्ष्मीश्चन्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्।
अतीयात्सागरो वेलाम्” (वा. रा. २. १ १ २. १८) इत्यादिवचनात्स्फुटमवसेयम्, एतेन
अनन्याधीनत्वाद् ब्रतच्युतेरत्यन्तासम्भावनीयताव्यञ्जनेन सर्वविधसङ्कल्पस्य परिपाल्यत्वं
द्योत्यते। ममेति चरमपदेनाप्यहं जीवितं जह्यामित्याद्युक्तवति भगवति पितरि पुत्र इव
निक्षिप्तसमस्तभारः सन् तत्रैव निर्भरो भवतीति प्रतिपाद्यते ततो येन व्रतं कृतं
तत्पारिपालनचिन्ता तेनेव कार्या न मयोति थिया भगवानेव मे सर्व साधविष्यतीति
निर्भरत्वानुसन्धानेन पूर्णतया वीतचिन्तो भवतीति भावः।
तात्पर्यार्थोऽस्य विज्ञेयः शरण्यरुचिसंश्रयः ।
तत्प्रापकस्वरूपस्य वाक्यार्थोऽथ निरूपणम् ।।५३।।
प्रधानार्थः परेशस्य स्वरूपस्य निरूपणम् ।
निर्भरत्वानुसन्धानमनुसन्ध्यर्थ उच्यते ।।५४।।
* संवित्करः *
इस चरममन्त्र का तात्पर्यार्थ यह है कि अभय की कामना से जीव रक्षार्थ प्रतिश्रुत
शरणागतवत्सल भगवान् का समाश्रयण करे। यही भगवान् की रुचि का संश्रयण हे।
निर्भयता की कामना से शरण में आए हुए जीव के स्वरूप का प्रतिपादन चरममन्त्र
का वाक्यार्थ है। शरणागत की रक्षा के लिए ब्रतधारी परमप्रभु सर्वेश्वर के स्वरूप का
प्रतिपादन प्रधानार्थ है तथा प्रपन्न को भगवद्वचन पर विश्वासपूर्वक परमनिश्चिन्तता का
अनुभव करवाना ही इस मन्त्र का अनुसन्ध्यर्थ है।
द्वितीयप्रश्नोत्तरे जप्यनिर्धारणम् ७५
* पदपरामर्शः ॐ
चरममन्त्रस्य चतुर्दशपदाना प्रतिपाद्यार्थनिर्देशानन्तर' पुनस्तस्य तात्पर्यार्थवाक्यार्थ-
प्रधानार्थानुसन्ध्यर्थेति चतुर्विधार्थजातं द्राभ्यामभिदधाति। तत्र शरण्यस्य भगवतो
रामस्य रुच्या ग्राप्तिकामनया तत्संश्रयस्तदेकावलम्बन कार्यमिति तात्पर्यार्थ:। यद्वा
शरण्यस्य रुचे: प्रसादस्य संश्रय अवलम्बनं भगवानेव स्वरुच्या5स्मद्धितं सम्पादयिष्यतीति
भावविशेषाश्रयणम्। तद्गुचेरेव संश्रयणकथनादानुकूल्यस्य सङ्कल्प इत्यर्थः ग्रकाशितः।
अस्य वाक्यार्थस्तु भगवत्यापकस्य प्रपन्रजीवस्य तदेकाश्रयतयादिस्वरूपस्य निरूपणमनेन
श्लोकेन क्रियत इति। भगवत्यापकस्य तळ्ापदनस्य स्वरूपमयं निरूपयतीति वा
वाक्यार्थः। चरमश्लोकस्य प्रधानार्थः क इति जिज्ञासायामुच्यते परेशस्य
भगवतः समात्रितसंरक्षणे यज्जागरूकवदवस्थितत्वादिरूपं शरणागतदोषोपेक्षणादिकं
यदनितरसाधारणस्वरूपं तदनेन निरूप्यत इत्यर्थः। अस्यानुसन्ध्यर्थक्च भगवान् स्वाश्रितं
न कदाचित्परित्यजति, तमवश्यं भरणपोषणरक्षणाभीष्प्रदानादिना परिपालयतीत्याकारार्थ-
स्यानुचिन्तनं सर्वदा कर्चव्यमिति। तेन रक्षिष्यतीति विश्वास इत्यर्थः प्रकाशितः।
अत्राचार्यचरणौश्चरमश्लोकस्य चतुर्णा पुरस्क्रतानामर्थानां कथं मिथो भेद इति
विचार्यतामहीति ववित्रच्छाभूतस्य विवक्षितस्यैव तात्पर्यरूपतया तदुत्रीतोऽर्थस्तु
वाच्यार्थाद्भिद्यत एव। स च प्रत्येकपदव्रत्यविषयोऽपि तात्पर्याख्यव्वतिप्रतिपाद्यतयानुभवविषयो
भवति। तात्पर्य ग्रसङ्गादिनोन्रीयते तस्य तेनोपपद्यमानता स्यात्। प्रसङ्गक्चात्र सागरतटे
महापरिषदि सर्व परित्यज्य समागतस्य विभीषणस्य स्वीकार्यास्वीकार्यत्वविचारे भगवतः
स्वाभिमतप्रकाशनस्य। तत्र भगवता प्रयुक्ते तन्नित्यस्वभावावेदकाश्रितर्सरक्षण-
ब्रतस्वरूपोपस्थापके वाक्ये वक्तुर्भगवतो5भिप्रेतार्थ: क इत्यत्रोच्यते -- भवभयभीरुणा
जीवेन मत्संश्रयणं कार्यीमिति। शरण्यत्वान्ममाभिमता रुचिस्तत्संश्रयणं भवत्विति।
एतेन जीवसंश्रयणस्य भगवदभिमतत्वं वाक्यस्य तात्पर्यम्। वाक्यार्थस्तु तद्वति
पदपदार्थतदन्वयगम्यो भवति, स्वार्थबोधसमर्थानामङ्गाङ्गित्वविवक्षया तस्य समुदितार्थः
रूपत्वात्। वादृशवाक्यार्थक्षात्र तत्मापकस्वरूपनिरूपणामित्युक्तम्। सकृदेव तवास्मीति
याचते प्रपन्नाय सर्वभूतेभ्योऽभयं ददामीति वाक्यस्वरूपमुः तेन मदभिन्नका्तकं सर्वभूतावधिकं
तथाविधप्रप्नोददेश्यकमभयकर्मके वर्तमानकालिकं दानमिति वाक्यार्थः। तत्र यदुह्देश्येनात्राभवदानं
प्रकृत्तं स भगवव्यापको जीवात्मा वाक्यार्थस्तदुददेश्येनेव वाक्यप्रवृततेः। वाक्यस्य प्रधानं
वस्तु स्वयं भगवानेव, ग्पततेर्मुख्यविधेयत्वात्, निरतिशयैश्चर्यतया प्रपत्त्यहत्वात्,
रक्षणरक्ष्यादेस्तद्विभूत्येकदेशाश्रयत्वादुपायोपेयो- भयरूपत्वाच्च। प्राधान्यं नामाङ्गित्वम्।
यथोक्तं 'उयसर्जनत्वं प्रधानस्य धर्मतो नोपपद्यते। पिता प्रधानं जनने तस्पाद्धर्मेण
तं भजेत्’ (मनु. ९.१२१) इति। ग्रकृतवाक्यानुरोधेन शान्दिकदृष्यापि ददामीति
७६ श्रीवेष्णवमताब्जभास्कर:
दानक्रियायास्तत्समवेतत्वात् साक्षादन्वयस्तेनेव, न त्वभयं याचमानेन जीवेन।
अधानक्रियानिरूपिता कर्ठुशक्तिरुक्ता, तथोक्तम् प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते'
(वै भू सा. ६०) इति तिङ्समानाधि- करणस्य दानकर्तुर्भगवत: प्राधान्यम्। तत्स्वरूप-
निरूपणस्यैव प्रधानार्थत्वौचित्यात्। अनुसन्धानं नाम गहनपरीक्षणम्। अनु पश्चाद्वाक्यार्थ-
तात्प्यार्थप्रधानार्थादिविचारानन्तरं तदाश्रितैरनुसन्धेयार्थः क: 2 प्रपत्त्या सत्यां जीवो
भगवति निक्षिप्तात्मभारो भवतीति गुह्यार्थः। पुनः पुन उक्तार्थपर्यालोचनया अनुसंहितोऽर्थ
उच्यते -- निर्भरत्वानुसन्थान- मनुसन्थ्यर्थ इति। येनानर्थनिवृतिपूर्वकमात्रिताभयदानं
प्रतिज्ञानम्, तस्मिन्नेव भरो न तु मयीत्याकारकं निर्भयत्वानुसन्धानमिति तदर्थः। इत्यमस्य
श्लोकस्य तात्पर्यार्थः प्रपत्तिः, वाक्यार्थो जीवः, प्रधानार्थ ईक्षरोऽनुसन्धर्थक्च निर्भरत्वानु-
सन्धानमित्यर्थसङ्घेपः।
भः अ ( इति द्वितीयप्रशनोत्तरे जप्यनिर्धारणम् ) » +
।। श्रीसीतारामार्पणमस्तु ।।
( अथ तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् )
अथोच्यते महाप्राज्ञ! ध्यानं ध्येयस्य चिन्तनम् ।
बुधैरात्मपरैर्नित्यं जितप्राणैर्जितेन्द्रियैः ।।५५।।
* संवित्करः #
हे महामनीषी! योगबल से प्राण एवं इन्द्रियों को जीतने वाले भगवत्परायण
विद्वज्जन के द्वारा ध्येय (भगवत्स्वरूप) का नित्य-निरन्तर चिन्तन ही ध्यान कहा
जाता है।
* पदपरामर्शः *
किं ध्यानमिति तृतीयप्रश्नानुगुणसमाधानात्पूर्व स्वशिष्यस्य अहणधारणनवनवोन्मेष-
शालितादिविशिष्प्रज्ञां संस्तुत्य प्रोत्साहयति -- महाप्राज़ेति। ध्यानस्य सुबोधलक्षणमाह
-- ध्येयस्य नित्यं चिन्तनं ध्यानामिति। कादाचित्कत्वव्यावृत्तये नौरन्तर्यबोधकं
नित्यामिति; विजातीयचिन्तनशुन्यमित्यर्थः। वृत््यन्तराव्यवहितस्य ध्येयाकारस्य
मनोवृतिप्रवाहस्येव ध्यानतामाभिधत्ते योगसूत्रकारः 'तत्र प्रत्ययैकतानता ध्यानम्”
(३. २) इति। प्रत्ययस्यैकतानतामेव वैष्णवाचार्या निदर्शयन्ति 'तैलधारावदविच्छिन्न-
भगवत्स्मृतेः सन्ततिः? इति। तामेव ते ध्यानवेदननिदिध्यासनभक्तीत्यादिनामभिः
पर्यायतया निरूपयन्ति यथोक्तं श्रीमद्भागवते 'मनोगातिराविच्छिन्ना यथा
गङ्ाम्भसोऽ ग्बुधौ' (3.२९.११) इति। अत्रैव भगवत्स्म्रतिसन्ततिरूपसन्तताभ्यासेना-
प्रायाणादनुवर्तनीये यदाऽतिशयताधीयते, तदा तदेव विशदतमप्रत्यक्षसमानाकारतां
आपोति। यथोक्तं भयादिजनितनिरन्तरसन्तन्यमानचिन्तासक्तस्य मारीचस्य रामाकारसाक्षात्-
कारोपपादनं वचनं वाल्मीकिना 'वृक्षे वक्षे च पश्यामि चीरक्रष्णाजिनाम्बरम्।
गृहीतधनुवं रामं पाशहस्तमिवान्तकम्’ (३.३९.१४) इति। अनाद्यविद्यामूलं
लौकिकरूपादिविषयसेविनां तत्रेष्टतमत्वबुद्धेः ग्रावण्यात्निरन्तरं चिन्तनं भवतीत्यत
उक्तं ध्यातुं योग्यस्य ध्येयस्योति। ध्यानस्य ध्यातृसापेक्षत्वेन तद्द्वारा ध्यानाङ्गानि
सूचयितुं ध्यावृवर्ग दर्शयति चतुर्भिस्तृतीयान्तैः, बुधैविविकवद्धिरात्मरतेर्भगवत्परायणौः
जितेत्धियेर्वशीक्रतज्ञानकरमेन्रियौरजितप्राणैः पूरकुम्भकरेचकैः शोधितप्राणमागरित्यर्थः।
ध्यानाङ्गभूतगुणविशेषोक्तौ संसारतद्धेतुमोक्षमोक्षहेठुरूपचतुर्व्यूहज्ञानसम्पत्या
तदनुरूपध्येयाध्येयबोधतत्फलानुसन्धानोद्द्धप्वुधेरितयर्थाद्वचातुर्वन्थमोक्षतत्वविवेकेन
देहाद्यभिमानराहित्यरूपा ध्यानयोग्यता सूचिता भवति। बुद्धिवैशद्यमुक्तवा ध्यातषु
७८ श्रीवेष्णवमताब्जभास्कर:
धारणासम्पदमपेक्ष्यमाणां सूचवितुमुक्तेनात्रतैरित्यनेन न केवलं तुष्टिरुच्यतेऽपितु
आश्रयविशेष विना चित्तस्य स्थिरीकरणमशक्यमत आत्मानं भगवन्तमाश्रित्य तदासक्तिरपि
बोध्यते। आत्मरतेर्भगवदनुरक्ते: परमफलत्वाद्योगसूत्रस्य तृतीयाध्यायविषयस्सूच्यते।
वित्तस्थिरीकरणं धारणा मनोनियमनञ्चअ्त्याहार इति तत्र प्राणायामादेरुपकारकतयोच्यते
-- जिताः प्राणा यैरिति जितप्राणैरिति। आसनजयेन स्थैयमवाप्य गनोनैश्वल्याय
तत्समाधानसाधनकथनोचित्यात्। आसनमास्थितः .प्राणात्रियच्छेदित्युक्तप्रकारेण
प्राणमार्गशोधनं सूचितम्। प्राणायामेन न केवलं मनसक्चञ्चलत्वं ततूक्रियतेऽपि तु
विवेकावरणमापि। यथाविधि प्रच्छरणाविधारणाभ्यां शरीरमनसो: सम्यकशुद्धिद्वार
प्रज्ञाबलमुद्दीप्यते, क्षीयते च मलावरणम्, तत्रियायितं वित्तं नासद्विषयैः संयुज्यते।
यथोक्तं भागवते 'मनोऽचिरात्स्याद्विरजं जितश्चासस्य योगिनः। वाय्वग्निभ्यां
यथा लोहं ध्मातं त्यजाति वै मलम्’ (११.१५.१) इति। जितेन्द्रियैरित्येनन
प्रत्याहारः सूचितः। वस्तुतोऽत्र मनोनिग्रहणं लक्षितम्, जितेब्रियैरित्यनेन वैराग्यम्,
जितप्राणैरित्यनेनाभ्यासश्चः 'अभ्यासवैराग्याभ्यां तन्निरोधः” (यो. सू. १. १ २) इत्दुकतेः।
ध्येयतां शोधयितुमेव ध्यातगुणोक्तया जितेन्धरियत्वादिविशोषणेध्येयवस्तुनः प्राशस्त्यं
विवक्षितम्। न हि तथाविधैजितिन्ियादिभिर्निकष्टं चिन्त्यत इति भाव:। प्रकतिपरिणाम-
विशेषतया विलक्षणतया प्रतीयमानस्यापि जडत्वेन दुःखवत् प्रयत्नानपेक्षयापि
लभ्यत्वात्स्वयंप्रकाशचेतनापेक्षया हेयतया नाचितो ध्येयता, न वा प्रत्यगात्मनोऽपि
कर्माधीनतया मलिनत्वादज्ञत्वाद्गुणपरतन्त्रत्वाद्धगहीनत्वाच्च नित्यशुद्धनित्यविबुद्धसर्व-
नियामकत्वादिकल्याणगुणाकरसर्वेक्षरापेक्षया ध्येयतेति सर्वोत्कृष्टणावगाया एव
कर्ततव्यत्वमादिशति ब्रह्मसूत्रकारोऽपि 'ब्रह्मदृषटिरुत्कषात्' (४.१.५) इति।
अत्यगात्मानन्दापेक्षया भगवदानन्दस्य निरतिशयत्वेन स्मरणमात्रेण स्वस्वरूपे रममाणानां
तथाविधसनकादीनामानन्दप्रकर्षोदयाच्चित्तादिविक्षोभो वर्णितो भागवते 'तस्यारविन्द-
नयनस्य पदारविन्दाकिञ्जल्कमिश्रतुलसीमकरन्दवायुः। अन्तगतिः स्वविवरेण
चकार वेषां सङ्घोभमक्षरजुषामापि चित्ततन्वोः? (३.१५.४३) इति। अत एव
दिव्यगृणाकरत्वाद् भगवत एव ध्येयतामवधार्य ध्यानानुगुणस्वरूपं वर्णयति --
विकचपदादलायतवीक्षणं विधिभवादिमनोहरसुस्मितम् ।
जनकजादृगपाङ्गसमीक्षितं प्रणतसत्समनुग्रहकारिणम् ।।५६।।
* संवित्करः *
भक्तों को ध्येय परमप्रभु श्रीराम का इस प्रकार चिन्तन करना चाहिए : मैं
सद्योविकसित नूतनकमलदल के समान विशाल लोचन वाले, शिव-ब्रह्मादि
तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् ७९
देवताओ के मन को हरण करने वाले, सुन्दर मन्दस्मित हास्य वाले, श्रीजानकीजी
की स्नेहस्निग्ध दृष्टि से निहारे जाने वाले, सर्वदा प्रपन्न भक्तों पर परिपूर्ण
कृपावर्षी, भगवान् श्रीराम का ध्यान करता हूँ।
* पदपरामर्शः *
रमणीयगुणाकरस्य श्रीरामस्य दृष्टिचित्तापहारित्वादेस्तत्र तत्र प्रसिद्धेस्तस्यैव
त्रिभूवनमोहनसौन्दर्यस्य ध्येयतामनुसन्धाय तत्र युगपत्सर्वाङ्गलावण्यग्रहणाशक्यतया
'एकैकशोऽङ्कानि धियानुभावयेत्” इति (२. २. १३) भागवतोक्तदिशा नयनाभिरामया
ध्यानास्पदेषु सवङ्गिषु दृशां पानपात्रायितस्य सुषमानिधानस्य मुखारविन्दस्य ध्यातव्ये
तत्रापि तद्वतनालिनायतलोचनयुगलस्य ,प्रसादाद्यभिव्यञ्जकत्वासथमध्यातव्यतां निश्चित्य
स्मरणकर्मीभूतं भगवन्तं विशिनहि -- विकचपद्मदलायतवीक्षणामिति। 'रामः
कमलपत्राक्षः ' (वा. रा. ७. १०९. १) इत्यादिकव्युक्तिमनुचिन्त्य भक्तदर्शनप्रीतिप्रकाम-
विस्फारितत्वं बोधयितुं तदानुगुण्येनाभिधत्ते पूर्णविकसितकमलपत्रवदायते वीक्षणे
यस्य तादृशं रामं स्मरामीत्यन्वयः। एतेन ख्रवत्करुणाम॒तपूरनिर्भर्राकाम्यगर्भ-
सुषमयाश्रिताह्णादकरत्वं सूचितं भवति। अत्र वाचकलोपाद्वाचकलुप्तोपमा।
्॒त्यानुरागोत्फुछनयनशोभानुरूपाधरपह्वचारुस्मितवैभवं वर्णयति ~ बिधिभवादि-
मनोहरसुस्मितामिति। विधिभवादीनान्तपः समाधिना निगुह्ीतमनसामपि मनोज्ञत्वाद्वलादिव
चित्तावर्जकं मन्दस्मितं यस्य, तादृशं रामं स्मराम्यनुचिन्तयामीति भावः। त्रिलोक्यामुत्पादक-
नाशकवाचकतया प्रथिताभ्यां विधिभवेति पदाभ्यां तन्मध्यवर्तिनिखिलजीवराशिरपि बोधितः।
उभयोर्देवत्वादप्रतिमसौन्दर्ये सत्यापि तन्मनोहारित्वकथनेन निरतिशयत्वं सूचितम्, येन
सौन्दर्याधिष्छाता कामो नाशित:, यश्च स्वयं सौन्दर्यरचनाविधानचातुरस्तयोः स्वायत्तमापि
मनो मनोज्ञतया प्रसभं हरतीति, तस्य चारुत्ववेभवं कथं कथ्यतामिति भावः। अत उक्तं
मानसे 'हृदय अनुग्रह इन्दु प्रकासा। सूचत किरन मनोहर हासा' इति (१. १९८.७)
मन्दस्मिते माधुर्यं शुचित्वं सौम्यत्वं सौकुमार्यं चेत्याद्युपसर्गद्योत्यम्। इदमेव
दृठिचित्तापहारित्वेन रसावहत्वम्, सापराधेष्वषि निग्रहलीलायामपि सामप्रधानत्वं
'स्मितपूर्वमथाब्रवीत्' (वा. रा. ३. १८. १) इति तत्स्वभावकथनात्। अत्रोपमानवाचक-
ठुप्तोपमा। एतादृशसुस्मितवीक्षणादिसौष्ठवस्यात्यासन्नतया जनकजाया नित्यभोक्नत्व-
सौभाग्यं ललितसरण्याह ~ जनकजादृगपाङ्गसमीक्षितमिति। देवादीनान्तु
तादृशमनोहारिसुस्मितावलोकनसौभाग्यस्य कादाचित्कत्वं सूचयन् यदीयो नित्यसिद्धान्वय-
मूलोऽघिकारस्तामाह -- जनकजोति। पत्युः पूर्णनिरवर्णनस्य स्रीयुलभसङ्गोचजनकत्व-
मभिद्योत्य तादृशदुलभवस्त्वनुरूपसमास्वादनं वक्ति दृगपाङ्गसमीक्षितम्।
वीक्षणसुस्मितयो; पूर्णसमास्वादनपात्रता तु जगद्रक्षणे सहाभिषिक्ताया अस्या एवेति
८० श्रीवैष्णवमताब्जभास्कर:
ध्वन्यते, न केवलमीक्षितमपितु समीक्षितं; तत्रापि न दृशापितु तदपाङ्गेनेति
प्रीतिवशीक्रतपतिलाभप्रयुक्तः कयाचित्रयनलीलयैव सम्पुष्ट: प्रणयो द्योत्यते।
अपाङ्गसमीक्षितमित्यनेन कयाचित्स्नेहावलोककलया प्रणयप्रसादितँ तादृशाभिजातसुलभं
सोशील्यं ध्वनयति। एकमेव तत्त्वं थोक्नभोग्यभावेनावस्थितमिति केचित्। या च स्वयं
सकलसौन्दर्याधिष्ठानतया प्रथिता तयापि सस्परहमवलोकितमिति भगवांस्तु श्रियोऽपि
श्रीरिति लभ्यते। तदीयसौन्दर्येणास्मार्क प्रणतानां को लाभ इत्यतस्तस्यानुग्रहवर्षण-
स्वभावमाह -- प्रणतसत्समनुग्रहकारिणामिति। प्रणतेषु सत्सु महात्मसु सज्जनेषु
चानुग्रहं कृपां कर्तु शीलं यस्य, तादृशमनुग्रहवर्षणस्य कादाचित्कत्वनिरासायेव
शीलार्थको णिनिः। तदनुग्रहमात्रस्याशेषकल्याणसाधकत्वद्योतनाय समुपसर्गः। अनुग्रहं
कारयितुं शीलमित्यपि ण्यन्ताद् णिनिः, तेनान्योऽ प्येतठररणयैवानुग्रहं करोत्यस्य
सर्वान्तर्यामितया सर्वप्रेरकत्वादिति भावः। अत्र द्रुतविलम्बितच्छन्दः।
मुनिमनस्सुमधुब्रतचुम्बितस्फुटलसन्मकरन्दपदाम्बुजम् ।
बलवदद्भुतदिव्यधनुश्शरामहितजानुविलम्बिमहाभुजम् ।।५७।।
* संवित्करः #
मैं, मुनियों के मानसरूपी भ्रमरों से समास्वादित मधुर मकरन्द से परिपूर्ण
चरणकमल वाले, परम अद्भुत एवं अत्यन्त बलयुक्त विलक्षण पराक्रमी दिव्य
धनुर्बाणं से सुशोभित आजानु लम्बायमान विशाल भुजदण्ड वाले, परमप्रभु
श्रीराम का ध्यान करता हूँ।
* पदपरामर्शः *
साधकबाधकप्रमाणोपन्यासैः शरुत्याद्यर्थपननशीला मुनय उच्यन्ते, तादृशमुनीनां
रागा्यनुपहितत्वाच्छुद्धमनांस्येवसुमधुत्रताः साधुभ्रमराः, तैश्चुम्बितमीषदीषदास्वादितं पदाम्बुजं
चरणकमल यस्येत्यन्वयः। पदाम्बुजमिति सुरभित्वसुखस्पर्शात्वादिव्यञ्जकं पावनतमत्वेन
परमप्रेमहित्वं च ग्रकाशयति। तत्र पदाम्बुजे भ्रमराणां नित्यास्वादनपात्रता- मभिधातुं
विशेषयति -- स्फुटलसन्मकरन्देति। स्फुटत्वादौदार्यं लसदिति मकरन्दप्राकाम्यं च
सूचितं भवति। मुनिमनसां सुमधुकरत्वकथनेन तदेकजीवनत्वं तत्रापि सारतमग्राहित्वञ्च
व्यज्जितम्, मकरन्दलिप्सयोपदेशशततर्जनादिभिरपि दुर्निवारत्वं सूच्यते। इत्थं प्क्रतिसिद्ध:
कक्षिद्रसाभिनिवेशः ग्रकाश्यते। अनुपलभ्येऽन्यत्र च दंशनयथेच्छाभिगमनादिधा्ऽयदोषाभावं
दर्शयितुं स्वितिपदम्, मुनिमनस्सु हि तपस्स्वाध्यायादिजन्यं नैर्मल्यं भवति। भगवतः
श्रीरामचन्द्रस्य पदारविन्दस्य ध्येयताविशेषस्तु तद्वतमाहात्म्यसूचनेन भागवतादि-
अन्थसहस्रौनिरूपितस्तद्यथा "ध्येयं सदा पारिभवध्नम भीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं
तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् ८१
शरण्यमू। भृत्यार्तिहं प्रणतपाल भवान्धिपोतं वन्दे महापुरुष ते चरणारविन्दम्”
(भा.पु. ११.५.३३) इति। अत्र वाचकलुप्तोपमा। आत्रितविरोधिनिरसनपूर्वक-
तयाश्लेषणाद्यनुगुणं तन्महाभुजं महावीरशङ्गारोचितायुधसम्पन्मुखेन ध्यायति --
बलवदित्यादिना। बलव्रयामद्धुताभ्यां दिव्याभ्याञ्च धनुरुशराभ्यामामहितौ सर्वतः पूजितौ
संशोभितौ जानुविलम्बिनौ महान्तौ भृजौ यस्य, तादृशं रामं स्मरामीत्यन्वयः।
जानुविल्बिमहाभुजमित्यनेन सामुद्रिकशाख-सिद्धं महासौभाग्यसूचकं महापुरुषलक्षणमुच्यते।
भक्तापन्निवारणसर्वस्वभूतपरिष्वङ्ग-प्रदानानुरूपता गम्यते। यथोक्तं वाल्मीकीये
'बाहुच्छायामवष्टन्धो यस्य लोको महात्मनः” (५.३४.३१) इाति।
भुजयोर्दिष्यायुधसेवितत्वं वदति -- धनुः शराम- हितेति। सर्वाधारभूतभगवद्विग्रहाधारेण
शोभप्रकर्षो व्यक्त:। पराक्रतायुधत्वानिरासाय दिव्येति, अचिन्त्यकार्यकारित्वाद्विस्मयावहत्वं
बोधयितुमद्धुतेति विशेषणम्। अद्धुतत्वादेव कुठारटङ्ककुद्दालादिभिः प्रत्येक कृच्छ्रसाध्यं
शालशैलविदारणपूर्वकं पातालीयजनज्ञापनादिः कार्यमेकेनैव बाणेन क्तमिति रामायणकथां
स्मारयति "बिभेद च पुनस्तालान् सप्तैकेन महेषुणा। गिरिं रसातल चैव जनयन्
प्रत्ययं तदेति’ (वारा. १.१.६६)। परिष्वङ्गानन्दलाभकेङ्कर्यधषन्यनित्यसूरीणामेव
भूषणायुधभावेनावस्थानादिव्यत्वं नाम चेतनत्वम्। अत एवोक्तं श्रीरामायणे "शरा
नानाविधाश्चापि धनुरायतविग्रहम्। अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः '
(७.९९.७) इति।
परार्ध्यहाराङ्गदचारुनूपुरं सुपदाकिञ्जल्कपिशङ्गवाससम्।
लसद्घनश्यामतनुं गुणाकरं कृपार्णवं सद्धदयाम्बुजासनम् ।।५८।।
* संवित्करः #
अमूल्य हार, अंगद, सुन्दर नूपुर आदि अलंकरणों से विभूषित, कमल-केसर
के समान दिव्य पीताम्बर धारण करने वाले, सजल-जलद के समान श्याम,
कल्याणगुणनिधि, कृपासागर तथा सन्तजनों के हृदयकमल में सर्वदा निवास
करने वाले प्रभु श्रीराम का मैं ध्यान करता हूँ।
* पदपरामर्शः *
श्रीविग्रहस्य दिव्याभरणादेश्चान्योन्ययोगाच्छोभावहत्वसूचनेन सर्वेश्वरत्वं ख्यापयितुं
पीताम्बरस्य च श्यामविग्रहयोगात्नित्योज्ज्वलं भास्वरत्वं ग्रकारायितुमाह -- यरार्ध्योति।
कण्ठवक्षोहस्तचरणानाममूल्यानवद्यहाराङ्गदनूपुराद्यलङ्कारलसिततया ग्त्याहारन्यायेन
सर्वाङ्गभूषणं कथितम्। वक्षोबाह्पेक्षया चरणयोर्भक्तैकसमाश्रयणसततसेवनानुगुणं सौलभ्यं
द्योतयित्वा नखमणिप्रभायोगविशेषसौष्छवं वुं तूपुरयोक्चारुत्वविशेषणम्। शोभनपद्मकोश-
८२ श्रीवेष्णवमताब्जभास्कर:
वर्तिकिञ्जल्कस्य वर्णवत्पिशङ्ग पीतं वासो यस्येति। सुपद्य इव किञ्जल्कस्य शोभावर्धकत्वं
तथा पद्मपेशलस्निग्धाङ्गेषु भगवतः पीताम्बरस्य। तेन पीतिग्न: साहजिकत्वमुच्यते।
अत्र वाचकळुप्तेति उपमाया एव प्राधान्यम्। श्रीविग्रहशोभां घनश्यामतयोपमिमीते
-- लसद्घनश्यामतनुमिति। वर्षणोन्युखसजलसाद्धतां द्योतयितुं घनेति नयनसीभगं
द्योतयितुं लसदिति। तेन दृष्टमात्रेण सन्तप्ततापहारित्वं श्यामत्वेनागाधत्वं शङ्गाररसानुगुण्यं
च लभ्यते। तादृशोऽपि भगवान् कारुण्याद्भक्तहृदयमाविशतीति तस्यानुरूपस्थानं
विशेषणद्वाराभिधत्ते -- सद्धदयाम्बुजासनामिति। सतां सज्जनानां हृदयमेवाम्बुजं,
तत्रासनं नित्यस्फूतिर्यस्येति। सर्वव्यापकस्यापि हृदयेऽभिगमोऽधिको भवतीति सूचनाय
हृदयेति हृदयस्याम्बुजोपमानेन म॒दुत्वशीतलत्वसौरभमनोज्ञव्यज्ञनायाऽ सनयो ग्यतोक्ता,
सत्पदेन च तदेकाधारेण जीवित्वं सूच्यते। सद्धदयेत्यनेन निर्मलत्वं लक्षितम्।
यथोक्तमादिकाविना *रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा” (१.२.५) इति।
एतेन भक्तचा ग्रहीतचरणत्वेन भगवतो नित्यानिवासः सूचितः। यथोक्तं भागवते 'त्वं
भावयोगपरि भावितहृत्सरोज आस्ते' (३. ९. १ १) इत्यादिना। भक्तप्रीतिपारतन्त्र्याद्
भगवतो बहिगमनमशक्यमिति लभ्यते "नापैषि नाथ हृदयाम्बुरुहात्स्वपुसाम्
(३.९.५) इति भागवतोक्तार्थोऽविकल प्रकाशित?!
प्रसन्नलावण्यसुभृन्सुखाम्बुजं जगच्छरण्यं शरणं नरोत्तमम् ।
दयापरं दाशरथिं महोत्सवं स्मरामि रामं सह सीतया सदा ।।५९।।
द्विभुजस्यैव रामस्य सर्वशक्तेः प्रियोत्तम ।
ध्यानमेबं विधातव्यं सदा रामपरायणैः ।।६०।।
* संवित्करः #
मैं, प्रसाद-ललित-लावण्य से विलसित मुखकमल वाले, सर्वलोकशरण्य,
परात्पर पुरुषोत्तम, निज अनुज एवं परिकर के साथ विराजमान, मूर्तिमान्
महोत्सव, दशरथनन्दन भगवान् श्रीराम का करुणामयी जगदम्बा श्रीसीताजी के
साथ, सदा स्मरण करता हूँ। हे परमप्रिय! श्रीरामानुरागी वैष्णवों को सदा
सर्वशक्तिसम्पन्न द्विभुजस्वरूप वाले परमप्रभु श्रीराम का ही पूर्ववर्णित प्रकार से ध्यान
करना चाहिए।
* पदपरामर्शः *
अन्ते पुनर्श्रमरन्यायेन सकलसौन्दर्यनिधानभूतां मुखाम्बुजश्रियं स्मरति --
प्रसन्नलावण्यसुभृन्मुखाम्बुजामिति। प्रसन्न इत्यनेनोत्फुछत्वेन उज्ज्चलत्वमो दार्यं
नित्याम्लानत्वञ्च सूच्यते। लावण्यन्तु “मुक्ताफलेषु च्छायायास्तरलत्वामिवान्तरा।
तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् ८३
अतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते' इति साहित्यशास्रेप्रसिद्धण। यथोक्तं लोचनकारेण
-- लावण्यं हि नामावयवसस्थानाभिव्यङ्ग्यमवयवव्यतिरिक्तं धर्मान्तरमेव”
इति। तत्रापि प्रसत्रविशेषणेन दिव्यत्वं प्रकाशितम्। प्रसन्नलावण्यमापे यत्सुबिभर्ति
तथाभूतं मुखाम्बुजं यस्येति। अत: समरलीलायामपि लावण्यं मुखाम्बुजं न जहाति;
'रिपूणामापि बत्सल' इति (६.५०.५६) रामायणोक्तेः। स्वाधीनाखिलस्य तस्य
प्रातिकूल्यप्रसङ्गलेशस्याप्यसम्भावनया5म॒तरूपतया च नित्यप्रसादो बोध्यते। तेन
सर्वसाधारणेनापि निर्भयाभिगम्यता ध्वन्यते। नित्यानिरवद्यतया सर्वचित्ताकर्षकश्रीविग्रह-
रमणीयशोभावैभवं वर्णयित्वा समाश्रयणोपयुक्तमनन्यसाधारणस्वभावं निरूपयति --
गुणाकरमित्यादि। गुण्यत इति गुणः, अभ्यसनीयोऽनुकूलतमत्वेन शीलनीय इत्यर्थः।
तथाविधस्य भगवतोऽपि गुहनिषादवानरादिमन्देः सह नीरन्ध्रसंश्लेषस्वभावरूपं सौशील्यमिति।
इत्थम्भूतगुणानायाकरं निधिं राम स्मरामीत्यन्वयः।
सन्त्येव तादृशा गुणाः, किन्तु कृपायास्त्वर्णव एवेत्याह कृयार्णवमिति।
अर्णवत्वारोपेणाश्रितानां मेरुसटृशापराधा अप्यत्र निमज्जन्तीति गम्यते। अत
एवासह्यदेव्यपचारोऽप्यत्र निमग्न इति जयन्तकथा पराग्रष्टा वधहिमपि काकुत्स्थः
कृपया पर्यपालयत्” (५. ३८. ३४) इत्यत्र क्रपाणवमिति पदयोः सामान्यतो रूपकं
विद्यते कापि, किन्तु स्वभावोक्ती रामतनुसौन्दर्यवर्णनपरेह रमणीयतां तनोति।
दयापरत्वादेवैवंविधमतिलोकं भगवान् विधत्त इत्याह ~ दयापरामिति। सर्वलोकहितैषिणी
सर्वसहा क्षमा हि दया गओरच्यते। स्वप्रयोजनमनपेक्ष्य परदुःखनिराकरणेच्छाया दयारूपत्वात्।
युद्धस्थले दुरवस्थां ग्राप्ते रावणेऽपि तस्य कदाचिन्निग्रहनिवर्तकप्रसादविशेषो जायते।
यथोक्तं स्वयं भगवता 'तस्मात्परिश्रान्व इति व्यवस्य न त्वां शरैसत्युवर्श नयामि’
(५९.१४२) इत्यनन्तत्वात्तस्य कृपया अप्यपरिच्छेद्यत्वपत आह ~ जगच्छरण्यमिति।
न केवलमेकस्य द्वयोर्वा रक्षणे अभुरपितु सर्वस्यापि। यद्वा यस्य लोके न मातापितदेवादिष्वपि
कश्चिच्छरण्यस्तस्याप्ययं शरण्यो भवतीति भावः। यथोक्तं जयन्तप्रसङ्गे रामायणे त्राणकाम
इमं लोक सर्व वै विचचार ह। स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः ।।
त्रील्लोकान् सम्परिक्रम्य तमेव शरणं गतः ' (५.३६. २७-२८) इति। अतस्तदीय
उदार उद्घोषो जातिगुणवृत्तादि- विशोषमनपेक्ष्यैव ग्रवत्त: "विभीषणो वा सुग्रीव यादि
वा रावण: स्वयम्” (वा. रा ६. १८.३५) इति।
वस्तुतः समर्थः सन् कारुणिकः सर्वरक्षणे प्रभवति, कारुणिकोऽपि यदि विषमोऽ
समर्थो वा स्यात्, समः समर्थोऽपि यदि निष्करुण: स्यात्तदा सर्वरक्षणे न प्रभवेदयं
भगवान्तु न तथा, तत्र भगवतोऽनितरसाधारणा सामर्थ्यम्। अत एव विभीषणेन
तत्स्वरूपसामर्थ्यमनुसन्धायैव प्रोक्तम् "निवेदयत मां क्षिप्रं राघवाय महात्मने।
८४ श्रीवेष्णवमताब्जभास्कर:
सर्वलोकशरण्याय विभीषणमुपस्थितम्” (६. १७. १७) इति। शरणे साधुश्शरण्यो
भवाति, किन्त्विदानी साधुत्वक्रियागुणोपाधिभूतधर्मव्यवधानमप्यपहाय साक्षाद्धर्मि-
परामशेनोच्यते -- शरणमिति। न केवलमयं शरणे साधुः किन्तु साक्षाच्छरण-
माश्रयभूतम्। 'शरणं गृहरक्षित्रोः (३. ३. ४५०) इत्यमरः। पुंस्त्वस्रीत्वाद्याग्रहाभाव-
बोधनाय नित्यनपृंसकलिङ्गः शरणपदमप्यत्रत्यमत्यन्तमानुगुण्यं धत्ते) अत एव “राघवं
शरणं गतः? इत्यादावभेदेन व्यपदेशः। नरोत्तमं पुरुषोत्तममित्यर्थः, नरश्चासावुत्तम
इति सन्महदित्यनुशासनात्, सामानाधिकरण्येन विवक्षण उत्तमपदस्य पूर्वनिपातः
असज्यते, एवं नराणामुत्तम इति षष्छीसमासोऽपि न, न निर्धारण इति षष्ठीसमासनिषेधात्।
अतो नरेषूत्तमः इति, नरेभ्य उत्तम इति वा विग्रहः; “उत्तमः पुरुषस्त्वन्यः”,
'यस्मात्क्षरमतीतोऽ हमक्षरादापि चोत्तमः ' (गी. १५. १७-१८) इति। यद्वा नियतानु-
पूवीके नरोत्तमे सज्जञात्वमिति न दोषः। यद्यपि 'नैष गर्भत्वमापेदे न योन्यामवसद्मभुः ”
(महा. २.६ १.३ २) इत्यनुसारं गर्भवासादि तस्य निराक्रियते, तथापि तत्र कर्मक्रतजन्म-
निरासे तात्पर्यात्नरोत्तमपदेन नराकारेणाविर्भूतमिति लभ्यते, तत्र कुत्राविर्भूतमित्यत्र
तादृशधर्मिठस्य भगवत आविभावानुगुणधार्मिकवंशेऽवतीर्णत्वं सूचयितुमाह दाशराथिम्।
दशरथस्यापत्यं गुमान् दाशरयिः। दशसु दिक्षु प्रस्थितो रथो यस्येत्यर्थे सप्तमीविशेषणे
बहुव्रीहाविति सप्तमीपदज्ञापितो व्यधिकरणबृहुत्रीहिसमासः। यद्वा दशेद्धियाणि नियम्यत्वेन
रथो यस्येति विग्रहेण विजितेन्द्रियत्वेनात्मवचा सूच्यते। यथा तदूगुणानिचयः स्मर्यते
'तस्यां पुयामियोध्यायां वेदवित्सर्वसंग्रहः। दीर्घदर्शी महातेजाः पौरजानपदाप्रियः।
इक्ष्वाकूणामातिरथो यज्चा धर्मपरो वशी। महर्षिकल्पो राजर्षिक्रिषु लोकेषु
विश्ुतः। बलवात्निहतामित्रे मित्रवान् विजितेन्रियः। धनैश्च सञ्चयैश्चान्यैः
शक्रवैश्रवणोपमः। यथा मनुर्महातेजाः लोकस्य परिरक्षिता। तथा दशरथो
राजा लोकस्य परिरक्षिता” (वा.रा. १.६. १-४) इति।
रामायणोक्तधर्मपरत्व- यज्चत्व- वशित्व-विजितेन््रियत्वादिगुणैः प्रसन्न: सर्वपिताऽपि
भगवान् स्वजन्मभूमित्वेन तमेव निश्चित्यानुरूपं मत्वा तद्गुहेऽवततारोति भावो रामायणे
प्रकाशितः -- "वितरं रोचयामास तदा दशरथं नृपम्’ (१.१६.८) इति। लोके
पितृहीनता दौभाग्यं सूचयति ततत्र मा भूदित्यवताराभिप्रायेण तं निराकर्तुमुच्यते --
दाशराथिमू; तेनाभिजात्यं प्रकाशितम्। तादृशस्य नित्यकिशोरस्य राजकुमारस्य
भगवतो मधुरोपासकरसिकजनभावानुगुणश्चङ्गाररसोचितं विशेषणमाह -- महोत्सवामिति।
महानुत्सव उल्लासो येन, अयं किल मूर्तिमानिव महोत्सवो रसरूपत्वात; 'रसो वै
सः” (तै. २.७.१) इति श्रुतेः। यद्वा महानदम्य उत्सव 'दासोऽहं कोसलेन्द्रस्य
इत्यवंरूप उत्सेको गर्वो येन स, महोत्सवस्तं स्मरामीत्यन्वयः। 'स एकाकी न रमते”
तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् ८५
(बर १.४.३) इति श्रुतेः, “न जीवेयं क्षणमपि विना वामसितेक्षणाम्' (वा रा: ५.६६. १०)
इत्युत्तेश्ख रमयतां वरस्य रामस्य महोत्सवत्वकथनात्तदनुरूपं प्रेमाख्यमहासारस्वरूपया
स्वरूपशक्तित्वेनात्मभूतया नित्यसाहचर्यमाभिधत्ते सीतया सहोति। एतेन
एुरुषकारस्मरणमभूत्साध्यस्मरणे साधनस्मरणस्यौचित्यात्। पराम्बायाश्च नित्यव्यवस्थित-
पतिपारा्थ्य प्रतिष्ठाप्य भगवता सहास्या आपि ध्येयतोक्ता। सहशब्देनेतदपेक्षया भगवतः
प्राधान्यं व्यज्जितम्; 'सह युक्तेऽग्रधाने' इत्यनुशासनात्। सदा सीतया सह स्मरामि,
सीतया सह सदा स्मरामीत्युभयत्र सदापदान्वयः। स्मरामीति व्यक्तयभिप्रायेणैकवचनम्।
राममिति विशेष्यभूतं शरुतिस्म्रतिशतसिद्धं भगवतो नामोच्यते, श्रीसीतया सह पू्वोक्तगुणविशटं
रामं सदा स्मरामि, तैलधारावदविच्छितरप्रत्यक्ष-समानाकारज्ञानविषयं करोमीत्यर्थः।
'सर्वेषामवताराणामवतारी रघूत्तम: ! इत्यगस्तसंहितोक्तथा तदितरावताराणां स्वरूपस्य
तत्तस्वरूपताग्रहवद्धि भकतध्येयत्वेऽपि श्रीरामानन्यौध्येयरूपविशेषं सुटूढं नियमयति --
द्विभुजस्यैवोति। हे प्रियोत्तम! रामपरायणैः सर्वशक्तेर्द्रिभृजस्यैव रामस्य ध्यानमेव सदा
विधातव्यमित्यन्वयः। ध्येयं क्रियाञ्घोभयमपि नियन्तुमेवकारद्वयम्। एवकारस्य भिन्नक्रमत्वेन
राममित्यत्रान्वयः, रामस्यैवेति तदितरव्यावृत्तिध्यानमेव विधातव्यमित्यत्र तव्यता
विध्यर्थबोधनादेवकारेण च तदेकानुचिन्तनस्येतिकर्तव्यतां सूचयति; एवकारस्येतरनिव्रति-
फ़लत्वात्। द्विभुजस्यैवेति शङ्ख: पाण्डुर एवेत्यादिवद्विशेषणे सङ्गतस्येवकारस्यायोगव्य-
वच्छेदार्थकत्वाद्रिशेष्ये विशेषणस्यासम्बन्धनिषेधाद्दवाभ्यां निषेधाभ्यांअक्रतार्थस्य द्विभृजत्वस्य
दार्ढ्यं बोधयति।
विशेष्ये रामे विशेषणतावच्छेदकद्रिभुजत्वधर्मसम्बन्धाभावं व्यवच्छिदंस्तस्य द्विभुजत्वं
नियमयति। गुरुषसूक्तादौ हि तद्रूपेण परत्वस्य निर्देशात् "मुखं किमस्यासीत्कि
बाहू किमूरु पादावुच्येते’ इति प्रवा “बाहू राजन्यः कृतः! इति समाधिना
द्वावूरु द्वौ बाहू आत्मैव पञ्चाविंशः' इति रहस्याग्नायात्, 'उभा हि हस्ता
वसुना पूष्णो हस्ताभ्यां पाणिभ्यां त्रयी सम्भरति' इत्यादिना च परस्य द्विभुजत्वमेव
सिद्धयति। अत एव सुन्दरीतन्त्रे ययौ तदा महाशम्भू रामलोकमगोचरम्। तत्र
गत्वा महाशम्भू राघवं नित्यविग्रहम्। ददर्श परमात्मानं सहासीनं मया सह।
सर्वशक्तिकलानाथं द्विभुजं रघुनन्दनम्। द्विभुजाद्राघवात्नित्यात्यर्वमेतठावतति'
इति। आनन्दसंहितावचनमप्युक्तार्थ पुष्णाति ~ स्थूल चाष्ट भुजं प्रोक्तं सूक्ष्मं
चैव चतुर्भुजम्। परं च द्विभुजं रूपं तस्मादेतत्रयं यजेत्’ इति। सदाशिवसंहितायान्तु
गोलोकेऽपि तादृश रामं परत्वेनापस्थापयति “यो वै वसाति गोलोके द्विभुजस्तु
धनुर्धरः । सदानन्दमयो रामो येन विश्वमिदं ततम्” इत्यादे रामायणशिरोमणिकारेण
विस्तरशो निरूपितत्वाद्विदितचरमेव। अवधारणार्थकैवकारेणाव्यवधानमापि विवक्ष्यत
८६ श्रीवेष्णवमताब्जभास्कर:
इत्यव्यवहितं ध्यानं कर्तव्यमिति गम्यते। कारुण्यादिसद्धावेऽ प्यज्ञस्याएर्णस्याशक्तस्य च
निरपेक्षरक्षकत्वं न सम्भवतीत्यत आह -- सर्वशक्तेरिति। एतेन 'परास्य शक्तिर्विविधैव
श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” (8.६.८) इति श्रुत्यर्थः ग्रतिपादितः।
आचार्यत्वात्स्वानुयायिवर्गमुद्दिश्योक्तम् -- रामपरायणैरिति। श्रीरामैकदेवताकैः
श्रीरामैकप्रयोजनैस्तदेकफलेस्तत्रैव समर्पितात्ममरेर्भक्तैरिति भावः। भगवान् राम एव
परमायनम्, प्रकृष्टजीवनाश्रयो येषान्तैरित्यर्थतया “न हि मे जीवितेनार्थो नैवार्थर्न च
भूषणैः? (५. २४.५) इति रामायणोक्तो भावोऽभिमतत्वेन निर्दिष्ट:। ध्यानोपासनादि-
शब्दवाच्यभगवद्धक्ते: प्रधानविधेयतया गुह्यतमत्वा्तदुपदेश-ग्रहणपात्रतां स्वशिष्यस्याह
-- प्रियोत्तमेति सम्बुद्धया। यथा गीतायां भगवान् 'काश्चिन्मे प्रियकृत्तम' (१८.६९)
इत्याह, तथैवाधिकारिविशेषेपु ध्येयस्वरूपस्या-वश्यवक्तव्यतां सूचयितुं प्रियोत्तम इति
सम्बोधयति। अतितरां प्रीतिविषयोऽसीति भाव:। वस्तुतो ध्यानप्रकरणारम्भे महाप्राज्ञेति
सम्बुध्यावसाने च प्रियोत्तमेत्यभिमुखीकृत्य स्वस्य भगवत्स्वभावः प्रकाशितः 'प्रियो
हि ज्ञानिनोऽत्यर्थम्” (गी. ७. १७) इति।
भः + ( इति तृतीयप्रश्नोत्तरे ध्यानध्येयनिरूपणम् ) # +
।। श्रीसीतारामार्पणमस्तु ।।
( अथ चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् )
एवं ते$भिहितं ध्यानं श्रृणु तन्मुक्तिसाधनम् ।
मुमुक्षूणां परं वेद्यं विधेयं चाथ सर्वदा ।।६१।।
* संवित्करः #
इस प्रकार मैंने, ध्यान तथा ध्येय का स्वरूप बताकर, ध्यान-विषयक तीसरे
प्रश्न का समाधान किया। अब मोक्षार्थियों द्वारा जानने एवं सर्वकाल आचरण के
योग्य श्रेष्ठ मुक्तिसाधन का श्रवण करो।
* पदपरामर्शः *
तृतीयं प्रश्नं समाधाय चतुर्थमुत्तितीर्षुरुपक्रमते -- एवमिति। एवं पूर्वोक्तप्रकारेण
ते मद्वात्सल्यविषयभूताय तत््वोपदेशाधिकारिणे तुभ्यं ध्येयभगवत्स्वरूपनित्यानुसन्धानरूपं
ध्यानं तत्र सापेक्षत्वाद्विशिष्टज्ञानं प्रति विशेषणज्ञानस्य कारणतया चाभीट्टध्येयस्य
स्वरूपमभिहितम्। इदानी मुक्तेः किं साधनमिति चवुर्थप्रश्नस्य क्रमम्राप्तत्वात्समाधेयतया
मया त्वयि करुणयोच्यमार्नं जीवात्मनो बन्धनहेतोर्मुक्तेः साधनं श्रण्वधारय
वद्धबन्धनमोक्षपदार्थज्ञानानन्तरं तादृशबन्धनात्तस्य जीवात्मनो मोक्षोपायजिज्ञासाया
औचित्यात्। तत्साधनं न केवलं त्वयैव ज्ञेयमेवापिठु तदनुगुणं विधेयमपि,
ज्ञानपूर्वकतदनुरूपग्रवृतते्दर्शनात्। मोक्षकामाणां पर ज्ञेयं विधेयज्ञास्ति परमार्थभूतमोक्ष-
साधकत्वादस्य वेद्येषु विधेयेषु च परत्वम्, अत्यादरेण ग्राह्मतयानुपेक्षणीयमिति।
वक्ष्यमाणं न केवलमावरणभङ्गेऽपितु तदनुगुणविधाने पर्यवस्यतीति वाक्यार्थज्ञानमात्रेण
मोक्षवादिनो निरस्ताः, न तावता मोक्षसिद्धे:।.प्रमाणज्ञानस्य वस्तुतन्त्रत्वमेव, पुरुषतन्त्रस्यैव
च विधेयत्वात् "अनुविद्य विजानाति’ (छा.८.७.१), 'विज्ञाय प्रज्ञां कुर्वीत’
(ब. ४.४. २ १) इत्यादिश्रुतिभिरनुविद्य, विज्ञायेत्यनूद्य विजानाति प्रज्ञां कुर्वीतित्यादि-
नोपासनस्य विधानात्। तमेवार्थमाह -- बुद्धे चेत् क्षेमप्रायणमिहँव न दुः खमुपलभेत'
इति सूत्रयन्नापस्तम्बः। अत एव (ज्ञानवान् मां प्रपद्यते’ (७.१९) इति गीतोक्तं
सङ्गच्छते। 'विधेयञ्चाथ सर्वदा’ इत्युपसनाया यावज्जीवमनुष्छेयतामभिधत्ते। यथोक्तं
“आ प्रयाणाचत्रापि हि दृष्टम्” (ब. सू. ४. १. १ २) इति सूत्रे भगवता5ऽनन्दभाष्यकारेण
-- 'आमरणमावृत्योपासनमनुष्ठेयमु, कुतः तत्रापि हि दृष्टम् उपासनमार भ्या-
प्रयाणान्मध्ये यः कालस्तत्रापि दृष्टमुपासनं स॒ खल्वेव वर्तयन् यावदायुषं
ब्रह्मलोकमाभिसम्पद्यत इत्याप्रयाणमुपासनावृत्तिः कर्तव्या’ इति
८८ श्रीवैष्णवमताब्जभास्कर:
तप्तेन मूले भुजयोः समङ्कनं शरेण चापेन तथोर्ध्वपुण्डूकम् ।
श्रुतिश्रुत नाम च मन्त्रमालिके संस्कारभेदाः परमार्थहेतवः।।६२।।
* संवित्करः #
वैदिकविधि से अग्नि में सन्तप्त धनुर्बाणों की भुजामूल में छाप लेना,
ऊर्ध्वपुण्ड़ तिलक धारण करना, भगवत्सम्बन्धी (दासान्त, प्रपन्नान्त या शरणान्त;
जैसे राघवदास) आदि नाम रखना, सर्वदा कण्ठ में तुलसीमाला धारण करना
तथा वैष्णव सद्गुरु से षडक्षर रामतारक मन्त्रराज का उपदेश ग्रहण करना _ ये
वैष्णवीय पञ्चसंस्कार परमार्थरूप मोक्ष के कारण हैं।
* पदपरामर्शः *
तत्रादौ मलापनयनगुणाधाननिमित्तकसंस्कारपञ्चकं परमार्थहेतुतयोपादत्ते ~ तप्तेन
इत्यादिना। वह्या सविधि तप्तेन शरेण चापेन भृजयोर्मूले समङ्कनमिति तापसंस्कार:
अधमः, भगवत््त्रसम्बन्धिश्वेतग्रतिकया श्रीरामपादाक्रत्या हरिद्राच्णैस्तयैव वा वेणुपात्रा-
द्याकारेण यथापरम्पर प्राप्तेन वर्दुलाकारादिना वा मध्ये शाख्रोक्तदिशोर्ध्वगामिरेखाविधानं
नामोर्ध्वपुण्ड़कामिति द्वितीयसस्कारः, श्रुतिप्रतिपादितं भगवत्सम्बन्धसूचकं
भगवन्नामादिदासाद्यन्तं श्रीरामदासेत्यादि नामेति नामसंस्कारस्तृतीयः। मन्त्रश्च
बडक्षरमन्त्रराजेति नाम्ना प्रथितस्तारकमन्त्रः सपरिकरः श्रीराममन्त्र इति मन्त्रसंस्कारञ्चतुर्थः।
श्रीतुळसीमालेति मालासंस्कारः पञ्चमः। यथा तापोर्ध्वपुण्ड्योः समङ्कनमुक्तं तथैव
नाम्नि मन्त्रमालिकयोक्च अहणधारणादिक्रियापदमन्वेतव्यम्। 'देवो भूत्वा देवं यजेत’
इति जह्मसाजात्यप्रापतिपूर्वकतदुपासनस्यैवोचित्यादेते पञ्चधा भिन्नाः संस्कारा वैष्णवत्वाधानेन
जगत्सम्बन्धबोधमलापनयनेन च भगवदुपासनायां साक्षान्मोक्षहेतुभूतायामुपकारका
भवन्तीति परमार्थहेतुत्वेनोक्ता;; कायन्तिरयोग्यतासम्पादकत्वस्यैव संस्कारत्वोक्तेः। अत्र
्ुतिश्रुतमिति न केवल नामपदेनान्वेति, समङ्कने, ऊर्ध्वपुण्ड्के, मन्त्रे मालिकायाद्चाप्यन्वेति
-- श्रुतिश्रुतं नाम, श्रुतिश्रुतो मन्त्रः श्रुतिश्रुता मालिकेत्येवरीत्यैकशोषो
नपृंसकमनपुंसकेनेकवच्चास्यान्यतरस्यामित्यनुशासनात्। तेन पञ्चानामपि वैष्णवसंस्काराणां
श्रौतत्वं सिद्धम्। तद्यथा तापसंस्कारे प्रमाणग्॒ग्वेदीयो मन्त्रः -- “पवित्र ते विततं
ब्रह्मणस्पते प्रभुर्गात्राणि पर्योषि विश्वतः। अतप्ततनूर्न तदामोऽ श्नुते श्रवास
इद्वहन्वस्वत्समासते' (९.८३.१) इति। हे ब्रह्मणस्पते! ईश्चरस्याप्यायुधत्वेन
रक्षकवदुपलभ्यमान,! विततं व्याप्तं ते तव पवित्रन्तेजः विश्वतः सर्वस्य (सार्वविभक्ति-
कस्तसिः) प्रभोः (षछयर्थे प्रथमाविभक्तिव्यत्ययश्छान्दसः) गात्राणि गात्रभूतं
चिदचिदात्मकमखिल शरीर पर्येषि व्याप्नोति (पुरुषव्यत्ययश्छान्दसः) (त्वया) अतप्ततनू:
आम: (अपरिपक्व:) न तदस्नुते (भगवन्तं ग्राप्नोति) ये श्रतासः पक्वाः, तद्वन्तो
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ८९
धारयन्तस्ते तत्सयासते, तत्सायुज्यं प्रापनुवन्तीत्यर्थः। मन्त्रे पवित्रपर्द यद्यप्यरनौ मेध्ये
च प्रथितं तथाप्यत्र पापदाहकत्वादग्निरूपतया च भगवदिव्यायुधयोर्धनुर्वाणयोर्वतिति।
यथोक्तं रामायणे 'अल्पतोमामिवादित्यः प्राणानादास्यते शरैः। स पपात खरो
भूमौ दह्यमानः शराग्निना’ (३.३०.२७) इति।
अतो ब्रह्मसायुज्यादिप्राप्तिकाम्चापबाणाभ्यां तप्ततनुर्भवेदित्युक्तं भवति। वेदोपबुंहण-
भृतरामायणस्य वाल्युद्धाय््रसङ्गे भगवदिव्यायुधस्य बाणस्य स्वर्गीयमानसाकेताख्य-
धामावाप्तिसाधनप्रकाशकत्वमुक्तवान्ते परमगतिप्रापकत्वमुच्यते -- 'तद्रं तस्य
वीरस्य स्वर्गमार्गप्रभावनम्। रामबाणासनाक्षिप्तमावहत्परमाङ्गतिम्’ (४. १७.८)
इति। अत एवागस्त्यसंहितायामुक्तं “नाङ्कितश्चापबाणाभ्यां न मन्त्रोऽस्ति षडक्षरः।
न नाम रामसम्बान्धि न रामोपासको भवेत्' इति। यो वै नित्यं धनुर्बाणाङ्कितो
भवति स पाप्मानन्तरति, संसारन्तरति स भगवदाश्रितो भवति स॒ भगवद्रूपो भवतीति
श्रवणाच्च। ऊर्ध्वुण्ड्धारणे चापि सन्ति श्रुतिस्म्रतीतिहासवचांसि। यथा महोपनिषदि
'ध॒तोर्ध्वपुण्डू: परमेशितारं नारायणं साङ्क्ययोगाधिगम्यम्। ज्ञात्वा विमुच्येत
नरस्समस्तैः संसारपाशौरिह चैव विष्णुम्” इति। मुमुक्षुनरो धरतोर्ध्वपृण्डो भगवन्तं
ध्यायेदिति विध्यर्थः फलति। 'यः करोत्यूर्ध्वपुण्ड़ तु सन्ध्यावन्दनकर्मसु। तेनाहं
सुलभो ब्रहमन्नेकस्मित्रेव जन्मानि” इति ब्रह्माण्डवचनानुसारं तस्यार्चनाङ्गत्वं ज्ञायते।
'भह्लशाखायाञ्चोर्ध्वपुण्ड्मारभ्य कुलं तारयते सप्त स गच्छेद्वैष्णवं पदम्”
इत्युक्तम्। आथर्वणे च (हरे: पदाक्तिमात्मनो हिताय मध्येच्छिद्रमूर्ध्वपुण्डं यो
धारयाति स परस्य प्रियो भवाति स पुण्यवान् भवति स मुक्तिमान् भवति’
इत्युक्तम्। यथास्योर्ध्वपुण्डधारणस्य नित्यनैमित्तिकादिसर्वकमङ्गित्वपवित्रत्वमङ्गलत्वादिकं
गुरुषार्थसाधकत्वञ्च तत्र तत्र स्म्रतिषु प्रसिद्ध, तथैव 'ऊर्ध्वपुण्डु मृदा धार्य विप्रेण
ब्रह्मवादिना। उद्धतासीति मन्त्रेण वैष्णवेण विशेषतः ', 'ग्रशस्ते पर्वताग्रादौ
यत्रस्ते मधुसूदनः । तत्रोद्धतग्गदा कार्यपूर्ध्वपुण्डु विधानतः ' इति क्रियमाणस्योर्ध्वण्डस्य
हरिपादसंस्थानत्वं सान्तरालत्वं प्रदर्श्य केशवादिद्वादशनाममन्तरै' प्रियश्च श्रीकमलादिनामभिर्द्रा
दशाङ्गेु वेणुपात्राद्याकारेण विरचनोल्लेखात्। तत्र तत्र तद्धारणविधिरापि निरूप्यते, त्रह्मदासा
इति श्रवणाद् 'दासोऽहं कासलेन्रस्य रामस्याक्लिष्टकर्मणः' (वा. रा ५.४३.९)
इति हनूमता रामदासेतिस्वासाधारण-समाख्याया: स्मरणाच्च नामसंस्कारस्य भगवत्सम्बन्ध-
स्मारकत्वेन विधानं सूचितं भवति; 'दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः”
इत्यादिभिरात्मनां परमात्म-दासत्वसिद्धेः। शेषत्वन्त्वचेतनस्याचेतनं :्रत्यपि स्यात्किन्तु
दासत्वन्तु चेतनं ग्रति चेतनस्यैव सम्भवति। जीवात्मनः स्वरूपबोधको व्यापको भावो
भगवदवास्यं सख्यवात्सल्यकान्ताभावादिषु तस्यानुस्टूतत्वात्, नित्यकेङ्कयस्यैवाभीष्टतमत्वाच्चा
९० श्रीवेष्णवमताब्जभास्कर:
मन्त्रसंस्कारे प्रदीयमानश्चात्र भगवद्रामसम्बन्धी पडक्षरतारकमन्त्रराजमन्त्रद्वयचरममन्त्रेति
्रित्वविशिष्टो मन्त्रो विवक्षितो रामोपासनायां तस्यैव विहितत्वात्। 'ग्राङ्मुखोपविष्टस्य
चोत्तराभिमुखो गुरु:। शनेश्शनेः शुभे कर्णे त्रिवार श्रावयेन्मनुम्’ इत्यादिरीत्या
मन्त्रदानविधिरपि वर्णित आचायन्थेषु। स्तोत्रपाठाद्यशक्तैः साक्षाद्भगवत््तिपादक-
भागजपस्यैव युक्तत्वातत्रापि सर्वसारभूतषडक्षरतारकमन्त्रराजजपस्य विधानम्, तत्र
जपादिकालेऽपि गुर्वादिषु मौनादिकं वार्जितम्। यथाह भगवान् बोधायनः 'जपमध्ये
गुरुर्वापि वैष्णवो यः समागतः। सम्भावणादिपूजा तु तस्य कृत्वानुमान्य
च।। अनुश्राव्य ततः कुरयाज्जपशेषं समाहितः ।। सर्वस्य प्रभवो यस्माद्विष्णु-
पादाश्रया नरा:। वन्मूलतः क्रियास्सर्वास्सफलास्तु भवान्ति हि’ इति। मन्त्रजपोऽपि
स्वाध्यायः, तत्निष्ठया मन्त्रदेवताया सम्प्रयोगलाभं वदति योगसूत्रकार: “स्वाध्यायादिष्ट-
देवतासम्प्रयोगः? (२.४४) इति।
स्वा कण्ठलग्ना माला, मालिका स्वार्थे क:; सम्प्रदाये कण्ठीति ग्रथिता। सा चात्र
तुलसीसम्भवैव, तस्या एवाम॒तसम्भवत्वेन ब्रह्मरूपतया नित्यं भगवत्पदलग्नतया च
सत्रिहितत्वाद्धगवत्मियतमत्वेन च भागवतानुगृणताधानसमर्थत्वाच्च। “श्रीर्यत्यदाम्बुज-
रजश्चकमे तुलस्या’ (१०.२९.३७) इति भागवतोक्तया वक्षसि पदं लब्ध्वापि
्रीर्भगवत्पादपङ्कजनित्यसान्निध्यं ठुळसीसौ भाग्यं प्रार्थयत इत्याशयेन 'तुलसीसम्भवं
सर्व पावनं मृत्तिकादिकम्” (६.२४. २) इति पाद्योक्तया पावनकरत्वेन, 'यत्कण्ठे
तुलसी नास्ति इत्यादिना तद्राहितकण्ठानां शास्रे निन्दनाततद्योगस्य सेवानुगुणपावन-
त्वाधानाद्रामोपासकैर्नान्तरीकतया यज्ञोपवीतवत्नित्यंधार्यत्वं सूचितं भवति। सम्य्द्रिधाक्रतां
ठुळसीमालां धारयेदिति युगलोपासका विशेषतोऽभिनिविशन्ते -- क्षालितां पञ्चगव्येन
मूलमन्त्रेण मत्रिताम्। गायत्र्या चाष्टकृत्वो वै मात्रितां धूपयेञ्ज ताम्।। विधिवत्परया
भक्त्या सद्योजातेन पूजयेत्। तां निवेद्यैव हरये तुलसीकाष्ठसम्भवाम्। मालां
पश्चात्स्वयं धत्ते स वै भागवतोत्तम” इत्यादिना तद्धारणविधिरपि दुश्यते।
संसारसागरसन्तरणाय सम््राप्ताया: प्लवभूतायाः सुदुलभदेहसम्पत्तेर्बुद्धिदानेन नियमनायैव
गुरो: कर्णधारत्वरूपणेन निरूप्य भागवते शा्रानुकलप्रवर्तकत्वात्तन्महिमप्रकर्षो वरण्यति।
भगवद्धावो हि विषयृग्रवणमनोनियमनमन्तरेण, तच्च पुनर्गुरूपसादनमन्तरेण न सम्भवतीति
गुरूपसत्तेरवश्यकर्त्यता प्रतिपाद्यते, गुरूपदिष्टसाधनेन भजनसुखानुभूतौ सुतरामेव
मनसो नैश्वल्यसिद्धे। करुणावशंवदो भगवान् स्वयमेव स्वावाप्तिसाधनबोध-
नेनानुजिक्च॒क्षुमानवाकारेणावतरतीति सम्प्रदायः, अतश्च “आचार्य मां विजानीयात्”
(११.१७.२७) इति न मर्त्यबुद्धयाभ्यसूयेदिति च भगवदादेशः सङ्गच्छते।
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् ९१
यतेन्द्रियः शुचिः शुद्धवेशधक्सुकुलोद्धवः ।
सदाचारपरो नम्रः शास्त्रज्ञो देशनापटुः ।।६३।।
विरक्तधर्मनिरतो ध्यानाभ्यासी सुबुद्धिमान् ।
निग्रहेऽनुग्रहे चैव समर्थो देशिको मतः ।।६४।।
* संवित्करः #
पंचसंस्कारप्रदाता आचार्य (सद्गुरु) को जितेन्द्रिय, शरीरादि से पवित्र, वैष्णवोचित
शुद्धवेषधारी, उत्कृष्ट कुल में समुत्पन्न, शास्रोक्त आचारपरायण, विनम्र, वेदादिशास्रों
का समुचित ज्ञानी तथा शास्त्रीय विषय को समझाने (उपदेश करने) में प्रवीण
होना चाहिए। जो विरक्तधर्म के पालन में लगा रहने वाला हो, भगवद्धयान-
चिन्तन का अभ्यास वाला हो, सद्बुद्धिसम्पन्न तथा निग्रह-अनुग्रह में समर्थ हो,
वही पंचसंस्कारप्रदाता गुरु के रूप में स्वीकार्य माना गया है।
* पदपरामर्शः *
श्रुतिस्तु 'नैषा तर्केण मातिरापनीया' (क. १.२.९) इति शाख्रज्ञानवतोऽपि
स्वातन्त्रयेण ब्रह्मविद्यावाप्ति निषेधति सँव तदवाप्त्युपायं सूचयन्त्याह -- "तद्विज्ञानार्थं
गुरुमेवागच्छेत्’ (मु. १.२.१२), 'आचार्यवान् पुरुषो वेद’ (छा. ६.१४.२)
इत्यादिभि:। पूर्वोक्तानां ताणादिसंस्काराणां भगवदवाप्तावङ्गत्वेनोक्तानामाचार्यं
विनानुपलम्भादेकसम्बन्धिज्ञानन्यायेन तत्स्मरणं युक्तं समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्"
(मु. १.२.१२) इति श्रुत्युक्तलक्षणमनुसन्धाय, तदेव द्वाभ्यां श्लोकाभ्यां विवणोति
-- यतेन्द्रिय इत्यादिना/ श्रोत्रियत्वं वेदवेदाङ्गपारगत्वं, वेदान्तार्थपारगत्वं वा तस्य
चावृजिनत्वमकामहतत्वञ्च श्रुत्यापेक्षितं यश्च श्रोत्रियो वृजिनो कामहतः' इति
श्रुतेस्तत्र कामहतत्वेन विषयवैतृष्णयमद्रजिनत्वेन शास्रविध्यनुष्ठानेन निष्पापत्वं च
सूचितं भवति। 'ब्रह्मनिष्ठम्’ इत्यनेन नित्यं ब्रह्मानुसन्धानेन लन्धापरोक्षानुभवत्वं
निर्दिश्यते। भगवतापि 'उपदेक्ष्यान्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः (गी. ४.३४)
इत्यु्तवा ज्ञानिनः पदवाक्यन्याय्रमाणनेपुण्यं संसूच्य पुनस्तत्वदर्शिनः कृतनरह्मसाक्षात्कार-
त्वकथनेनोभयोर्भेदः प्रदर्शित:, तेन साक्षात्कारवद्धिरुपदिष्टमेव ज्ञानं फलपर्यवसायीति
सूचितमू; ज्ञानस्य च परोक्षापरोक्षसाक्षात्कारभेदेन द्वैविध्यं प्रकाशितम्। रामायणटीकाया-
माचार्यलक्षणमुक्तं “आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः। मन्त्रज्ञो मन्रभक्तश्च
सदा मन्त्रार्थ: शुचिः। गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः? इति।
एवं श्रुतिस्मृतीहाससिद्धमाचार्यलक्षर्णं विम्र॒श्य निर्मथ्य च युबोधसरण्यावतारयति
-- यतेद्विय इत्यादि द्वादशलक्षणवान् देशिक आचायो मत इति भावः। यतेन्द्रिय
इत्यनेन निग्रहीतेन्वरियत्वार्थप्रकाशनेन चिचैकाग्रता सूच्यते, तेन च तपःसम्पन्नत्वसूचनेन
९२ श्रीवेष्णवमताब्जभास्कर:
आपस्तम्बोक्ताचार्यलक्षणं समाहितत्वमुच्यते। शुचिरिति बाह्याभ्यन्तशुद्धिरुच्यते, तेन
“यक्ष श्रोत्रियो व्रजिनो कामहत: ' इति श्रुत्युक्ताव्रजिनत्वं निष्पापत्वं परामृश्यते।
शुद्धवेशध्षक् सदाचारपर इत्युभाभ्यां शाख्रविहितकर्मानुष्ठानरूपा सदाचारनिष्ठोच्यते।
सुकुलोद्रव इत्यनेनापस्तम्बोक्तं सद्वंशप्रसूतत्वरूपमाभिजात्यं प्रकाशितम्, तद्विना
वेदप्राप्तेरसम्भवात्। यथोक्तम् आभिजनविद्यासमुदेतं समाहितं संस्कतरिमभीप्सेत्'
इति। विद्या ददाति विनयम्” इति निसर्गविनयं विद्याजन्यत्वेनोक्तमाह --
नप्रोऽनुद्धतचेता इति यावत्। शास्त्रज्ञ इति शास्रं वेदः, तज्जानातीति वेदसम्पन्नतोच्यते,
स्वरूपतोऽर्थतश्च तज्ज्ञातेति भाव:। व्युत्पतत्यभिव्यक्तिभ्यां युक्त एव शिष्याववोधने
नैपुण्यं धत्त इत्याह -- देशनापटुरिति। एतेन गृणातीति गुरुपदार्थोऽनुस्मारितः।
केवलाध्ययनस्य स्थाणुरिवोत्युक्तचा निगदेनैव शब्द्यत इति कथनेन च निन्दितत्वा्दर्थ
पर्यालोच्य यावद्विवक्षितार्थप्रतिपादनक्षमशन्दप्रयोगवित्वमत्रोच्यते। अत एव चाचार्यस्य
देशिक इत्यन्वर्थसञ्जेति। बिरक्तधर्मीनिरत इत्यनेन श्रोत्रियश्चाकामहतश्चेति श्रत्यपेक्षितार्थः
सूच्यते, भागवतधर्माश्रयणेन निवृत्तिनिष्ठ इत्यर्थः। तस्य लौकिकविषयं विहायालौकिक-
विषयप्रीतिमाह -- ध्यानाभ्यासी। ध्यानं भवदुपासनं तत्रैकतानतायै प्रयत्नशीलो-
5भ्यासनिरतो वेत्यर्थः, ‘अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय’ (१२.९)
इत्युक्तेः। तस्य दार्ढ्यायापेक्षितं भागवतशाखररहस्यार्थानृसन्धानं विधातुं ्रहणधारणो-
हापोहार्थविज्ञानादिविशिष्टबुद्धिसम्पदुच्यते -- सुबुद्धिमान्। तेन दुरूहाणां अन्धगन्धीनां
विशकलने सामर्थ्य सूच्यते, किञ्च नवनवोन्मेषशालिनी बुद्धिः प्रतिभोच्यते, तेन
प्रतिभया गुहीतमप्यर्थ नवीकृत्योपस्थापयितुं क्षमता प्रकाशिता भवति। शिष्याणां
निग्रहानुग्रहशक्तिमत््वं वदति -- समर्थ ड्रति। अत्र यतेत््रियसुकुलोद्भवशास्रज्ञेति
पदेः श्रोत्रियत्वं प्रकाशितत्वं ध्यानाभ्यासीत्यादिना बह्मनिष्ठत्वञ्चेति।
गुरूच्चारणानुच्चारणरूपाक्षरराशिग्रहणरूपं शाख्रश्रवणमेव स्वाध्यायः, तत्सिद्धौ
स गुरुमुखाद्विहितस्वाध्यायेनावाप्तवेद उच्यते -- आहिवज्चानदाढ्याय तत्वयाथार्थ्यो-
पलब्धये गुरुशास्त्रोक्तार्थानां सपरिकरेहेतुभिरनुमानं मननमिदमेवमेवेति हेतुतो हृदये
प्रतिछापनं, तच्च कुशाग्रधिषणैरेव कर्तु शक्यामिति निदिध्यासनं तूपासनमेव।
शुचित्वसदाचारपरत्वसुबुद्धिमत््वनम्रत्वादिकमात्मगुणजातममानित्वमदम्भत्वमित्यादिना
भगवद्वीतात्रयोदशाध्यायवर्णितरीत्या प्रकर्षनोधकम्। इत्यं संस्काय्प्रदातृत्वेनाध्यात्ममार्ग-
प्रवर्तकस्याचार्यस्यापेक्षितगुणा इमे सन्तीति प्रतिपाद्यैवंविधो देशिक आचायों
यथाशास्रमुपादेयत्वेनाभिमत इति विवक्ष्यते। तथा च शास्त्रज्ञ इत्यनेन श्रवणं सुबुद्धिमान्
देशनापटुरित्यनेन च मननं ध्यानाभ्यासीत्यनेन निदिध्यासनं च सूचितम्। किञ्च
शास्त्रज्ञ इत्यनेनाधीति:, सुबुद्धिमान् इत्यनेन बोधः, विरक्तधर्मीनिरतः, सदाचारपरो
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् ९३
ध्यानाभ्यासीत्यनेनाचरणं समर्थो देशनापटुरित्यनेन च.प्रचारणयुच्यते। एतेन चतसृष्वपि
विद्यावस्थासु समधिगतप्रावीण्यमाचार्यलक्षर्ण निर्दिष्टम्। करणविघाततद्वैकल्य-
दुर्व्यसनादिप्रयुक्तजुगुप्सोपहास्यत्वादिदोषसद्धावनिषेधे तात्पर्य लक्ष्यते, तत्सत्वे
तत्स्वरूपानुगुणगौरवनाशात्। न चाष्टावक्रस्य वेरूप्यमपि न गौरवनाशकतया ग्रहीतमिति
चेत्र ज्ञानादिसत्वेछपि तदंशे न्यूनताया अनपलापात्। वस्तुत उत्कटदुष्कर्माविपाकस्य
हीनाङ्गत्वादे: धर्मशास्रे स्वीकृतत्वादसाध्यरोगादेश्ष क्वचिदभिशापप्रयुक्तत्वनिरूपणाच्च
शास्रोपेक्षा। महदतिक्रमञ्चात्र हेयतानीजम्।
हीनाङ्गो ह्याधिकाङ्गश्च कपटी कृष्णदन्तवान् ।
नेत्ररोगी च कुष्ठी च वावदूकश्च वामनः ।।६५।।
व्यसनी बहुनिद्रश्च कुनखो बहुभोजनः ।
नेदूशो देशिको योग्यो मुमुक्षोर्मुक्तिसाधने ।।६६।।
* संवित्करः #
जो कम या अधिक अंग वाला हो, कपटी, काले दाँतों वाला, नेत्ररोगी,
कुष्ठरोगी, निरर्थक अधिक बोलने वाला तथा वामन (बहुत छोटे कद वाला हो)
-- वह मुमुक्षु की मुक्ति के लिए सदगुरु बनने योग्य नहीं है। जिसे गाँजा-बीड़ी-
जैसा कोई व्यसन हो, जो अधिक सोता हो, जिसके मलिन एवं बड़े-बड़े नख हों,
प्रमाण से अधिक भोजन करता हो; शास्त्र की दृष्टि से मुक्ति के लिए ऐसा पुरुष
आचार्यरूप में मान्य नहीं है।
* पदपरामर्शः *
कदा पूर्वोक्तगुणविशिष्टोऽपि जन आचार्यत्वेन नाङ्गीकार्य इति बोधयितुमाह --
हीनाङ्केत्यादि श्लोकद्रयेन। यथा द्वादशाभिर्विशेषणैराचार्यत्वाधायकगुणाः सूचितास्तथैव
द्रादशदोषहेतुकं तद्विघातमाह -- हीनाङ्ग इति। नात्र द्वादशदोषनिकरेऽपितु प्रत्येकं
हेयतया तदनुपयुक्तता विश्राम्यति। यद्यपि सर्वथानवद्यता केवलं भगवति, लोके
तथानुपलन्धेराचार्यत्वं निर्विषयमेव स्यात्तथाप्यभिगम्यत्वादिनाशकोत्कटपापस्य
तदनुरूपपरिणामभोगकालेऽपि विधवामुखदर्शनादिवद्धेयता दुर्निवारा, शातातपोक्तवनुसार-
मजाघाती गोवधी मातृहा परोपहासकृत्कन्दयूलहारी त्रपुहारी मधुहारी वस्रहारी
यथाक्रममधिकाङ्ग: कुष्ठ्यन्धः काणो हृस्वपाणिनेत्ररोगवान् विकृताक्ष: कृष्टरोगवाश्च
भवाति, अत्रैव च तत्पुत्रादिकरणीय्रायश्चित्तनिरदेशोऽपि दृश्यते।
अङ्गवैकल्यमङ्गाधिक्यञ्चोभयथा सामुद्रिकशा्रोक्याऽ माङ्गल्यं सूचयतो नेत्ररोगः कुछता
चोत्कटपापं निर्दिशति/ प्रांशुलभ्ये फले लोभादुद्राहुरिव वामन इत्युक्तप्रकारेणो-हास्यत्वम्।
९४ श्रीवेष्णवमताब्जभास्कर:
न केवलं पूर्वदुष्कर्मविपाको5पिठु साम्प्रतिकचेतोमालिन्यमाह -- कपटीति। एतेन
गूढविप्रियकर्तृत्वं सूच्यते। चेत: कार्य वस्तुयाथात्प्यनिश्चयो नान्याहितघातकं कापट्यम्,
आर्जवं हि अह्मस्वभावः। न केवलं शास्रोपदेशेनेव, स्वाचारेणापि शिक्षयत्याचार्यः,
स्वयमाचरते यस्मादिति तन्निरुक्ते। मुखस्य जुगुप्पावहत्वात्सोम्यत्वनाशं वदति —
कृष्णदन्तवान्। दन्तेषु काष्ण्य दन्तधावनाद्यभावजन्यं भवतु ताम्बूलादिभक्षण-व्यसनकरतं
वास्तु, उभयथापि.प्रमत्तत्वं विलासित्वं वा सूचयति। तादृशदन्तकाष्णयात् प्सादस्मितेष्वपि
वैरूप्यकृतं भीषणत्वं जनयति। कुनखीत्यनेनापि पूर्ववदसभ्यत्वं गम्यते।
साम्प्रतिकाचारदोषसन्ततिमाह नहुभोजनो बहुनिद्र डति। यस्तु स्वयं
परिणाममननुसन्धाय ग्रमाणाधिकं भुङ्के, समधिकं शोते, तमोगुणप्राबल्यात्स कथं
साधकेभ्यो मितभोजित्वं ग्रातरुत्थावित्व वा शिक्षयेदिति भावः। व्यसनशन्दोऽनेकार्थकः,
विपद्यपि दृष्टोत्र तद्योगादतिमात्रावसादशीलः, सर्वदा विपद्ग्रस्तः, तमालताम्बूलादि-
भक्षणव्यसनासक्तो वा कथं संसारदुःखनिमग्नशिष्यदुः खं व्यपोहयेदिति भावः। आचार्यातूगुणं
हि मनःप्रसादः सौम्यत्वमित्याद्युक्तम्। मितं च सारं च वचो हि वाग्मिताचायपिक्षिता,
तद्विरुद्धं वावटूकत्वमसम्बद्धबहुप्रलापित्वं तद्वौरवमपनयति। ज्ञानवानपि यदि ज्ञानानुरूपं
न चरति ताहि कस्य दोष इत्यत्र भगवान् समाधत्ते जीवस्तु प्र्रतिमनादिकालम्रवृततवासनामेव
यातीति शाक्तो निग्रहस्तस्य नियमनं कर्तु नार्हतीति। इत्यं शरीरवाङ्मयमानसदोषैप्रस्ता
विद्वांसोऽप्याचार्यत्विन नाङ्गीकार्यास्तेषां मुमुक्षृ्ञानोपदेशेन मोक्षसाधने युक्तत्वेन
निषिद्धत्वादित्यलं दोषविवेचनेन।
श्रद्धान्वितो विशुद्धात्मा मेधावी विनयी पटुः ।
कुलीनः सच्चरित्रश्च बुद्धिमान् ब्रततत्परः ।।६७।।
गुरुशुश्रूषणे शक्त आज्ञाकारी जितेन्द्रियः ।
अनुल्वणो भक्तिनिष्ठः शिष्यः कार्यस्तु देशिकैः ।।६८।।
* संवित्करः #
आचार्य द्वारा ऐसे भक्तिसम्पन्न समर्पित व्यक्ति को शिष्य बनाया जाना चाहिए;
जो श्रद्धावान्, शुद्ध मन वाला, मेधावी, विनम्र, कार्यदक्ष, सत्कुल में उत्पन्न,
चरित्रवान्, बुद्धिमान्, संकल्पपालन में दृढनिश्चय वाला, जो गुरुसेवा में समर्थ,
आज्ञाकारी, जितेन्द्रिय, शीघ्र उद्विग्न या क्रोधयुक्त न होने वाला हो।
* पदपरामर्शः *
परस्परापेक्षत्वेन गुरोर्गरत्वं शिष्यत्वनिरूपितमिति गुरुलक्षणमभिधावेदानीं शिष्यलक्षण-
मभिधत्ते -- श्रद्धान्वितेत्यादिना श्लोकद्वयेन पञ्चसंस्कारद्वारा स्वपरस्वरूपयाथार्थ्यनोधेन
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् ९५
भगवद्धक्तावधिकारावाप्तये तदर्थित्वसामर्थ्यापर्युदस्तत्वविचारस्य सर्वथौचित्यादत्र
अ्रशान्तचित्ताय शमान्वितायेति श्रोतं विद्याधिकारिलक्षणमन्वेतव्यम्। वेदान्तविद्याधिकारि-
शिष्यलक्षणप्रस्तावे 'प्रशान्ताचिताय जितेद्धियाय च प्रहीणदोषाय यथोक्तकारिणे।
गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षवे” इत्युक्तम्। आह च श्रुतित
"शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्याति’ इति।
श्रुत्यानया संवददस्ति स्मुतिवचनमिदं “शान्तो विनीतः शुद्धात्मा श्रद्धावान्
धारणक्षमः। समर्थश्च कुलीनश्च प्राज्ञः सच्चारितो ब्रती। एवमादिगुणेयुक्तश्शिष्यो
भवति नान्यथा' इति। एतच्छुतिस्मृतिसिद्ध शिष्यलक्षणं बिम्रश्वाचार्यचरणः शिष्याणा-
मपेक्षितगुणाख्यानविधया प्रस्तौति श्रद्धान्वित इति। गुरुवेदान्तवाक्योष्विदमित्थमेवेत्या-
कारिकास्तिक्यवुद्धिः श्रद्धा, तयान्वितरिशष्यः कार्यों देशिकैरित्यन्वयः। ज्ञानावाप्तयेऽस्या
अन्तरङ्गसाधनत्वं भगवानेवाह -- “श्रद्धावॉल्भते ज्ञानम्” इति, ग्रभावादिकमनुमाय
जातश्रद्धस्य क्षणिकप्रतीत्या न तादृशफलापादकत्वमित्यत आह -- विशुद्धात्मेति।
विशुद्धः कापट्यादिरहित आत्मान्तःकरणं यस्य, तथाभूतः। एतेन सत्त्वशुद्धिः
कल्याणभावश्च बोध्येते, तेन कामरागासूयावञ्चनादिदोषनिवृततिरुच्यते, विशुद्धान्तः करणे
विमले मणाविवाचारयोपदेश: स्फुट प्रतिफलतीति भावः। आत्मातिरिक्तविषयरागराहित्य-
प्रतिपादनात्सञ्जातमोक्षाभिलाषत्वं प्रकाश्यते। मेधा प्रतिभाऽस्त्यस्येति मत्वर्थीयो विनि:।
आचार्योपदिष्टेष्वर्थेष्वप्रच्युति: प्रत्युत्पत्रमतिर्वा, नवनवोन्मेषशालिनी प्रतिभा वा मेधा,
तद्योगाच्छिष्यस्य व्यवहारकाले उचितार्थस्य शीघ्र प्रतिभानं जायते। बुद्धिमानित्यनेन
्ुतार्थविस्मरणराहित्यमुच्यते। अतो श्रवणग्रहणधारणोहापोहार्थतिश्चवलाभायोभयोषादानम्।
विनीते विद्यावतिष्ठत इति तदनुगुणपात्रतामाह -- विनयीति। जातिकुलबिद्याद्यभिमान-
मुत्सार्य गुरुजनेषु विनयातिरेकेण वर्तमानत्वं लभ्यते। तेनाचार्यवश्यत्वं सूचितम्। न
केवल नग्रतापितु सर्वविधकोङ्कर्निव्तिसामर्थ्यमप्यपेक्षितमित्याह -- षद्टरिति। तथात्वेऽपि
सर्वविधकेङ्कर्यानुगुणवंशशुद्धिमाह -- कुलीनः; सत्कुलप्रसूततया कुलाचावणबुद्धिरिति
भावः। कुलीनेष्वपि क्वचिदाचारदोषो दृश्यत इत्यत आह -- सच्चारित्र इति
सत्रशस्तं चरित्रमाचारो यस्येति शिष्टाचारनिष्ठोच्यते। एतेन सद्गृत्तताऽ पेक्षितोक्ता।
प्रमाद: सर्व नाशयतीति शिष्यस्य टुढनिश्चयत्वमाभिधत्ते ब्रततत्पर इति।
स्वसङ्कल्पानुसारेण यावत्फलावाप्ति दाढ्येण शास्रोदितसाधनपरत्वमुच्यते। 'यथा
देवे तथा गुरौ' (8.६. २२) इत्युक्तातुसन्धानेन ज्ञानदात्राचार्यप्रणिपातपरिप्रश्न-
सेवादिनिरतर्त्वं वदति -- गुरुशुश्रूषणे शक्त इति। एतेन पूर्णमनोयोगेन
सवार्थिसाधकाचार्यसेवनप्रीणनपरत्वं निदिश्यते यस्पाद्देवो जगन्नाथः कृत्वा मर्त्यमयीं
तनुम्, मग्नानुद्धरते लोकान् कारुण्याच्छा्रपाणिना। तस्पाद्धक्तिगुरी कार्या संसारभय-
९६ श्रीवेष्णवमताब्जभास्कर:
भीरुणेति भावनासंप्लुतशुश्नूषात्रपेक्षिता फलदेति भावः। दृश्यते च भक्तिमतामपि स्वातन्त्र्येण
स्वविवेकेन सेवनम्, तादृशस्वातन्त्यदोषपरिहारपूर्वकाज्ञावर्तित्वमाह -- आज्ञाकारीति।
एतेनोक्त न व्यभिचरतीति यथोक्तकारित्वं श्रौतलक्षणं परामृष्टम्। विशुद्धात्मेत्यनेन
प्रशान्तचित्तायेत्यर्थं उक्तः, शमान्वितयेत्यर्थ प्रकाशायितुमुच्यते -- जिवेद्भिय इति
न विलासी विषयसेवी वा गुरुसेवया परमार्थ लप्स्यत इति भाव:। एतेन नियमितमनोव्रतितया
वैराग्यं सूचितम्। विकारेहेतावुपस्थिते यो न विक्रियते तादृशधीरजनगुणमाह —
अनुल्वण इति अक्रोध इति भावः। प्रतिकूलतायां परेः पीड्यमानस्याप्यविक्रतचित्तत्वरूप-
मनुद्रेगकरत्वं प्रकाशितम्। अतीक्ष्णचेषितत्व हि सेवायाः प्रमुखो गुण:। शिष्यतेऽसाविति
कर्मव्युत्पत्या शासनहित्वप्रकाशनेनापि काङ्कितगुणाधान- पात्रत्वं तस्य लभ्यते। गुरूपदेशात्पूर्व
भजनीयनिक्षयस्य तद्भक्तिस्वरूपस्य बोधाभावेऽपि भक्तिवान् स्यामिति देवसामान्यविषयाग्रहस्य
टुटत्वात्सर्वगुणसत्वेऽपि भक्ता निष्ठाया अतितरामपेक्षितत्वादन्ते तदनिवार्यतामाह ~
भक्तिनिष्ठाश्शिष्यो भवेदिति। नियता स्थितिरेव निष्ठा, स्थिरपरिगहीतमुपायानुष्ठानमू,
भक्तावव्यहितोपाये निष्ठा यस्य, तादृशः कार्य इति। यद्वैवंगुणविशिद्टोऽपि शिष्यः
फलरूपतया भक्तिनिष्छ: कार्य इति कश्चिदाचार्यधर्मोऽपि सूचितः, तत्परतासिद्धयेन्य-
गुणसाफल्याततत्रैव विश्रान्तेः! इत्थं भगवत्समाश्रयणकामनया सम्प्राप्तजीवेषु
शिष्यलक्षणमनुसन्धाय सम्परीक्ष्य च संस्कारमुखेन तत्वज्ञानाधानेन च ते भगवद्भक्तो
नेया:, नान्यथोद्देश्यसिद्धोरिति लभ्यते। यस्य मनश्शान्तमिन्द्रियजातं विषयेभ्यो निवत्त
यश्च स्वयमुपरतः प्रियाप्रियघटनाभिरविचलितो भवेत्, यस्य चित्तमात्मभूतपरमात्मोपलन्धये
तदनुरूपसाधनेषु संलग्नं तादृशमुमुक्षोरनुरूपशिष्यत्वामिति फालितार्थः।
परीक्ष्य शिष्यं समुपासकं गुरूर्वर्ष समभ्यर्च्य च वह्विदेवताम् ।
चापादिभिहितिवरैः सुतापितेर्दिने सुपुण्ये नियतः समङ्कयेत् ।।६९।।
* संवित्करः *
पंचसंस्काय्प्रदाता गुरु को चाहिए कि वह एक वर्ष तक शिष्य को अपनी सेवा
में रखकर उसके मनोभाव-आदि की परीक्षा करे। तदनन्तर शुभ दिन में परीक्षित
शिष्य के भुजामूल को सविधि पूजित अग्नि में सुतप्त भगवदायुधप्रवर (धनुर्बाण)
से अंकित करें।
* पदपरामर्शः *
संस्कारपरिगणनक्रमे समुदिटटमात्रस्य संस्कारपञ्चकस्य संस्कार्यसंस्कत्रादिनिर्देशपूर्वकं
तदाधानविधिमाविषकर्तु पूवोक्तार्थेन सङ्गमयन् ओरोक्तगुणगणसम्म्रतं शिष्यं वैष्णवत्वाधानो-
पयुक्तमुपसन्नमवाप्याचार्यस्तद्धितैषी किं कुर्यादिति द्वाभ्यां तद्विषयकेतिकर्तव्यतामाह
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ९७
-- परीक्ष्येति। अत्र समङ्कयेतकुर्यादुपदिशेदद्ादित्यादिपु लिङ्गा निदेशात्तेनाचार्यस्यापि
शा्रवश्यत्वं संसूच्यानयैनं हरिश्रेठेति भगवदुक्तार्थ विग्रश्य जीवक्रतभगवत्समाश्रयणस्य
तदभिमतत्वं निश्चित्य संस्करणस्य भगवदाज्ञापरिपालनधियानुष्ठेयता प्रकाशिता।
आत्मकल्याणचिकीषादा्ढ्यनिक्षयाय वर्ष तद्वैराग्यादिकं मनोवृत्यानुमाषिकाभिर्विधि-
संलापादिचेष्टाभि: परीक्ष्येति; 'नासंवत्सरवासिनः ' इत्याम्नायात् "सद्गुरुः स्वाश्रितं
शिष्यं वर्षमेकं परीक्षेत’ इति तन्त्रसारोक्तेश्व।
आज्ञानान्धकारनिवर्तकत्वेन ग्रथितो गुरुः स्वभक्तं शिष्यं सन्तप्तभगवदायुधेन
समङ्कयेदित्यन्वयस्तत्रादावनुगुणकालमाह -- सुपुण्ये दिन इति श्रीविष्णुदेवताके
श्रीरामनवमीश्रीसीतानवम्यादिमाङ्गलिकतिथाविति भावः। समङ्कनात्पूर्वक्त्यमाह वह्निदेवतां
समभ्यर्च्येति। वेदिनिर्माणभूसंस्कारादिक्रमेण कुशकण्डिकाविध्युक्तप्रकारेण श्रीरामात्मने
पावकाय नम इति वह्वोरपि भगवदात्मकत्वाद्धगवदुपासनधिया श्रौतविधिना यथायथं
सर्वकर्माराध्यं सम्पूज्य, तत्रोद्दीप्ताग्नौ सविधि स्वेष्टदेवतामन्तरेहत्वा तदनु प्रदीप्ताग्नौ,
भगवदायुधवरौ धनुर्बाणौ प्रताप्य शिष्यनाहुमुलेऽङ्कयेदिति भावः। धनुर्बाणसिचक्रादीनामपि
भगवदायुधत्वात्सर्वहेतिषु प्रशस्तैक्षापादिभिरङ्कनमत्र सूचितम्। चापादिभिरित्यत्रादिपदेन-
भगवद्वाणानां सङ्ग्रहः, आप्यस्वरूपाभिनिवेशा्दायुधयोरेव संस्कारहेतुतया अहणौचित्यात्।
अत्र बहुवचनमविवक्षितम्, वद्चतुर्भ्यश्चेतिवत्। द्रित्वन्त्वधिष्ठानभूतभुजमूलानु-
सन्धानेनेष्टमेव। यद्वा; यथावस्थितार्थविवक्षया भगवदशस्वरूपविशेषवर्तित्वाच्चक्रादेरपि
ग्रहणे न क्षति:। चक्राद्यपेक्षया हेतिवरयोर्धनुर्बाणयो: परत्वन्तु श्रीरामशास्रास्रसङ्घस्तुतै
विवेचितचरम्। चापादिभिरित्यत्राप्रितरकषार्थ प्रथममादीयते ग्रह्मत इत्यादिः किप्रत्ययान्तः
आदिर्बाण:, यद्वा आदि: प्रथमः प्रधानः करणत्वात्; अत एव मानसे 'महासायक-
चारुचापम्” इति प्रयोगः। तत्रोद्धतावयवभेदविवक्षया5दयो बाणा:। चापश्चादयश्चेति
चापादयस्तैरिति चापबाणाभ्यामिति फलितम्। यद्वाऽततीत्यादी अद्धातोर्णिनिः, बाणपर्यायः
क्रियामुखेन। अत्रापि बहुत्वविवक्षया आदिनो नाणा: चापश्चादिनश्चेति चापादिनस्तौरिति
व्याकरणप्रक्रिया। सुतापितोरित्यत्र सुनायुधचिल्वाङ्कनार्हता तापस्य विवक्षिता।
संस्कारकालेऽ पेक्षितमाचार्यचित्तसमाधानं वदति नियतः; समाहितमना इति
भावः। श्रौतत्वादनुपेक्षणीयस्य तापसंस्कारस्य ग्रहस्थविरक्तसाधारण्यात् तदधिकारिभेदं
प्रकल्प्य तप्तशीतलमुद्राभेदकथनं शिष्यमोहपारवश्येन शास्त्रादेशं स्वानुकूल्येन
शिथिलयतामर्वाचीनगुरूणामेवाभिमतमित्यहो कालमहिमा।
सहोर्ध्वपुण्डुं सुमृदा श्रिया तथा रामादिदास्यान्वितनाम कुर्यात् ।
मन्त्रं तथैवोपदिशेद्विधानतो मालां च दद्यात्तुलसीसमुद्भवाम् ।।७०।।
९८ श्रीवैष्णवमतान्जभास्करः
* संवित्करः *
उसके बाद पवित्र श्वेतमृत्तिका (रामरज) एवं श्री द्वारा शिष्य के मस्तकादि बारह
अंगों पर विधिपूर्वक अर्ध्वपुण्ड्र तिलक लगावे, भगवद्दासत्व का अनुसन्धान कराने
वाला उसका (रामदास इत्यादि) नाम रक्खे, तदनन्तर कण्ठ में तुलसीमाला
धारण करवाकर षडक्षर रामतारक मन्त्रराज का विधिवत् उपदेश करें।
* पदपरामर्शः *
तापसंस्कार प्रोच्य शेषं संस्कारचतुएयमाह -- सहोर्ध्वपुण्डमित्यादिना। शिष्यस्य
ललाटादिषु शास्रोक्तक्रमेण द्रादशतिलकेति प्रसिद्धयनुगुर्ण श्रिया सह सुम॒दोर्ध्वण्डु
समन्त्रकं कुयादित्यन्वयः। सुमरदेत्यनेन भगवद्धागवतपादसञ्चारपरिपृतायोध्याचित्रकूटादि-
भगवद्धामरजस्सम्पर्कसमुज्ज्वलया मृदेति विवक्षितम्। हरिद्राचूर्णश्रीरेखाङ्कितमध्यस्य
मूलतिलकस्वरूपस्यानादित्वेऽपि यथापरम्परं ठुप्तश्रीवर्तुलश्रीशुक्लश्रीत्यादिभेदोऽ प्यत्र
यथायोग्यं समावेश्यः, अत एव श्रियेति निर्विशेषणमुक्तम्। केचन तु स्वसम्प्रदायानुरोधात्
सुमृदेति श्रियेत्यत्र विशेषयन्ति, तन्न युक्तमुपजीव्यविरोधात्। नामसंस्कारमाह --
रामादिदास्यान्वितनाम कुर्यादिति। अत्र दास्यान्वितमित्यस्य दास्यभावनोधकपदान्वित-
मित्यर्थस्तेन दासप्रपन्नशरणाद्यन्तस्य परिग्रहः, दास्यस्य सर्वभावेष्वनुस्यूतत्वात्।
रामादिदास्येत्यत्रादिपदेनावतारनाम्नां कृष्णनारायणगोविन्दजनार्दनप्रभृतीनां समावेशं
सूचयति। नामरूपलीलाधाम्नां तद्विग्रहतया राघवेन्ररषुवरेतिनामवदीश्षरसामान्यवाचकानां
सर्वेध्च्रभुजगदीशप्रभृतीनां भक्तवत्सलदीनबन्धुकरुणासिन्धुप्रभृतिगुणस्पारकनाम्नां
स्वरूपानुसन्धायकघनश्यामकमलनयनादीनां च सङ्ग्रहो भवति, अयोध्यादास-
हनुमद्वासेत्यादिनामदर्शनात्; तद्धामतदात्रितानामपि तद्भावारोपेण कैङ्कर्यविषयता
'तस्मिंस्तज्जने भेदाभावात्’ (४१) इति नारदभक्तसूत्रोक्तेः। यथा भगवद्राम-
सम्बन्धित्वादन्ये वैष्णवसंस्कारास्तथैव षडक्षरमन्त्रराजस्यैव मन्त्रत्वेनोपदेश इत्युच्यते।
सम्प्रदाये तस्यैवाभिमतत्वात्, तद्घटितत्वाद्युगलमन्त्रोपदेशस्यापि नायुक्तत्वम्। विधानतः
शास्रोक्तेन विधिनेत्यर्थ: सार्वविभक्तिकस्तसिरत्र तृतीयार्थे, तच्च पर्द प्रतिक्रियमन्वेति।
श्रद्धयार्पितमपि भगवांस्तुलसीयोगं विना नाङ्गीकरोतीति भगवदर्पणलक्षणं ठुलस्या
सहाविच्छिन्रयोगसम्पादनाय कैङ्क्यानुगुणशुचिताधानाय च मालासंस्कारमाह --
मालाञ्च दद्यादिति; कैङ्कर्याधिकारसिद्धये परिधापयेदित्यर्थः। यद्यापि मालापरिधापनपूर्वक-
मन्त्रोपदेशस्य सम््रदायसिद्धत्वादाचित्याच्च मन््रोपदेशाव्माङ्मालासस्कारकथनं युज्यते,
तथापि शन्दक्रमादर्थक्रमो बलीयानित्यर्थक्रमाश्रयेण विवक्षणान्न दोष:। प्रथमपादगतं
तथेति पदं पञ्चस॑स्काराणां विधानसातत्यं द्योतयति। प्रकृतपद्ये मालाञ्च दद्यादित्यत्र
चकारस्यानुक्तसमुच्चयार्थकत्वाद्धगवत्समक्षमुपस्थाप्य दण्डवद्भूमौ पतितस्यापराध-
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ९९
क्षमापणार्थुप्रार्थनापुरस्सरस्वीकारार्थयाच्बादिकमाचार्येण विधेयं समुच्चीयत इति।
एवं महान् भागवतः सुसंस्कृतो रामस्य भक्तिं परमां प्रकुर्यात् ।
महेन्द्रनीलाश्मरुचेः कृपानिधेः श्रीजानकीवछ्लभरावणारेः ।।७९।।
* संवित्करः *
इस प्रकार वैष्णवीय पंचसंस्कार से संस्कृत अधिकारी शिष्य, परमवैष्णव
होकर, नीलमणि-जैसी दिव्य श्यामल कान्ति वाले कृपानिधान रावणारि श्रीजानकीवल्लभ
श्रीरामजी की निरन्तर भक्ति करे।
* पदपरामर्शः *
संस्कारस्य कार्यान्तरयोग्यताकरणत्वात्तद्ठुक्तस्य कार्यविशेषमाह -- संस्क्रतो रामस्य
परमां भक्तिं कुर्यादिति! तत्कर्तव्यनिर्देश: सूचितो भवतीति इत्थं पूर्वोक्ततापादिसंस्कारेः
सविधि संस्कृत इति सुसंस्कृतः शिष्यो भगवदुपासनायां लन्धाधिकारतया महान्
भागवतः सम्पन्न इति संस्कारहेतुको विशेष उक्तः। भगवद्धक्तिरूपपरमधर्मनिष्ठो हि
भागवतो भवति। लौकिकसम्बन्धपरित्यागेन तदीयत्वनोधोदयेन च तत्र महिमान्वयमाह
-- महान् पूजनीय ड्रति। महिम्नश्चरमावधिर्हि भगवान्, सर्वत्रापि तद्योगादेव
महत्वयोग इति सूचितम्। तादृशभागवतस्येति कर्ततव्यतामाभिधत्ते -- रामस्य परमां
भक्तिं प्रकुर्यादिति। भक्तावुपासनायां पारम्यं नामाव्याभिचारित्वं तेन तत्त्वनिक्षयेन न
केवलमनन्यदेवताकत्वमपित्वनन्यप्रयोजनत्वमपीति प्रकाशितम्, प्रकुर्यादित्यत्र विधाने
प्रकृष्टता शास्रानतिक्रमणेनेति लभ्यते। परमभजनीयतामवधारयति ~ रामस्येति।
भत्तगनुकूलतायै तच्छ्रीविग्रहानवद्यशोभां ब्रूते ~ महेन्रनीलाश्मरुचोरिति महेन्द्रनीला-
स्मेनद्रनीलमणिर्हि परमदीप्तिमान् काश्चिद्रत्नविशेषः, तस्य रुचिः दीप्तिरिव रुचिर्यस्य,
तादृशस्य, एतेन यत्सात्निध्यादेव सकलामङ्गलं नश्यति सर्वसोभाग्यसम्पल्भ्यते,
तादृशमनोहारिसमुज्ज्वलदीप्तिमत्त्वं श्रीविग्रहस्योक्तम्। श्रीविग्रहस्य दिव्यत्वेऽपि
दीप्त्युपमानभूतस्य नीलाश्मनोऽपि अश्मत्वसुळभं नैदूर्यमाशङ्कय तत्र जडत्वप्रयुक्त-
काठोर्यमपहरति -- कृपानिधेरिति। दुतिमन्महहित्वेऽपि न तस्य परदुः खाद्यसविद्यत्वरूपं
नीरसत्वमपितु द्रवच्चित्तस्य तस्य समुच्छत्कृपापीयूषपूरपूरितमानसत्वं संसूच्य
महाकारुणिकत्वमुक्तम्।
श्रीजानकी वलभा यस्य, श्रीजानक्या वल्लभ इत्युभयथा विग्रहेण तयोर्मिथो-
ऽनन्यजीवितत्वं सूचितम्। रावयतीति रावण इति सकललोककण्टकवदचिरोत्पाटनीयता
लभ्यते, तादृशस्यापि नायमरिरापितु स स्वयं दौरात्म्यादरिरभृद्यस्येति बहुब्रीहिणा
कश्चिदर्थो ध्वन्यते। यद्यपि श्रीजानकीवछभश्चासौ रावणारिरिति समानाधिकरणत्वेन कर्मधारये
रावणारिपदस्याल्पच्त्वाद्धित्वाच्च पूर्वनिपातः प्रसज्यते, किन्तु लक्षणहेत्वोः क्रियाया
१०० श्रीवेष्णवमताब्जभास्कर:
इति सूत्रे लक्षणहेत्वोरिति प्रयोगदर्शनात्पूर्वप्रयोगस्यानित्यत्वबोधनादिदमुपपद्यते। अतो
यथावस्थिताकारेण सम्बन्धिशन्दप्रत्यासत््या श्रीजानकीवछभत्वादेवार्यं रावणारि-
रित्याश्रितविषद्विमोचनपाटर्वं सूचितं भवाति। एतेनानन्याश्रितविरोधिना सह
समूलोच्छेदपर्यवसायि वैरमिति ध्वन्यते। रावणारेरिति पराक्रमबोधनेन सारवत्तारूपं सत्,
क्रपानिधेरिति सहृदयत्वरूपं चित्त्वं, नीलाश्मरुच्युपमानेन परमाह्णादजनकतया-नन्दमयत्वं
च निर्दिश्य तस्य सच्चिदानन्दरूपता प्रकाशितेति भाव:।
उपाधिनिर्मुक्तमनेकभेदका भक्तिः समुक्ता परमात्मसेवनम् ।
अनन्यभावेन मुहुर्मुहुः सदा महर्षिभिस्तैः खलु तत्परत्वतः ।।७२।।
* संवित्करः #
महर्षियों ने, लौकिक सम्बन्ध एवं कामना-आदि मनोदोषों से मुक्त होकर,
अनन्यभाव से पूर्णतत्परतापूर्वक की जाने वाली श्रीरामचरणसेवा को “पराभक्ति'
कहा है; जो भाव एवं अवस्था के भेद से अनेक प्रकार की होती है।
* पदपरामर्शः *
परमां भक्ति प्रकुर्यादिति पूर्वश्लोकोक्तार्थमनुसन्धाय सा विधातव्यत्वेनोक्ता परमभक्ति:
केत्यत्र सवादौ महर्षिजनसम्मतं तत्स्वरूपमाह -- उपाधीति। तेर्महर्पिभियुहु्मुहुरनेकभेदका
भक्तिः समुक्ता, सा खलु भक्तिस्तत्परत्वतोऽनन्यभावेनोपाधिनिर्मुक्तं सदा परमात्मसेवनम्
इत्यन्वयः। तैरिति सर्वनाम्नाऽ नेकत्वं सर्वलोकप्रसिद्धिञ्च द्योतयति। स्वस्वोव्प्रेक्षावशंवदतया
साभिनिवेशत्वश्रान्तत्वादिव्यावृत्तये महार्षिभिरित्युक्तम्। तेनार्वाचीनशङ्करादिव्यवच्छेद:।
ऋषयो मन्त्रद्रष्टारः ' इत्युक्ते वाल्मीकिव्यासादीनां तपस्स्वाध्यायनिरतानां करामलकव-
दखिल निरावरतं साक्षात्कर्वतां तेषां कृतो अमप्रमादादिप्रसक्तिरिति भावः। तत्वहितबुबोधयिषा-
पारतन्त्र्यात्करुणया मुहुर्मुहुराख्यानं तेषां तादृशमहात्मजनसुलभं दीनजनवात्सल्यं
सूचयति। मुहुर्मुहुरित्यनेन सर्वशा्राणां महार्थभूतायां भक्तो सर्वसाधारणस्याग्रहविशेषो
दृश्यते, कथन्न ुनस्तादृशां स्यादिति तत्र तेषां गाढाभिसन्धिद्योत्यते। महर्षिभिरनेकभेदका
भक्तिः समुक्तेति यस्या एकाशेनाङ्गीकारेऽपि कृतार्थतेति सूच्यते। अनेके भेदका
व्यावर्तकविशेषा यस्याः साऽनेकभेदकेति, अत्रासुप इतीत्वनिषेधोऽनेके भेदा यस्या
इति विग्रहे वैकल्पिके कापि इत्वं स्यादेवेति विशेष:। पूर्णकामानामपि नि्व्याजकारुण्यादेव
येषां लोकहितचिकीर्षया विद्याप्रवर्तकत्वं हितानुशासकत्वात्।
तैस्तादृशे: समुक्ता भक्तिरनेकभेदका, पात्रभेदात्साधकावस्थाभेदात्साध्यसाधनादिभेदेन
श्रवणादिभेदाद्वा। सम्यगुक्ता समुक्ता परमोपादेयतामाकलय्य दुरवगाहतामपसार्य सोपपति
प्रसाद्य सुललितया सुगमया सरण्या चोक्तेति भाव:। सा च महर्षिभिः समुक्ता भक्तिः
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १०१
केत्यत्र प्र्रतिप्रत्ययार्थमनुसन्धायोच्यते -- परमात्यसेवनम्; भज्धातोः सेवार्थकत्वात्।
चिदचिदोस्तदपेक्षया हीनत्वाटुभयोरीशस्यैव सेव्यत्वं निश्चीयते; “राम त्वं परमात्मासि’
इति (४) मुक्तिकोपनिषच्छुते:। परमात्मसेवनरूपभक्ते: सकललोकशारुप्रसिद्धवैभवत्वं
सूचयति -- खाल्विति। सदेत्यनेन नेरन्तर्य प्रकाशयति, अवान्तरसेवाव्यावृत्तये
लोकिकसेव्यान्तरव्यवच्छेदाय चाभिधत्ते तत्परत्वत ड्रति। तत्परत्वेन, अत्र
तृतीयाथे सार्वविभक्तिकस्तसि:। तदेकप्राप्यप्रापकत्वानुगुणसर्वाकारपरिपूर्णत्वबुद्भयेत्यर्थः।
वस्तुतः सवदेशसर्वकालसवविस्थोचितत्वं बोधयितुमाह -- तत्परत्वत इति यथोक्तं
श्रीरामायणे "अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते’ (२.३१.२५) इति
अनन्यभावेनेति देवतान्तरकेङ्कर्यव्यावृतिः। सेवने प्रयोजनान्तरेच्छैवोपाधिः। उपाधिनिर्मु्त
परात्मसेवनमित्यनेन तदितरकामनाराहित्यं सूच्यते। अगशुन्यमेकस्मिन्नेव नियतं सेवनमिति
भावः। यथोक्तं श्रीमद्भागवते “यस्त आशिष आशास्ते न स भृत्यः स वै
वणिक्” (७. १०.४) इति। तदित्थं तदितरसकलकामनाशून्यमनन्यदेवताकं सर्वदेश-
सर्वकालसर्वास्थोचितं परमात्मसेवनमेव भक्तिरिति महर्षिभिरुक्तमिति श्लोकस्य फलितार्थः।
यथोक्तमागमे 'सर्वोपाधिविनिर्युक्तं तत्परत्वेन निर्मलम्। हृषीकेण हृषीकेशसेवनं
भक्तिरुच्यते” इति।
सा तैलधारासमनित्यसंस्मृतेः सन्तानरूपेश परानुरक्तिः ।
भक्तिर्विवेकादिकसप्तजन्या तथा यमाद्याष्टसुबोधकाङ्गा ।।७३।।
* संवित्करः #
वस्तुतः वह पराभक्ति तैलधारा के समान अविच्छिन्न भगवत्स्मृतिप्रवाह (निरन्तर
ध्यानाभ्यास के कारण प्रत्यक्षसमानाकार ज्ञान) से जन्य परमप्रीतिरूप है; जो
विवेक (अदूषित अन्न से कायशुद्धि), विमोक (निष्कामता), अभ्यास, क्रिया
(पंचमहायज्ञादि का अनुष्ठान) कल्याण (सत्यसरलता-दयादानादि), अनवसाद
(शोकजन्यदीनतारूपी मनोमालिन्य का अभाव) एवं अनुद्धर्ष (उपासनादि में
असन्तोष) -- इन सात साधनों से उत्पन्न होती है तथा यम-नियम-आसन-
प्रत्याहार-प्राणायाम-धारणा-ध्यान-समाधि नामक अष्टांगयोग जिसके उपकारक
होते हैं।
* पदपरामर्शः *
वेदान्तवाक्यौर्विधित्सितस्योपासनस्य ध्रुवानुस्म्रतिरूपत्वमुक्तं स्ववृत्तौ भगवद्-
बोधायनाचार्यै। आतो ध्यानवेदनादिशब्दबोध्याया भक्तेः स्वरूपमाविष्कर्तुमुपक्रमते
-- सेति। भगवत्सस्मृतेर्यं सन्तानः प्रवाहः, तद्रूपता नाम परम्पराप्रवाहस्य
विशदतमाकारता। तत्रातिशयत्वमभ्यासनैरन्तरयोणाधीयते, इयं सन्तानरूपतैवैकतानता-
१०२ श्रीवैष्णवमताब्जभास्कर:
पदेनोच्यते। अत्र संस्मृते: सातत्यमुच्यते -- नित्येति। तेनाविच्छित्रत्वं सूच्यते, तच्च
विजातीयचिन्तनाव्यवहितत्वम्। तादृशसंस्म्रतिप्रवाहस्य दृष्टान्तः ~ तैलधारा- समेति,
तद्धारायामविच्छित्नताप्रतीतेः सर्वातुभवसिद्धत्वात्। वस्तुतस्तादृशभगवत्संस्मरति- सन्तानरूपैव
भक्तिरिति न, अपितु ततोऽपि जायमाना भगवद्विषयिणी परानुरक्तिर्भीक्तिः भक्तेः
परानुराक्तिरूपत्वात्। तादृशसंस्म्रतिसन्तानाज्जातपरमानुरागरूपभक्तिः कुतो जायते? तत्र
तद्धेतुजिज्ञासामुच्यते -- सा विवेकादिसप्तकजन्योति। अयमर्थः श्रौतनिर्वचना-
नुकूल्येन भगवद्गोधायनव्रत्तिलभ्यः। यथोक्तं तत्र तल्लन्धिविविकविमोकाभ्यासक्रिया-
कल्याणानवसादानुद्धर्षेभ्यः सम्भवात्निवर्चनाच्चोति। अत्र विवेकादिषु कारणत्वं
व्यासज्यतर्तिनतु प्रत्येकपर्याप्तम्। विवेकस्तु जात्याश्रयनिमित्तादुटटात्रात्कायशुद्धिः। जातिदुएं
भवति कलञ्जगुञ्जनादि, आश्रयदुष्टं भवति पतितादिस्वामिकम्, निमित्तदुष्टं भवति
केशोपहतोच्छिष्टादि। एतत्रिविधिदोषरहितादत्रात्कायशुद्धिविविक इत्युच्यते। श्रुतिश्चात्र
निर्वक्ति आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवास्प्रतिः। स्मृतिलम्भे सर्वग्रन्थीनां
विप्रमोक्षः? (छा. ७.२६.२) इति। विमोकश्चात्र कामानभिष्वङ्गो, निष्कामतेत्यर्थः।
अत्रार्थे श्रुतिः ‘उपासते पुरुष ये ह्यकामाः' (मु. ३. २. १) इति। अभ्यासः पुनः
गुनरालम्बनस्य शुभाश्रयस्य संशीलनं परिशोधनमिति। अत्रार्थे श्रुतिः ज्ञानप्रसादेन
विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः? (मु. ३.१.८) इति। क्रिया
खलु शक्तितः पञ्चमहायज्ञाद्यनुष्ठानम्; "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसानाशकेन” (ब. ४.४.२२) इति श्रुतेः सत्यार्जवदयादाना-
हिंसानभिध्या: कल्याणान्युच्यन्ते, सत्यं खलु भूतहितम्, वाङ्मनश्ेष्टादीना-
मैकरूप्यमार्जवम्, स्वार्थानिरपेक्षपरदुः खासहिष्णुत्वं दया, लोभराहित्येन वस्तुसमर्पणं
दानम्, कायेन वाचा मनसा च परपीडानिव्रतिराहिंसा, परक्तापराधचिन्ताराहित्यमभिध्या।
अत्रार्थे ‘सत्येन ल भ्यात्तपसा होष आत्मा सम्यर्ज्ञानं बरह्मचर्येण नित्यम्” (गु. ३. १. ५)
इत्यादिश्रुतयो निर्वचनानि। यच्च देशकालवेषम्याच्छोकवस्त्वाद्यनुस्मुतेरजायते
तादृशमभीष्टकार्यप्रवृत्यक्षमत्वं देन्यम्, तादृशदैन्यस्याभावोऽनवसाद उच्यते। निर्वचनं
चात्र “नायमात्मा बलहीनेन लभ्यः ' (मु. ३. २.४) इति श्रृतिः। अनुद्धर्षस्तुटयमावः,
'एवैरुपायैयतिते यस्तु विद्वान्” (मु. ३. २. ४) इति श्रुतेरतिसन्तोषश्चात्र विरोधीत्यर्थ:।
एतत्साधनसप्तकानुष्छानाज्जायते तादृशस्म्रतिसन्तान इति भावः। भगवव्याप्त्युपायभूताया
भक्तेः स्पृतिसन्तानाख्याया अङ्गानि योगशास्रे प्रथितानि यमादीनीत्याह --
यमाद्यष्टसुबोधकाङ्गेति। अहिंसासत्यास्तेयन्रह्मचर्यापरिग्रहा यमः, शौचसन्तोषतपः-
स्वाध्यायेश्षरप्रणिधानानि नियमः, स्थिरसुखमासनम्; यदासनं स्थिरं सुखमनुद्रेजनीयं
भवति तदा तद्योगाङ्गतां भजत इति भावः। तस्मिन् सति श्वासप्रश्षासयोर्गतिविच्छेदः
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १०३
प्राणायामः, स्वस्वविषयसम्प्रयोगाभावे चित्तस्य स्वरूपानुकार इवेन्रियाणां प्रत्याहारः,
देशबन्धश्चित्तस्य धारणा, ध्येयस्वरूपे देशे चित्तस्य विषयान्तरपरिहारेण यत्स्थिरीकरणं
सा धारणा। तत्र प्रत्ययैकतानता ध्यानम्, ध्येयस्वरूपे हि प्रत्ययस्य ज्ञानस्य
तदालम्बनतयैव निरन्तरमुत्पततिर्ध्यानं भवति। 'वदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव
समाधिः? (३.३) इत्यादिना योगूत्रकारेण यमाद्यएकस्य लक्षणानि प्रस्तुतानि,
एतान्येव तादृशाध्रुवानुस्मृतेरङ्गानीति भाव:। अत्राङ्गपदेनोपकारकमिति लभ्यते।
एतेष्वनु्ठितेषूपकारकेषु धरुवानुस्म्रतिः सपरिकरमनुछिता पुषा च भवतीत्याशयः।
वस्तुतस्त्वीक्षप्रणिधानेनेश्षरानुग्रहेणापि यमाद्यदटाङ्गं सफलं भवति। समाधिसिद्धियॉगफलं
वा सुतरां लभ्यत इति केचन तदनुग्रहेकबलास्तदेकशरणा भवन्तीति भाव:।
उदारकीर्तेः श्रवणं च कीर्तनं हरेर्मुदा संस्मरणं पदश्रितिः ।
समर्चनं वन्दनदास्यसख्यान्यात्मार्पणं सा नवधेति गीयते ।।७४।।
* संवित्करः #
महर्षियों ने उदारकीर्ति वाले भगवान् श्रीराम की नवधा (नौ प्रकार की) भक्ति
का विवेचन किया है -- प्रभु का चरितश्रवण, नामगुणलीला का कीर्तन,
संस्मरण, पादसेवन, पूजन, वन्दन, दास्य, सख्य तथा आत्मसमर्पण
* पदपरामर्शः ४
मोक्षं प्रति कारणतया प्रथिता या भक्तिः सा परानुरक्तिरूपेत्युक्ता, तदुत्पत्तौ
पुराणादा प्रसिद्धायाः साधनभक्ते्नवविधत्वं यदुक्तं तदत्र सनामग्राहं समुच्चीयते --
उदारकीर्तेरिति। उदारा वदान्या कीर्ति्यशोराशिरस्येति तत्कीतेरपि मङ्गलमयत्वमनोज्ञत्व-
पापहारित्वादित्वा्चुल्यत्वं सूचितम्। भगवत उदारकीर्तित्वाद्वीनानुकम्पित्वाद्यसाधारण-
महिमपोष्कल्याच्छरवणकीर्तनाद्यर्हता सूच्यते। हरोरित्यनेन च 'हारिहराति पापानि,
'हरणादेव दुः खानाम्' इत्यादिस्मृतिसिद्धमाश्रितानिर्ष प्रसह्य हरतीति विवक्षया
कारुणिकत्वं संसूच्य “रामाख्यमीशं हरिम् इति वचनमनुसाहितम्। “श्रोतव्यः”
(ब. २.४.५) इति श्रुत्या विहितं रूपगुणपरिकरलीलामयशन्दानां श्रवणं प्रथममुक्त
“भद्रे कर्णोभिः श्रृणुयाम देवाः” इति श्रृत्येप्सितत्वं प्रकाश्य तन्मात्रेण मङ्गलमित्युक्त-
सामर्थ्य सूचितम् अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः” (भा. पु.
३.७. १४) इत्यृक्तेः। “यस्यां वै श्रूयमाणायां भगवत्यखिलात्मानि। भक्तिरुत्पद्यते
पुंसां शोकमोहभयापहा” (भा. पु. १. १. ७) इत्युक्तेश, अत्र न श्रुतायामपितु श्रूयमाणायाम्
इति कथनाच्छरवणकाल एव तदवाप्त्युपक्रमो बोध्यते। श्रुतानुभावो भगवान् प्रविश्य
शरोतृव्यसनं तदन्तर्यामितया हरति। यथोक्तं प्रविष्ट: कर्णरन्द्रेण स्वानां भावसरोरुहम्।
१०४ श्रीवेष्णवमताब्जभास्कर:
धुनोति शमल कृष्णः सलिलस्य यथा शरत्” (था. पु. २.८.५) इति। भगवदूगुण-
श्रवणरासिकानान्तु तदायत्तजीवनत्वं तत्र तत्र प्रतिपाद्यते 'नैषातिदुस्सहा क्षुन्मां
त्यक्तोदमापि बाधते। पिबन्तं त्वन्मुखाग्भोजच्युतं हारिकथामृतम्' (भा.पु.
१०.१.१३) इति। भगवत्रेप्सासिद्धाविदं सर्वथाऽमोघसाधनम् “गुणैरदास्यमुपागतः '
(४.४.१२) इति श्रीरामायणोक्तेः श्रुत्वा गुणानित्युपक्रम्य 'त्वय्यच्युताविशाति
चित्तमपत्रम्” (भा.पु. १०.५२.३७) इति श्रीरुक्मिण्युक्तेश्च। अतः "श्रवणं सर्वधर्मेभ्यो
वरं मन्ये तपोधनाः” (भा.मा.प. ६.७६) इति पाद्मवचनं सङ्गच्छते। सति वक्तारि
श्रोतव्यं श्रोतरि च सति कीतितव्यमित्युक्तेः हरेः कीर्तनम् इत्यपरो भक्तिभेदः;
तत्तद्गुणविभवचेडितादिगर्भाणां तदसाधारणनामधेयानां च श्रमावधि सङ्कीर्तनमिति।
जीवस्याज्ञत्वादसमर्थत्वाच्च गुणादेरपरिच्छेद्यतया य निश्शेषकीर्तनासम्भवस्तथापि
जिह्वा सती दादारिकेव सूत न चोपगायत्युरुगायगाथा' (भा.पु. २.३.२०)
इति वागिद्भियसार्थक्याय प्रीत्या तद्गुणकथनोक्तेः। अत एव स्वरूपनित्यतया वेदः
सदा गायत्येव तद्विप्रासो विपण्यव इति नित्यसूरीणां तद्गानपरत्वं प्रवाहनित्यतया
ह्मादितज्जातसनकादीनां तद्गुणकीर्तनपरत्ववर्णनं सङ्गच्छते। ‘तस्माद्भारत सात्मा
भगवानीश्वरो हारिः। श्रोतव्यः कीर्तितव्यक्च स्मर्तव्यश्चेच्छताभयम्' (२.१.५)
इति भागवतोक्तचा क्रमप्राप्तत्वात्रृतीयभेदतया स्मरणमुच्यते -- इदमेव श्रुतिसिद्धं
निदिध्यासनम्।
श्रवणकीर्तनाभ्यां जातान्तःकरणाशुद्धेः साधकस्य तदपरित्यागेन भगवत्स्वरूपगुण-
चेहितादिभेदाद्वहुविर्धं तत्स्मरणं विहितम्। श्रितिः सेवा, पादयोः श्रितः पादसेवा,
भगवद्भागवतपरिचर्यत्यर्थः। रुचिशक्तचोः सत्त्वे सेवायां सादरत्वमिषटम्। अत एव भागवते
षडङ्गसेवायां साधनान्तरसमावेशेन कथनं सङ्गच्छते 'तत्तेऽ हत्तम नमः स्तुति- कर्मपूजाः
कर्मस्मृतिश्वरणयोः श्रवणं कथायाम्। संसेवया त्वायि विनेति षडङ्गया कि
भक्ति जनः परमहंसगतौ लभेत’ (भा. पु. ७.९.५०) इति। भगवत्सम्बन्धित्वधिया
यथाशक्ति सर्वसेवाया अभिप्रेतत्वेऽपि भागवतकैङ्कये फलमुखेन पर्यवसानं दृश्यते —
'महत्सेवां द्वारमाहुर्विमुक्तेः' इत्युक्तेः भगवत्सेवाया अर्चनपदेन पृथगुक्तेश्च।
वैष्णवागमोक्तविधिना सरवोपचारेरभगवत्पूजनं समर्चनमुच्यते। यथोक्तं “गन्धैः पुष्पैः
फलैमूलैः पत्रैर्वारिभिरेव च। नित्यं भगवतः पूजां यथासम्भवमाचरेत्’ इति
भगवदर्चनस्य नित्यत्वम्, अर्चाया वैदिकतानिकमिश्रेति त्रैविध्यं भागवतादौ निरूपितम्।
'वैदिकैस्तात्रिकैर्वान्यै श्रोत्रेवा द्विजरुत्तम। स्वयं व्यक्ते तु भवने मिश्रै्वा देवमचयेत्'
इत्युक्तावपि सौम्येन वैदिकेनैव देवदेवं समर्चयेत्' इति वैदिकमन्त्राणा प्राशस्त्यमुक्तम्।
सविध्यर्चनं यागः, देवतोदेश्यकद्रव्यसमर्पणस्य यागत्वात्। "आज्यस्य दैवतं विष्णुः '
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १०५
इति नारदीयवचनेनाज्यदेवताभूतो भगवानेव। आज्यप्राधान्या-दाज्योपादानं
समिदन्तरोपलक्षणार्थम्। अमन्त्रकार्चनस्य प्रत्यवायजनकत्वमप्युच्यते -- 'सर्ष दृष्टवा
यथा कायं कम्पते च मुहुर्मुहुः । अमन्त्रमर्चक दृष्टवा तथा भीतो जनार्दनः? इति।
भगवताऽपि “मद्याजी थव” (गी. १८.६५) इति प्रवर्तना कृता। तस्यापि
मन्त्रविध्यादिसापेक्षत्वेन तदर्नहस्य साधनान्तरमुच्यते -- वन्दनामिति। त्रिभिः करणैः
प्रणमनमित्यर्थः, तत्र देशकालविशेषप्रतीक्षणविलम्बाभावात्सौकर्य सूचितं भवति।
परमोपकारिणे भगवते प्रत्युपकारसामर्थ्याभावाद्रन्दनमतिरिच्य किं वान्यत्रिदानं जीवस्य,
“को नाम तद्ाति विनाञ्जलिमस्य कुयात्? (3.३१.१८) इति भागवतोक्तेः।
साधनसौकर्येऽपि न तत्फलं परिच्छिन्नम्, अबिरितापराधस्याप्यनिष्ट-निवर्तनमस्य फलत्वेन
कथितं 'बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादतृशस्यार्थमापि शु
परन्तप” (वा.रा.६. १८. १४) इति भगवदुत्ते। अत एव स्वयं भगवान् सर्वसाधनरहितेभ्योऽन्ते
चरमोपायतया मां नमस्कुरु” (गी. १८.६५) इत्याह। मकारार्थो जीव:
सकलाविधकैङ्कर्यनिपुण इत्युक्तेजींवात्मस्वरूपानुगुणकृत्यमाह दास्यामिति;
निरुपाधिककैङ्र्य शेषवतिः सर्वावस्थोचितवरत्या तत्सुखसुखित्वभावनया च भगवदवास्यमिति
भावः। ‘दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः? इत्युक्तेः भगवत्केङ्कयैकरसस्य
भक्तस्य तदर्थयाच्जादर्शनाच्च। यथोक्तं श्रीरामायणे “भवांस्तु सह वैदेह्या गिरिसानुषु
रस्यते। अहं सर्व करिष्यामि जाग्रतः स्वपतश्च वे’ (२.३१.२५) इति।
अप्रमत्तत्वादिदास्यानुगुणमर्यादापरिपालने शिधिलायमानानामुचितं साधनमुच्यते --
सख्यामिति/ ग्रीतिविश्वासगोचरत्वादापदि सखेव भवति भगवान्। स हि सुहृदं सर्वभूतानामिति
वक्ता सर्वविधसम्बन्धनिवहिकः। प्रतिज्ञातं च स्वयमेव मित्रभावेन सम्प्राप्तं न त्यजेयं
कथञ्चनेति। उपदिष्टञ्चानुग्रहेकविग्रहया जगज्जनन्या 'तेन ते मैत्री भवतु यादि
जीवितुमिच्छसि’ (वा.रा. ५.२१.२०) इति। इदं च सख्यं 'सयुजा सखाया’
(मु. ३. १. १) इति श्रुतिप्रतिपन्नम्। केचित्सखित्वेऽभिनिवेशिन आह॒र्यद्षास्यादनन्तरं सख्यस्य
कथनं ग्रेमविस्रम्भभावनामयत्वाद्वास्यापेक्षयाप्युत्तमत्वापेक्षयेव। सर्वेषां भक्तिभेदानां यत्र
पर्यवसानं तदाह -- आत्मनिवेदनामिति। न केवलं देहादिक्षेत्रा्पणयापितु क्षेत्रज्ञार्पणपपीति
लभ्यते "चिन्तां कुर्यान्न रक्षायै विक्रीतस्य यथा पशोः। तथार्पयन्हरौ देहं
विरमेदस्य रक्षणात्” इति विचित्र देहसम्पत्तिरीश्वराय निवेदितुमित्युकतार्थोऽपि अकाशितः।
अहमर्थो ह्यात्मा, तस्यापि समर्पणम्; यथोक्तं श्रीयामुनाचार्यैः स्तोत्ररत्ने 'वपुरादिषु
योऽपि कोऽपि वा गुणतोऽ सानि यथातथा-विधः। तदयं तव पादपद्मयोरहमद्यैव
मया समर्पित: (५ २) इति; आत्मनोऽपि तच्छेषतया तस्मौ समर्पणस्यौचित्यादिति
भावः। अत्र न केवलं स्वत्वेनाभिनिवेशात्स्वात्मना सम्बध्यमानस्य वस्तुन एवार्षणमपितु
१०६ श्रीवैष्णवमताब्जभास्कर:
समर्पणकर्तत्वमपि त्वदीयं त्वदायत्तमिति तत्समर्पणमपि साम्प्रतं 'राज्यं चाहं च
रामस्य” (वा. रा. २.८२. १२) इति श्रीभरतोक्ते। एतेन भरतसमर्पणरूपा प्रपत्तिरनुछ्िता
भवतीति बोध्यते। यद्यापि नवधा गीयमानाया भक्तेः श्रवणादीनामन्यतरेणापि
पुरुषार्थसिद्धिसम्भवेऽपि चरम आत्मसमर्पणे स्वेषां परिसमाप्तर्गम्यते आत्मनिक्षेपस्याङ्गि्वात्।
एकादशीत्यादिमहाब्रतानि वै कुर्याद्विवेधानि हरिप्रियाण्यथ ।
विद्धा दशम्या यदि साऽरुणोदये स द्वादशीं तूपवसेद्विहाय ताम् ।।७५।।
* संवित्करः +
वैष्णवों को भगवत्प्रसन्नता के लिए एकादशी-आदि महात्रतों का अनुष्ठान
अवश्य करना चाहिए। परन्तु ध्यातव्य है कि एकादशीतिथि दशमीविद्धा न हो।
इसका तात्पर्य यह है कि सूर्योदय से पूर्व अरुणोदयकाल में भी यदि दशमीतिथि
हो, तो वैसी एकादशी वैष्णवों के लिए ग्राह्य नहीं है; उसे छोड़कर द्वादशी को व्रत
कर लेना श्रेयस्कर है।
* पदपरामर्शः *
परमपुरुबार्थरूपमोक्षस्याव्यवहितोपायत्वेन भक्तिं निरूप्य मुगुक्ुभिर्वैणवैर्विधेयान्तर-
मेकादर्शीप्रशतित्रतजातं निर्णेतुमारभते ~ एकादशीति। एकादशीत्यादिमह्रतानीति
ब्रतमात्रस्यास्तिकैः सादर परिपाल्यत्वं किमुत मह्रतानामिति सूच्यते/ आदिपदेन
श्रीरामनवमीप्रभूतीनां सङ्ग्रहः। शास्रविहितत्वं सूचयितुं लिङा निर्देशः कुर्यादिति,
तत्र नित्यविधित्वमाह -- निश्चयार्थकेन वै इत्यनेन। यथा विप्रादीनां सन्ध्यावन्दनादेनित्यित्वं
तथैकादश्यास्त्यागे प्रत्यवायश्रवणात्। 'पापानि निखिलान्यन्रमायान्ति हरिवासरे।
भक्तैस्तत्र न भोक्तव्यं भुक्तवा भवति नारकी इत्युक्तेः, 'एकादश्यामुपवसेन्न
कदाचिदतिक्रमेत्' इति वचनाच्च। पद्मपुराणे भागवतमाहात्म्यनिरूपणावसरे हरिहरिवासरयोः
प्रथग्भावो नेष्ट इति लभ्यते। स्मृतिग्रन्थेष एकादशीमाहात्म्यमित्थं प्रकाशितम् 'एकादशीसमं
किञ्चित्पावनं न च विद्यते। एकादशीव्रतं भक्त्या यः करोति नरः सदा। स
विष्णुलोकं ब्रजाति याति विष्णोः सरूपताम्’ इति। नित्यातिक्रमे धर्मलोपभयं
अदर्श्येंदानीं भगवत्गीतिजनककर्मण एव सुक्रतत्वपरिभाषणा- देकादशीवेमुख्यस्य प्रत्यवायत्वेन
भगवत्याप्तिप्रतिबन्धकरूपतया च तदनुष्ठानस्य भगवळीतिहेतुतया तदभिमतत्वं निर्दिशति
-- हरिप्रियाणीति। भगवठासादजनकानीति यावत्, अत उक्तं भागवते 'व्रतानि चोरे
हरितोषणानि’ (३. १. १९) इति। श्रीरामपाद- प्रीतिसमीहकवैष्णवजनेस्तद्तोपोषणविषये
सदा जागरूकैर्भान्यमित्यतः परिच्छिनत्ति -- विवेधानीति, विगतो वेधो येभ्यस्तानि
वेधराहितानीति भावः। यद्येकादशी अरुणोदये दशम्या विद्धा स्यात्तदा तामेकादशीं
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १०७
विहाय वैष्णवो द्रादशीमुपवसेदिति वाक्यार्थ'। तुशन्दः पूर्वतिथिव्याकृत्यर्। द्रादशीएपवसेदित्यत्र
'उपान्वध्याध्वसः' (१.४.४८) इति पाणिनीयसूत्रे भुक्तयर्थस्य नेति वने उपवसतीतिवत्
वार्तिकेन कर्मसञ्जानिषेधात्तत्र द्वादशीमित्यत्र कथं द्वितीयेति विचारे धातोरकर्मकत्वाद-
कर्मकधाठुयोगे देश: कालो भावो गन्तन्योऽध्वा कर्मसञ्ज्ञक इति वाच्यमिति वार्तिकेन
कर्मसञ्ज्ञया द्वितीयेति गृहाण। अत्र बंशस्थच्छन्दः।
शुद्धा दशम्या सुयुतेति भेदभागेकादशी सा द्विविधा प्रबुध्यताम् ।
वेधोऽपि बोध्यो द्विविधोऽरुणोदये सूर्योदये वा दशमीप्रवेशतः ।।७६।।
* संवित्करः ४
एकादशी शुद्धा तथा विद्धा भेद से दो प्रकार की मानी गई है। अरुणोदय तथा
सूर्योदय काल में दशमी का प्रवेश होने से वेध भी दो प्रकार का माना गया है।
* पदपरामर्शः *
ज्योतिश्शाख्रे तिथिविशेषतया ग्रथिताया: स्मार्तकैष्णवसमवाये चोपोष्यदिनतया
विदितायाश्चैकादश्याः कियन्तो भेदाः, भेदप्रयोजको विशेष: कस्तस्यापि भेद इत्यादि
प्रतिपादयितुमाह -- शुद्धेति। सा पूर्वोक्तैकादशी शुद्धा दशम्या सुयुता चेति भेदं
भजतीति भेदभाक्। अतो द्विविधास्तीति सर्वैः प्रबुध्यतां ज्ञायतामित्यर्थः। शुद्धा विद्धा
चेत्येकादश्या मिथो विभाजको वेध एव। यत्र दशम्या वेधाभाव: सा शुद्धा, यत्र च
दशम्या वेधः सा विद्धेति भावः। कालनिबन्धनद्वेधभेदोऽप्युच्यते वेधोऽपि द्विविधो बोध्यः,
अधमो5रुणोदये दशमीप्रवेशेनापरक्च सूयोदये दशमीप्रवेशात्। दशमीप्रवेशत इत्यत्र ठृतीयार्थे
तसिस्तस्य सार्वविभक्तिकत्वात्।
स पञ्चपञ्चप्रमितो ह्युषो बुधैः कालस्तु षट्पञ्जमितोऽरुणोदयः ।
प्रातस्तु सप्तेषुमितो निगद्यते सूर्योदयः स्यात्तु ततः परं तथा ।।७७।।
* संवित्करः +
एक अहोरात्र (दिन एवं रात) में ६० दण्डात्मक काल होता है; जिसमें
पचपनवें दण्डात्मक काल को 'उषाकाल', छप्पनवें को 'अरुणोदयकाल', सन्तावनवें
को “प्रातःकाल' तथा इसके बाद के काल को “सूर्योदयकाल' कहा गया है।
* पदपरामर्शः *
या चैकादशी वेधरहितत्वादुपोष्यत्वेन वक्ष्यते, तस्या: स्वरूपज्ञानं वेधज्ञानाधीनं,
वेधज्ञानङ्घोष: कालादिप्रमाणज्ञानाधीनमिति तठामाणबोधनाय श्लोकमवतारयति -- स
पञ्चपञ्चेति! अयं भावः - अहोरात्रः सूयोदयद्वयपरिच्छि्िंशनमहूर्तात्मकः वडिदण्डग्मितः
कालो भवति। तत्र पञ्चपञ्चाशददण्डेष्वतीतेषु यः षद्पञ्चाशत्तमदण्डात्मकः कालः स॒
१०८ श्रीवेष्णवमताब्जभास्कर:
उष:कालो भवति। तस्मिन् दण्डे व्यतीते यश्चतुर्दण्डात्मकालोऽवशिष्यते सोउरुणोदयकाल:,
सप्तपञ्चाशत्तपदण्डेऽतिक्रान्ते यो दण्डत्रयात्मककालश्शिष्यते स प्रत्यूषकालस्ततोऽर्ध-
सूयोदयानन्तरं शिष्ट: सर्वोऽपि कालः सूयोदियकाल: प्रोच्यते। यथोक्तं ज्योतिर्विद्धि:
'पञ्चपञ्च उषः कालः षट्पञ्च अरुणोदय;। सप्तपञ्च भवेव्यातः शेषः सूर्योदय:
स्मरतः? इति। अत्र निगद्यत इति कर्मक्रियायास्रिषु पादेष्वन्वयः। पञ्चपञ्चप्रमित
इत्यादीनामुद्देश्यत्वम् 'उषः अरुणोदय; प्रातः” इत्येतेषां सज्ज्ञात्वाद्विधेयत्वं ज्ञेयम्।
बाणवाचकेषुशब्द: पञ्चसाङ्कघापरः, तेन सप्तेषुमित इत्यस्य सप्तपञ्चमित इत्यर्थः।
घटीचतुष्कं ह्ारुणोदयाभिधः प्रातर्विमृष्टः समयो महर्षिभिः ।
तथाऽत्र वेधप्रभृतेर्विपश्चितः प्राहुर्विभागाञ्चतुरो विवेकतः ।।७८।।
* संवित्करः #
कालविद् महर्षियों द्वारा रात्रिशेष के चार दण्डात्मक काल को 'अरुणोदयकाल'
कहा गया है। इसी प्रकार; अरुणोदय एवं सूर्योदय वेध को चार प्रकार का कहा
गया है।
* पदपरामर्शः *
अरुणोदयकालत्वेन घटीचतुष्टयात्मको य: कालो नियतस्तत्रैव चत्वारो वेधा
भवन्तीति बोधयितुमाह -- घटीचतुष्कामिति। चतस॒णां घटीनां समुदायो घटीचतुष्कम्।
कालविमर्शे प्रामाण्यं दर्शयितुं महार्षिभिरित्युक्तम्, न हि तथाविधा मुधाऽचरन्ति।
काठगतविशेषन्तेप्रेक्षितुर्गहन्ति ऋतम्भरपज्ञात्वात्। तादृशैः आतर्षटीचतुष्कमरुणोदयनामा
समयो निर्धारितस्तत्र विपश्चितो वेधग्रभृतेरविविकतक्षतुरो विभागान् दआहुरित्यन्वयः।
विपश्चितः कालरहस्यविदः। विवेकतो विवेकेनेति तृतीयायां सार्वविभक्तिकस्तसिः।
घटीत्रयं सारद्ध॑मथारुणोदये वेधोऽतिवेधः कथितो घटीद्वयम् ।
रविप्रभासस्य तथोदितेऽद्धके सूर्ये महावेध इतीर्यते बुधैः ।।७९।।
* संवित्करः *
महर्षियों ने सूर्यप्रभा के दर्शन से पूर्व साढे तीन दण्डात्मक काल के वेध को
'अरुणोदयवेध' बताया है। दो दण्ड पूर्व के समय में जो वेध है, उसे 'अतिवेध'
बताया गया है। सूर्यप्रभा के दर्शन से अर्धसूर्य उदित होने तक जो अर्धदण्डात्मक
काल है; उसमें जो वेध है, उसे 'महावेध' बताया गया है।
* पदपरामर्शः ४
अरुणोदये निर्ष्दिष्टानां चतुर्ण्णा वेधानामपि घटीप्रमाणेन नामग्राहं विभाजनमाह --
घटीत्रयामिति। रविप्रभासस्य सूर्यप्रकाशस्य दर्शनाल्माक् सार्ध घटीत्रयमरुणोदयवेधः,
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १०९
तत्र सूर्यप्रकाशदर्शनात्पूर्व यद् घटीद्वयं स दण्डद्ववात्मककालोऽतिवेधः, रविप्रभासस्य
दर्शनादनन्तरमर्धे सूर्य उदिते महावेध इति बुधैः कालवेर्भिरीर्यते।
योगस्तुरीयस्तु दिवाकरोदये तेऽर्वाक्सुदोषातिशयार्थबोधकाः ।
सर्वेऽपि वेधा मुनिभिर्विनिश्चिता निर्णेतृभिस्तस्य तु तत्त्वदर्शिभिः ।।८०।।
* संवित्करः *
सूर्योदय के बाद होने वाली दशमीतिथि को तुरीययोग कहा जाता है। वस्तुतः इससे
पूर्वोक्त वेध अतिशयार्थ के बोधक हैं। इस प्रकार के वेध तत्त्वदर्शी (कालनिर्णायक)
मुनियों के द्वारा ही निश्चित किए गए हैं।
* पदपरामर्शः *
इत्थमत्र वेधत्रयं बोधितम्। चतुर्थवेधं निधाय तेषां दोषावहत्वं प्रतिपादयति --
योगस्तुरीयास्त्विति। पूर्णसूयोदये सति यो वेध स तुरीयश्चतुर्थो योगवेध इतीर्यत
इति पूर्वश्लोकेन परामर्शः। पूर्वूवपिक्षया दोषातिशयत्वस्य बोधका इमे सर्वेऽपि
वेधास्तत्वदर्शिभिर्निणेतभिर्विनिश्चिता इत्याशयः। ये च कालतत्तवं वथावत्साक्षात्कुर्वन्त,
ते निरणेतुर्महान्ति, तादृशैक्षत्वारोउपि वेधा दोषातिशयत्वबोधनाय इदमेतावदित्याकारेणा-
वधारिता इति। अरुणोदय विद्धोऽयं वासरदोषः पाद्म इत्यं वर्णितः अरुणोदयकाले
ठु वेधं दृष्ट्वा चतुर्विधम्। मादिनं ये प्रकुर्वन्ति यावदाहूतनारका;? इति।
पूर्णेति सूर्योदयकालतः सा या प्राङमुहूर्तद्यसंयुता च ।
अन्या तु विद्धा परिकीर्तिता बुधैरेकादशी सा त्रिविधापि शुद्धा ।।८१।।
एका तु द्वादशीमात्राधिका ज्ञेयोभयात्मिका ।
द्वितीया च तृतीया तु तथैवानुभयात्मिका ।।८२।।
तत्राद्या तु परैवास्ति ग्राह्या विष्णुपरायणैः ।
शुद्धाप्येकादाशी हेया परतो द्वादशी यदि ।।८३।।
उपोष्य द्वादशीं शुद्धां तस्यामेव च पारणम् ।
उभयोरधिकत्वे तु परोपोष्या विचक्षणैः ।।८४।।
* संवित्करः *
जो एकादशी सूर्योदयकाल से पूर्व के चार दण्ड (दो मुहूर्त) से युक्त है, वह पूर्णा
शुद्धा तथा उपवासयोग्य मानी गई है। जो एकादशी दशमीविद्धा है, वह वैष्णवों द्वारा
त्याज्य है। इसी प्रकार शुद्धा (वेधरहित) एकादशी भी तीन प्रकार की होती है। प्रथम
एकादशी तो वह है, जिसमें द्रादशीतिथि का काल अधिक हो। दूसरी एकादशी वह
११० श्रीवैष्णवमताब्जभास्करः
है, जिसमें उपर्युक्त दोनों तिथियों का काल अधिक हो। तथा च, तीसरी एकादशी वह
है, जिसमें दोनों तिथियों का काल अत्यन्त न्यून हो। वैष्णवों के द्वारा प्रथम प्रकार वाली
एकादशी (जिसमें द्वादशी का काल अधिक हो) में ही उपवास रखकर चाहिए। यदि
द्वादशी का काल आगामी तिथि तक हो, तो वह शुद्धा एकादशी भी त्याज्य है। ऐसी
स्थिति में द्वादशी को उपवास करके द्वितीय द्वादशी में ही पारण करना चाहिए। दोनों
की अधिकता होने पर द्वितीय एकादशी में ही उपवास करना चाहिए।
* पदपरामर्शः *
इत्थं कालवेधादिविचारात्परमेकादश्या उपोष्यानुपोष्यत्वनिश्चयाय शुद्धाविद्धेति
नाम्नाऽवान्तरभेदमाह -- पूर्णोति। या सूर्योदयकालतः प्राङ्मुहूर्तद्रयसंयुता सैकादशी
पूर्णतया शुद्धेत्युवासयोग्या, या च ततोऽन्या तस्मिन् कालेऽपि दशम्यातिक्रान्ता,
सा दशम्या विद्धतया विद्धेति बुधैः कालज्ञैः कथिता। यदि सूर्योदयात्यागेव
चतु्दणडात्मककालूर्वमेवैकादशी प्रविशति चेत्सा शुद्धोपवासार्थ ग्राह्मऽन्यथा दशम्या
विद्धेति मत्वा हेयतया तत्र नोपोष्येति भाव:। यथोक्तं भविष्ये 'आदित्योदयवेलायां
प्राङ्मुहूतद्गयान्विता। एकादशी च सम्पूर्णा विद्धान्या परिकीर्तिता' इति। या
च वेधरहितत्वेन शुद्धैकादशी द्रोक्ता सापि त्रैविध्यमापत्रेति वक्ष्यपाणर्लोकेन निर्णीयते,
एवं शुद्धाया अपि त्रैविध्यं निरूपयति ~ एकेति। यत्र द्वादश्या मात्रा अधिका
भवेत्तादृश्येकादशी प्रथमा, यत्रैकादशीद्रादश्योरुभयोरप्याधिक्यं सोभयात्मिका, यस्याञ्च
एकादश्यां द्वादश्याश्च स्वल्पता स्यात्सानुभयात्मिकेति विवेकः। अरुणोदयवेधरहिता
शुद्धापि त्रिविधा -- १. यत्रैकादश्याः क्षयः परञ्च द्वादशी तिथिराधिका, तत्र
द्रादशीमात्राधिक्यवत्यां द्वादश्यामेवोपवासः कार्यः। २. यत्रैकादश्यधिका द्वादश्याः
क्षयो न सा उभयाधिक्यवती। ३. यत्रोभयोस्तिथ्योर्मध्ये न काप्यधिका न च कस्या
अपि क्षयः, सा अनुभयाधिक्यवती। तत्र या प्रथमा, यत्र द्वादश्या मात्राधिक्यं
कथितं, सँव वेष्णवैरुपवासार्थ ग्राह्मा यदि द्वादशी परदिनमतिक्राम्याति, तदा
शुद्धाप्येकादशी त्याज्यैव। तदा शुद्धां द्वादशीमुषोष्य तस्यामेव पारणं कुर्यात्। उभयोराधिक्ये
द्वितीयैवोपोष्येति सङ्घेपः। यथोक्तं भागवतादितन््रे 'सम्पू्णैकादशी त्याज्या परतो
द्वादशी यदि। उपोष्या द्वादशी शुद्धा द्वादश्यामेव पारणम्” इति।
उन्मीलिनी वञ्जुलिनी सुपुण्याः सा त्रिस्पृशाऽथो खलु पक्षवर्धिनी ।
जया तथाष्टौ विजया जयन्ती द्वादश्य एता इति पापनाशनी ।।८५।।
* संवित्करः *
इसी प्रकार द्वादशी के भी आठ प्रकार बतलाए गए हैं — उन्मीलिनी, बंजुलिनी,
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १११
त्रिस्पृशा, पक्षवर्द्धिनी, जया, विजया, जयन्ती तथा पापनाशिनी। यह भेद पुराणों में
वर्णित है।
* पदपरामर्शः *
एकादशीनिक्चयानन्तरं पारणाविषये द्वादश्या अट्टविधत्वानिरूपणमुखेनोपयुक्तां
तिथिं निश्चिनोति -- उन्मीलिनी वञ्जुलिनी त्रिस्प्रशा पक्षवर्धिनी जया विजया
जयन्ती पापनाशिनी चेत्यष्टौ द्वादश्यो भवन्ति। एता: सर्वाः सुपृण्या इति शलोकाशयः।
बह्यवैवर्ते5 एमहाद्वादशीनां विशेषतो निरूपणं लभ्यते, तत्र सर्वासामेव सर्वपापहरत्वं
महापुण्यत्वञ्चोक्तम्। १. शुद्धाधिकैकादशीयुक्ता द्वादशी उन्मीलिनी। २. यत्र द्वादश्येव
शुद्धा परञ्चाधिका सा वञ्जुलिनी। ३. यत्र सूर्योदय एकादशी, द्वादश्याः क्षयो
द्वितीयसूयोदये च त्रयोदशी सा त्रिस्पशा तिथित्रयस्पर्शात्। ४. यत्रामायाः पूर्णिमाया
वा दिनवरद्धिरनयोर्मध्ये काप्येकाधिका सा पक्षवर्धिनी। ५. पुष्यनक्षत्रयुता द्वादशी
जया। ६. श्रवणयुता द्वादशी विजया। ७. पुनर्वसुयुता द्वादशी जयन्ती। ८.
रोहिणीयुता द्वादशी पापनाशिनी। अष्टासु चतस्रस्तिथियोगेन चतस्रश्वापरा नक्षत्रयोगा-
द्भवन्तीत्याशय:।
आषाढभाद्रोर्जसितेषु सङ्गता मैत्रश्रवो5न्त्यादिगतट्ट्युपान्त्यकेः ।
चेद् द्वादशी तत्र न पारणं बुधः पादैः प्रकुर्याद् व्रतवृन्दहारिणी ।।८६।।
* संवित्करः *
यदि आषाढ़, भाद्रपद तथा कार्तिकमास के शुक्लपक्ष की द्वादशीतिथि क्रमानुसार
अनुराधा, श्रवण तथा रेवती नक्षत्र के प्रथम, द्वितीय एवं तृतीय चरणों से विद्ध हो;
तब एकादशीब्रत की पारणा द्वादशीतिथि में नहीं करनी चाहिए। ऐसा नहीं करने
से अनेक व्रतो से जन्य पुण्यों का नाश होता है।
* पदपरामर्शः *
इदानी तादृशी द्वादशी वक्ति, यस्यां पारणं निषिद्धमिति ~ आषाढभाद्रकार्तिकमासानां
शुक्लद्वादशी यदि यथासङ्कयमनुराधाश्रवणरेवतीनक्षत्रगतप्रथमद्वितीयतृतीयपादैः संयुक्ता
भवति, तदा तादृशद्वादश्यां पण्डितो ब्रतपारणं न कुयत्तत्र निषेधहेतुमाह --
ब्रतवृन्दहारिणीति। तस्यां पारणे ब्रतसमूहजन्यपुण्यमपि हतं भवतीति भावः। सा हि
कादाचित्की द्वादशी हरिवासरयोग्यत्वाद्यथाशक्यमुपोष्या।
मासे मधौ या नवमी सुयुक्ता शुक्लाऽदितीशेन शुभेन भेन ।
कर्के महापुण्यतमा सुलग्ने जातोऽत्र रामः स्वयमेव विष्णुः ।।८७।।
११२ श्रीवैष्णवमताब्जभास्कर:
* संवित्करः *
श्रीअयोध्याजी में चेत्रमास के शुक्लपक्ष की, पुनर्वसुनक्षत्र एवं कर्कलग्न से युक्त,
नवमीतिथि को मध्याह्नकाल में स्वयं महाविष्णुस्वरूप भगवान् श्रीरामजी का प्राकट्य
श्रीकौसल्याजी के यहाँ हुआ था।
* पदपरामर्शः +
उपवासपारणायोग्यायोग्यतिथिशोधनान्तर' श्रीरामनवमीव्रतं निर्णयति -- मासे
मधाविति। अदितिरीशा स्वामिनी यस्य तेनादितीशेनादितिदेवताकेन पुनर्वसुनामकेन
शुभेन भेन नक्षत्रेण सुयुक्ता मधौ चैत्रमासे या शुक्लपक्षीया नवमी, अत्रैव कर्काख्ये
सुलग्ने स्वयमेव विष्णू रामो जातः, सा महापुण्यतमोति यत्तदोर्नित्यसम्बन्धात्तस्या-
मुपवासादिकं करणीयमिति प्रसङ्घतो लभ्यते। मासं विशिनष्टि ~ मधौ चैत्र इत्यर्थः
नाम्नेव स्वादुतमत्वं निसर्गपुष्टिदत्वं च ध्वन्यते। सुयुक्तेत्यनेन सर्वकल्याणकरत्वं
संसूच्य योगस्य कादाचित्कत्वात्युयोग उक्त:। शुक्लपदेन ज्योतिर्मयत्वं ग्रोक्तम्, कर्के
सुलग्ने, राश्युदये पुनर्वसुनक्षत्रस्य कर्कराशित्वाच्च तत्रेन्दु: स्थित इति गम्यते। न
केवलं सर्वमाङ्गलिकदुर्लभसंयोगादेवास्य महापृण्यतमत्वमपितु यत्कालाधिकरणे
भगवद्रामचन्द्रावतरणमभूदिति दिव्याविरभावावधिसम्पर्कगौरवसमुज्ज्वलत्वमाह -- जातोऽत्र
रामः स्वयमेव विष्णुरिति। तत्कालस्य महिमा कथं कथ्यतां, यस्य स्वावतरणावधित्वेन
भगवतैव वरणं क्तमिति भावः। पित्राज्ञापालनाश्रितसरक्षणादिधर्मनि्ठया लोके
सर्वजनप्रसिद्धस्य श्रीरामस्याचिन्त्यमैशवर्य निर्दिशन्नाह -- स्वयामेव विष्णुरिति। केचित्तु
वेदसंहितासु प्रथितप्रभावो विष्णुः स्वयमेव रामो जात इत्युक्तचा विष्णुरेव रामात्मनाविर्भूत
इत्याशेरते, “अजायमानो बहुधा विजायते' (यजु. ३ १. १९) इति श्रुत्यर्थो दर्शितः।
नात्र विष्णुपदं चतुर्भुजस्वरूपे नियतं वेवेि व्याप्नोतीति व्यापकत्वसूचनेन
'आकाशवत्यर्वगतश्च नित्यः” इतिश्रुत्यर्थस॑वादेन च सर्वगतोऽपि विष्णुजात इति
विरुद्धार्थनिर्देशाद्विस्मयः प्रकाशितः। स्वयमेव परिपूर्णस्वरूप एवावतीणो नत्वंशतः
“इति रामपदेनासौ पर ब्रह्माभिधीयते' इति रामतापनीये तस्य साक्षाद् ब्रह्मतोक्तेः/
अजत्वाव्ययत्व सर्वेश्वरत्वादिकपारमेश्वरस्वभावमपरिहायावतरतो नात्र लेशतोऽ्यैश्चये
तारतम्यमिति निर्दिष्टम्, तेनांशांशिभावो निरस्तः। विष्णुरेव रामो जात इत्यत्रैवकारेण स
एवायमितिवत्तत्तेदन्ताबोधाठात्यभिज्ञया तात्तविकोऽभेदो व्यज्जितः। स्वयञ्जात इत्यनेन
सर्वीनियामकस्य जीववत् कर्माधीनजन्मनिषेधात्तदाविभावस्याप्राकृतत्वं सूच्यते; 'जन्म
कर्म च मे दिव्यम्” (गी. ४. ९) इति भगवदुक्तेः। साधुपरित्राणदुष्टविनाश- धर्मस्थापनानां
महाप्रयोजनत्वेऽपि सौशील्यातिरेकाद् मुनीद्धादे: शुद्धमनसापि दुर्ग्रहोउस्मादृशानां
नयनविषयो5 भूत्। भक्तस्य आराध्याकाखदशनिन ध्यानार्थं चेष्टितावलोका- लापादिदानेन
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् ११३
कुतार्थयितु जात इति भाव:।
तामष्टमीवेधयुतां विहाय व्रतोत्सवं तत्र करोतु भक्तः ।
असङ्घुचसूर्यग्रहतोऽधिका वै या केवला सा नवमीत्युपोष्या ।।८८।।
* संवित्करः *
वैष्णवजन अष्टमीवेधरहित श्रीरामनवमी के दिन व्रतोपवास करते हैं, तो उन्हें
असंख्य सूर्यग्रहणजन्य पुण्यफल ग्राप्त होता है। उपर्युक्त नक्षत्रादि के अभाव में भी
श्रीरामनवमी का व्रत अवश्य करना चाहिए।
* पदपरामर्शः +
एकादश्रतवदत्रापि ्रह्या्राह्यत्वावधारणाय ब्रतोत्सवोपयुक्ता श्रीरामनवमी शोधयति
-- तामष्टमीति। भक्तिरस्यास्तीति मत्वथीयेनाचा निष्पन्रभक्तशान्दो भक्तिपरमाह।
श्रीरामे भक्तिमान् अष्टमीवेधयुतां नवमीं विहाय पुनर्वसुनक्षत्ररहितामपि ब्रतोत्सवानुष्छाना-
याङ्गीकुरयात्। यदि मध्याह्वव्यापिन्यां नवम्यां पुनर्वसुनक्षत्रयोगः स्याचदातु सा परमोत्कृष्टैव,
नक्षत्रराहित्येऽपि नवम्याः द्राशस्त्यातिशयादसाधारणपुण्यफलत्वं स्मर्यते। अत उच्यते
-- असङ्कचसूर्यग्रहतोऽधिकेति। सूर्य्रहणेभ्योऽप्यस्या अधिकफलप्रदत्वात्। तिथि-
प्राधान्यात्तत्रैव नक्षत्रसमावेशा्तन्माहिमा। यथोक्तं 'तिथिश्शरीरं देवस्य तिथौ
नक्षत्रमाश्रितम्। तस्मात्तिथिं प्रशसान्ति न नक्षत्रं कदाचन” इति। तत्र भक्तो
ब्रतोत्सवं कुर्यादिति शाख्रादेशसहक्रत आचायदिशोऽपि गम्यते, स्ववाक्ये लिङर्थकलोट.
प्रयोगात्। ्रतसहितो श्रतप्रधानो ब्रतनिमित्तको वोत्सवो ब्रतोत्सवस्तं करोत्विति भावः
वै निक्षये निपात इति कर्तव्यतायां दार्ख्य सूचयाति ~ बा इति।
अत्र प्रकुर्वीत मुदा व्रतोत्सवं रामार्चनं जागरणं महाफलम् ।
अनेकजन्मार्जितपापनाशनं श्रीरामकीर्तेः श्रवणं च कीर्तनम् ।।८९।।
* संवित्करः *
श्रीरामनवमी के दिन मुदित मन से किए गए श्रीरामार्चन-रात्रिजारण-आदि
सत्कर्म महाफल प्रदान करते हैं। वैष्णवों को एकादशी में उपवास के अतिरिक्त
सकलपापनाशिनी श्रीरामकथा का श्रवण तथा भगवन्नामगुणों का कीर्तन अवश्य
करना चाहिए।
* पदपरामर्शः *
न केवलमुषवासमात्रेणानुष्ठेयापितु तत्साङ्गतासिद्धयर्थमिष्टाविभाविषुण्यावसरं
मत्वोत्सवपूजनजागरणकीर्तनतद्गुणश्रवणादिकमपि सहैवानुविधेयमित्याशयेनोपदिशाति
-- अत्रेति। मुदा चित्तसमुन्रत्या हर्षप्रकर्षेणाखिलामपि पृण्यतिथिमतिवाहयेत्।
११४ श्रीवैष्णवमताब्जभास्करः
तत्रातिवाहनसाधनमाह -- ब्रतोत्सवं रामार्चनं जागरणं श्रीरामकीर्तिश्रवणं तत्कीर्तनञ्च
मुदा प्रकुवीतिति। तत्र फलप्रदशनिन प्रवर्तयति -- अनेकजन्माजितिपाप- नाशनामिति।
अनेकजन्मसु समुपार्जितपापानां दुष्कृतानां तत्क्षणनाशादनिष्टानिवारकत्वं
संसूच्यष्टप्रापकत्वमप्यभिधत्ते महाफलामितिः भगवत्सायुज्यप्रदमिति भावः। अर्चनादौ
कालनियमात्कथमहोरात्रव्यापित्वमुत्सवस्य स्यादित्यत आह -- श्रीरामकीर्वेः श्रवणञ्च
कीर्तनामिति; तयोः कालानियमाभावात्। श्रवणस्यापि वकसापेक्षतया तदभावे
कीर्तनस्यानुष्ठेयता तत्र स्वातिरिक्तानपेक्षितत्वात्। इत्थमनेकजन्मार्जितपापनाशनं
महाफलमिति च प्रतिसाधनमन्वेति। यथोक्तमगस्त्यसंहितायाम् अस्मिन् दिने महापुण्ये
राममुद्दिश्य भक्तितः। यत्किञ्चित्करियते कर्म तदक्षयकर स्म्रतम्।। उपोषणं
जागरणं पितूनुदिश्य तर्षणम्। तस्मिन् दिने तु कर्तव्यं ब्रह्मप्राप्तिम भीप्सुभिः।।
श्रीरामनवमी नाम पुण्यात्पुण्यतमव्रतम्। यज्ञदानतपास्यस्य तीर्थस्नानादिकाः
क्रियाः।। न रामनवमी नाम व्रतस्यैककलासमाः। य इदं कुरुते भक्तया
श्रीरामनवमौक्रतम्। सर्वपापप्रमुक्तश्च अन्ते ब्रह्मत्वमाणुयात्* इति।
पुष्यान्वितायां तु कुजे नवम्यां श्रीमाधवे मासि सिते हलेन ।
कृष्टा क्षितिः श्रीजनकेन तस्याः सीतऽविरासीद् व्रतमत्र कुर्यात् ।।९०।।
* संवित्करः #
वैशाखमास के शुक्लपक्ष की पुष्यनकषत्रयुक्त नवमीतिथि में मंगलवार को,
विदेहराज श्रीजनकजी के द्वारा पूजनपूर्वक हलकर्षण के समय, पृथिवी से श्रीसीताजी
का प्राकट्य हुआ था। अत: इस पावन तिथि में भक्तों को उपवास के साथ सोल्लास
मंगलोत्सव मनाना चाहिए।
* पदपरामर्शः *
श्रीरामनवमीव्रतानुष्ठानकालविधिविवेचनात्परं नित्यसनत्निहितत्वाच्छ्रीसीतानवमी
निर्णयार्थमुपक्रमते -- पुष्यान्वितायामिति। श्रीजनकेन क्षितिः कृडा, तस्याः
सीताविरासीत्; अत्र व्रतं कुर्यादिति वाक्यत्रयम्। क्षितिकर्षणकाल एवाविभविकाल
इत्यनुसन्धाय ब्रतादिविधानाय प्राकट्यकालमाह -- श्रीमाधवे मासि वैशाखमास
इत्यर्थः। मधुमासे भगवदवतार विचार्य तत्नामाभिनिवेशेन माधवे चेयमवतीर्णेति मधुमाधवयोरिव
कश्चिद्विलक्षण एव.प्रीतियोगो द्योत्यते। श्रिया स्वजन्मयोगेन समादुतत्वाच्छ्रीयोगोऽ प्यत्रोपपद्यते।
सिते प्रकाशमये शुक्लपक्षे पुष्यान्वितायां नवम्यां तिथाविति। नवेति.प्रकृत्येव पूर्णत्वगोधिका
सङ्कया, तत्रापि पूरणार्थेतमटा नवमी, तत्रापि पुष्यान्वयः, यस्य पुष्यन्त्यास्मित्नर्था इति
सवर्थिसिद्धिकरत्वन्तु नाम्नैव लभ्यते, तस्यापि त्सह्यातिगाऽसंश्लेष इत्यन्वितपदार्थद्योत्यः।
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ११५
तत्रापि दिवसमाङ्गल्यमभिधत्ते -- कुजे मङ्गलवासरे। को: प॒थिव्या जायत इति कुजे
सोदरस्नेहात्तत्रामकदिवस आविभवि ध्वन्यते। अवतारकालस्यानवद्यत्वमृत्तताववारकथां
स्मरति -- श्रीजनकेन हलेन क्षितिः कृष्टोति। जनकेन तथाविधज्ञानिनापि
श्रौतयागानुष्ठानक्रमेठग्निचयने द्वाथ्याम्रषभेण क्रषति' इति श्रुत्यादेशमनुपालयता
क्षितिः कष्टेति 'क्रियावानेष ब्रह्मविदां वरिष्ठ: (मु. ३. १. ४) इति श्रुत्यर्थः प्रकाशितः।
क्षियति वसत्यस्यामिति व्युत्पत्या सर्वावासभूतेत्यर्थनोधनेन दिव्ये स्वोत्सङ्गे
श्रीजानकीधारणयोग्यता सूचिता। श्रीजनकेनेति श्रियोऽपि जनकस्य नाम कथङ्कारं श्रिया
योगं विनोच्चार्येत इत्यानुगुण्यं द्योत्यते। तेन सविधि कृष्टाया देवयजनवसुन्धरायाः
सीताविरासीदित्यनेनोत्पत्तिपरिएतत्वेन सहायोनिजत्वमूलमप्राकृतत्वं सूचितम्। अत्रापि
पूर्ववदेव जीववत्कर्माधीनजन्मादिव्यावृत्या निसर्गकारुण्यादेवाविभावो लन्ध:। सिनोति
बध्नाति पात्व्रित्यादिपरुक्तप्रीत्या भगवन्तं वशीकरोति या सा सीतेति; “सीते वन्दामहे
त्वा' इति श्रुतिसिद्धं नामानुसन्दधाति। तादृश्याः श्रीसम्प्रदायप्रवर्तिकायास्तन्रवमीव्रत-
मुपवासोत्सवादिना नूनं परिपालयेदिति शास्त्रादेशं स्मरति -- ब्रतमत्र कुर्यादिति।
अत्रास्मत्रेव दिन इत्युक्तवा तुल्यन्यायाद्वेधादि-विचारस्य कर्तव्यतां निर्दिशति। भविष्यपुराणे
गोतममार्कण्डेयसंवादे श्रीजानकीनवमीव्रत-विधिः सविस्तरं वण्यति। यथोक्तं तत्र "अष्टम्या
यदि विद्धा स्यान्नवमी माधवे सिते। कुयान्नेदं व्रतं तस्यां कृतञ्चेन्र्यूनता भवेत्। ।
मध्याह्वव्यापिनी ग्राह्या ब्रतेऽस्मिन्नवमी तिथिः। स्तुत्वेत्थं जानकीदेवीं
गीतवाद्यादिभिव्रती। रात्रौ जागरणै; सर्वा तां रात्रिमपवाहयेत्” इति।
स्वात्यां कुजे शैवतिथौ तु कार्तिके कृष्णोऽञ्जनागर्भत एव मेषके ।
श्रीमान् कपीट् प्रादुरभूत्परन्तपो व्रतादिना तत्र तदुत्सवं चरेत् ।।९१।।
* संवित्करः *
कार्तिकमास के कृष्णपक्ष की चतुर्दशीतिथि, मेषलग्न, स्वातिनक्षत्र एवं मंगलवार
के सायंकाल में श्रीअंजनामाता के गर्भ से शत्रुसन्तापक कपीश्वर भक्तराज श्रीहनुमान्जी
का प्राकट्य हुआ था। इस दिन भक्तों को श्रीहनुमानजी की प्रसन्नता के लिए
ब्रतपूजन-आदि के साथ मंगलोत्सव मनाना चाहिए।
क पदपरामर्शः *
श्रीसीतारामयोरवतारलक्षणनवमीनिश्चयानन्तर तत्पादारविन्दमकरन्दास्वादनभङ्गायित-
मानसस्य श्रीमन्मारुतेर्नित्यासन्रतया स्मरणीचित्याच्छ्रीसम्प्रदायाचार्यपरम्परानुराधेनापि
क्रम्राप्तत्वात्ञ्जयन्तीव्रतानुष्छानाद्यर्थ जन्मकालं शाख्रसम्मत्या ज्ञापयति -- स्वात्यामिति।
कार्तिके कृष्णपक्षे शिवतिथौ चतुर्दश्यां कुजे मङ्गले स्वातिनक्षत्रे मेषलग्नेऽञ्जनागर्भतः
११६ श्रीवेष्णवमताब्जभास्कर:
परन्तपः श्रीमान् कपीट् कपीश्वरः प्रादुरभूदिति। तस्यामेव सायाह्वव्यापिन्यां चतुर्दश्यां
ब्रतपूजनगुणकीर्तनादिना श्रीहनुमज्जयन्त्युत्सवमाचरोदिति श्लोकपदान्वयः।
अगस्त्यसंहितानुसार' तथैवोक्ते:। श्रीमानित्यनेन भक्तिज्ञानादिसद्गुण-सम्पत्तिरुच्यते
-- 'अहो स्वामिनि ते भक्तिरहो वीर्यमहो श्वातिः ' (५.५७.४६) इत्यादिरामायणोक्तेः।
परन्तप इत्यनेन दुष्टनिग्रिहादेरमितसामर्थ्य प्रकाश्यते। कपिशन्द-द्चाञ्चल्यादिक्षमरोपान्मनसि
लाक्षणिकस्तदीष्टे नियमयतीति कपीट्, तेन स्वायत्तमनस्कतया जितात्मत्वं सूच्यते।
यद्वा; कं पिबनीति कपिः सूर्यस्तमीष्टे स्वपराक्रमेण धर्षयतीति कपीद्, फलबुध्या
सूर्यधर्षणकथा पराम॒श्यते। कपिं सुग्रीवं भगवत्समाश्रयणार्थमीद्टे प्रेरयतीति कपीट्,
एतेनाचार्यलक्षणं सुव्यक्तं भवति।
वैशाखमासीयचतुर्दशी सिता निशामुखे याऽनिळभेन संयुता।
सोमेऽवतारो नृहरेरभूदथो व्रतोत्सवं तत्र मुदा समाचरेत् ।।९२।।
* संवित्करः *
वैशाखमास के शुक्लपक्ष की स्वातिनक्षत्रयुक्त चतुर्दशीतिथि सोमवार के दिन
सायंकाल में परमकृपालु भगवान् श्रीनृसिंह का आविर्भाव हुआ था। अत: इस
पावनतिथि के दिन भगवान् श्रीनृसिंह के ब्रतपूजन-आदि का अनुष्ठान अवश्य करना
चाहिए।
* पदपरामर्शः *
सपरिकरस्य स्वाराध्यस्य जयन्तीव्रतोत्सवादिनिधरिणात्परं तदभिन्रस्वरूपतया
तदवताराणामपि जयन्तीव्रतानुष्छानस्य कैष्णवजनकरणीयतयादावाश्रितदुः खासहिष्णोः
स्तम्भं विदार्य ग्ादुर्भतस्य स्वाखिलव्याप्ति बोधयतः परमक्रपालोः श्रीतसिहस्य जयन्तीव्रतनिर्णयं
विधत्ते वैशाखमासीयेति। वैशाखमासस्य स्वातिनक्षत्रेण संयुक्तायां शुक्लचतुर्दश्यां
सोमवासरे सायं भगवतो नृहरेरवतारो बभूव, अतस्ततिथौ तज्जयन्त्या: सोल्लासं ब्रताराधनं
कार्यमिति भावः। पुरुषसिंहस्य भगवतः श्रीरामचन्द्रस्यैव श्रीवृहरिरूपेणावतरणेन “सत्य
विधातुं निजभ्रत्यभाषितम्' (७.८.१८) इति भागवतार्थः स्मारितः। भक्तरक्षायै
तथाविधमदृटपूर्वं लोकभीषणमपि रूपं दधारोति नाम्ना गम्यते।
स्मरेण विद्धा तु चतुर्दशी यदा भवेद्धनापत्यविनाशिनी तदा ।
तत्रोपवासो न जनैर्विधीयतां महात्मभिर्विष्णुपरायणैरपि ।।९३।।
* संवित्करः *
यदि चतुर्दशीतिथि त्रयोदशी से अरुणोदयकाल में वेधयुक्त हो, तो वह धन एवं पुत्र
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ११७
का विनाश करने वाली होती है। अत: इसमें विष्णुपरायण भक्तजनों को उपवास नहीं
करना चाहिए।
* पदपरामर्शः अ
आविभावकालमुत्तवोपवासोपयुक्ततिथिं शोधयति -- स्मरेणेति। ग्रोक्ता चतुर्दशी
यदि स्मरेण स्मरसम्बन्धिन्या त्रयोदश्या अरुणोदयकाले विद्धा, तदा सा धनापत्य-
विनाशिनी भवति; तस्यां वैष्णवजनेर्महात्मभिश्चोपवासो न विधीयताम्। महात्मनामपत्यादि-
लौकिकसम्बन्धपरित्यागेनानपत्यतया वा विष्णुपरायणानां भगवदेकाश्रयिणाञ्च
धनानपेक्षणाचत्राशेऽपि न क्षतिः, तथापि शाख्रनिषिद्धत्वेन :्रत्यावायहेतुतया तत्रोपवासादि
न युक्तमित्याशयः। यद्यपि स्मरेण विद्धेत्यत्र स्मरशन्दः ग्रसङ्गानुरोधेन कामदेवता-
कायास्रयोदश्या बोधकस्तथापि स्मरेण विद्धः कामुको यथा वासनया धनविनाशेन
पुत्रादिकमप्यापद्वतं कृत्वा तद्विनाशहेतुर्भवति, तथेयं चतुर्दशीति व्यज्यते।
भाद्रेऽसिते निशीथेऽथ रोहिण्यामष्टमीतिथौ ।
सिंहमर्के गते सौम्ये कृष्णो जातो विधूयते ।।९४।।
* संवित्करः *
भाद्रपद-कृष्णपक्ष की रोहिणीनक्षत्रयुक्त अष्टमीतिथि को सिंहस्थसूर्य में अर्धरात्रि
के समय भगवान् श्रीकृष्ण का प्राकट्य हुआ था। वैष्णवजन उस जन्मोत्सव में
बालरूप प्रभु को पालने में पधराकर झुलाते हुए आनन्द प्राप्त करते हैं।
* पदपरामर्शः *
श्रीरसिंहचतुर्दशीव्रतोपासनकालविशेरषं व्यवस्थाप्येदानी श्रीकृष्णाट्टमीव्रतं निश्चिनुते
-- भाद्र इति। भाद्राख्ये मासि सितेतरपक्षे कृष्णपक्षे निशीथे मध्येनिशमष्टमीतिथौ
रोहिणीनक्षत्रे सिंह गतेऽर्के सिंहराशौ स्थिते भानो तादृशे सोम्ये शुभवासरे भगवाज्
श्रीकृष्णो जात आर्विभूतः। भक्तभावानुरूपं शैशवानुगुणमुत्सवं स्मरति जात
एव विधूयत इति। तत््रीत्यर्थ दोलामारोप्य मन्दमन्दमान्दोल्यत इति बालगोपालानुरूप-
सेवाविधिरुच्यते। श्रीविग्रहस्य जीववत्कर्माधीनशरीरधारणादि निरस्यति -- जात
इति। आसितपक्ष इति स्ववर्णानुरूप्याचादृशापक्षस्वीकारः सूचितो भवति, लप्स्यमानजननी-
स्नेहमनुसन्धाय तन्रामसाम्ये नक्षत्रविशेषे स्वाभिसन्धिः प्रकाशितः। अर्कः स्वयमेव
तप्तकिरणस्तत्रापि तादृशादम्यसिहं गतस्य समारूढस्य तापकत्वं कथं कथ्यताम्,
तादृशेऽपि तस्मिन् सोम्ये सौम्यत्वं शीतलत्वं गत इत्यतिलोकप्रभावसूचनेन प्रकारान्तरेण
विलक्षणत्वं व्यञ्जितम्। यथा च भागवतेऽपि 'हृदा जलरुहश्रियः ... निशीथे’
(१०.३.३,८) इत्युच्यते।
११८ श्रीवेष्णवमताब्जभास्कर:
कृष्णजन्माष्टमी सोक्ता तस्यां कृष्णव्रतोत्सवम् ।
कुर्वीत निधिसंयुत्तं चतुर्वर्गफलण़दम् ।।९५।।
* संवित्करः *
इस अष्टमी का नाम ही श्रीकृष्णजन्माष्टमी है। इस अवसर पर किए गए सभी
ब्रतोत्सवादि सत्कर्म चारों पुरुषार्थो को देते हैं। अत: वैष्णवों को भगवत्प्रीत्यर्थ
विधिपूर्वक व्रतोत्सव-आदि अवश्य करना चाहिए।
* पदपरामर्शः +
अवतारकाल निरूप्य फलकथनेन ब्रतोत्सवस्य विधेयतामभिदधाति -- उपर्युक्तकाल
एव श्रीकृष्णजन्याष्टमीति नाम्ना लोके व्यहियमाणायां, तस्यामेवाष्टयीतिथौ विधिपूर्वकं
श्रीकृष्णल्रतोत्सवं तत््रत्यर्थोपवासपूजनाद्युासप्रकारां कुर्यादिति। कुर्वीतिति विशेषतः
तज्जन्यफलस्य ब्रतानुष्छात्राभिप्रायकत्वं सूचयति। तादृश्क्रतोत्सवस्य सविध्यनुष्ठाने
फलप्रदशनिन प्रवर्तयति -- चतुर्वर्गफलग्रदामिति। ततो जातपरमभक्तिलाभमुखेन
परमपुरुषार्थरूपभगवदवाप्तिमापि कारयति किमुत त्रिवर्गोपलब्धिमिति सूचयति।
उदिधीर्ृभिरवश्यविधेयतां द्योतयति कुवीतित्यत्रत्यो लिङ्। अर्थतस्तेनाबन्थ्यत्वं निर्दिष्टम्।
त्याज्याष्टमी चेदथ वाजिविद्धा तथाग्निविद्धं विधिभं च हेयम् ।
चेदष्टमी नो विधिभेन युक्ता महात्मभिर्विष्णुपरायणैस्तैः ।।९६।।
* संवित्करः *
यदि यह अष्टमी सप्तमीतिथि से विद्ध हो तथा रोहिणीनक्षत्र कृत्तिका से युक्त हो,
तो वैष्णवों को उस दिन व्रतोत्सव नहीं करना चाहिए। इसका अमिप्राय यह है कि
वेधरहित अष्टमी तथा वेधरहित रोहिणी ही ब्रत के लिए ग्राह्य है।
* पदपरामर्शः *
प्रसक्ततिथ्यादिवेधदोषोक्तया ग्राह्मतिथ्यादिकं शोधयति -- यद्यष्टयी सप्तम्या
विद्धा भवेद्रोहिणीनक्षत्रं च क्रतिकया विद्धं भवेत्तदुभयं त्याज्यम्। वाजिशब्दोश्चवाचकतया
सप्तसङ्क्घाबोधक:। विधिर्नह्मा, तद्देवताकं रोहिणीनक्षत्रं यद्याग्निदेवताकेन क्रृत्तिकानक्षत्रेण
विद्धं भवति चेदिति भावः। वेधरहिताट्टम्यां कृत्तिकया विद्धे रोहिणीनक्षत्र एव
महात्मभिर्कैणवजनेश्च स काल स्वीकार्यः। महात्मभिकैँणवजनेश्चेत्यनेन ब्रतोवासनादे-
गुहस्थविरक्तोभयसाधारणत्वमुक्तं भवति।
विद्धा जयन्ती यदि सप्तमीयुता
शुद्धा तथा सा नवमीयुता यदि ।
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् ११९
विद्धाथ वेद्याग्नियुता हि रोहिणी
ज्ञेया तु शुद्धा यदि सा परान्विता ।।९७।।
* संवित्करः *
यदि अष्टमीतिथि सप्तमी से युक्त हो तथा रोहिणीनक्षत्र कृत्तिकानक्षत्र से युक्त हो,
तो उसे विद्धा जयन्ती समझनी चाहिए। इसी प्रकार अष्टमीतिथि नवमी से युक्त
तथा रोहिणीनक्षत्र मृगशिरानक्षत्र से युक्त हो, तो उसे शुद्धा जयन्ती जाननी चाहिए।
* पदपरामर्शः +
जयन्त्या: शुद्धाशुद्धविवेकेनोपास्यानुपास्यत्वनिधरिणायावतारयति -- विद्धा
जयन्तीति। यथा सप्तमीयुता विद्धा भवति, नवमीयृता च सा जयन्ती शुद्धा तथा
क्रतिकायुता रोहिणी विद्धा म्रगशिरसा युक्ता च शुद्धा ज्ञेयेति। तिथिवेधनक्षत्रवेधतदृभयवेध-
भेदादवेधतरैविध्येनोभयवेधरहिता भाव्रकृष्णाएगी शुद्धा विज्ञेया। तत्रैव जयन्ति अनुष्ठेया,
अष्टमीकृष्णापक्षस्य रोहिणी ऋक्षसंयुता; 'भवेद्मौष्ठपदे मासे जयन्तीनाम सा
स्म्रता” इति विष्णुधर्मोत्तरपृराणोक्तेः।
भाद्रेऽथ शुक्लेऽभिजिति प्रभुरहरिर्या द्वादशी वैष्णवभेन संयुता ।
तत्रादितावाविरभूच्च वामनो व्रतोत्सवं तत्र मुदा समाचरेत् ।।९८।।
* संवित्करः *
भाद्रपदमास के शुक्लपक्ष के श्रवणनक्षत्र से युक्त द्वादशीतिथि को मध्याह्ृकाल में
स्वयं भगवान् श्रीअदितिमाता के यहाँ वामनरूप में प्रकट हुए। अत: इस दिन उपवास
के साथ सोल्लास वामनभगवान् का पूजनोत्सव का आयोजन करना चाहिए।
* पदपरामर्शः *
्रकष्णाट्टमीक्रतं निरूप्य मासैकसामानाधिकरण्यात्तदनन्तरवर्तित्वाच्च वैष्णवानुष्ठेय्रत-
रूपेणोपस्थितं वामनद्वादशीक्रतं स्मरति -- भाद्र इति। भाद्रमासे शुक्लपक्षे वैष्णवभेन
विष्णुदेवताकेन श्रवणनक्षत्रेण युक्तायां द्रादश्यामभिजिन्सुहूर्ते मध्याह्वेऽदितौ महर्षिकश्यप-
धर्मपत्न्यां हरिः प्रभुर्वामन आविरभूत्। भगवतोऽयमप्येकोऽवतार इत्याशयेन भाद्र
एवायमप्यवतार इत्याशयेन च चकारोऽवतारं समुच्चिनोति आदितौ वामन आविर भूदिति
तदवतारकथां पराग्रशाति। आविरभूरिति जन्मादेः पूर्ववत्पाकृतत्वं निरस्यते। आश्रित-
रक्षणक्रतपालनाय महतो महीयसोऽपि विधोरपि वामनरूपेणाविधावो न सङ्कोचस्थानं
प्रत्युत भक्तवात्सल्याद्यतिरेकद्योतनेन तन्माहात्म्यं प्रकाशयति। आपद्धरणशीलमाह
-- हरिरिति। तादृशशीलानुगुणसामार्थ्यप्रकाशनायाघाटितघटनापटीयस्त्वं सूचयति
-- प्रधुरिति। आश्रितसम्पत्सम्रद्धये स्वरूपस्य याच्जानुरूपतामभिधत्ते वामन
१२० श्रीवेष्णवमताब्जभास्कर:
ड्रति। नहि महाकार: कश्चिद्याचने प्रयुक्तो युक्तः प्रतिभातीति थाव:/ प्रभुः सन्नपि वामन
इति भक्तप्रीतिवशंवदो भगवान् किन्न कुर्यादित्यहो भगवद्विषयक्रीतेस्तद्वशी-करणाप्रभाव
इति व्यज्यते। अतस्तस्य भगवतो वामनस्य द्रादशीव्रतं नियततिथावेव महता समारम्भेण
समाचरेदित्यादेशो कै्णवजनेषु।
स्पृशत्येकादशीं स्पृष्टा द्वादशी श्रवणेन चेत् ।
विष्णुशृङ्खलयोगोज्यं भाद्रे शुक्ले प्रकीर्तितः ।।९९।।
श्रावणद्वादशी ह्योषा पुनरावृत्तिनाशिनी ।
तस्मादुपवसेदत्र यत्नतो मतिमान्नरः ।।१००।।
* संवित्करः #
भाद्रपदमास को शुक्लपक्ष की द्वादशी, यदि एकादशी तथा श्रवण नक्षत्र से
युक्त हो, तो उस दिन का यह दुर्लभ संयोग 'विष्णुथृंखलयोग' कहलाता है। अतः
बुद्धिमान् भक्तों को उस एकादशी से विद्ध श्रवणद्वादशी के दिन अवश्य उपवास
करना चाहिए; क्योंकि यह विशिष्ट योग वाली श्रवणद्वादशी पुन: संसारप्राप्ति का
नाश करती है (अर्थात् मोक्ष प्रदान करती है)।
* पदपरामर्शः *
तत्र कादाचित्केन प्राप्तं योगविशेष निर्दिशति -- स्प्रशत्येकादशीमिति। यदि
श्रवणनक्षतरेण स्पृष्टा भाद्रशुक्लस्य सा द्वादशी एकादशीमपि स्पृशति चेत्तदा मणिकाञ्चन-
संयोग इव काश्चिद् विष्णुः्ङ्कलनामा योगः सम्पद्यते। तद्योगस्य को विशेष इत्यत
आह -- तादृशी श्रवणद्वादशी पुनराव्रत्तिनाशिनी, पुनरावृतिर्जन्ममरणादिफलक-
कर्मप्रवाहरूप: संसारस्तन्राशिनी निवारिणी मोक्षदायिनी भवतीतियावत्; न स
पुनरावर्तते? (छा. ५.१५.१) इति श्रुतेः। कालस्य तादृशमाहात्म्ये तद्वर्तिनां
समेषामविशेषेण मोक्षो भवेत्किमुपदेशेनेत्युच्यते योगविशेष विज्ञाय तत्रोपवासादिकं
विना न तल्लाभः, भेषजस्य रोगनाशहेतुत्वेऽपि तद्ग्रहणं विना तन्रोपपद्यते। ्रशस्तबुद्धि-
मनिवो दुर्लभयोगं मत्वा जागरूक: सन् तत्रोपवासादिकं चरेत्। न हि कश्चिदप्रमत्तो
हितावहदुर्लभयोर्ग मौढ्यादुपेक्षत इति भावः।
तथा यथाकालमतन्द्रितैस्तैरथाधिरोपादिकमुत्सवादिकम् ।
सदा विधेयं हरितोषणं परं शुभप्रदं तद् बहुशास्त्रसम्मतम् ।।१०१।।
* संवित्करः *
जिस प्रकार पूर्वोक्त शास्रसम्मत कल्याणप्रद हरितोषण व्रतों एवं जयन्ती उत्सवों
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १२१
का भगवत्प्रसन्नता के लिए भक्तों द्वार सविधि परिपालन किया जाता है, ठीक उसी
प्रकार प्रतिवर्ष उन-उन भगवत्सम्बन्धी तिथियों पर रथयात्रा-विवाहपंचमी-झूलन-
शरत्पूर्णिमा-आदि अन्य उत्सवों को भी आलस्यरहित होकर सोत्साह मनाना चाहिए।
* पदपरामर्शः ४
एकादश्यादिव्रतेष् यथोपवासेन सह जागरणादिना भगवत्स्मरणे तन्मयतानिमित्तक
भजनकीर्तनप्रवचनादिकं विहितं यथा च जन्माष्टम्यादावुपवासेन सह सोह्लासजयन्त्युत्सव-
परिपालनञ्च विहितं तथैव रथयात्राजलविहारशरत्पूर्णिमात्रकूटाुत्सवेषु वार्षिकेषु सोत्साहं
्रवृत्तिजायतामित्यत आह -- तथा यथाकालमिति। अतद्ितेरालस्यप्रमादादिकमपहाय
वेण्णवेदोलान्दोलनोत्सवादिक॑ सदा विधेयम्। तेषां विहितत्वमुच्यते ~ बहुशास्रसम्मतम्
इति। अनेकैवेदोपबृहणभूतैः स्पृतिपुराणेतिहासी: सह संवादितया साक्षाद्रोक्तत्वाद-
वश्यविधेयतां सूचयति, एतेन तदुपेक्षायाः अत्यवायजनकत्वं लब्धं भवति। यथा वराहपुराणे
भगवदपचारवणनि साक्षाद्धगवद्वचनम् 'गीतवादित्रनृत्यादिपुण्याख्यान- कथाश्च ये।
लोपयन्त्यथ पारुष्यैर्मम वेश्मसु मानवाः।। ते यान्ति वसुधे पापा
नरकानेकरविशातिम्। ततस्तेऽपि महाभागे गार्दभी योनिमाश्रितः? इति।
विहितपालनस्य पुण्योत्पत्तिद्वारा कल्याणकरत्वमुक्तम् -- शुभप्रदामिति। वैष्णवानां
तदेव मुख्यं जीवनोद्ेश्यमनुसन्धायोक्तम् हारितोषणामिति। वैष्णवानां चेष्टामात्रस्य
तदुदेश्यकत्वात्फळपारम्यं द्योत्यते।
कर्मप्रवाहेण तु चेतनस्य सम्मग्नस्य संसारमहार्णवे चिरम् ।
उपर्य्यहो संसरतो वशस्य सत्कृपोद्भवत्येव हरेरहेतुका ।।१०२।।
* संवित्करः *
अनादिकाल से इस संसारसागर में, अपने शुभाशुभ कर्म एवं उससे जनित विविध
योनियों के जन्म-मरणादि सुख-दु:ख के प्रवाह में निमग्न होकर, बहते हुए अत्यन्त
दीन एवं विवश जीव पर कभी श्रीहरि (परमप्रभु श्रीराम) की कल्याणकारिणी अहेतुकी
(अकारण, यादृच्छिक) कृपा प्रकट हो जाती है।
* पदपरामर्शः ३
(एवं संसतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः। जीवे दुः खाकुले विष्णोः कृपा
काष्युयजायते' इत्युक्तार्धमनुचिन्त्य मोक्षसाधनजिज्ञासायां भगवत्क्रपाया एव प्रामुख्यमुत्तवा
तस्या अनन्याधीनत्वरूपनित्यसिद्धत्वात्साध्यत्वं निषेधति -- कर्मप्रवाहेणेति। संसारमहाणवि
संनिमग्नस्य कर्मप्रवाहेण चिरं संसरतो वशस्य चेतनस्योपरि अहो हरेरेव सत्कृपा
उद्भवतीति वाक्ययोजना। संसरतीति व्युत्पत्त्या नित्यपरिणामितां संसूच्य तस्य
१२२ श्रीवेष्णवमताब्जभास्कर:
महार्णवत्वरूपणेन भीषणावर्तशतसमाकुलत्वेनागाधत्वेन च दुस्तरत्वं द्योतितम्। तत्र
विषयपौष्कल्यान्महत्वम्, आमौलि पूर्णतो विषयाक्रान्तत्वमेव सन्निमग्नत्वमू।
वीचितरङ्गन्यायेन कर्मतद्विपाकतज्जन्यरागादिवशालुन: कर्मप्रत्रतिरितिवत्- एर्व[ूर्वोत्तरस्योत्तरोत्तरं
प्रति कारणतया तठावाहस्याविच्छित्रत्व विवक्षितम् -- चिरमिति तस्यानादिकालप्वृत्तत्वं
सूचयति। अत्र दुःखजन्मप्रवृत्तिदोषमिध्याज्ञानां सन्ततिन्याय-सूत्रनिर्दिष्टा विवक्षिता। एतेन
विषयप्रावण्यस्य दुढमूलतया सुगाढत्वं द्योतयन् यत्नशतेनापि दुर्निवार्यत्वं व्यनक्ति।
संसरत इत्यत्रनाद्यनेहसः (वृत्तं यत्संसरणन्तदिदानीमपि नोपरतमिति पापवशात्तादृश-
संसरणानुतृतिं वर्तमानत्वसूचकः शाता व्यनक्ति। विड्भृज इव नष्प्रज्ञतया देहात्मश्रान्त्या
विषमिश्रे मधुनीव क्षुद्रेऽपि सुखे भूयोभावेन मोमुह्यमानस्येत्यर्थः, अतः सुखस्यापि
दुःखतया परिगणनं न्याये। अविच्छित्रासह्यदुः खपरम्पराया मुक्तयै वितथप्रयत्नस्य नासिकया
प्रोतरज्जो: पशोरिव कर्माधीनतया स्वयं स्वसामर्थ्येन कर्मजालच्छेदनाशक्तत्वं वदति
-- अवशस्येत्यनेन। ज्ञातृत्वबोधकचेतनपदं ज्ञानेच्छाक्ृतिमत्त्वेन कर्मफळभोक्त्वं
प्रकाशयति। सानिमग्नस्य चेतनस्येति प्रत्यक्तवेन स्वरूपतः प्रकृतेर्विलक्षणत्वेछपि पूड़े
पतितमणेरिव हतवौभवस्यायुक्तता ध्वन्यते। एतेनास्यावश्यानुकम्पनीयत्वं बोध्यते।
संसरतश्चेतनस्योपरि सत्क्रपेति चेतनानां चेतनस्य भगवतो निसर्गसिद्धमच्युतत्वं व्यज्ञयति
'प्रवहन्त्यां नावि प्रवहन्ती नौर्बद्धा नेतरत्राणाय भवाति” इत्युक्तेः। एवकारोऽत्र
भिन्नक्रमस्तेन हरेरेव सत्कृपा नान्यस्य। तदानीमहल्यानिषाद- कपिरध्रादिष्वषि करुणावन्तं
पापसन्तापहरणलक्षर्ण हरिपदवाच्यं श्रीरामं विना कस्तथाविधः, ब्रह्मादीनामपि कर्मवश्यतया
तदितरस्य कस्यापि ताटृशज्ञानसामर्थ्य-वैभवाद्यभावेनेति भावः।
कृपा हि परदुःखनिराचिकीर्षा भवति, भगवतस्तु सा स्वप्रयोजनान्तरमनपेक्ष्येव जायते;
तत्रापि तस्याः सुग्रीवादाविवाविच्छित्नत्वं सूचयितुं सद्विशेषणम्। वत्सं विलोक्य गोरिवोद्धवति।
भगवतः सा जायमाना कृपा अहेतुका स्वाभाविकी न तु कारणजन्या भवति, निसर्गत
एव तस्य कारुणिकत्वात्। केचनात्र प्रयोजनार्थठिज्नबन्धनेन ङीपा हैतुकी स्यादित्याचक्षते।
अविद्यमानो हेतुर्यस्यामिति बहुव्रीहो शोबाद्विभाषेति वैकल्पिकः कप् समासान्तः। ननु घट
उद्धवतीत्यत उत्पद्यत इति प्रतीत्योत्पद्यमानाया: सत्कृपाया कार्यत्वे कारणं विना
कार्यॉत्पत्यसम्भवादहेतुकेति न युक्तमिति चेत्र भगवत्कृपाया: नित्यत्वेनाजन्यत्वात्।
भगवत्क्रपा अजन्या नित्या कारणमुखापेक्षित्वाभावादनन्याधीन-त्वादित्यर्थः। न च 'येषां
स एव भगवान् दययेदनन्तः सवात्मिनाश्रितपदो यदि निर्व्यलीकम्” (२.७.४२)
इति भागवतवचने निव्यलीकपादाश्रयरूपभक्तेः दयांद्रति कारणत्वकथनाद्भकतिसापेक्षत्वात्कथ-
मनन्याधीनत्वमिति वाच्यम्; जीवानां प्राणवाय्वादिप्रदानेन सत्तास्थितिप्रवृत्यादि-
दर्शनात्कृपासामान्यस्य सर्वत्र सत्त्वात्, कृपाविशेषं प्रति भक्तचपेक्षत्वेऽपि तादृशभक्तेषु
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १२३
भक्तेर्भगवदन्तरङ्गवस्तुतया महासारतया च भगवन्मयत्वात्तस्या भगवदधीनत्वाच्चा-
नन्याधीनत्वाक्षतेः। आत एव जीवकृताया: क्रपाया: पुण्यजन्यायाः परिमितफलतया
तद््यावृततये सद्रिशेषणं सङ्गच्छते। अत एव 'यमेवैष वृणुते तेन लभ्यः ' (क. १. २. २३)
इति शरुत्या तदवाप्तौ साधनान्तरं निरस्यते। अत्र विस्मयनोधकेन अहो इति निपातेनालभ्यलाभो
द्योत्यते।
मोक्षे मुमुक्षोर्न हि तारतम्यं फले प्रपन्नस्य तु सत्प्रपत्तेः ।
अस्त्येव तद्रामकृपोपलभ्ये पतिं श्रियोऽनन्तगुणार्णवन्तम् ।।१०३।।
* संवित्करः #
अनन्तकल्याणगुणसागर करुणामय श्रीजानकीनाथभगवान् के चरणों में शरणागत
जीवों की प्रपत्ति (शरणागति) से प्राप्य भगवत्कृपाजन्य मोक्षरूपी फल में किसी
तरह का तारतम्य नहीं होता हैं। इसका अर्थ है कि मोक्ष तथा उसके आनन्दप्राप्तिरूप
स्वरूप में किसी प्रकार की विषमता या भेद मान्य नहीं है। मोक्ष एक ही प्रकार का
है और वह है सायुज्य।
* पदपरामर्शः *
भगवत्कृपया प्रत्यगात्मनामा्चिरादिना गतानां पारेविरजं त्रिपादविभूतौ नित्याप्राकृते
श्रीसाकेतधाम्नि प्रविष्टानां मुक्तिदशायां परमपृरुषार्थसिद्धौ सम्भवन्त्या निर्वत्तेरनुभूतौ
गुक्तजनोपभोग्यायां साम्यं वैषम्यं वेति निर्णेतुं श्लोकमवतारयति -- मोक्षे मुमुक्षोर्नहीति।
तमनन्तगुणाणविं श्रियःपतिं प्रपन्नस्य मुमुक्षोः सत्प्रपत्तेस्तद्रामकृपोपलभ्ये फले मोक्षे
तारतम्यं नह्योवास्तीत्यन्वयः। नित्यानवद्यसौन्दर्यमाधुर्यवात्सल्यादिभिः सह
सत्यज्ञानसत्यसङ्कल्पत्वाद्यनेकगुणाकरत्वे सति स्वरूपभूतशक्तिविशिष्टं भगवन्तं निर्दिश्य
निर्विशेषवाद उपाधिवादश्च प्रत्याख्यातो। 'नासमर्थस्य कृपा शोभते' इत्युक्तचा
तादृशसर्वेक्षरस्यैव सा युज्यत इति ध्वनयितुं तद्रामक्रपोपलभ्य इत्युक्तम्; 'यश्चातिनीचेषु
कापिकिरातगृध्रादिष्वपि कृपावानिति कृपावानविकत्थनः ' इति धीरोदात्ततायकतया
तस्येव लोकम्रसिद्धेः। तद्रामक्रपयैवोपलभ्य इत्यवधारणार्थोऽनुसन्धेयः। न केवलं
लीलाविभूतौ लीलाहेतुकं श्रीसाहित्यमपितु तत्रापि श्रीसीतया नित्ययुक्तस्य भगवतः
सर्वेश्वरत्वं आप्यत्वं मुक्तोपसुप्यत्वञ्चेति द्योतयितुमेवाह ~ श्रियः पतिमिति। तेन
तत्र मुक्तानां मातापितृवात्सल्यस्निगधपरिपूणानिन्दपृष्िपोष्कल्यं च लभ्यते।
अनन्तगुणार्णवमित्यनेन परमयोगिभिरप्यपरिच्छेद्यज्ञानकरुणाद्याकरत्वं सूच्यते। तमित्यनेन
च लीलाविभूतावयोध्यानाथदशरथनन्दनद्विभुजस्वरूपेण दृश्रुतस्म्रताकारेणाक्बुद्धस्य तस्य
तदाकारेणैव दर्शनात्स एवायमिति .्रत्यभिज्ञानं निर्दिश्यते। तस्य द्विभृजस्यैव परत्वमास्थाय
१२४ श्रीवेष्णवमताब्जभास्कर:
तद्रूषेणावतार: सिद्धान्तित:। प्रपन्नस्येत्यनेन सकलोपायशून्यस्य भगवत्पादैकाश्रयस्य
महाविश्वासपूर्वकावस्थितस्येत्यर्थो लभ्यते, मुमुक्षोरिति संसाराग्निप्रतप्तदाहमसहमानस्य
भगवन्तं प्रेप्पोरिति। मोक्षे रामक्रपोपलभ्यत्वकथनात् तत्कृपैकसाध्यत्वं तस्य संसूच्य
तत्सिद्धौ साधनान्तरनिरासः क्रियते! सकलसाधनानां तदेकपर्यवसावित्वं सामानाधिकरण्येन
दर्शयति -- मोक्षे फल इति अ्पत्तेरेव मोक्षजनकत्वं निश्चित्य मोक्षसुखस्य त्रपननकास्वाद्यत्वं
प्रकाश्यते।
मुक्तो हि त्रिपादविभूतौ साकेताख्यं नित्यं भगवद्धामावाप्य ब्रह्मानन्दानुभवेन
सञ्जाततद्रिषयकप्रीतिप्रकर्ष्ररितो भगवतः सर्वविधकेङ्कर्यं करोति। ताटूशमोक्षाख्यफ़लास्वादे
तत्स्वरूपे चानेन तारतम्यं न्यूनाधिकत्वं निरस्य सगुणोपासकानां कार्यत्रह्मप्राप्तिरक्षरो-
पासकानामक्षरनोधप्राप्तिरिति भेद इति वदतां मतं समूलमुच्छिद्यते। इत्थमेव भागवती
मुक्तिज्ञानिजनमुक्तिरिति पार्थक्येन निरूपयता मतमापि निरस्यते। वस्तुतोऽद्वौतिना जीवन्मुक्तिः
कैवल्यमुक्तिरिति भेदं तत्कृतस्वरूपवेषम्यज्ञ शास्रविरुद्धत्वाठ्रत्याख्यातुमेवेदमुपक्रान्तम्।
मोक्षोपायनिष्ठस्य चरमशरीरावसाने विरोधिकर्मनाशादपहतपाप्मत्वादिगुणाटकाविभविन
च सायुज्यं मोक्षः। सायुज्यञ्च न भगवति लयः, शरीरैक्यं, स्वरूपैक्यं वा, अपितु
समानात्मगुणयोगित्वमेव भोगसाम्यमिति भावः। इदं भिन्नयोरेकत्र योगं दर्शयति,
“परमं साम्यमुपैति’ (मु. ३. १.३) इति श्रुतेः 'मम साथर्म्यमागता” (गी. १४.२)
इति स्पृतेश्च। ब्रह्म वेद ब्रह्मैव भवति (मु. ३. २. ९) इत्यादीनामपि साम्यबोधने
तात्पर्यम्। श्रीधरस्वायिनो यत्सायुज्यमेकत्वामिति व्याख्यानमपि चिन्त्यम्।
सालोक्यसामीप्यसारूप्यसायुज्येषु सायुज्यमेव मुख्यो मोक्षः, अन्यत्र मुक्तिशन्दप्रयोगो
गणः; सायुज्ये लब्धे तेषां सुतरामेव सिद्धेः। सालोक्यादिभेदेन तारतम्यमयुक्तं
सर्वकर्मनिवृत्तौ स्वतः प्राप्तनरह्मसुखानुभवे तारतम्यायोगात्। तत्र परिगहीताप्रकृतशरीरे
'स स्वराड्भवति” (छा. ७.२५.२) इति श्रुत्या महत्ताकारेणानन्याधिपतित्वेन
सङ्कल्पसिद्धौ, असङ्कचितज्ञानत्वेन लीलारसानुभूतौ च न तारतम्यम्; परमपुरुषार्थ-
काष्छाभूतनिरुपाधिकभगवत्कैङ्कर्यस्य स्वादुतमत्वेनानुभूयमानत्वे फलरूपे तस्मिंश्च न
तारतम्यम्। सेवाधिकारे प्रभावे तचदधिकारनियोगे "तद्विप्रासो विपण्यवो जागृवांस
समिन्धत” इत्याद्यनुभवप्रकारेण तच्छेषतैकरुचित्वे च न तारतम्यमिति सर्वेक्षरलक्षण-
जगद्व्यापरवर्ज भोगसाम्यं जायते, “सोऽश्नुते सवान् कामान् ब्रह्मणा सह विपश्चिता’
(तै. २.१.१) इति श्रुतेः।
भवन्त्युपायान्तरमेव सर्वे स्वातन्त्र्यतो मुक्तिपदप्रदास्ते ।
सुकर्मसंवेदनभक्तियोगाः प्रपत्तिनिष्ठेः समनुष्ठितास्तु ।।१०४।।
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १२५
* संवित्करः *
भगवद्रपत्ति में विश्वास रखने वाले भक्तों के द्वारा सम्पादित शरणागति के अतिरिक्त
ज्ञानयोग-कर्मयोग-भक्तियोग भी मोक्षप्रद उपायान्तर हैं; किन्तु साधनान्तर निरपेक्ष एवं
स्वतन्त्र उपाय तो प्रपत्ति ही है।
* पदपरामर्शः *
श्रीरामप्रपत्तेमोक्षे कारणतां निरूप्य तदपेक्षया मुक्तावुपायान्तरमपि समुच्चिनोति
-- भवन्त्युपायान्तरमेवेति। सुकर्म च संवेदनञ्च थक्तिश्षेतरेतरद्रन्द्रे, द्वन्द्वान्ते
श्रूयमाणस्योपायवाचकयोगपदस्य ग्रत्येकमन्वयात्युकर्मयोगः संवेदनयोगो भक्तियोगश्चेति
योगत्रयं लभ्यते। शाख्रार्थतत्वज्ञानतः कर्मयोगः, तेन निरुद्धमनसः शुद्धात्मभावनारूपो
ज्ञानयोगः, तद्द्वारा कर्मयोगेन वात्मावलोकनम्, तेन लन््धाधिकारस्य भक्तियोग
इति क्रमस्य विवक्षणादल्पाच्त्वे वित्वेऽभ्या्हितत्वेऽपि भक्तिशब्दस्य न पूर्वप्रयोग;।
यद्यप्यन्यत्र वेदनं ध्यायपर्यायतया भक्तो दृश्यते तथाप्यत्र यथावस्थितात्मविषयं ज्ञानमेव
संवेदनमिति विवक्षितम्। शाख्रविहितं वणश्रिमनियतं काम्यादिव्यावृततं कैव सुकर्मपदेनोच्यते।
समनुष्छानं सेवनम्, तच्च ज्ञानशक्तियोग्यतानुगुण्येन यथाधिकारमाफलोदयं सादरं
परिग्रह एव। यद्यपि सुकर्मयोग आत्मज्ञानं भगवत्यीतिश्चानुवर्तेते, संवेदनयोगेऽप्यन्तः-
करणशुद्धव्य नियतकर्मण आराध्योपासनायाक्च परिरहो दृश्यते, भक्तियोगेऽपीतरयोरनुवतिश्च;
तथापि प्रधानभूते भक्तियोग इतरयोर्गुणतयानुप्रवेशेन विभागस्य नानुपपत्तिरिति भावः।
यथोक्तं भगवता 'योगास्रयो मया प्रोक्ता तृणां श्रेयोविधित्सया। ज्ञानं कर्म च
भक्तिश्च नोपायोऽन्योऽस्ति कार्हिचित्’ (भा.पृ. १ १.२०.६) इति।
अत्र त्रयाणामपि योगानां स्वातन्त्येण मुक्तिपदप्रदत्वकथनं यथाशास्रं परस्परान्वयेन
व्याख्येयम्। मुक्तिपदप्रदा इत्यत्र मुक्तिपदेति "तद्विष्णोः परमं पदम्” (क. १.३.९)
इति मन्त्रानुसन्धानेनोक्तम्। यद्वा; पद्यत इति व्युत्पत्त्या पदं मुक्तप्राप्यतया सिद्धं
पुरुषोत्तमस्य भगवतो रामचन्द्रस्याप्राकृतं स्थानं साकेताख्यं धाम तत्स्वरूपं वाभिधत्ते।
वस्तुतः स्वातन्त्र्यं नात्रानन्याधीनत्वमपितु स्वप्रयोज्यफलसिद्धौ पर्याप्तत्वामित्येवा।
यद्यपि मोक्षे परमभक्तेरेवाव्यवहितोपायत्वमङ्गीकृतं तथापि तादृशभक्तिसिद्धो
यथावस्थितसुकर्मसवैदयोरात्मसाक्षात्कारद्वारा भक्तियोगाधिकारनिर्वातकत्वेन साधनत्वमा-
वर्जनीयम्। रजस्तमोमूलपापनाशेन सत््वविवद्धिसाध्यत्वमात्मयाथात्म्यज्ञाने, फलसङ्ग-
कर्तृत्वादिपरित्यागपूर्वकभगवदाराधनैकाधिया नित्यनैमित्तिककर्मानुष्छानेन तत्साध्यत्वं च
भक्तावित्यङ्गाङ्गिभावेन मिथः सम्बन्धः। यद्यपीमे त्रयोऽपि योगाः द्रपत्यपेक्षयान्ये, तथापि
प्रपततिनिष्छेरिमेऽ नुष्ठेया भवन्तीति दृश्यते नोपायधियापितु यथाशक्यं भगवदाज्ञापालन-
स्याचित्यात्, नैष्कर्म्ये पातित्यप्रसक्तिभिया, भगवद्व्यतिरिक्तोपायाश्रयणे तु महाविश्वास-
१२६ श्रीवेष्णवमताब्जभास्कर:
भङ्वाठापत्तेरेवासिद्धे:।,प्रपत्तावेव निष्ठा येषां ते: प्रपत्तिनिष्छेरिति। नियता स्थितियवित्फलं
स्थिरपरिग्रहणमेव निष्ठापदेनोच्यते। केचन तु स्वातन्तर्यतो गुक्तिपदप्रदा साध्यथक्तिरेव
प्रपत्तिरेवास्ते इत्यन्वयवैचित्र्यादभीशर्थ साधयान्ति/
विभुत्वतो निर्भरतापरैस्तैः श्रीव्याप्तिरायेरभिधीयते हि ।
प्रपञ्चनिर्मातृविरिञ्चिहेतुश्रीरामपादाब्जनिविष्टचित्तैः ।।१०५।।
* संवित्करः *
सकल जगत् के निर्माता ब्रह्माजी के कारणभूत श्रीरामजी के चरणारविन्द में मन
को निविष्ट किए हुए तथा प्रभु पर पूर्णत: निर्भर रहने वाले विज्ञ आचार्यो ने श्रीसीताजी
को विभु होने के कारण ईश्वरकोटि में स्वीकार किया है; न कि अणुरूप मानकर
विशिष्टजीवकोटि में।
* पदपरामर्शः *
वैष्णवेष्वपि केषाञ्चिन्मते श्रीतत्वं त्रिविधचेतनेषु नित्यजीवविशेषकोटौ सन्निवेशितम्,
तत्र स्ववैमत्यं प्रकाशयितुं तन्मतं सुदूढं प्रत्याचष्टे -- आयैर्विभुत्वाच्छरीव्याविराभिधीयत
इत्यादिना। सर्वूर्तद्रव्यसंयोगित्वं विभुत्वम्, व्यापकत्वमित्यर्थः; तच्च यथा भगवतस्तथा
श्रियोऽपि स्वरूपतो विग्रहतो धर्मभूतज्ञानतस्रिविधमपि। भगवतो रामस्येव पराम्बायाः
श्रीसीताया आपि अनन्या राघवेणाहम्, अनन्या च मया सीतेत्युभयप्रयुक्तचा
ज्ञानानन्दाद्यत्यन्तसाम्याज्जगज्जनकत्वशेपित्वशरण्यत्वप्ाप्यत्वादिसाम्याच्चोभवोर्विभुत्वस्वीकारे
न क्षतिः। अत्र विभुद्रयासम्भवत्वं बाधकमिति चेत्र काले नित्यमुक्तेश्वराणां धर्मभूतज्ञानेऽपि
विभुत्वस्वीकारात्। अत एव सिद्धान्ते श्रीव्याप्तिरङ्गीक्रियते, "त्वयैतद्विष्णुना चाम्ब
जगद्व्याप्तं चराचरम्” इत्युक्तेः। सकलस्यापि श्रीव्याप्तत्वादेव तदेकचरणात्रितानां
सा नूनं मां पालयिष्यतीति थिया तत्र तत्र स्तवनवन्दनादिकं सङ्गच्छते सर्वत्र तस्या
अन्तर्वहिव्याप्तेः। नान्तर्बहिव्याप्ति विनेशितृत्वं युज्यते, यच्च "अस्येशाना जगतः '
इति श्रुत्या प्रतिपाद्यते। अतोऽत्र तां प्रति भाविता निर्भरतापि साम्प्रतम्। श्रीव्याप्तौ
हेतुमाह -- विधुत्वतो, विभुत्वादिति हेतौ पञ्चमी। व्यापकत्वादित्यर्थः, व्यापकत्वे
सति चेतनत्वामिति हीश्चरलक्षणम्। एवमर्थाभिधाने वक्तप्रामाण्यमाचष्टे --
श्रीरामपदाव्जनिविष्टचिच्तर्निभरवापरैस्तैरायैराभिधीयत इति। भक्तिबलाज्जञातरहस्यैरिति
भाव्ः। भक्तानां स्वाराध्यपक्षपातित्वदर्शनाच्तेषां कर्थं ग्रामाण्यमित्यत आह -- आर्यैरिति।
कृलीनत्वात्सन्मार्गानवर्तित्वाच्च नान्यथावक़्त्वमिति भावः। यद्वा; वस्तुतत्वस्य कात्स्न्थेन
निश्चयवत््वं रामपादान्जनिविष्टचिचरित्यनेन, निर्भरतापरोरित्यनेन रागाहानुपहितत्वमा यैरित्यनेन
अनन्यथाभाषित्वमुत्तवाप्तत्वमुच्यते। यत्पादान्जे भक्तानां वित्तं सर्वदा निविष्टं तिष्ठति, तं
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १२७
स्वाराध्यं भगवन्तं श्रीरामं विशिनष्टि -- प्रपञ्चनिमातिविरिञ्जिहेत्विति। प्रपञ्चस्य
निर्मातुरपि विरिञ्चे्ह्मणोऽपि हेतुत्वकथनात्तस्योत्पत्तेरपि भगवन्मूलकत्वं प्रदर्श्यते, “यो
ब्रह्माणं विदधाति पूर्वम्” (शष. ६.१८) इति श्रुतेः। महदादिसृष्टिक्रमेण पूर्व ब्रह्माणं
विधाय तस्मिन् प्रलयतिरोहितवेदानाविष्क्रत्य दानाचदायत्तस्थितिप्रवृत्यादिकं संसूच्य
भगवदधीनकृर्तत्वात्तत्कृतस्यापि भगवत्कृतत्वमेवोक्तं भवति। वस्तुतस्तु भगवाज्छ्रीराम
एव विरिञ्ञावन्तर्यामितया स्थित: प्रपञ्चं निर्मातीति सिद्धम्। यथोक्तं भागवते स्वयमेव
ब्रह्मणा -- 'सृज्यं सजामि सृष्टोऽहमीक्षयैवाभिचोदितः' (२.५.१४) इति।
तादृशस्य निखिलजगदेकहेतुभूतस्य पादान्जे निविषटत्वकथनेन भक्तानां मुधकरत्व-
द्योतनेन पादान्जमकरन्दलिप्सयाऽभिनिवेश उक्तः। तेन रसिकत्वव्यञ्जनया तदेकजीवनत्वेन
तर्जनादिभिरि दुर्निवार्यत्व॑ प्रकाशितम्। पादान्जशन्दोऽपि दिव्यसौकुमार्यसौरभादिमूलकं
परमप्रेमहित्वं ध्वनयति। यद्वा; विरिञ्चिहेतुभूतं तु श्रीरामापादान्जमेव्, तत्र निविष्ट-
चित्तरित्यर्थीन्वयाविच्छित्या तादृशानिर्माणविधेरपि तच्चरणारविन्दमात्रहेतुकत्वकथनात्
कैमुतिकन्यायो व्यञ्जित:। तथाविधकठिनकार्यं सुपेशलचरणान्जसाध्यमिति
विरोधाभासगर्भक्षमत्कारः। एतेन तादृशसर्गादिविधेरप्यनायाससाध्यत्वं प्रतिपाद्यते।
इत्थमन्वयविच्छितत्या श्रीरामपादान्जपरिचयार्या एव फल तस्य विरिञ्चित्वमित्यर्थतो
लभ्यते। निर्भरतापरेः, 'तेषामहं समुद्धर्ता’ (गी. १२.७), 'योगक्षेमं वहाम्यहम्'
(गी.९.२२), अभयं ददामि’ (वा.रा.६. १८.३३) इत्याद्युक्तवति भगवति सर्वसमर्थे
स्वाराध्ये सर्वविधभारनिक्षेपेण वीतचिन्तैरित्यर्थः। तथाभूतैरर्यैरयमर्थोऽभिधीयते सिद्धान्ततया
आस्थीयत इत्यर्थः। श्रियोऽणुत्वं जीवत्वमिति वादिनामयं दुरभिसन्धिः यथा
सर्वगतो विष्णुस्तथैवेयं द्विजोत्तमेत्युक्तचा भगवत्साम्यस्य तत्रातिदेशाच्चन्द्रवन्मुखामित्यत्र
यथोपदेशस्थलादतिदेशस्थले न्यूनताया प्रतीतिस्तथा भगवदेपक्षया न्यूनप्रभावेयमिति।
एवञ्चास्याः सर्वशरीरित्वमपि न, मात॒त्वमप्यस्या भगवत्पत्नीत्वप्रयुक्त सर्वपत्नीसाधारणम्,
पिताहमस्य जगतो माता धाता पितामह” इति भगवदुक्तेस्तस्यैव मातृत्वपितरत्वादिकम्।
एवम्भूतायास्तस्याः पुरुषकारत्वादिकमापि भगवतैव प्रदत्तम्। केचनात्र विभुत्वं
स्वीकृत्याप्यणुचेतनत्वरूपं जीवलक्षणमुपेक्ष्य परतन्त्रचेतनत्वमिति लक्षणं निश्चित्य
जीवकोटिग्रवेशमेव समर्थयन्ते। केचन च पतिपुत्रव्यावृत्तपत्नीन्यायेनास्या कोट्यन्तरत्वमाहुः,
श्रियोऽपि सत्ता भगवदधीना भगवतश् वैभवं रत्नप्रभाएुष्पपरिमलन्यायेन भगवत्यायत्तम्।
अन्ये च स्वरूपस्थितिरेवमस्तु विभूतिद्वयशेषित्वमीश्वरलक्षणमिति व्युत्पाद्य अस्या
विभुत्वादीक्षरकोटिप्रवेशमाभिप्रयान्ति। इत्थमनेकाविधविकल्पप्राप्तावस्याः श्रीसीतायाः
सम्प्रदायसिद्धं विभुत्वमीश्षरत्वञ्च सुदृढं स्थापयितुमेवेदं पद्यमुपक्रान्तमिति मन्यामहे।
तत्रयं निष्कर्षः -- अर्थो विष्णुरियं वाणी? (वि. पु. १.८. १८) इत्यादौ यावदुक्तपदार्थ-
१२८ श्रीवेष्णवमताब्जभास्कर:
निरूपितमात्मत्वमानुरूप्याच्छिय: एएव्यमेव, आत्मत्वञ्च शेपित्वाभावे न स्यादिव्यदम्पत्योः
श्रीसीतारामयोक्चाविशेषेण सर्वशरीरित्वात्। स्वरूपादिष्वतिगाढ: संश्लेषविशेष एव
नित्यजीवसमूहापेक्षयास्या विभुत्वं व्यनक्ति व्यापकाविति संश्लेषादेकतत्वमिवोदिताव्त्युत्ते:।
किञ्च श्रुतिषु परमपुरुषस्यैव विशेषतः श्रावितत्वाज्ज्ञातं वस्तु यथेति प्रदर्श्य ज्ञापनीयं
तथेति ग्रतिपाद्यते। 'यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम’ (वि.पु. १.८. १७)
इत्यत्र सर्वगतो विष्णुर्यत्स्वभाव:, इयमपि तत्स्वभावेति व्याख्याय सर्वगतत्वसत्यज्ञानादि-
स्वरूपकल्याणगुणादीनामतिदेश:। यद्वा; भगवान् पूर्णात्वाद्विभुत्वाच्च सर्वगतस्तथेयं
सर्कातेत्युभयोरेकाभिप्रायतापरत्वं तस्य लभ्यते। उपमानापेक्षयोपमेये न्यूनताप्रतीतेनास्ति
नियमः; तथात्वे राजीवलोचनः, समुद्र इव गाम्भीर्ये’ (वा.रा. १.१.१७) इति
भगवद्रामवणनि उपमेयोत्कर्षो निर्विवादः। पतिपत्नीभावादिमूलस्वातन्त्यपारतन्त्ययोः
स्वयमेव तयोरिट्टत्वादीश्चरद्वित्वादिदोषग्रसक्तिनास्त। अत एव चोभयाधिष्छानं चैकं
शेषित्वमित्युक्तिः सङ्गच्छते, आविभागस्य॒ते:। पूर्वमीमांसायां षष्ठाध्याये महेनद्रदेवतात्वे
नेन्द्रो देवतापितु महत्त्वविशिष्ट इन्द्रो देवता, तथैव श्रीविशिष्टो भगवान् ब्रह्म शेषी
च। यथाग्नीषोमीययाग उभयोरप्येकदेवतात्वं तथा श्रीसीतारामयोरेकं शोषित्वमिति
सारः।
नित्यं सा पुरुषाकारभूता सीताऽनपायिनी ।
अनुपायान्तरैर्बिज्ञैरुच्यते तदुपायता ।।१०६।।
* संवित्करः #
परमप्रभु श्रीराम से नित्ययुक्ता एवं अभिन्नस्वरूपा श्रीसीताजी, ईश्वररूप होकर
भी मातृसुलभ करुणा के कारण असहाय मुमुक्षु जीवों की ओर से सहायक
बनकर, उसकी करुणप्रार्थना एवं दीनदशा प्रभु को सुनाकर क्षमापनपूर्वक उनसे
उद्धार करवाती हैं। जीव एवं परमात्मा के मध्य घटक (सम्बन्धसाधिका,
जीवपक्षनिवेदिका) बनने के कारण पुरुषकारस्वरूपा वह जगदम्बा भगवत्प्राप्ति के
लिये भक्ति-आदि उपायों से रहित जीवों के लिए स्वयं उपाय मोक्षोपाय बन जाती
हैं -- ऐसा सम्प्रदाय के रहस्यज्ञ बताते हैं।
* पदपरामर्शः *
श्रीरामायणे “गगनं गगनाकारं सागरः सागरोपमः ' (६. १०७.५२) इत्युक्तवद-
भेदेऽपि सादृश्योपलब्धेस्तथैवेयमित्यत्र 'यः सर्वज्ञः सर्ववित्’ (मु. १. १. ९) इतिश्रुतिवत्
समानविषयेऽपि यत्तदोः अयोगाव्रत्यभिज्ञयेव तयोर्भगवतोः श्रीसीतारामयो: किमप्यनन्यत्वं
प्रकाशितम्, यच्च 'युवयोर्ने तु भेदगन्धः ' इत्युक्तवा वेष्णवाचार्यैः सूचितम्। तथापि
हितप्रियताभिनिविषटमातापित्रोर्वात्सल्यसमास्वादनप्रयुक्तं प्रथगाविर्भावं सर्वथानुरूप्यगुण-
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १२९
प्रकाशनेन वं 'तुल्यशीलवयोवृत्ता ठुल्याभिजनलक्षणाम्। राघवो35हीति वैदेहीं
तञ्चेयमसितेक्षणा' (५. १६.५) इति समुन्रयत्यादिकविस्तत्रात्यन्तसाम्यविवक्षणेऽपि
विशेषणाधिकदानेन भगवदपेक्षया श्रिय: कश्चिद्विशेषो व्यञ्जित एव। स च पुरुषकाररूपः,
तथा हि सामान्यतो विशेषतश्च नित्यज्ञानवत्त्वेन जीवक्रताखिलपापादेरचिरेण वेचु: "शास्ता
जनानाम्” (तै.आ. ३.११.३) इति श्रुत्यनुगुणाकुण्ठशासनतया नियन्तुमुद्यतात् च
सवेश्षराज्जीवं को रक्षेत्? तादृशादपि तदानीमनुग्रहैकस्वभावा वात्सल्यातिरेकातनिवार्य
रक्षति। यदा वा परमहितैषित्वेऽपि प्रतापोष्मलपितृत्वेन निग्रहानुग्रहोभयसमर्थो
भगवाज्जीवैदुरासदतया दण्डधरादिव भीत्या न समाश्रीयते, तदानी या सांसिद्धिकसम्बन्धोप-
पादनेन निर्भरवात्सल्यप्रयुक्तेनाभयसमाश्चासनगर्भेण जीवविषयककारुण्योत्तम्भकेनालापादिना
स्वयमपि तन्मध्ये मिथो घटकतयावतिष्छते, जीवं स्वजनयति च; तस्याः श्रीरामवछभायाः
सर्वमङ्गलैकफलं परमधन्यतां दुहानं च पुरुषकारमनतिसाधारणवैभवधिया स्मरत्याचार्यवर्यः
-- नित्यमिति। नित्यमिति पुरुषकारभूता, अनपायिनी, तदुपायतेति त्रिष्वप्यन्वेति,
तेन तढुपायतादौ सदातनत्वं लभ्यते।
सेति ईश्वरी सर्वभूतानाम्” इत्याद्याम्नाता इष्टां सर्वस्य जगतः? (५.१३.३०)
इत्यादिना रामायणे समादृता दार्शनिके: सर्वशेषितया सोपपत्तिकं सिद्धान्तिता,
श्रीसग्रदाये.प्रवर्तकाचार्यतया सुपूजिता लोकेऽनुकरणीयानक्यपाक्कित्यादिना5 पामर' ख्याता,
भक्तानान्तु परमाराध्यतया जीवातुभूततया प्रथिता श्रीरामवछभा परामृश्यते। अतः श्रृतिसिद्धं
लोकसिद्धं सम्प्रदायसिद्धं च नामाह -- सीतेति; तस्या एवानुगुण्यात् तथात्वात्।
यस्य जगच्छरण्योऽपि न शरण्यो भवति, तस्यापीयं शरण्या भवति; इमामश्रित्य
सर्वेक्षरादपि न भयम्। यथोक्तं वानरगणे श्रीहनूमता 'अलमेषा परित्रातुं ...
राघवाद्राक्षसीगणम्” (वा. रा. ५.२७.४३) इति। घटकत्वेन भीतिनिवारकसम्बन्ध-
साधकत्वेन भगवत्कारुण्योह्कासद्वारेण तस्या भगव्ापणहेतुभूतगुणवैभवमाह --
पुरुषाकारभूतेति। छन्दोऽ नुरोधेनाकारघटितप्रयोगः, “अपि माषं मर्ष कुर्याच्छन्दो भङ्गः
न कारयेत्” इत्युक्तेः, तेन पुरुषमाकारयतीत्यापि च लभ्यते। उन्मत्तेष्वपि "विदितः
स हि धर्मात्मा शरणागतवत्सल; ' (वा.रा.५. २ १. २०) इत्यादिगुणमाभिगमिकमुत्तवा
तेन ते मैत्री भवत्वित्यवबोध्य एवं हि ते थवेत्स्वस्ति' (५.२१.२२) इत्युच्चार्योपाय-
प्रदशनिनेयमेव कृतपापविपाकभीतमण्यभयाश्चासनेनाकारयाति। इयमेव परमपुरुषं
साक्षात्कारयति, तत्पादमूलं प्रापयति, "तवास्मि इत्युचिताकारेण स्तावयति, इयमेव
च पुनर्भगवते निवेद्य तद्दशा श्रावयति। "पापानां वा शुभानां वा वर्धाहाणामथापि
वा। कार्य कारुण्यमार्येण न कश्चिन्नापराध्यति' (वा. रा. ६. १ १५. ४३) इत्युक्तप्रकारेण
प्रसाद्य भगवतोपकारयति धन्यतामापादयति चोति सर्वीनिर्वाहकत्वमस्याः सिद्धयाति।
१३० श्रीवेष्णवमताब्जभास्कर:
सापराधाशुवधहिष्वपि 'कार्य कारुण्यमार्येण' इत्यायनिगुणकृत्ये सम्प्रेय न केवलं
जीवानुपकरोति, भगवत्कारुण्यादिकं सफलयति। अधिकदयापात्रं मत्वा पूर्व स्वयमनुगरह्म
पश्चात्पत्यानुग्रहयतीति प्रतिवशीकरणसामर्थ्य जीवकल्याणार्थ विनिळुडु इति। अपराधभीतानां
तत्पुरस्कारेणैव भगवत्समाश्रयणं सिद्धयतीति भावः। तद्घटकतयावस्थित्या तद्वारिकया
भगवदवाप्तिर्न तदसाम्थ्य सूचयति, सा तु व्यापारमात्रे सामरस्याद्धर्तवाह्नभ्या-तिरेकात्पत्य
एव श्रेयोदानानिमित्तिका, पत्युः पत्न्या अपीति नियमेन ग्रतीतेः। आत्रितानुदिश्य
भगवत्यमोषस्तस्या: पुरुषकारः, तळ्रीतिपारवश्यादेव तत्सन्निधौ भगवानपराधिनोऽपि
दण्डयितुं नोत्सहते, जीवैकपक्षपातिनीयं कस्यापि स्वसमक्षममङ्गलं द्रष्टुं नाहीति।
अतस्तथाविधाक्षम्यमपराधं कृत्वाऽपि 'तच्छिरः पादयोस्तस्य योजयामास जानकी"
(प.पु. ६.२४२.२०८) इत्युक्तरीत्या जयन्तो रक्षितः, तत्सात्रिध्याभावे रावणवालिप्रभ्रतयो
निग्हीता:। इयं कृपैकमती रावणवधानन्तरं तद्गधापरिज्ञानेऽविरतापराधा राक्षसीरपि
हनुमतखित्रवधान्िवार्य रक्षितवतीति रामायणे ग्रधितमेव। यक्तं ग्राचीकशच््री-गुणरत्नकोशकारः
एुरुषकारत्वम् -- पितेव त्वत््रेयाञ्जनानि परिपू्णागसि जने हितस्रोतोवृत््या
भवाति च कदाचित्कलुषधी:। किसेतात्रिदोषः क इह जगतीति
त्वयुचितैरुपायौर्विस्मार्यं स्वजनयासि माता तदासि नः? (५२) इति।
तयोपायभूतया सहोपेयस्य नित्यान्वयं सूचयति अनपायिनीति। नित्ययोगालिष्वपि
कालेषु पार्थक्यं नेति लीलायां विश्लेषशोकादेरभिनयमात्रत्वं लभ्यते। भगवतः किमपि
तदनन्वितं नेति भावः। अन्य उपाय इत्युपायान्तरम्, अविद्यमानमुपायान्तरं येणं तैरनुपायान्तरैः
शास्रोक्तकर्मज्ञानभक्तचाख्या्रिविधसाधनरून्यौरित्यर्थः। किन्तु श्रीसीतायाः सर्वशेषित्वातिरिक्त
तद्गतं विशेषं तत्स्वभावं प्रभावं तदनुगुणप्रयोगं च ये जानन्ति, तादुशर्विज्ञेस्तदुपायता
तस्या उपायभाव उच्यते; विशिष्य निरूप्यते। यद्वा; सँवोपाय इति तदुपाय:, ततः स्वार्थे
तल सत्तेतिवत्। उपेयैवोपायाकारेण परिणता घटकभावमाश्रितेत्यहो कारुण्यम्। एतेन
तस्या वत्सं प्रति धेनोरिव जिप्रक्षापारवश्यं जीवस्य च तदाश्रयणेनैव सकलेट्टसिद्धिर्लभ्यते।
प्रणिपातमात्रेण प्रसत्रायास्तस्या उपायतयाश्रयणेन पश्चात्स्वयत्ननौरपक्ष्यं सुतरां गम्यते।
इत्थं श्रीसीतापुरस्करणमनायासशीप्रसंसारतरणकारणमिति सार:।
विभोश्च वात्सल्यमहार्णवस्य वै वात्सल्यमिष्टं जनदोषभोगिता ।
समुच्यते तैर्नृभिरस्वतन्त्रकैः सदा सदाचारपरायणैर्वरैः ।।१०७।।
* संवित्करः *
सदाचारनिष्ठ विशेषज्ञों का कथन है कि दोषभोगिता ही भगवान् का वात्सल्य है।
जैसे पिता अपने नालायक पुत्र के अपराधों को यह सोच कर सह लेता है कि मेरे
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १३१
ही पालन-पोषण एवं शिक्षा संस्कार देने में कमी रह गई, इसलिये यह बिगड़ गया
है; ठीक उसी भावना से जगत्पिता भगवान् भक्त के दोषों को सह लेते हैं, उसका
बहुत विचार नहीं करते या कभी-कभी तो उनके दोषों का दायित्व अपने ऊपर ले लेते
हैं। यही वात्सल्यसागर प्रभु श्रीराम की जनदोषभोगिता एवं वात्सल्यगुण है। जैसा कि
सनकादिकों के समक्ष भगवान् ने जय-विजय के दोषों को अपने द्वारा किया हुआ
अपराध माना है : 'तद्धीत्यात्मकृतं मन्ये’ (भा.पु.३.१६.४)। इसके साथ यह भी
समझना चाहिए कि जैसे गाय अपने मलिन बछड़े से घृणा नहीं करती, प्रत्युत उसके
विकारों को स्वयं चाट कर दूर करती है और स्वाभाविक अपनेपन के अतिरेक से द्रवित
हो दुग्धख्राव से उसका पोषण-पालन एवं पूर्ण सतर्कता से रक्षण भी करती है; वैसे
भगवान् अपने अनन्याश्रित भक्तों का।
* पदपरामर्शः *
पराम्बाया: श्रीरामवल्वभायाः पुरुषकाराख्यगुणविशेषं संसूच्य तया परिचारितचरण-
युगलस्य तज्जीवातुभूतस्य तद्धदयेश्वरस्य भगवतः श्रीसाकेतनाथस्यात्रितसङ्ग्रहणरक्षणो-
पयुक्तगुणेषु कन्दभूतमवतरणनीजं सलभ्यौतम्भकत्वेन सर्वातिशायितया वात्सल्यं
लक्षणमुखेन निरुच्य तस्य भगवदेकाश्रयत्वमाह बिभोरिति। जनदोषभोगिता वै
वात्सल्यमिष्टमभिमतम्। यज्ञो वै विष्णुः? (श.ब्रा. १. १. २. १३), पाङ्को वै
यज्ञः ' इत्यादिषु सामानाधिकरण्येन स्वरूपावधारकवाक्येषु बैनिपातेन लक्षणकथनस्य
शा्रक्रक्रतिसिद्धत्वात्। न केवलं भगवत्स्वभाववेदिनां वैष्णवानामेवेष्टमपितु तदेकाश्रयस्य
भगवतोऽपीति। इट्टशन्दस्याभिमतार्थत्वादेव विभोरित्यादौ छयुपपद्यते, क्तस्य च
वर्तमान इत्यनुशासनात्। अत्रापि वर्तमानत्वमविवक्षितं तस्य नित्यत्वेन देशकालाद्य-
परिच्छेदात्। जनानामाश्रितभक्तानां दोषाणां भोगिता अनादरेण तदुपेक्षणेन तदपसारणेन
वाऽऽश्रितस्वीक्रतित्वरेति। तत्स्वीकारेच्छायां दोषा न प्रतिबन्धकीभूता भवन्ति, तानुपेक्ष्य
भक्तानाश्लिष्यति वत्सान् वाश्रेव भगवाननुग्रहकातर्येणेति भावः। "विदितः सहि
धर्मात्मा शरणागतवत्सलः” (वा.रा.५. २१.२०) इत्युक्ताश्रितेष्वेव तत्रियमनान्न
सर्वविषयं तद्वात्सल्यामिति प्रतीयते, किन्तु तत्रैव 'रिगूणामपि वत्सल” (वा. रा. ६.५०.
५५) इत्युक्ते सर्वाविशेषेणेति लभ्यते। अत एवात्र जनशन्दः प्रयुक्तस्तस्य दुर्जन-
सज्जनेत्यादौ सामान्यतो दर्शनात्। सर्वभूतानामन्तर्यामितया मलिनेऽपि हृदये
नित्यमवस्थितत्वात्कथमीश्षरस्य ततो जुगुप्सा स्यादिति 'अङ्कष्ठमात्रः पुरुषों मध्ये
आत्मानि तिष्ठाति। ईशानो भूतभव्यस्य न ततो विजुगुष्सते' (क. २. १. १ २) इति
श्रुते। भगवदूगुणदर्णणे वात्सल्यमुपजीव्य पठिता इमे श्लोकाः -- 'आश्रितदोष भोक्तृत्वं
वात्सल्यामिति केचन। आश्रितागस्तिरस्कारबुद्धिवत्सिल्यामित्यापि।। सुस्निग्ध-
१३२ श्रीवेष्णवमताब्जभास्कर:
हृदयत्वं यद्दोषरीक्ष्यातिगं निजे। जने स्यात्तद्धि वात्सल्यं भक्ते प्राणस्य वै
हरेः।। ममतामोहसम्पको द्रढीयास्तनुजादिवृ। यत्पिच्छलमनस्कत्वं विदुर्वात्सल्य-
मुत्तयाः।। वत्सः स्नेहगुणस्थेमास्तद्वचा वत्सलो हारिः? इति। 'क्षमया प्रथिवी
समः” (वा.रा. १.१.१८) इति भगवत्युक्ताया क्षमायाः पराकाष्छँव वात्सल्यमतो
नान्तरीयकतया सा तु सुतरामेवोच्यते। स्थाने चकारः पूर्वोक्तार्थेन सह संवादीत्य-
व्यवहितवक्तव्यत्वाद्भगवतोऽपि वात्सल्यस्येति द्योतयति तत्सजातीयवस्तुगणसमाकलन-
व्यग्रतां च ध्वनयति। तथाविधवात्सल्यस्य नित्याश्रयमाह-विभोवात्सल्यमहार्णवस्योति
पदद्वयेन।
तत्रापि ग्रथ त्रियो विभुता संस्थाप्याव्यवधानेन भगवतोऽपि विशेषणद्वारेण तत्वमुच्यते
-- विभोरिति। सर्वगूर्तसंयोगिन इत्यर्थः, देशकालाद्यपरिच्छेदेन सर्वत्र स्फूर्तिमुत्त्वा
वात्सल्यानुगुणं सामर्थ्यमुक्त भवति, न ह्योकदेशी वत्सलोऽपि देशान्तरस्थजनदोषनिराकरणे
तदङ्गीकरणे तद्रक्षणे वा प्रभवेदिति तादृशस्य तद् न सर्वत्र सफलं भवति। नित्यज्ञानत्वेन
सर्वगतत्वेन च भगवतस्तत्सफल' भवति। न प्राकृतो जनो जीवस्य जन्ममरणजरादिदुः खं
विज्ञायापि परिहर्तु शक्नोति, न हि तुषतण्डुळवते दोषा: स्वाल्पश्रमेण शक्यपरिहारा
इति भावः। अत उक्तं -- 'स राक्षिता रक्षाति यो हि गर्भे? (भा. पु. ७. २.३८) इति।
'गुरवो दीनवत्सलाः ' इत्युक्तेः सत्वशुद्धेः सामर्थ्यस्य च परिमितत्वेन नित्यशुद्धः
स्यानन्तसामर्थ्यस्य भगवतक्च तदपरिमेयमित्याह -- वात्सल्यमहार्णवस्येति। महाणवि-
कथनेनाव्रितस्य सर्वेऽपि दोषास्तत्र निमग्ना भवन्तीति ध्वन्यते। वस्तुतोऽन्वर्थतश्च वात्सल्यं
भगवत्येव घटतेऽन्यत्र तत््रयोगस्तु तद्गुणलेशयोगाद्भाक्त एवेति पद्यपूर्वार्धस्य विवक्षितम्।
एवम्भूतवात्सल्यस्य भगवदेकाश्रयताया वक्तरि पामाण्यमुच्यते समुच्यत इत्याद्ुत्तराधेन।
अस्वतन््रकैर्भगवदधीनताप्रत्ययवद्धिः सदाचारपरायणैः शास्रविहित-कर्मतत्ररेवरिज्ञनितो
वयसा तपसा च वृद्धत्वच्छेषेनृभिरिति। इत्थं शाख्रवश्यत्वबुद्धया कर्मनिष्ठा तठावतिश्च
तया च वरत्वंगृत्कृष्टतया सर्वमान्यत्वमिति मिथो हेतुपरम्परा, तेन तदुच्यमानस्याविगीतत्वं
सूच्यते। परायणशन्दादेव नित्यावलम्बत्वप्रतीत्या विभोः सदा वात्सल्यमीद्वमभि-
मतमित्यर्थसिद्धये सदाशब्दस्य पूवा्धिऽन्वय उचितः। यथा लोके माता वात्सल्यात्पुत्र-
दोषात्रविगणय्य स्निह्यति तच्छरीरगतमलादिकमपसायोपेक्ष्य वाश्लिष्यति, तथैव भगवाञ्
शरणागतजीवांस्तद्गदोषोपेक्षया तान्निवार्य वा स्वीकर्तु व्यग्रो भवतीत्याशयः। सर्वदोष-
निराकरणस्य तदुषेक्षाया वा सामर्थ्यस्य भगवत्येव सत्ताद्वात्सल्यं तन्निष्छमेवेति भावः।
दयाऽन्यदुःखस्य निगद्यते बुधैरप्राकृतैस्तैरसहिष्णुता स्मृता ।
कृपामहाब्धेः समुदारकीर्तेर्विष्णोरचिन्त्याखिलवैभवस्य वै ।।१०८।।
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १३३
* संवित्करः *
दिव्य मनीषियों ने दीनजनों के दुःखों की असहिष्णुता (सहन न कर पाने) को
परमसमर्थ करुणासागर प्रभु की दया माना है। अत: आर्त्तजनों के कष्ट दूर करने हेतु
प्रभु दौड़ पड़ते है; जैसे ग्राहग्रस्त एवं असहाय गजेन्द्र की रक्षा के लिए भगवान् दौड़
पड़े थे। यह स्वार्थनिरपेक्ष एवं सर्वेश्वर प्रभु का स्वाभाविक दिव्य गुण है, जो उनके
स्वरूप के सर्वथा अनुरूप है।
* पदपरामर्शः *
'स्वाभाविकी ज्ञानबलक्रिया च” (थे. ६.८) इति श्रुत्या भगवत्कल्याणगुणानां
स्वाभाविकत्वोक्त्या७बाध्यत्वयुक्तमु, तेषु दिव्यगुणेषु सर्वापेक्षया भगवद्दयाया एव
साधनरहितेषु सद्योऽमोषफलसाधकत्वेनेदमित्यमित्याकारेण तल्लक्षण निश्चित्य, तस्या
अगवदेकन्रिष्ठत्व वक्ति -- दयेति। अप्राकृतैरन्यदुः खस्यासहिष्णुता विष्णोर्दया स्म्रतेति
बुधैर्निगद्यत इत्येवं मुख्याशयानुरूपपदयोजना। अत्रापि शा्रसिद्ध' बै इति लक्षणाकारं
बोधयितुं भिन्नक्रमेणावस्थितम्। अन्यदुः:खस्यासहिष्णुता तन्निराकरेणच्छा वै दयेति।
परदुः खस्यासहिष्णुतेत्यस्यान्तर्यामित्वेन सौहार्देन च सद्योद्रवच्चित्तृत्तितया समर्थतवात्
तत्रिवारणेच्छापारवश्यं बोध्यते; भक्तदुः खं न सहत इति भावः। अत्र दुःखनिराचिकीर्षा-
तिरिक्तप्रयोजनशून्यत्वमपि योज्यम्, अन्यथा प्रयोजनान्तरसिसाधिषया प्रवृत्तेष्वपि
दयाळुत्वमापद्येत। आप्तकामपूर्णत्वादिश्रुतिस्प्रतिशतैरिच्छाराहित्यं भगवतो गम्यते,
तथापि तत्राप्तकामशन्द एटटव्याभावमिच्छाराहित्यं वा न वदति, सर्वमिष्टं प्राप्तमेवेति
तत्तात्पर्यात्, पूर्णशन्दोऽपि गुणादिप्राचुर्यमभिधत्ते) भगवान् सर्वदा अप्रतिहतानन्याधी-
नेच्छावान् भवति, इष्टालाभजन्यं दुःखमपि बद्धस्यैव, नित्यानां मुक्तानामीश्वरस्य च
कदाचिदपीडालाभ एव नेति परदु:खदुःखित्वमिति न दयालक्षणम्। दुःखस्य
पापफलतयोक्वरे तत्यसक्तयभावात्, सङ्कल्पसिद्धस्य कार्यजातस्याबाधादुः खहेत्वप्रसकतेश्च।
'सोऽकामयत' (तै. २.६. ४) इति श्रौती कामना तु तत्र जायत एव। इत्यन्तेर्वाल्मीकि-
व्यासादिनामभिः प्रबितैखाकृतेरलौकिकै रामायणमहाभारतपुराणादिरचयितभिवेदवैदिक-
परिग्रहप्रकर्षादाप्ततमैरन्यदु:खासहिष्णुता दयारूपेण स्म्रता लक्षितेति बुधैरर्वाचीन-
मनीषिभिरपि तदुक्तरीत्या निगद्यते निश्चित्योच्यत इति।
'आतृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः
पुरुषर्षभम्’ (वा.रा. २. ३३. १ २) -- अत्रादिकविनोक्तेषु भगवतष्पड्गुणेष्वातृशंस्य-
मनुक्रोश इत्यनयो: प्रथमोपादानमन्यापेक्षयाभ्यहितत्वं सूचयति। परदुःखनिराचिकीर्षाऽल्प-
सत्त्जीवेषु न युज्यते इत्यत आह -- विष्णोरिति व्यापकस्य भगवतो रामस्येत्यर्थः।
लौकिकदयावतामपि भगवदधीनत्वात्सामर्थ्यतारतम्येनेतरबिहितयो; कृपावात्सल्ययो-
१३४ श्रीवेष्णवमताब्जभास्कर:
रप्यन्तर्यामेतया,प्रवर्तकत्वाद्धगवत्क्रतत्वमेव। इतरेषु दयासत्वेछपि किं तेन, सर्व्रोपलन्ध्य-
भावेन दयनीय यावन्न गतिः स्यात्तदर्थं दयाकर्तुव्याष्ति वदति -- विष्णोरिति।
विभुत्वेऽपि किं दयया, यदि तस्य दुःखनिराकरणसाधनसम्पतिर्न स्यादित्यत आह --
अचिन्त्याखिलवैभवस्य सकलेश्षर्यसम्पन्नस्येत्यर्थः, एतेनैश्वर्य प्रकाशितम्; ततः
प्रयोजनान्तरनिरपेक्षता सूचिता। किं व्यापकस्यापि दयारहितस्य समृद्धयेत्याह --
क़्पामहान्धोरिति, न केवलमयं कृपाळुरपितु नित्यापरिमेयक्रपाविशिष्टतया महासहृदय
इत्युक्तं भवति। महाक्रपान्धित्वेन दयनीयाश्रितदोषवक्तभिरक्षोभ्यं व्यञ्जितम् यथा
विभीषणशरणागतौ सुग्रीवादयुक्तमाकर्णयन्रपि भगवात्नि्रकम्प एव स्थितोऽन्ते तमनुजग्राहेति
असङ्गोऽनुसन्धेयः। दयान्धित्वादयामुखेनेव भगवतोऽपि यशोलाभ इति भगवन्तं विशिनणि
-- उदारकीर्वोरिति। दयाप्रयोगमूला तस्य सुकीर्तिरिति भावः। न हि कृपणस्य
समृद्धकोषोऽपि तद्यशसे भवति, वितरणरसिकस्येव तल्लाभात्। उदारा वदान्या कीर्तिर्यस्य,
तस्येति उदारो दाठूमहतोरिति कोषादुदारा दात्री कीर्ति्यस्येति चार्थ: स्वार्थनिरपेक्षप्रचुर-
दयाप्रयुक्तया दीनजनरक्षणपालनादितो लब्धस्य यशसोऽपि प्राचुर्यम्। श्रवणादिष्पेकतरस्य
समाश्रयणेनापि श्रवणादिकर्त्रे भगवत्स्वरूपज्ञानं तद्रतिञ्चोपलम्भयाति। न भगवत्येवापितु
तत्कीतावपि सकलाभीष्टफलप्रदत्वलक्षणमाँदार्यमिति लभ्यते। यथाऽन्यस्मौ
पुष्पाञ्जलिदानावसरे दातुरप्यञ्जलिना सौरभयोगोऽनिच्छयापि भवत्येव, तथैव
दयाकरस्योदारदयापरयुक्तथा तद्यश: फलत्वेनासाद्यत एवेति भाव:।
स्वीयप्रवृत्तेस्तु निवृत्तिरिष्टो न्यासोऽथ वेद्योऽपि बुधैः सदैव ।
ऐकान्तिकैस्तत्त्वविचारदश्ैः परात्मनिष्ठैः परमास्तिकैस्तैः ।।१०९।।
* संवित्करः *
भगवत्प्राप्ति के लिए शास्रपरोक्त भक्ति-आदि साधनों में उपायबुद्धि से प्रवृत्ति नहीं
करना ही न्यासविद्या (प्रपत्ति या शरणागति) है; जो तत्त्वविचारक भगवन्निष्ठ ऐकान्तिक
वैष्णवजनों द्वारा सर्वथा जानने योग्य है। अपने भरणपोषण के लिए प्रवृत्ति नहीं करना
मात्र ही न्यास नहीं है। इसमें, आत्मकल्याणार्थ कर्मयोग-ज्ञानयोग-भक्तियोग-जैसे
मुक्तिसाधनों में भी उपायबुद्धि का सर्वथा परित्यागकर, केवल भगवान् में ही सुस्थिर
उपायबुद्धि की जाती है। इस प्रकार अन्य अवलम्बन का त्यागकर “भगवान् मेरा रक्षण
अवश्य करेगें! -- इस महाविश्वास के साथ पूर्णतः भगवदाश्रित हो अपनी रक्षा की
याचना ही न्यास हैं। वस्तुत: प्रपत्ति के विशेष रहस्य को परमैकान्तिक वैष्णवाचार्य से
ही प्राप्त करना चाहिए।
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १३५
* पदपरामर्शः ॐ
भूतदयाया धमङ्गितया विहितत्वात्साधुजनलक्षणे दयाळुत्वादिनिवेशाच्च भगवतो
दयैव दयति तस्यास्तन्मात्रवरतित्वकथनमयुक्तम्, तदर्थ सर्वेश्वरस्य परदुः खासहिष्णुताख्य-
दयालक्षणे यत्प्रकारीभूत॑ स्वार्थनिरपेक्षत्वं निवेशितम्, तल्लक्षणलक्षिताया अपि दयायाः
सर्वसज्जनहृदयव्रतितया भगवत: को विशेषः 2 न हि तत्र दयासत्त्वमेव संसारसन्तरण-
हेतुः, तथात्वे तत्र दयाया नित्यत्वाद्युगपत्सवोँद्धारः स्यात्, न चेह क्वचिहुःखयोग:
श्रूयेत। किं भगवात्रिरपेक्षरक्षको भूत्वा साधनशून्यमपि रक्षति, स कथं सहृदयोऽप्यस्मित्र्थे
विमन्येत; अन्यथा किन्तस्य तादृश्यापि दयया? इत्थमाशङ्कय प्रोच्यते ~ "सर्वज्ञोऽपि
हि विश्वेशः सदा कारुणिकोऽपि सन्। संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते’
इति। भगवान्मां नूनं रक्षिष्यतीति गो्तृत्वेन महाविश्वासपूर्वकं स्वाभिप्रायनिवेदनेन
सहात्मात्मीयभरार्पणरूपात्मनिक्षेपमात्रेण ताटृशस्योपायान्तरशून्यस्याषि सकलेएसिद्धि-
भवतीति बोधयितुं न्यासाख्यस्य ब्रह्विद्याविशेषस्य बुधजनवेद्यत्वोक्तया लक्षणं प्रस्तौति
-- स्वीयप्रदृतेरिति। स्वीयप्रउत्तोनिश्ितिन्यास इष्ट इति भावः। न्यासः प्रपत्तिशशरणागति-
रित्यनर्थान्तरम्। निक्षिप्यासनं न्यासः, निक्षेपस्य कर्मणोऽवधेरुद्वेश्यस्य चापेक्षणात्
“सर्वधर्मान् परित्यज्य' इत्यवधिरुच्यते 'मामेकम्' इत्युट्रेश्यमू, प्रत्यासत्या जीवात्मनश्च
कर्मत्वम्। तदित्थं सर्वधयविधिको भगवदुददेश्यकः स्वात्मकर्मको निक्षेपो न्यास इति
फलाति।
भक्तिप्रपत्योरुदेश्यस्यैक्येऽपि भक्तेरपेक्षया न्यासस्य भगवाञ् श्रीराम एवोपायः
स्वप्राप्ताविति महाविश्वासपूर्वकं यदनन्योपायत्वं तदेव विशेषः। यथोक्तम्
'अहमस्म्यपराधानामालयोऽकिञ्चनो गतिः। त्वमेवोपायभूतो मे भवेति
प्रार्थनामातेः ।। अनन्यसाध्ये स्वा भौष्टे महाविश्वासपूर्वकम्। तदेकोपायता याच्या
प्रपत्तिशशरणागतिः' इत्युक्तभावनया गोप्तारं भगवन्तं अपित्सोरुपायान्तरनिवृत्या
भगवति निरपेक्षरक्षकत्वमनुसाहितं भवति। अत्र ग्रपद्यमानेन स्वस्य निरुपायत्वमेव
पुरस्कार्यम्, अन्ते च प्रपत्तौ तूपायबुद्धिरपि निवर्तनीया। तदेवात्र विशदयाति --
स्वीयप्रवृत्तेस्तु निवृत्तिरिति। नात्र सर्वव्यापारोपरामोऽ पेक्ष्यते, न हि कश्चिदपि
प्रपन्नोऽत्यन्तनिर्व्यापारो दृष्ट: श्रुतो वा। आतो भगवत्मवृत्तिविरोधिस्वप्रवततेर्निवृतिर्न तु
स्वीयसर्वप्रवृत्तिनिवृत्तिरिद्ठा। भगवळावृत्तिविरोधिस्वप्रवृततिश्च स्वरक्षणार्थ स्वातन्त्र्येण
स्वव्यापारपुरुवान्तराश्रयणं, दुस्सहापचारादिकं वा, अतस्तस्या निव्रतिरेव न्यासः प्रोच्यत
इति भावः। इत्थम्भूतो न्यासोऽपि साधनान्तरवद् बुधैः सदैव वेद्योऽस्तीति निरूप्यते --
श्रुतिप्रमाणकोऽयं न्यासः, “मुमुक्षुर्वै शरणमहं प्रपद्ये’ (े. ६. १८), तस्मादपि वध्यं
प्रपन्नं विरथं न प्रतियच्छन्तीत्यादिश्रुतेरपारकारुण्यजलधेरीश्वरस्य अपन्नसंरक्षणं लभ्यते,
१३६ श्रीवेष्णवमताब्जभास्कर:
अपदनविधिवाक्यान्तरमप्यनुस॒त्य भगवत्मपदनं रक्षणाय भवतीति बोध्यते। स्वतः सर्वज्ञेन
भगवता निखिलजगदुद्धरणाय अणीते पाञ्चरात्रशाख्रेऽस्व प्रतिपादनात्, 'सक्नदेव प्रपन्नाय’
इत्यत्राप्यभयप्राप्तिकामो मां प्रपद्येतेति वाक्यतात्पर्यस्य सिद्धत्वात्, अपत्तिसज्ज्ञक:
शीष्रलाभहेतुको निग्रमाद: स्वाभिमतफलोदयोऽयं न्यास इति सिद्धयति। “भक्ता
त्वनन्या शक्यः” (११.५४) इति गीताविरोधपरिहाराय न्यासविद्याया भक्तिविशेषत्वस्वीकारे
न क्षतिः, यत्र भक्तिरुपाय इति भक्तावृपायाधिया क्रियमाणा भक्तिरुपायभक्तिः; यत्र
भगवानेव स्वप्ाप्तावुपाय इति धीः सेव साध्यभक्तिरिति व्याख्यातुं शक्यत्वात्। भक्तिवञपत्तेरपि
ज्ञानविशेषतया “नान्यः पन्थाः विद्यतेऽ यनाय’ (धे. ६. १५) इति श्रुतेरविरोध:।
यथोपनिषत्रतिपदितासु ब्रह्मविद्यासु प्रत्येकपर्याप्त्या एकस्या अप्यनुष्छानं स्वातन्त्येण
भवति, तथैवायमपि त्रह्मपाप्तिरूपफल्ावाप्तौ क्षमत्वादभिमतफलसाधनाय भक्तियोगादि-
विद्यान्तरेन समुच्चीयते; अस्यापीतरानपेक्षत्वात्। याँ शरणागतिं विधाय भक्तिनिष्ठा
भक्तियोगमनुतिष्ठान्ति सा भक्तयङ्गभूता शरणागतिरतो भिन्नैव, या च मोक्षार्थ
स्वतन्त्रतयानुष्छीयते तत्र न कस्यापि समुच्चय इति भाव:। अनुष्छानसाम्येऽपि न्यासो
भगवत्माप्तिविरोधिपापनिर्णार्थ, भक्तिश्च भक्तिविरोधिषापनिर्कणार्थेति फलाभिसन्धिभेदान्मिथो
भिद्यते। अङ्गिप्रपत्तावुपायस्थाने भक्तिरेवोपदिश्यते। भक्तयापि भगवत्कृपैवोत्ताम्यते, सा
चाकिञ्चने प्रपन्ने स्वयमेवोपतिष्छते, अत्र भक्तिसाध्यां तामीश्वरस्वभाव एव निर्वर्तयतीति
विशेषः। न्यासविद्याया अपि भक्तिविशेषत्वात्कर्थं सा भिद्यते। तत्रोच्यते भक्तियोगस्य
यावज्जीवमहरहरसकृदावृततिभवति, न्यासस्य च जीवने सकृदनुष्ठानम्। भक्तियोगो
वणश्रिमधर्मानुष्ठानमपेक्षते न्यासस्तु न; अयन्तु भक्तियोगमपि नापेक्षते। मोक्षरूपं फलमुभयोः
समानमिति तत्कथं सरलं न्यासं व्हाय कठिने भक्तियोगे पवृतः स्यादिति कठिनत्वादगयर्थ्य
प्रसज्येत। यद्यपि भक्तेरसकृदनुष्ठेयतया वणाश्रिमधर्मसापेक्षत्वात्काठिन्यं न्यासस्य च
सक्रद्विधानरूपसौकर्य प्रतीयते, तथापि न्यासेऽ पेक्ष्यमाणमहाविश्षासोऽतिकठिनः, भक्तिस्तु
न तमपेक्षत इत्येकांशेन सरला। इत्थं न्यास एकतः सुकरोऽपरतो दुष्कर इत्युच्यते।
यद्यपि भक्तिन्यासयोर्निबिद्धत्यागादेः साम्यम्, नित्यनैमित्तिकयोर्विधानं काम्यकर्मणान्तु
स्वरूपत एव परित्यागो भवति। यद्यपि नित्यनैमित्तिकयोरुपायभक्तेरङ्गतया तयोरापि
परित्यागो युज्यते, तथापि विहितत्वाच्चाश्रमकर्मापीति सूत्रोक्तघा तदनुष्ठेयता।
'आुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्। रक्षिष्यतीति विश्वासो
गोपृत्ववरणन्तथा। आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः ' इत्यत्रात्मनिक्षेपोऽङ्गी
पञ्चाङ्गयुक्तो न्यास इति भावः। अत्र न्यासस्य भक्तया गतार्थतासूचकं तथ्यमाविष्कर्तुमार्त-
प्रपन्नस्य ग्रारन्धनाशोऽपि वर्ण्यते, परन्तु तत्र श्रुतिः प्रमाणमन्विष्यते; भागवते
भगवद्विरहार्तगोपिकाया सद्यो देहत्यागवर्णनात्तदर्थे प्रमाणं कुं शक्यते 'तमेव परमात्मानं
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १३७
जारबुद्धयापि सड़ता। जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः' (१०.२९.११)
इति। प्रारन्धे शरीरस्थितिरेव मानमत्र तदनन्यायाञ्चरमशरीरनाशेन प्रारन्धोउपि नष्ट इति
तड्टीकाकर्तरव्याख्यानाछभ्यते। इत्थयनन्यसाध्यस्वाधीएसाधन-सयर्थवशीकरणं न्यास इति
लक्षणं पर्यवसीयते। पूर्वाधिन न्यासलक्षणं तस्य बुधजनवेद्यताञ्च प्रकाण्योत्तरार्धेन तादृशान्
विद्याविशेषजिज्ञसून्रर्हतासूचकविशेषणौः परिगणयति ~ ऐकान्तिकैरित्यादि। एतेनास्य
ुर्वेदयत्वं सूचितम्। न्यासरहस्यावगतौ न केवल प्रशस्तबुद्धयौवालमपितु
न्यायादिशास्राभ्यासनिशितप्रज्ञयैव तदर्थाधिगम इत्याह -- तत्त्वविचारदक्षैरिति
आमाण्यकोटिमाटीकमानैस्तककर्कशपरीक्षणक्षमोरित्यर्थः। एतेन प्रगुणीक्ृतव्युत्पत्तिपाटवं
सूचितम्। न तादृशैरपि वेद्यः, गुरुवेदान्तवाक्येषु श्रद्धापेक्ष्यते, तदाह ~ परमास्तिकैः,
वेदादिशाखेषृ विशिष्य नारदपाञ्चरतराद्यागमेषुस्वाचार्यपरम्परायांगरमाण्यबुद्धि दधानोरितयर्थस्तेन
श्रद्धासम्पदुक्ता। तत्रापि श्रद्धानुगुणसदाचाररूपा परमात्मनि निष्ठापेक्ष्यते इत्यत आह
-- परमात्यनिष्ठैः, परमात्मनि भगवति श्रीरामे निष्ठानुरत्तिर्येषान्तैरित्यर्थ। एतेन
चित्तशुद्धिः प्रकाश्यते, भक्तावप्येक्षितमनन्यत्वमुच्यते ~ एऐकान्तिकैरिति;
अनन्यदेवताकैरनन्यप्रयोजनकैरनुरक्तभक्तैरिति। तादुशैरेव न्यासो यथावस्थिताकारेण वेद्यत
इति भाव:। अत्रत्योऽतिसूक्ष्मो विशेषो यथासम्प्रदायमेवानुसन्धेयः। अत उक्तं सूक्ष्मः
परमदुज्ञेय: सता धर्मः प्लवङ्गम' (वा.रा. ४.१८.१५) इति। अत्र न्यासस्य
स्वरूपानुपपत्तिलक्षणानुपपत्तिनुष्छानानुपपततिर्विध्युनुपपत्तिरित्यनुपपत्तिचतु्यं
निषेधैक्याशक्तयख्यातिसम्प्रदायविरोधादिभञ्जनं समाधानपूर्वकं विज्ञायैव यथार्थनोधः
सम्भव इति भावः।
सर्वे प्रपत्तरधिकारिणः सदा शक्ता अशक्ता पदयोर्जगत्प्रभोः ।
अपेक्ष्यते तत्र कुलं बलञ्च नो न चापि कालो न च शुद्धतापि वै ।११०।
* संवित्करः *
भगवान् श्रीरामजी की शरणागति में -- समर्थ हो या असमर्थ -- सभी का
अधिकार है; क्योंकि अत्यन्त कृपालु परमप्रभु श्रीराम की चरणशरण ग्रहण करने
में उत्तमकुल-विद्याधन-आदि का बल, उचित समय तथा किसी प्रकार शुद्धि-
आदि की अपेक्षा नहीं होती हे। अत: जीवमात्र भगवत्प्रपत्ति का अधिकारी है।
* पदपरामर्शः *
यथाशास्रं न्यासाख्यप्रपतिस्वरूपमुक्तवोपायान्तरापेक्षयाऽस्याः सुकरत्वमनुसन्धाय
प्रपितसुप्रवृत्तये प्रथयमधिकारित्वनिश्चयस्यावश्यकतया सामर्थ्या्युपेक्षयाऽर्थित्व-
मात्रस्यवाधिकारित्वमाह -- सर्व ड्रति। सर्वाविशेषेणेत्यर्थः। पुरुषेच्छाधीनप्रवृति्हि
१३८ श्रीवेष्णवमताब्जभास्कर:
पुरुषार्थो भवति यथा फल तदुपायो वा, शश्वदानन्दे भगवति कस्यार्थिता न स्यात्किन्तु
यथा ब्रह्मविद्यायामार्थित्वेऽपि संस्कारपरामशापिक्षयाच्छात्रकृतसामर्थ्याभावान्न
शूद्रस्याधिकारस्तथात्र न। इतिकर्तव्यतासु गवृतिर्विधिपराधीना भवति, अत्र तु वध्यं
प्रपन्नं न प्रतियच्छान्ति’ इत्यत्र जीवसामान्यमुदिश्य विधानान्न सामर्थ्यमपेक्ष्यते। अत
उक्तम् शक्ता अशक्ता इृति। अशक्तानामेवाधिकारित्वे शात्रकृतसामर्थ्यं दधानानां
तत्र प्रबृतिर्न स्यादिति शक्ताशक्तसामान्यस्याधिकारो निर्दिश्यते। अतश्च “सर्वलोक -
शरण्याय राघवाय महात्मने' (वा.रा. ६. १७. १७) इत्यादावापामरजीवराशिबोधकतया
प्रयुक्तं सर्वपदं सङ्गच्छते। रक्षापेक्षामेव प्रतीक्षमाणस्य पुरस्तात्माप्तिमात्रमपेक्षितं न
त्वर्चनस्तवादिकमपषीति बोध्यते। सर्केधिकारिण इति कथनेन “अपि शत्रुं परन्तप",
“स दुष्टोऽप्यदुष्टो वा! इत्युक्तचा निर्दोषत्वं न अपत्तौ हेतुरुक्तः। "मित्रभावेन
सम्प्राप्तं न त्यजेयं कथञ्जन’ (६.२८.३) इत्यत्रापि मित्रभावश्शरणागतत्वम्,
'विदितः स हि धर्मात्मा शरणागतवत्सलः? (वा.रा.५.२१.२०) इत्युपक्रम्य
“तेन मैत्री भवतु ते! (५.२१.२१) इत्युपसंहतेन तत्रैव परिसमाप्तिदर्शनात्। यद्वा
मित्रत्वात्सर्वस्य शरणं सुहृदित्यनुसन्धाय महाविश्वासेनेत्यर्थः। अत एव 'वर्धाहमापि
काकुत्स्थः कृपया पर्यपालयत्” (वा.रा.५.३८.३३) इति सङ्गच्छते।
आशालेशमात्रेणापि सम्ग्राप्तस्य, वास्तवमित्रत्वाभावेऽपि मित्रत्वाभिनयमात्रेणापि वा
सम्प्राप्तस्य सर्वदेशसर्वकालसवावस्थासु परित्यागानहित्वं विग्ृश्य ग्रपत्त सर्वाधिकारतोक्ता।
यद्वा; यथा सत्यवचनादो सर्वाधिकारः, वर्णाश्रमवेदवेदाङ्गप्रयुक्तादिनियमाभावेन येन
केनापि कर्तव्यत्वबोधनात्तथैव प्रपत्तावपीति लभ्यते। प्रपदनं हि आस्रीबालपण्डितमा-
बराह्मणश्षपाकं सुकरं शास्रीयञ्चेति विवक्षितम्, सामान्यशा्रस्याप्यत्र निरपवादत्वात्।
अत्रायं शास्रीयो विमर्शः -- "सकृदेवेति चरममन्त्रे चकारबलात्केचन वाक्यभेद
प्रकल्प्य व्याख्यान्ति -- सर्वभूतेभ्य इति चतुर्थी, पञ्चमीपक्षे तु कारकविभक्तिसम्भावनाया-
मुपपदविभक्तचाश्रयणममर्षणीयम्, भीत्रार्थानां भयहेतुरित्यनेन हेतौ पञ्चमीविधानात्तस्य
च व्यापारनिर्व्यापारसाधारणतया प्रधानक्रियानियतत्वाभावेन तस्या उपपदविभक्तित्वमेव,
किञ्च पञ्चमीपक्षे भीत्यर्थकपदानुपादानातदर्थस्याक्षेपादुपसर्जनान्वयरूपोऽपरो दोष:।
अतः केचन सर्वभूतेभ्य इति चतुर्थी व्याचक्षते, तेन अ्रपत्तेः सर्वाधिकारत्वं लभ्यते।
प्रपन्नाय ... सर्वभूतेभ्यः? इत्यत्रैकवचनबहुवचनयोः समानाधिकरण्यासम्भवाद्
गोबलीवर्दन्यायेन सर्वभूतेभ्य इत्यस्य अपन्नेतरविषयत्वन्तु नेष्ट, अपत्नेतरेषामभयप्रदानस्य
शास्रविरुद्धत्वात्। अतः प्रपत्रायाभयं ददामि तच्च सर्वभूतेभ्य इति वाक्यभेदः
सोढव्य: .प्रपत्रायाभयदान सिद्धं कृत्वा तदनुवादेन सर्वभूतेभ्य इति न केवलमनपकारिभ्यः
सुग्रीवविभीषणादिभ्यः, अपित्वाद्रापराधेभ्यो रावणजयन्तादिभ्योऽ पीत्युक्तं भवति। अत
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १३९
एव स्वयमुच्यते भगवता -- 'आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो
वा सुग्रीव यदि वा रावण: स्वयम्” (वा.रा. ६.१८.२१) इति। जगव्यभो:
श्रीरामस्य पदयो: प्रपत्तेः सर्वाधिकारत्वमेव विशदयति -- अपेक्ष्यते तत्रेत्यादिना।
जगठ्मभोरित्यनेन स्वेतरसर्वचेतनाचेतनातिरुपाधिकस्वामित्वमुच्यते, अभुपदेन चानितरचेतन-
प्रे यत्वं द्योत्यते। यथोक्तं ब्रह्मणा रामायणे तत्वं त्रयाणां हि लोकानामादिकर्चा
स्वयम््रभुः' (६. १ २०. २०) इति। पदयोरित्यस्य शुभाश्रययोरुपायतया कैङ्कयोददेश्यतया
च फलभूतयोरित्यर्थः, प्राप्यतया चरमावधित्वं द्योत्यते। निषेधार्थनिपातस्य त्रिःप्रयोगात्
साधनापरिहे महाभिसन्धिः प्रकाश्यते। कुलादिकस्य नामग्राहमेकैकस्य निषेधादेकस्या-
प्युपायभावेनाश्रये प्रपत्तेरसिद्धिध्वन्यते। भत्तयाद्यपेक्षया न्यासाख्ये विशेषं निर्देट्रमाह
-- तत्रोति। कुल पुण्यजन्यं सत्कुलप्रसूतत्वं नापेक्ष्यते। वंशशुद्धिराभिजात्यादिकमिति
कृलशब्देनान्येऽप्वर्थाः सन्निधाप्यन्ते 'आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम्।
निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम्” (मनु. ३.६५) इति। “नायमात्मा
बलहीनेन लभ्य:' (मु. ३. २.४) इति श्रुत्यापेक्ष्यमाणबलस्याप्यत्र नापेक्षेत्याह --
बलामिति। बलमत्र साधनं तदाश्रयणप्रयुक्तसम्पन्रताधीवा। शास्रेषु भगवत्याप्तौ
सदुपायतयोक्ता: कर्मज्ञानभक्तिशान्दवाच्याः, तत्पस्िहस्यात्यन्ताभावो लक्ष्यते। धनबलं
बाहुबल तपोबल सिद्धिबल' बुद्धिबलमित्यादेस्तत्रानुपयोगात् “प्रपन्नानां बलं हरिः '
इत्यर्थानुस्म॒त्या। यथोक्तं भागवते श्रीप्रह्लादेन “मन्ये धनाभिजनरूपतपः श्रुतौजस्तेजः
प्रभावबलपौरुषबुद्धियोगा:। नाराधनाय हि भवान्ति परस्य पुंसो भक्तया
तुतोष भगवान् गजयूथपाय” (७.९.९) इति, 'नालं द्विजत्वं देवत्वमृषित्वं
वासुरात्मजाः! प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञवा।। न दानं न तपो
नेज्या न शौच न व्रतानि च। प्रीयतेऽमलया भक्तया हरिन्यद् विडम्बनम्” इति
च (७.७.५१-५२)
दर्शपौर्णमासादिवत् तिथिनक्षत्रपक्षर्तुहायनादिकालनियमोऽत्र नास्तीत्याह ~ न
चापि काल ड्रति। यथा समर्थ कारुणिकमुदिधीर्षु विलोक्य पङ्कपतितः स्वोद्धाराय
न मुहूर्त प्रतीक्षते; सर्वत: प्रसृतदावाग्निमध्याददन्दह्ममानो जीवोऽग्रतसरोवरं प्रवेष्टु न
कालं शोधयति, तर्थैवात्यन्तभयावहसंसारातितीषुर्भगवत्ापदन इति भावः। सर्वदा
अपन्नसंरक्षणदीक्षितस्य प्रपत्तौ सार्वकालिकत्वात्कालविशेषप्रतीक्षणबिलम्बाभावं संसूच्य
यदेच्छा तदेव कर्तु शक्यतया सौकर्य ग्रकाशितम्। वस्तुतः कालशन्दो देशावस्थादे-
रप्युपलक्षणम्, तेन जातपुत्रः कृष्णकेशोऽग्नीनादधीतेतिवत् कृष्णकेशाद्यवस्थानियमाभावो
बोधित:। नात्र शुद्धतापेक्ष्यते, शुद्धता, शौचमित्यर्थः; अर्थाशुचिताभावाशुचितादि-
दोषसद्भावेऽपि प्रपततिर्न प्रतिबध्यते। न हि ज्ञानेन सदृशं पवित्रमिह विद्यते' (गी. ४. ३८)
१४० श्रीवैष्णवमताब्जभास्करः
इति ज्ञानयोग: शुचिता, अज्ञानञ्ञ पापयोगं वदति; “सर्वपापेभ्यो मोक्षयिष्यामि’
(गी. १८.६६) इति क्तुर्भगवतः समक्षं तस्य कियन्मूल्यमिति भाव:। इत्थं सर्वाधिकारायाः
प्रपत्तेरपि सार्वकालिकत्वं द्योतयितुमाह -- सदोति। अनुरूपमेवाह श्रीहनुमान्
भगवद्रामस्वभावनिरूपणे भागवते “न जन्म नूनं महतो न सौभर न वाङ् न
बुद्धिर्नाक्रतिस्तोषहेतुः। तैर्य्विष्टानपि नो वनौकसश्चकार सख्ये वत लक्ष्मणाग्रजः '
(५.१९.७) इति।
धर्मत्यागोऽपि परमैकान्तिकैरुच्यते वरैः ।
इत्थं हि कर्मणां त्यागः स्वरूपस्याखिलस्य च ।।१११।।
* संवित्करः *
कर्मजन्य स्वर्गादि फल का त्याग, फलसाधक होने से अपने कर्म के प्रति
ममता का त्याग तथा ईश्वर में कर्तृत्व का अनुसन्धान करते हुए अपने कर्तृत्व का
त्याग -- ये त्रिविध परित्याग ही वस्तुतः कर्म का स्वरूपतः शास्त्रीय त्याग है।
अत: मुमुक्षु वैष्णवों के द्वारा कर्तृत्वाभिमानत्यागपूर्वक कर्म एवं समस्त कर्मफलों
की वासना के त्याग को ही धर्मत्याग कहा गया है; क्योंकि भगवदाज्ञारूप होने से
शास्त्रविहित नित्य-नैमित्तिक-कर्म का परित्याग विवक्षित नहीं है।
* पदपरामर्शः *
तत्वहितावेदकतया मातापितृसहस्रेभ्योऽपि वत्सलतराणामुपनिषदां सारभूताया
गीताया अपि यत्रार्थे परिसमाप्तिः, यद्रहस्याविष्करणे प्रतिसम्प्रदायं स्वस्वो ठोक्षावशं-
वदानामाचार्याणा बद्धपरिकर इव सन्नाही दृश्यते, ग्रपत्तिसिद्धान्तस्योत्तम्भकत्वाद्
वैष्णवाचार्याणां जीवातुभूतमिव यद्धगवद्वचनम्, यत्र गुह्याद्गुद्वतमत्वाच्छास्र पर्यवसन्नम्,
तदस्ति “सर्वधर्मान् परित्यज्य’ (गी. १८.६६) इति शास्रसारोपलम्भकं पद्यम्।
तत्र पूर्वार्धस्य प्रथमपादे ल्यबन्तान्ते यच्छरणक्रजनात्पूर्वकालसम्पाद्यं समानकर्तूकं
सर्वधर्मकर्मकपरित्यजनमुक्तम्, तत्रेदं जिज्ञास्यं यनत्नाचरेद्यस्तु वेदोक्तं स्वयमज्ञोऽजितेन््रियः,
'विकर्मणा ह्यधर्मेण मृत्योगृत्युमुपैति सः (भा.पु. ११.३.४५) इति दुर्गतिप्रतिपादनेन
धर्मत्यागस्य निन्दितत्वात् “स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्’ (गी. २.४०)
इति परिगृहीतधर्मस्य भयनिवर्तकत्वेन प्रशंसनाच्च 'धर्मसंस्थापनार्थाय सम्भवामि
युगे युगे' (गी. ४.८) इति क्कुरपि यथोत्तिनूनँ किञ्चिरिगढाशयं निर्दिशाति। तद्भगवदभिप्रतं
किमिति यथासम्ग्रदार्य सिद्धान्तयति -- थर्षत्यागोऽपीति। यथा निरुपायत्वमेव,
रक्षिष्यतीति महाविश्वास एव च प्रपत्तावधिकारित्वाधायकं तत्त्वमितीत्थं प्रतिपादितं,
तथैव धर्मत्यागस्य विवेच्यतां सङ्कह्णाति। आपिना समानस्थलकत्वा्रसक्तिं सूचयति।
वरे: परमैकान्तिकैः कर्मणामखिलस्य स्वरूपस्य त्याग एव धर्मत्याग उच्यते इति
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १४१
पदान्वय:। परम एकान्तो७नन्यत्वयेषां तैर्भगवदायत्तजीवनैरित्यर्थ: येषाज्ञीवने
फलान्तरसङ्घरूपान्तरायोपहतिर्नास्ति तादृशै: सततं भगवन्तमेव ध्यायद्धिरत एव
वरे: सर्वथा श्रेष्छैरुच्यते, तेन तद्यथाथविधारणे प्रामाण्यमिति भाव:। अत्र सकलधर्मा-
धर्मरूपसर्वकर्मपरित्याग इति नेष्कर्म्याभिनिवेशिभिः शङ्कराचार्यैरुक्तम्, तदाशयमनुधा-
वद्विर्मधुसूदनप्रभ्नतिभिश्च कर्मणामन्यसापेक्षतया भगवदनुग्रहस्यान्यतिरपेक्षतया च तत्रानादरेण
कर्मभ्यो निवारणमेव धर्मपरित्यागतया विवेचितमिति।
वस्तुतोऽत्र सर्वधर्माणां य: परित्यागः कथितः स शास्त्रीयो न तु शाङ्कराचार्यप्रभ्रतिभि-
व्याख्यातो लोकसामान्य:। त्रयोऽपि कर्मज्ञानभक्तियोगा भगवत्राप्तिसाधनभूताः
विहितत्वादेषां भगवदाज्ञाधिया यथाधिकारं परिपालनन्तु तठ्ासादजनकं तदाराधानमेवेति
ये स्वरूपत एव तदाज्ञामुपेक्षन्ते ते तामसा इत्युक्तवा तादूशपरित्यागस्य निन्दनं
दृश्यते। अतो यथाधिकारं क्रियमाणेषु वैदिककर्मसु फलपरित्यागः, कर्मपरित्यागः
कर्तुत्वपरित्यागश्चेति त्रिविधत्याग एवात्र शास्त्रीय: परित्यागः। कर्मजन्यं फलं स्वर्गादिकमहं
न लभेयेति फलत्याग: यत्कर्म यदीयफलं साधयति तत्तस्य कर्म मन्यते, अतो
ममेदं कर्मेत्याकाराया: कर्मविषयिण्या ममतायाः परित्यागः कर्मपरित्यागः, परमहितैषी
भगवान् अन्तर्यामितया साम्थ्यादिप्रदानेन प्रेरणया च तदधीनेन मया कारयतीति स
एव वस्तुतः कर्चेत्यनुसन्धानेन स्वस्य कर्तृतापरित्यागः। आतो भगवान् पूर्वमेव
तरिविधं त्यागमुत्तवा फलादित्यागस्य सात्विकत्वमजीगणात्, किञ्च कर्मफलत्यागिनमेव
यथार्थत्यागिनं निरधारयत्। इत्यं क्रियमाणकर्मसु फलसङ्गकर्तृत्वाभिमानादित्याग एव
शास्त्रीय: परित्यागः, स एव चात्र विवक्षितः, देहधारणायापेक्ष्यमाणानामशनपानादीनां
कर्मणान्त्ववर्जनीयत्वमिति न तत्परित्यागः। यद्वा; भक्तियोगसिद्धये तदारम्भविरोधिपापाना-
मपरिमेयतया तदपेक्षया तत्यायश्चित्रूपधर्मा अपि दुरनुष्ठेया भवन्ति, अतस्तादृशान्
आयश्चित्तरूपधर्यान् परित्यज्य मामेकं ग्रपद्यस्व, अहं सर्वपापेभ्यो मोक्षयिष्यामीत्याशयः
फ़लति। अयमेव च कर्मणामखिलस्य स्वरूपस्य त्यागो धर्मत्यागत्वेन वैष्णवौर्निरूप्यत
इति भावः। यथोक्तं प्रपत्ती भक्तिवन्रास्ति तद्धमान्तिरङ्गता। इति बोधायितुं
तचत्यागोक्तिरिह युज्यते।। न चान्यानङ्गतामात्रादननुष्ठानसम्भवः। स्वतन्त्रविधि-
सिद्धत्वादन्यथातिप्रसङ्गतः ” इति।
अथोपायान्तराण्येव प्रवदन्ति मनीषिणः ।
विरोधीति प्रपत्तेस्तु सम्बन्धज्ञानकोविदाः ।।११२।।
* संवित्करः #
विद्वज्जनों का कहना है कि प्रपत्ति में किसी भी अन्य साधन का अनुष्ठान अन्धकार-
प्रकाश के समान परस्पर विरोधी है। अतः वे, मोक्ष के मुख्यसाधनभूत श्रीभगवान् के
१४२ श्रीवेष्णवमताब्जभास्कर:
अतिरिक्त, अन्य उपाय (ज्ञान-कर्म-भक्ति) का साधनबुद्धि से आश्रयणकर कल्याण की
कामना को शरणागति की सिद्धि में प्रतिबन्धक मानते हैं। महाविश्वास वाली प्रपत्ति एवं
उपायान्तर का अवलम्बन _ ये दोनों एक-साथ नहीं रह सकते हैं, इन उपायान्तरों
का आश्रय प्रपत्ति का विरोधी है।
* पदपरामर्शः ॐ
पूर्वोक्ता भगवदेकाश्रया तदवाप्तावमोघा प्रपत्तिनिरन्तराया समनुछितास्तु, माऽ भूदत्र
वैगुण्यसंसर्गलेशोऽपीति समपेक्षितसुदूढलक्षणसम्पुष्टयै निष्कम्पतावेक्षणोपयुक्तं तस्याः
स्वरूपनाशविरोधिवस्तुनिर्देशेन प्पन्नपात्रताभङ्गाद्वारयति ~ अथोपायान्तराण्येवेति।
अथ सम्बन्धज्ञानकोविदा मनीषिण उपायान्तराण्येव तु अपततर्विरोधीति .प्रवदन्तीति पदयोजना।
प्रपत्तौ स्वप्राप्तौ भगवानेवोपायः, अत्र तमतिरिच्य प्रपत्तावप्युपायधीर्नं भवति। तत्र
शास्त्रे यानि कर्मज्ञानभक्तियोगरूपाणि त्रीणि साधनानि मोक्षोपायत्वेन निर्दिष्टानि, तानि
अपत्यपेक्षयोपायान्तराण्युक्तानि, तान्येवात्र प्रपत्तेविरिधित्वेन.प्रपत्तिरहस्यज्चा विशिष्टाद्वैतिनो
निरूपयन्ति। उपायान्तराश्रयणमन्यधालाभवुद्धिं गोचरयति। साध्यातिरिक्त-साधनान्तरानपेक्षा
अपतिः कथमपि साधनान्तरयोगं न सहते, अनन्योपायनियतायास्तस्या अन्योपायबद्गत्या
सह विरोधस्य स्वाभाविकत्वात्। वस्तुतोऽत्रान्योपायाश्रयणं धगवानिरपेक्षरक्षक स एव म
उपाय इति व्यवसायस्य प्रकृत्यैव बिरोधि। पर्याप्त्या प्रपत्तिः केनापि सह साङ्कर्यं न
सहते परिपूर्णसाधनत्वादनन्याधीनत्वाच्च। नात्र साध्यसिद्धौ संशयः, न च शीघ्रसाधकत्वे
सुसम्पाद्यत्वे सौकर्ये वा सन्देह:। एवं साधनान्तराश्रयणं स्वरूपाद् ्रंशयति। यत्र
भगवानेवोपायस्तत्र तदतिरिच्यान्यस्य कस्यापि साधनबुद्धयाश्रयणं सर्वथानौचित्यात्,
सङ्कल्पप्रतीत्योर्भशेन स्वरूपप्रच्युतेश्च अनन्योपायत्वरूपं लक्षणमेव प्रतिबन्धातीति लभ्यते।
ताटृशविरुद्धस्वभावयोरेकत्र समावेशाभावात्सहानवस्थानरूपस्य विरोधस्य जागरूकत्वात्।
अत्रायमाशयः -- यदिप्रपत्रगता भक्ति: प्रपत्यविच्छेदस्य हेतुर्भवति, तदा तदनुप्रवेशेऽपि
न क्षति:, भक्तोर्हि केवलमुपायत्वमेव न, अपितु फलरूपतयोपेयत्वमपि। अतोऽत्रापि
ज्ञनपूर्त्या ह्यनन्योपायत्वं भक्तिपूर्त्या चानन्यप्रयोजनत्वं स्थिरीभवतीति भक्तिग्रार्थनामात्रेण
अ्रपन्नस्यानन्यताविरोधो न भवति, केवल तत्रोपायबुद्धिर्मा भूदिति भावः।
लोकसङग्रहणार्थन्तु श्रुतिचोदितकर्मणाम् ।
शेषभूतैरनुष्ठानं तत्कैङ्कर्यपरायणैः ।।११३।।
* संवित्करः *
सभी प्रकार से भगवत्सेवा में तत्पर प्रपन्न वैष्णवगण, उपायबुद्धि से नहीं अपितु
लोकसंग्रह की भावना से, श्रुतिविहित नित्य-नैमित्तिक-आदि कर्म का अनुष्ठान करते
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १४३
हैं; ताकि समाज को कर्मविमुख होने की प्रेरणा न मिले तथा विधि का लोप भी न
हो।
* पदपरामर्शः *
पूर्वोक्तरीत्या साधनबुद्धया शाख्रविहितस्यापि कर्मयोगादयनुष्ठानस्य परपतर्विरोधित्वाठापननः
सर्वथा तत्त्याग एवोचितस्तत्रोच्यते -- लोकसङ्ग्रहार्थीमिति। प्रपन्नेथगवनिप्ठेस्तेषां
नित्यनैमित्तिकादिकर्मणां शास्रबिहितत्वादनुष्ठानं लोकसङ्ग्रहार्थ क्रियते, न तु मोक्षोपाय-
तया। यथा “सर्वधर्मान् परित्यज्य’ इत्यत्र विहितकर्मणां फलासक्तिकर्तृत्वाद्यभिमान-
रहिततया विधानमपि तत्परित्याग एव मन्यते, तर्थैवात्राप्युपायबुद्भ्यानुष्ठानमेव
अपत्तिविरोधि न ठु लोकसङ्ग्रहार्थं विधानमपीति मत्वा ग्रपततिनिष्छैः श्रुतिविहितकर्माण्य-
नुष्छीयन्ते, लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुर्महसीति भगवदुक्तेः। शास्रविहित न
त्यजन्त्यपितु कुर्वन्तीति भावः। लोकसङ्ग्रहणार्थमित्यस्य लोकशिक्षणार्थमित्यर्थः,
ग्रह उपादाने धातोर्ञानाद्यर्थकत्वात्। लोकस्य यत्र श्रेष्ठत्वधीस्तमनुकरणीयं मत्वा
तदाचरणं स स्वशिक्षार्थमुपादचेऽतो विहितकर्मरहितं तमनुवर्तमानो लोकोऽपि कर्मश्रेशान्नाशं
न प्राणुयादिति लोको विहितं कर्माचरन्त तं विलोक्य शाखरप्राप्तं नियतं कर्म
करणीयमेवेति शिक्षामादाय कर्मानुष्ठानेन स्वकल्याणं कुर्यादित्यर्थम्। लोको हि
महापृरुषजनचोछितं विम॒श्य स्वकर्तव्यं निश्चिनोति, तदनुष्ठाने च प्रवर्तते, तस्य
गतानुगतिकत्वात्। अतः सत्यसङ्कल्प आप्तकामोऽपि भगवान् स्व॑ निदर्शयन्नाह --
न मे यार्थास्ति कर्चव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च
कर्मीणि।। यदि ह्यहं न वर्तेयं जातु कर्मण्यताद्वितः। मम वर्त्मानुवर्तन्ते मनुष्या
पार्थ सर्वश: ।। उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम्” (गी. ४. १०-११)
इति। अत्र श्रुतिचोदितकर्मणामित्यत्र कर्मणां श्रुतिचोदितोक्तेः श्रुतिस्म्रती ममैवाज्ञे
इत्यनुसन्धानेनानुछङ्कनीयत्वं सूचितं भवति। तत्कैङ्कर्यपरायणैस्तादृशकर्मणामनुष्ठानमित्यत्र
कर्तूकर्मणोः कृतीत्युभयत्र प्राप्ता ष्ठी उभयप्राप्तौ कर्मणीति नियमनात्कर्मणीति
शान्दिकव्यवस्था। तत्कैङ्कयपरायणत्वे हेतुमुपन्यस्यति शोषभूतैरिति। यथेष्टविनियोगा-
हत्वं शेषत्वमिति शोषमात्मानमनुसन्धाय शेषतैकरतिनिबन्धना या भगवत्किङ्करता तत्र
संलग्नत्वं तेषां सूच्यते, शेषः परार्थत्वादिति स्वरूपज्ञानप्रयुक्ता तत्कैङ्कयैकग्रयोजना
निष्ठा, तेन स्वरूपज्ञानं भगवत्सेवायां पर्यवस्यतीति लब्धं भवति, भगवत्किङ्करा एव
यथावस्थिताकारेण स्वात्मानं जानन्तीत्यर्थतो निश्चीयते भक्तेज्ञानपूर्वकत्वात्।
टिप्पणी - किसी-किसी प्रति में 'तन्न्यासाङ्गानुकूल्यादौ यस्य कस्य महात्मभिः।
शेषवृत्तिपरैहनि प्रपत्तेन्यूनता न हि' श्लोक अधिक है। इसका अर्थ है कि *आनुकूल्यस्य
सङ्कल्पः' इत्यादि श्लोकों के द्वारा प्रपत्ति के जिन अंगों का निर्देश किया गया है, उनमें
१४४ श्रीवेष्णवमताब्जभास्कर:
से किसी अंग की पूर्ति न होने पर प्रपत्ति में कमी नहीं आती। वस्तुतः वहाँ आत्मनिक्षेप
अंगी है तथा शेष आनुकूल्य का संकल्प आदि पाँच अंग हैं।
रामप्रसादहेतुर्हि न्यासोऽयं विनिगद्यते ।
नित्यसूरैः सदाचारैहरिपादाब्जमानसैः ।।११४।।
* संवित्करः *
यह न्यास प्रभु श्रीरामजी की प्रसन्नता का कारण बनता है, ऐसा सदाचारसम्पन्न
भगवच्चरणाश्रित महापुरुष कहते हैं।
* पदपरामर्शः *
भक्तिर्भवतु प्रपतिर्वा भगवत्यसादाद्वारेणैवेष्प्राप्तिभवतीति निश्चयात्पूर्वाचार्य:
“'भक्तिग्रपत्तिभ्यां प्रसन्नो भगवान् मुक्तिं ददाति’ इति सिद्धान्तितम्, “धातुप्रसादा-
न्माहिमानमात्मनः' (क. १.२.२०) इति श्रुते। तत्र "प्रीयतेऽमलया भक्तया’
(भा. पु. ७. ७.५ २) इत्यादिना भक्तेर्भगवत्ासादजनकत्वं प्रथितं किन्तु प्रपत््याख्यस्य
न्यासस्य तठ्ासादजनकत्वे सन्दिहानस्य संशीतिवारणायाह -- रामप्रसादहेठुरिति।
आप्रयाणादसकृदावृत्तभक्तिहेतुको रामप्रसाद: सकृदनुछितप्रपत्या कर्थं सिद्धयेत्;
अ्रयलवैषम्ये फलवैषम्यस्यौचित्यात्। हिर्निक्ष्ये; अयं न्यासो निश्चयेन रामप्रसादहेतुर्भवति।
रामशब्देन "रमन्ते योगिनो यस्मिन्” इति श्रुतिसिद्ध सच्चिदानन्दं परं ब्रह्म
ओच्यते। रामप्रसादशन्दोऽपि जीवक्रतकर्मजन्यक्चुद्रप्रसादव्यावर्तकः सन् सम्बन्िशन्दमहिम्ना
तळ्रसादेऽमोघत्वं नित्यत्वं निरतिशयत्वञ्च सूचयति, यव्यसादे चराचरात्मकमिदं
जगत्सत्ता स्फूर्ति सरसताञ्च धत्ते, 'यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजा’
(४.४.२१) इति रामायणोक्तेः अयं न्यासो रामप्रसादस्य नूनं हेतुरु्लासक उत्तम्भको
भवति। हेतुशब्दस्य कारणवाचकत्वे तससादे जन्यत्वमापद्योत, 'स च नित्यं प्रसन्नात्मा’
इति रामायणोक्तश्च विरुध्येत! 'बद्धाञ्जलिपुट दीनं याचन्तं शरणागतम्’ (६. १८. २७)
इति रामायणोक्तप्रपत्याकारानुरोधेन न्यासस्योपक्रमोऽपि भगवन्तं प्रसादयति किमुत
परिपाकः, "अञ्जालिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इत्युक्तेः। अयं निर्दु:खनित्य-
निरतिशयानन्दमनुभवत्वितीच्छा भगवत्प्रसादेनैव भवति, प्रसादविशेषेणैव निग्रहरूप-
काळुष्यस्य निश्शेषनिवरत्ति्भवति, उपायवैकल्ये फलम्रतिबन्धो निवार्यते। सूरिषु स्वभावत
एवावस्थितं यत्सौहार्द ताटृशप्रसादविशेषेणेव शरीरपातसमये ज्ञानपौष्कल्यादपरिच्छित्र-
प्रबोधस्य, अनाद्यनुवृत्तदुरत्यमायाकार्यापसारणेन स्थूलसूक्ष्मप्रकृतिपरित्यागेन देवपथेन
दिव्यदेशगमनं भवति, अपुनर्भवाय नाडीकोशभेदनक्रमेणाक्षरं भित्ता मृत्यु धिनतीत्याधुक्त-
प्रकारेण सूक्षमप्रक्रतिविमोक्षानन्तरं भगवत्ासादेनाविलम्बमनोरथपूर्तिभविति।
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १४५
अत्रार्थे न न कब्रिद्रद्धश्शरीरपातानन्तरभाविफलनिश्षये प्रमाणं भवितुर्महति। अनाद्यनेहसो-
5नेकप्रपत्रप्रपत्तिहेतुकभगवन्गुखोल्लास प्रपत्रजनानुभूतमोक्षानन्दं च साक्षात्क्ृतवतां परत्यक्षं
कुर्वाणानां नित्यसूरीणां वचनं प्रामाण्यं धत्त इत्यत आह -- नित्यश्ुरैः सदाचारे-
हरिपादान्जमानसैर्विनिगद्यत इति। सूरिशब्दार्थे शूरशन्द इति केचन, "तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः” (१.२२.२०) इत्यत्र सूरिपदोपन्यासात्। शूरा
विक्रान्ता विशेषेण विरजां क्रान्तास्ते मुक्ता, नित्याश्च ते शूरा, एतेन विजितदोषतया
संयम: प्रोक्त:। सन् शाख्रसत्कृत आचारो वर्तनं येषान्तैः, इति वृत्तमुक्तम्, हरिपादान्जे
अमरकट्न्धं नित्यसमास्वादनपरं मानसं येषान्तादृशः, एतेन द्रीतिरुक्ता। त्रिभिराषि
पदौर्विग्रहबलं प्रज्ञाबलं मनोबलञ्चोक्तं, शोर्येण भगवत्कैङ्कर्यपरत्वादसुरादिनिराकरण-
सामर्थ्याच्च प्रातिकूल्यवर्जनं सदाचारतया आनुकूल्यसङ्कल्पः, पादकमलानुरक्तयात्म-
निक्षेपश्च सूचितम्। विग्रहसाध्यं दास्यं, मन्त्रोच्चारणादिसापेक्षमर्चनं मनः साध्यन्तत्पाद-
कमलामोदास्वादनरूपमात्मनिवेदनञ्चेति यथायथं त्रिभिखितयं प्रकाश्यते। स्म्रतिपुराणादिषु
अपन्नैकान्तिकाकिञ्चनानन्यगतिशन्दैः अ्पततिनिष्ठाः ओच्यन्ते, प्रपत्या भगवळासादलाभोऽपि
तत्र तत्र वर्ण्यते, भगवांश्च प्रपत्नेऽतिमातरं प्रीणाति; 'साधवो हृद्यं मह्यं साधूनां
हृदयन्त्वहम्। मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि’ (भा. पु. ९.४.६८)
अत्र परमग्रेमास्पदत्वाद् हृदयशब्दं प्रयुज्योत्तरार्धेण तेषु प्रपततिनिष्ठा सूचिता। प्रपन्नः
खल्वकिञ्चनः, स॒ एव प्रेमास्पदतया वित्तं यस्येति भगवात्रकिञ्चनवित्तशन्देनोक्तः
'नमोऽकिञ्जनवित्ताय' इत्यादा। इत्थमेव प्रपन्नं प्रति वदान्यत्वमेवाह भगवतः
प्पन्रपारिजातेत्याख्या। प्रपत्रविषयकप्रसादं विना भगवत इयमुक्तिः कथं सङ्गच्छेत
यत्र तद्रिषविणी निरतिशयप्रीतिः प्रकाशिता -- 'ये दारागारयुत्राप्तान् प्राणान्
वित्तमिमं परम्। हित्वा मां शरणं याताः कर्थ तास्त्यक्तुमुत्सहे' (भा. पु. ९.४.६५)
इति। इत्थं तत्प्रीतिनान्तरीयकतया प्रसादं वदत्येव, प्रीत्यतिरेकादेव प्रपन्नं विलोक्य
भगवत्नेत्राभ्यामश्रुपातो वर्णित: -- 'यास्मिन् भगवतो नेत्रान््यपतन्नश्रुविन्दवः। कृपया
सम्परीतस्य प्रपन्नेऽपितिया भ्र॒म्” इति। इत्यं पूर्वोक्तविवेचनेन न्यासस्य भगवठसादं
प्रति हेतुता सुतरां सिद्धयति।
कृतप्रपत्तिस्मरणं प्रायश्चित्तमथोच्यते ।
परमाप्तैश्च तन्निष्ठेः कोविदैस्तैर्मुमुक्षुभिः । । ११५।।
* संवित्करः *
भगवत्रपन्न के जीवन में किसी प्रकार के अपचार या अन्य भावना से जन्य वैगुण्य
के आने पर उसके द्वारा कृत प्रपत्ति का एकाग्रचित्त से स्मरण करना ही प्रायश्चित्त
१४६ श्रीवैष्णवमताब्जभास्कर:
बताया गया है -- ऐसा तत्त्वज्ञ मुमुक्षु वैष्णवों का कथन है।
* पदपरामर्शः ॐ
प्रपत्ते्विरोधिनः स्वरूपं प्रपतत्भावठासादजनकत्वञ्च यथावन्निरूप्येदानीं तदुपायापाय-
सम्भवे कृत्यमनुशास्ति -- कृतप्रपत्तिस्मरणामिति। अथ न्यासस्वरूपादिनिरूपणात्परम्,
परमाप्तैरनन्यथावादिभिस्तन्निष्छेः प्रपत्तौ निष्ठावद्धि: कोविदैस्तद्रहस्यज्ैपमुक्ुभि:
संसारसागरमुततितीर्षृभिस्तेवैणवजनमान्यतया प्रसिद्धैः क्रतायास्तादृशप्रपत्रविहिताया:
अपतेन्यासविद्याया: स्मरणं पुनरनुसन्धानं आ’रयक्षितमपायसम्भववैगुण्यशोधकमुच्यते निर्दिश्यत
इति पर्यायगर्भपदान्वयः। अयमाशयः -- महापराधवर्गः अपत्तिमपि प्रतिबध्नाति,
यथार्थज्ञानवैकल्याद्भक्तेरभावाच्च ब्रह्मविद्वेषादयोऽपचारा जायन्ते, प्रपत्तावपि
ज्ञानपूर्वककृतापराधस्याचारलङ्कनरूपस्य भगवत्यीतिप्रतिबन्धकत्वं स्वीकार्यमेव। यथोक्त
स्वर्यं भगवता -- "प्रियोऽपि न प्रियोऽसौ मे मदाज्चाव्यतिवर्तनात्’ इति
निक्चितफलसिद्धावृणायापायसंप्लवराहित्यमपेक्षितं भवति। निषिद्धकाम्यकर्मपरिग्रहे तु
निष्छैव हीयते। तदर्थ प्रायश्चित्तं प्रतिपाद्यते ~ 'अपायसम्भवे सद्यः प्रायश्चितं
समाचरेत्। प्रायाश्चित्तिरियं सात्र यत्पुनश्शरणं ब्रजेत्।। प्रायश्चित्प्रसङ्गे तु
सर्वपापसमुद्भवे। मामेकां देवदेवस्य महिषी शरणं ब्रजेत्” इति। मेधिलीप्रणिपातेन
तठ्रसादात्सकलवैगुण्यवारणं भवति। यथोक्तं रामायणे 'ग्राणिपातप्रसन्ना वै मैथिली
जनकात्मजा' (५.५८.८९) इति। एवमर्थमनुसन्धाय प्रपन्नस्य प्रायश्चित्तान्तरं निषिध्य
कुतप्रपतिस्मरणमेव तथात्वेन विहितं न तु पुनः प्रपदनं तस्य तु सकृद्विधानात्।
पापेनैवानादिकालादारन्धेन मानसादिभेदेन जिविधेनेष्ट विहन्यते, तच्चाकृत्यकरण-
कृत्याकरणरूप सामान्यं भवतु, अचवतारादिषु प्राक्तत्वबुद्धयादिरूपं भगवदपचाराख्यं
भवतु भागवतापचाररूपं भगवद्धागवतद्वेषावज्ञापरिहासाद्यसह्मापचाररूपं वा भवतु
तत्तत्वतिरोधानं कर्मान्तरेऽनर्हतापादार्नं युनःपापारम्भे रुचिजननञ्च करोतीति
तत्कार्यानिवृतिस्तु भगवतः प्रसादविशेषरूपया क्षमयैव सम्भवति। अतः प्रपत्तेः स्मरणेन
सा साध्यत इति भाव;। यथोक्तं 'प्रपन्नमाधिकृत्यैव सदाचारानतिक्रमः।
प्रपत््यथ्यायपाठित; प्रातिसन्धीयताम्। । अज्ञानादथ वा ज्ञानादपराथेषु सत्स्वपि।
प्रायाश्चितं क्षमस्वेति प्रार्थनैकैव केवलम्। । प्रपत्तिप्रतिसन्धानमाप्तैर्यदुपादिश्यते।
तत्स्वाधिकारनियतहानोपादानासिद्धये। । प्रतिसन्धानतो हि स्यादधीपूर्वेष्चलपधीः ।
बुद्धिपूर्वेष्वापि पुनः प्रपत्तेरेव सङ्ग्रहः? इति।
उत्कृष्टवणेरपि वैष्णवैर्जनेर्निकृष्टवर्णः स॒ तदीयसेवने ।
तथानुसर्त्तव्य इतीष्यते बुधैः शास्त्रैविधिये विधिगोचरः परैः ।।१९६।।
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १४७
* संवित्करः *
जैसे उत्कृष्टवर्ण में समुत्पन्न वैष्णव विरक्तसन्त, इतरजाति में उत्पन्न वैष्णवसन्तों
द्वार समाज में सेवा-सत्कार के द्वारा समादृत पूजित होते हैं, ठीक उसीप्रकार
उत्कृष्टजाति के शरीर वाले वैष्णव विरक्तसन्तों के द्वारा भी इतरजातीय वैष्णव
विरक्तमहात्माओं का समुचित आदर व सम्मान किया जाना चाहिए; क्योंकि जिनमें
पूर्ण वैष्णवता (साधुता) प्रकट हो गई हो, ऐसे विरक्तसन्तो में पूर्वजाति का अनुसन्धान
कर उनका यथायोग्य आदर न करना अनुचित है।
* पदपरामर्शः *
अपत्यनन्तरं बुद्धिपर्वकक्रतापचाराणां कृते विहितं-आयश्चित्तस्वरूपमुत्तवाप्रायश्चित्तनिमित्ती-
भृतेष्वनेकविधापचारेषु जघन्यतया भागवतद्वेषावज्ञापरिहासादिजन्यो भागवतापचारो
मा भूदिति ततो वारणाय साधुजनेषु जात्याकारादितारतम्यस्यानादरेण भावर्सशुद्धया
च समुचिताचारं शिक्षयति -- उत्कृष्टवर्णैरयीति। विधिगोचरेः परश्शास्रेविधिये
तदीयसेवने उत्कृट्टवर्णैरपि बुधैवैषणवजनैनिक्रषवर्ण: स॒ तथानुसर्त्तव्य इतीष्यत इति
पदान्वयः। उत्कृष्टवर्ण्राह्मणादिभिर्निकृषटवर्णः शूद्रादिजातौ लब्धजन्मा वैष्णवो
कैष्णवाराधनविधौ नूनं प्रसादादिदानेन सेवनीय इति भावः। आपि तथेति पदाभ्यां
यथा निकृट्टवर्णवैष्णवै ब्राह्मणादिवैष्णवा: सादरमनुस्रियन्ते तथा तैरपीति लभ्यते।
एतेन परस्परं भावयन्तः श्रेयः परममवाप्स्यथेति श्लोकार्थः स्मारितः। तस्य भगवत
इमे तदीया वैष्णवास्तेषां सेवने सपर्याविधावित्यर्थः, तादृशे तदीयसेवने विहितत्वं
दर्शयाति -- परौर्वीधिगोचरैश्शास्रौरविधेय इति। 'मुक्तिर्भवाति न वोति
संशयोऽच्युतसेविनाम्। असंशय तु तद्धक्तपरिचरयारितात्मनाम्। स च पूज्यो
यथा ह्यहम्" इत्यादिभिः शास्रैर्विहित॑ सेवनं विधायकशास्रस्य 'पाञ्चरात्रस्य कृत्स्नस्य
वक्ता नारायणः स्वयम्” इत्युक्तया सर्वेकषररोक्ततवाच्छरा्रन्तराव्यामाण्यपारम्यं सूचयितुमेव
-- परौरित्युक्तम्। पुराणतिलके भागवते चानुष्ठेयभक्तिवर्णन एकादशएूजाधिष्ठानेषृ
वैष्णावसङ्ग्रहात्तस्य च वैष्णवे बन्धुसत्कृत्येति भगवदुक्तेर्वन्धुवत्सन्मानस्यादेशो दृश्यते।
जातिवाचकवर्णशन्दविशेषणाभ्यामुत्कषटनिकृष्टशन्दाभ्यां जातिक्रतोच्चावचभावसम्भावनाया
दुर्वारत्वं संसूच्य वैष्णवत्वव्याप्त्या प्रपत्तेः सर्वाधिकारत्वं द्योतितम्। 'यावतीवै देवता
ता वेदविदि ब्राह्मणे वसन्ति’ (तै.आ. २.१५), 'ब्राह्मणा मामकी तत्रः ' (स्क. पु. ७.
१. १०६. ९), ब्राह्मणो जन्मना श्रेयान्’ (भा. पु. १०.६८.५३), 'तस्माच्छूद्रो यज्ञे
नवक्लप्तः' (तै सं ७.१.१.६), 'निक्तिश्चाभिमानश्च जन्मतः शूद्रमाविशत्'
इति श्रुतिस्म्रतिसिद्धयुच्चावचमपि वैष्णवजनेषु नानुचिन्त्यमू; तत्र हि भगवत्साजात्यप्राप्त्या-
च्युतत्वं जायते। आराध्यगोत्रेण गोत्रवानसौ जात्याद्यपकर्षातुसन्धानेन न हेयताबुद्धिविषयः।
१४८ श्रीवैष्णवमतान्जभास्करः
यथोक्तं 'हादि रूपं मुखे नाम नैवेद्यमुदरे हरेः। पादोदकञ्च निर्माल्यं मस्तके
यस्य सोऽच्युतः” इति। पापहारिणो हरेयोगात्पापानि स्वत एव तत्र नोपसर्पन्ति,
'हरन्त्यघं तेऽ ङ्गसङ्गातव्वास्ते ह्यघाभिद्धारिः ' (भा.पु. ९.९.६) इत्युक्तः। जात्याद्यपकर्षो
भवतु वृत्तापकर्षो वा भागवताश्रयणाच्छुद्धो भवति। अत उक्तम् 'किरातहूणान्धपुलिन्द -
पुल्कसा आभीरकङ्का यवनाः खसादयः। येऽन्ये च पापा यदुयाश्रयाश्रयाः
शु्यान्ति तस्मै प्रभविष्णवे नमः” (भा. पु. २.४.१८) इति।
न केवलं भक्तिप्रपत््यो: परमशुद्धिहेतुत्वमपितु भक्तया भागवतर्संश्रयादापि
सम्भाषणादिलक्षणसम्बन्धेन, वैष्णवद्वारा स्वीकारेणापि तत्रादराधिक्यं बक्ति --
दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोग इति। यद्यापि दोष्कुल्यारम्भकं
पापं प्रारब्धमेव, तन्नाशमन्तरेण दुष्कुलत्वधूननं न सम्भवति, ्रारन्धस्य भोगेनैव
क्षयात्तथापि भगवदीयगुणसङ्क्रान्त्या भगवतीव तद्भक्तेष्वपि ्रारन्धं न तिष्ठतीति
केचित्। आरन्धभक्तिः प्राकृतोऽपि भक्तो भक्त एव भवति, 'उदारा सर्व एवैते'
(गी. ७. १८) इति भगवतोक्ते। तादृशेषु दुः खादिदर्शनात्करथं ग्रारन्धनाश इति नाशङ्कयम्;
तेषु भगवानेव प्रीत्या हितानुशासक: पितेव नियमयति, तत्रियमने कर्मजन्यत्वकथनस्य
अनोचित्यात्। धरुवस्य भगवता दत्तराज्यस्य तत्कृतयक्षवधादौ प्रारन्धफलयोगो नेति
केचनाशेरते। यथा चार्चाविग्रहेषूपादानचिन्तनं महते पापाय, तथैव वैष्णवेषु
जात्यादिवैकल्यनिमित्तोऽनादरो महापराध इति। तद्गतं वैष्णवत्वं सर्व प्रपुनातीति
कुल पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन” (स्क. पु. १. २.५५. १ ४०)
इत्यादिना पुराणादौ स्तूयते। आत एव नारदभक्तिसूत्रेपि तादूशभक्तानुदिश्य नास्ति तेषु
जातिविद्यारूपकुलधनक्रियादिभेद:, 'यतस्तदीयाः' (७३) इति प्रोक्तम्। अत एव
जातिभेदचिन्तकस्य दुर्गीतिरुच्यते -- 'यः शूद्रं भगवद्भक्तं निषादं श्वपचं तथा।
वीक्षते जातिसामान्यात्स याति नरकं नरः” इति। प्रह्मादस्तु भगवत्पादविमुखाद्
बराह्मणाद्भक्तं चाण्डालं श्रेष्ठ मनुते -- 'विग्राद् द्विवड्गुणयुतादरविन्दना भपादार-
विन्दविमुखाच्छ्वपच' वारिष्ठम्। मन्ये तदारपितमनोवचनेहितार्थप्राणं पुनाति स
कुल न तु भूरिमानः” (भा.पु. ७.९.१०) इति। भगवत्पादारविन्दनिविष्टसकल-
करणश्क्षपचः सर्व कुल पुनाति, विप्रस्तु भूरिमान इति स्वात्मानमपि न पुनाति। तस्य
भक्तिहीनस्य सर्वे ज्ञानशमदमशाचादयो गर्वाय जाता न तु शुद्धयै इति तत्रैवाशेरते
श्रीधरस्वामिनः। अतो भक्तिरेव तेषां सेव्यत्वे मुख्यप्रयोजिका। नहि कोऽपि भगवद्रि शतेबहि्शतः,
भगवता सह तस्य सांसिद्धिकसम्बन्धमवधायविकरे स्थितमपि रत्नमादरणीयमिति धिया
निकृष्टवर्णे लन्धजन्मापि वैष्णव: सेवनीय एव, तद्गता गुणाश्चानुसर्तव्याः भगवत इव
वैष्णवानामपि साख्राहित्वमेवोचितमिति भाव:। इत्थं रामभावस्यैव वैशद्यायाखिलभुवन-
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १४९
प्रथितस्तदुदारसमुद्घोषः -- जाति पाति पूछे नहि कोई। हारि को भजे सो हारि
का होई? लोकभाषायामपि समुपक्रान्त:।
अणुव्याप्तौ च भगवानणुषु त्वणुरुच्यते ।
पराकाष्ठापरैर्बिज्ञैर्मतविद्धिर्महात्मशभिः ।।१९७।।
* संवित्करः *
तत्त्वविद् वैष्णव महात्माओं ने अत्यन्त सूक्ष्म अणुरूप जीव में भी भगवट्ट्याप्ति
(अर्थात् उसमें प्रविष्ट होकर उसका नियमन करने के कारण भगवान्) को अणु से
भी अणु बताया हैं। प्रत्येक जीव भगवद्व्याप्त होने या भगवदात्मक होने से
भगवद्रूप है, इसलिए भी वह अनादरयोग्य नहीं है; फिर वैष्णव, उसमें भी विरक्त
सन्तों के अनादर का तो प्रश्न ही नहीं उठता है।
* पदपरामर्शः *
"मद्भक्तियुक्तो भुवनं पुनाति’ (भा. पु. ११.१४. २४) इति भगवदुक्तया भृवनपावनेषु
वैष्णवेष्वपि जात्याद्यपकर्षानुचिन्तनेन हीनताप्रयुक्तजुगुप्साप्रत्ययशूलो यो भागवतापराधो
भवति, तस्य मूलं सर्व श्रीरामात्मकामिति यथावस्थिताकारेण तीत्यभावः। तथा च
श्रुतिः 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्याति। सर्वभूतेषु चात्मानं ततो न
विजुगुप्सते” (ई. ६) इति। सर्वस्य ब्रह्मात्मकत्वेऽपि तेष्वास्ते ह्यघाभिद्धरिरित्युक्तया
वैष्णवानां भक्तिनिर्मले स्मृतिविशादीकृते मानसे भगवत्स्वरूपशक्तेभक्तिः स्मूर्त्या
स्वविभूतिवणनि 'प्रह्णादश्चास्मि दैत्यानाम्? (गी. १०.३०) इति दैत्यवंशजातस्यापि
तस्य स्वसामानाधिकरण्येन निर्देश उपपद्यते। तद्विभूते्नहिर्भूतत्वाभावादेव न केवलं
तथाविधस्य महाभागवतस्यु; अपितु ‘यस्यात्मा शरीरम्’ (ब. ३.७.२२), "अन्तःप्रविष्टः
शास्ता जनानां सर्वात्मा (तै.आ. ३. १ १) इति श्रुतिदर्शिताध्वना सूक्ष्मतोऽ प्यत्यन्त-
सूक्ष्येष्वापे जीवात्मसु तद्ग्याप्तिमुपपादयति अणुव्याप्ताविति। अणुषु जीवेषु
भगवतः स्वरूपतो गुणतो विभूतितश्च व्याप्तिः परिपूर्णता, अणुव्याप्तिस्तस्या-
मणुव्याप्ताविति। अत्र निमित्तात्कर्मयोगे इति सप्तमी, योगश्चात्रएथक्सिद्धसम्बन्धः।
नियमनफलिका नित्यव्याप्तिरिति फलति। उत्क्रान्त्यादिना 'एवोऽ णुरात्मा' (गुः ३. १.९)
इति श्रुत्या च सिद्धे जीवात्मनोऽणुत्वे, तेष्वणुष्वापि भगवानणुरणिष्छ उच्यते,
गुणतो निधरिणे सप्तमी तदपेक्षयाणुतरत्वाभावे तत्रियमनासग्थवात्तद्र्याप्तिबोध्यते --
'अणोरणीयान्महतो महीयान्" (8. ३. २०) इति श्रुतेः। तद्गयापत्येव सामानाधिकरण्यहेतुकं
सर्वशरीरत्वेन सर्वात्मकत्वम् 'ऐतदात्म्यामिदं सर्वम्” (छा. ९.८. ७) इति श्रुत्यभिप्रेतम्।
एतदनुरोधेनेव जीवत्रह्मणोः सामानाधिकरण्येन कृतो व्यापदेशः सङ्गच्छते, परमात्मैव
हि सर्वविशिष्ट: प्रतीत: अनन्तशक्तिसम्पन्रस्य करुणान्धेर्भगवतः -्ाप्यत्वप्रापकत्वादिवद्
१५० श्रीवेष्णवमताब्जभास्कर:
अणुविुद्रव्येष व्यापकत्वं वुक्तमिति तत्र बाह्यपरदेशसद्भावे विभुना तद्रस्तुव्याप्ति: सम्भवति,
आभ्यान्तखदेशसत्तवेऽ णुना तद्वस्त्वन्तर्व्याप्तिः सम्भवति। प्रवेशो हि स्पर्शवन्मूर्तदरव्येषु
शक्यः परमात्मनि तदभावात्तद्व्ाप्तिर्नं सम्भवतीति सम्बन्धमात्रस्य सम्भवात्तदुभयथा
व्याप्तिः फलति। तत्र हि स्वेतरसमस्तवस्त्वपेक्षयाऽ णुत्वं विभुत्वञ्च स्त एवेति भावः
अत्रार्थे श्रुत्यतिरिक्तं वकतप्रामाण्यमभिधत्ते पराकाष्ठापरैरित्यादिना। "पुरुषान्न
पर: काश्चित्सा काष्ठा सा परागतिः” (क. १.३.११) इत्युक्तया पराकाष्ठाशब्दोउप्र
परमपुरुषपरः। पुंवद्धावश्ष परया स्वाभाविक्या शक्ता आ समन्तात् सर्वत्र काशत
इत्यर्थविशेषलाभार्थ नेति। अथवा पुंवद्भावराहित एव लोके तदर्थप्रतिपत््या तत्र रूढ:।
भरक्तेक्षरमावधिं गतेर्विज्ञेमनीविभिः। महात्मभिः प्रशस्तशेमुषीकैर्मतविद्धिजीवाणुत्ववादस्य
वैष्णवमतस्य ज्ञातभिरुच्यत इति महात्मभिरित्यनेन बुद्धिवेशद्यम्, पराकाष्ठापरैरित्यनेन
दृढनिश्चयेन भगवत्पदकमलानुराग:, बिज्चैरित्यनेन बहुश्रुततया विवेचनसामर्थ्यम्,
मतविद्धिरित्यनेन विशिदटाद्वैतसिद्धान्तवेतरत्वं च प्रकाशितम्।
आत्मारामैस्तथोपायस्वरूपज्ञानिभिश्च तैः ।
मतज्ञैर्विरजापारं कैवल्यमिति मन्यते ।।११८।।
* संवित्करः #
सम्प्रदाय के रहस्यवेत्ता तथा मोक्ष के स्वरूप को जानने वाले आत्माराम
श्रीवैष्णव महापुरुष कैवल्य को प्रकृतिमण्डल की सीमा निर्धारित करने वाली
विरजा नामक नदी के उस पार बताते हैं। विचारणीय यह है कि यहाँ मोक्ष में कोई
तारतम्य स्वीकार नहीं किया गया है। इस 'कैवल्य' नामक मोक्ष की स्थिति
विरजापार होने से त्रिपाद्विभूति में है। क्या यह सम्प्रदायसम्मत श्रीरामभक्तों का
अभीष्ट सायुज्य मोक्ष है या कोई और? शुद्धजीवात्मस्वरूप को तत्त्वत: जानने एवं
प्राप्ति की कामना वालों को प्राप्त होने वाला कैवल्य, जिसे सम्प्रदायान्तर के
वैष्णव विद्वानों ने उपपादन करके खण्डित कर दिया है।
* पदपरामर्शः *
भगवद्र्याप्तानामणुरूपजीवानामपि सुक्रततारतम्येनोच्चावचविवेचनसम्भवाद्रुचिभेदाच्च
केषाञ्चन परिशुद्धात्मस्वरूपे, केषाञ्चिदेव श्रीभगवति समीहा भवति, तत्र शुद्धात्मस्वरूप-
कामनयाक्षरोपासनामनुतिष्छतां शरीरत्यागानन्तर सर्वकर्मविगुक्तया प्रक्रतिमण्डलमतीत्य
गताना भगवत्समानाकारपरिशुद्धात्मस्वरूपाधिगतिर्भवति यदवाप्य पुनरावृतिरन,
तत्तादृशेर्लभ्यमानं मोक्षमाह आत्मारामैरित्यादिना। कैवल्यामिति मन्यत इतिना
पूर्वोच्चारितस्य सञ्ज्ञात्वेन परिग्रहं कृत्वा व्यतिरिक्तमिव किमपीति सूच्यते। तत्तु
रमणत्यक्तपत्नीवत्स्यादित्यर्थः। यद्यपि मोक्षे तारतम्यं नेति पूर्व प्रतिज्ञातं तथाप्यत्र
चतुर्थप्रश्नोत्ते मुक्तिसाधननिरूपणम् १५१
मोक्षापरपर्यायस्य कैवल्यस्य स्वरूपकथनं, तदपि किं मुक्तिसाधनमिति प्रश्नसमाधिक्रमे
नूनं विचार्यतामहीति। कैवल्यं विरजापारमिति विरजायाः प्रक्रतिमण्डलावधिसूचिकाया
तदाख्यनद्या: समुत्तरणात्परं तदुत्तरतटमतिक्रम्यावाप्तमिति, एतेनार्चिरादिगत्या ,प्राप्तत्व
सूचितमिति मोक्षो निश्चीयते। किमिदं कैवल्यं सायुज्याख्यो भक्तिप्रपततिभ्यां प्राप्यो मोक्ष
उत ततो भिन्न: कश्चिदिति विविदिषा जायते। मन्य इत्यनुत्तवा मन्यत इत्यनेनान्यदीय-
पक्षोपस्थामिति शक्यते प्रतिपतुम्। तत्रापि मन्तृणां वैरिति सर्वनाम्ना निर्देशाद्
बुद्धिस्थपरामर्शकतया स्फुटादनिश्चय एव। आत्मारामैरित्यत्राप्यात्मशन्दस्य
जीवात्मपरमात्मनोर्वाचकतया जीवात्मनि परमात्मनि वा रमणशीलंरित्यनिश्चयः,
एवमेवोपायस्वरूपज्ञानस्य विविधमतज्ञानस्य च न निश्चायकत्वम्। केचन तु कैवल्यं
सायुज्याख्यं श्रीसीतानाथस्य साकेताख्यं दिव्यं धामेति निश्चिन्वन्ति। तदनुरोधेनात्मारामैरात्मा
परमात्मा श्रीजानकीनाथ एवाराम उपवनं विहारस्थल येषान्तैः, उपायस्वरूपज्ञानिभिः
उपायानां क्मवैराग्यज्ञानभक्तिपरमभक्तिप्रपत्यादीनां स्वरूपस्य लक्षणप्रमाणाभ्यामिद-
मित्थामिति निश्चितस्य स्वरूपस्य ज्ञानिभिरधिकारिभेदतदनुष्ानविधितदन्तराय-
तद्वारणोपायरहस्यज्ञैः मतज्ैः विशिष्टाद्वैतादिदर्शनानां मतानां सिद्धान्ततया ज्ञानवद्धि
विरजापार प्रकृते: परं कैवल्यमिति मन्यतेऽङ्गीक्रियत इति भावः। दृश्यते च महान्
विचारसर्म्मदोऽन्यत्र, मन्ये तदनुवादपरामिति मन्यत इत्युपपद्यते।
तत्र हि श्रीरामानुजीयमतानुयायिभिवेदान्तदेशिकम्र भृतिभिरन्यायसिद्धाञ्जनादो
गीतार्थसङ्ग्रहरामानुजभाष्यादिवचनबलेन कैवल्यमुत्याप्य प्रबलयुक्तिभिः सुधीर विम्रश्य
तस्य सम्प्रदायसिद्धत्वं सुदृढं प्रत्याख्यातम्। भगवदानन्दभाष्यकारमते मन्तृविशेषणे-
स्तदाग्रहप्रदर्शनात् कैवल्यमस्तीति गम्यते। अत एव “अति दुर्लभ कैवल्य परम
पद” (रा. च. मा. ७. ११९.२) इति तदनुयाविश्रीतुलसीदासेनाप्युक्तम्। तत्रत्यं विमर्श:
-- 'कैवल्यं भगवन्तञ्च मन्त्रे यं साधाविष्याति’ इत्यत्र चकारेण कैवल्यस्य
प॒थक्फलत्वेन निर्देशात्, 'आत्यार्थी चेत्रयोऽप्येते वत्कैवल्यस्य साधकाः? इति
गीतार्थसङ्ग्रहवाक्यात्कर्मयोगादिमात्रसाध्यस्य कैवल्यस्य सङ्ग्रहात्, ब्रह्मणो हि
प्रतिष्ठाहमम्रतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य'
(गी. १४.२७) इति भगवद्वचने चकार्रयेण कैवल्यैश्षयापवर्गरूपस्य फलत्रयस्य
सूचनालायोदशाध्यायारम्भ आत्मकंवल्यमात्ापेक्षाणामिति कैवल्यस्य भक्तिमात्रसाध्यत्वोकते्च
“आरतो जिज्चासुरथार्थी' (७. १६) इत्यत्र जिज्ञासुपदेनात्मावाप्तिरूप कैवल्येच्छुकत्वस्य
निश्चयाच्च कैवल्यमात्मानुभूतिरूपं फलं मोक्ष इत्युपपाद्य वस्तुतो न कैवल्यस्य मोक्षत्वम्;
भगवत्मा्तेरेव मुक्तित्वाभिधानात्। अत एव नार्चिरादिगतिस्तत्निष्ठस्य, कैवल्यं प्राप्तस्य
न सर्वकर्मविनिर्मुक्ति: सर्वकर्मविनिर्मुक्तात्मस्वरूपावाप्तिस्तु भगवत्याप्तिगमैव भवति,
१५२ श्रीवेष्णवमताब्जभास्कर:
'तेप्राजुवान्ति मामेव' (गी. १ २. ४) इति तत्रापि ब्रह्मप्राप्तिरेव फलं गीयते, एवकाराच्च।
वेदान्तदेशिकैस्तु प्रथमं कैवल्यमात्रानुभवः किञ्चत्कालं ततो ब्रह्माजुभवो७पीत्यभिप्रेत्य
कैवल्यान्तरकालिकफलत्वं साधितमित्यतोऽधिकं विज्ञेयं विद्रद्ध्य इति शम्।
जितेन्द्रियश्चात्मरतो बुधो सत्सुनिश्चितं नाम हरेरनुत्तमम् ।
अपारसंसारनिवारणक्षमं समुच्चरेद्वैदिकमाचरन् सदा ।।११९।।
* संवित्करः *
जितेन्द्रिय, भगवन्निष्ठ एवं सम्प्रदायविद् वैष्णवजन को, श्रुतिविहित नित्य-नैमित्तिकादि
शुभकर्मो का आचरण करते हुए, अपार जन्म-मरणादि-कर्मफल के प्रवाहरूप
संसारसागर से पार करवाने में सर्वथा समर्थ, शाखसिद्ध, अत्यन्त निरापद एवं मनोज्ञ
भगवन्नाम का निरन्तर उच्चारण करते रहना चाहिए। यह मुक्ति का सहज एवं सरल
साधन है।
* पदपरामर्शः *
तुरीयप्रश्नसमाध्यवसाने 'नातः परं कर्मनिबन्धक्रन्तनम्' इति सद्यो विमुक्तो
भगवान्नाम गुहत्नित्यादिभागवतोक्तप्रामाण्येन सर्वसाधनशून्यानामजामिलसदूशपतितानामपि
पावनकरस्य 'यस्य नाम महद्यशः” (यजु. ३२.३) इत्यादिमन्त्रमहितमहिम्नो
भगवनत्नाम्नोऽघनाशकतया सत््वशुद्धितत्वप्रकाशादिक्रमेण भगवत्रीत्युदयद्वारेण च
देशकालपात्रतादिनियमाद्यभावेन सर्वयुकरतयाऽ पामरलोकविदितं मोक्षसाधनत्वं संस्मृत्य
तत्र शब्दात्मना भगवानेवेति साध्यतादात्म्यमनुसन्धाय समुच्चारणविधया तत्सेवने
प्रवर्तयति -- जितेन््रियश्चेति। 'हरेनाम समुच्चरेत्’ इति श्लोकस्य विधेयांश:।
अत्र *रामाभिधानो हारिः इत्युवाच, 'रामाख्यमीशं हरिम्’ इत्युद्युक्तरीत्या
सवावितारित्वद्योतनाय हारिषदम्, तेन तन्राम्नोऽपि तद्गत्पापतापहारित्वं सूचितम्।
भगवतः सर्वेषां नाम्नामुत्तमत्वेऽपि तद्विशिनाडि -- अनुत्तमामिति। न विद्यात उत्तमं
यस्मात्तत्, तच्च रामनामैव उच्चारणसौकर्येण सुग्राह्यतवात्सर्वाधिकलोकप्रसिद्धत्वाच्छा्र-
निर्देशानुगुणत्वाव्मथमोपस्थितत्वाच्च। सञ्ज्ञा नाम यतो न लघीयः, ट्व्यक्षर चतुरक्षरं
कृतं कुर्यान्न तद्धितमिति शास्रानुरोधात्रारायणादेरमहत्वाद्रोविन्दगोपालादेस्त्यक्षरत्वाद्
विष्णुक्रष्णादेदव्यक्षरस्यापि संयोगगर्भतयोच्चारणे क्लिटत्वात्क्रष्णशन्दस्य च मत्वर्धडुका
निष्पन्नस्य तद्धितान्तत्वाद्रामनाम्न एव सर्वथानवद्यतयानुत्तमत्वं सिद्धयतीति भावः।
अत एव सहस्रनामतुल्यतोक्ता -- 'परमेश्वरनामानि सन्त्यनेकानि पार्वति।
परन्तु रामनामेद सर्वेषामुत्तमं मतम्’ (म.रा. ५०.१५) इति
नारायणादिनामानि कीर्तितानि सुबहून्यपि “आत्मा च तेषां सर्वेषां रामनाम
प्रकाशकः ' (म.रा.५ २.४०), सर्वेषां शब्दानां तद्वाचकत्वे श्रुतिसिद्धमनादि नामेदमेव।
चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् १५३
अत एव सुनिश्चितमिति पदं सड़च्छते। यस्य व्यस्ताक्षरस्यापि समुद्धारकत्वं पुराणसिद्धम्,
'एकाग्रमनसात्रैव मरोति जप सर्वदा” (अ. रा. २. ६.८ ०) इत्युक्ते। असत्सु पापिष्ठेष्वपि
समुद्धारकतया निश्चितं निर्णीतम् 'योगिनां प निर्णीत॑ हरेरनामानुकीर्तनम्' (२.१.११)
इति भागवतोक्तेः। यद्वा; अः वासुदेवस्तत्र प्राप्यबुद्धया सीदन्ति तिष्ठन्तीत्यसतस्तेषु
भगवन्रिष्ठेषु भक्तेषु निश्चितं साधनेषु परमवरेण्यतया सुटृढोपायतया निश्चयेन चितमिति
असत्युनिश्चितमिति नाम विशेषणम्। सर्वथा सफलमित्यर्थः। यद्वा; सत्यु लौकिकेषु
पदार्थेषु हरेनामवानुत्तमं सुनिश्चितमित्यप्यन्वयवैचित्र्या्भ्यते। हरेर्यत्रामानुत्त् सुनिश्चितं
तत्समुच्चरेदित्यन्वयः। नाम्नोऽप्रतिमं सामर्थ्यमाह -- अपारसंसारनिवारणक्षममिति।
अगस्त्य इव आविच्छिन्रकर्मप्रवाहरूपसंसारसिन्धुशोषणसमर्थीमिति। संसार इत्यनेना-
विच्छिन्रमूलतयानादिकालात्सम्पराप्तत्वेनागाधत्वम्, अपार इत्यनेन दुस्तरत्वञ्च लभ्यते,
दुर्निवारस्याप्यस्य निवारणे क्षममित्यतिलोकप्रभावो नाम्नो ध्वानितः। अत एवास्य
संसारतारकत्वादेव तारकत्वं, 'रामेति तारकं मन्त्रं तमेव विद्धि यार्वीति’ इति
महादेवोक्तेः। शुचित्वाद्यनपेक्षणात्सार्वकालिकत्वमुच्चारणस्याह ~ सदेति। सदा हरेनाम
समुच्चरोदिति भाव:। नामोच्चारणस्य सर्वजनसाधारण्येन विहितत्वादुत्कृष्टसाधकानां
सिद्धानां चात्र अवृतिर्न स्यादिति तादृशानप्यत्रानुशास्ति ~ जिवेद्भियश्चेति। जितेन्द्रियो
निग्हीतोभयकरण:, आत्मरतो, भगवति निरतो भगवत्यात्मानि रतं रतिरवाऽ स्येति
भगवत्प्रीतिमानित्यर्थः, बुधः पण्डितः सदसाद्विवेचनदक्षः। नामनिष्छाविवरद्धयेऽ पेक्षणीया
गुणा इमे, ते तदाश्रयनिर्देशेन प्रकाश्यन्ते, एतद्गुणसत्त्वे नाम्न: सकलोऽपि प्रभाव:
स्फुट लक्ष्यत इति भाव:। यो जितेत्रियः सन्रामाभ्यसेदचिरेण वासनाक्षये समाधिलाभं
कुर्यात्, यश्चात्मरतो भगवति वृत्तस्तस्योत्तरोत्तरं ग्रीतिपरिपाकः स्यात्, यश्च बुधः
शा्रज्ञस्तस्यापि यथार्थबोधोदयेन मुमुक्षत्वं सिद्धयेत्। यो वा वैदिकाचारनिष्ठस्तस्यापि
कर्यवैगुण्यनाशेन फलसिद्धया च सत्त्वोदय: स्यादिति। अत्र जितेद्भिय इत्यनेन कर्मयोगी,
बुध इत्यनेन ज्ञानयोगी, आत्मरत इत्यनेन भक्तियोगी निर्दिश्यते, तेन त्रिविधेरपि
योगिभिभगवन्नामाश्रयर्ण निष्रत्यूहतया लक्ष्यसिद्धये कर्तव्यमिति लब्धं भवति।
अपारसंसारनिवारणक्षमं नामाश्रयतां किं सन्ध्यादिना? तत्राह ~ वैदिकमाचरन्
सदेति। नामजापकेनापि यथाधिकारं दरप्तं वैदिकं कर्मानुष्ठेयमेव, वेदविहितं कर्मातुतिष्छन्नेव
नामोच्चरेत्र तु तद्विहाय, 'कुर्वत्नैवेह कर्माणि जिजीविषेच्छतं समा” (ई. २) इति
रत्या भक्तिसम्पततये विद्यङ्गभूतस्य नित्यनैमितिककर्मणो यावज्जीवमनुष्ठेयतायाः प्रतिपादनात्।
भ ३: ( इति चतुर्थप्रश्नोत्तरे मुक्तिसाधननिरूपणम् ) # ॐ
।। श्रीसीतारामार्पणमस्तु ।।
( अथ पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् )
एवं ते$भिहितं वत्स! प्रकृष्टं मुक्तिसाधनम् ।
उत्तमं सर्वधर्माणां शृणु धर्म सनातनम् ।। १२०।।
* संवित्करः #
हे वत्स! इस प्रकार, मैनें तुम्हें शरेष्ठ मुक्तिसाधन बताया। अब सभी धर्मा में
श्रेष्ठ सनातनधर्म का श्रवण करो।
* पदपरामर्शः *
प्रश्नान्तरसमाधानं विवक्षुरिदानी वात्सल्यगर्भप्रीतिमाविषछुर्वन्पूर्वप्रकरणमुपसंहरति
-- एवामिति। वत्स! एतेन गुरुकृपैकनिर्भीत्वं द्योत्यते। एवं पूर्वोक्तप्रकारेण ते तुभ्यं
प्रकृ मुक्तिसाधनम् अभिहितम्प्रोक्तं स्वरूपप्रकारविकल्पतद्योग्यतापादकसंस्कार-
तत्सम्बद्धविषयतत्तिबन्धकतत्रिरासोपायविवेचनसहङ्रतं सविधि साङ्गगुक्तम्। मुक्तिसाधने
प्रोक्ते प्रकृता तु यथा ज्ञानयोगेऽसहायताप्रत्यय: पतनभयं कर्मयोगे च विघ्नभयं
प्रत्यवायभयं तथात्र तन्न, त्युत भगवदाश्रयेण सर्वविधचिन्ताराहित्यं सौकर्यञ्चेति
विशेषः। इदानी भागवतधर्मश्रवणयोग्यता निश्चित्य सानुमोदं श्रवणे वर्तयति --
श्वाण्विति। सर्वधर्माणामुत्तवं सनातनं धर्म श्रृणु। सनातनं सना सदा भवं
देशकालापरिच्छित्रात्ववचिदप्यस्य व्याहतिर्नास्तीति भावः, शाख्रवश्येषु सर्वत्र सामान्येन
आप्ते:। धर्मे वेद एव परमं प्रमाणं, तस्य च नित्यत्वाद्धर्ममात्रस्यापि सनातनत्वं
सुतरां सिद्धम्। तत्रोत्तमानु्तमविचारो न युक्तः, 'वेदप्रतिषाद्यः प्रयोजनवदर्थो
धर्मः? इत्यर्थसङ्ग्रहे वल्क्षणात्: तथापि भागवतधर्माभिप्रायेण तस्योत्तमत्वकथनं
नायुक्तम्। तथाहि मन्वादिद्वारा वर्णाश्रमधर्म प्रकाश्य वेदस्येकायनशाखयोत्री-
तस्यातिरहस्यत्वाद्भगवता स्वमुखेनैव प्रोक्तत्वात्स्वलन्ध्युपायकथनपरो कैष्णवजनेः
सेव्यमानो वैष्णवधर्मतया प्रसिद्धो धर्म विवक्षितः, यक्ष भगवठासादजनकः समर्पणप्रधानो
निव्रतिपरैः समादृत ऋषिभिश्वानुमोदितः सद्यः पावनकरत्वात् परमपुरुषार्थसाधकत्वाच्चोत्तम
इति प्रोक्तः; "सद्यः पुनाति सद्धर्मो देव विश्वद्ुहोऽपि हि’ (११.२.१२) इति
भागवतोक्ते:।
दानं तपस्तीर्थनिषेवणं जपो न चास्त्यहिंसा सदृशं सुपुण्यकम् ।
हिंसामतस्तां परिवर्जयेज्जनः सुधर्मनिष्ठो दृढधर्मवृद्धये ।।१२१।।
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १५५
* संवित्करः *
दान-तपस्या-तीर्थसेवन-जप-आदि के पुण्य से भी श्रेष्ठ धर्म अहिंसा है। अतः
धर्मात्मा मनुष्य को अपने धर्म की वृद्धि के लिए हिंसा का सर्वथा परित्याग कर
देना चाहिए।
* पदपरामर्शः ४:
धर्मसामान्यापेक्षयाऽ स्याचारे सर्वस्य भगवदात्मकत्वात्करुणावत्तेश् ग्राधान्येनाहिंसा
विशिष्यते, अतो दानाद्यपेक्षयाहिंसापालने स्वाभिवेशं प्रदर्शयति -- दानामिति।
धर्मबुद्ध्या न्यायार्जितस्य धनस्य स्वस्वत्वनिवृततिपूर्वकपरस्वत्वोपादनरूपं दानं भवतु,
तपसा कल्मषं हन्तीति शास्रस्तुतं कृच्छ्रचान्द्रायणादिवैधक्लेशजनकं कर्मेतिलक्षणकं
तपो भवतु, तरति पापादिकं यस्मादिति व्युत्पत्यैव ग्रकटितवैभवं गङ्गादिपृण्यतीर्थीनिषेवनं
भवतु विधिना मन्त्रोच्चारणरूपो जपो वा भवतु, एतत्सर्वमप्यहिंसासदृ पुण्यं
नास्तीति सुधर्मनिष्ठो भगवत्मरीतिजनकधर्मविशेषाभिनिवेशी वैष्णावजनो दृढधर्मवृद्धये
भगवत्याप्तिविरोधिपापनिरसनाय सत्तवृद्धिहेतुकधर्मसम्पत्यै हिसा सर्वथा परिवर्जयेत्
परित्यजेदिति। सर्वविधहिंसापरित्यागस्यैवाहिंसारूपत्वात्, वर्तयति चात्र श्रुतिः “न
हिंस्यात्सर्वा भूतानि’ इति। दानेष्वभयदानस्य श्रेषटत्वात्सर्वभूदयायास्तीर्थरूपेण
स्मरणादहिंसायाः शारीरतपसि समावेशात्, भगवद्भावानुसन्धानसिद्धया जपरूपाच्चा-
हिंसायाः सर्वाकारतया प्रकर्ष इति भावः। 'कर्मणा मनसा वाचा सर्वभूतेषु
सर्वदा। अक्लेशजननं प्रोक्तमहिंसा त्विह योगिभिः ' (कू. पु. २. ११. १४) इति।
श्रयन्ति धर्मास्तु तया पृथक् स्थितान्सुवक्रगाः सिन्धुमिवापि निम्नगाः ।
काष्ठस्थवह्वेरिव घातको हरेश्वराचरस्थस्य च जन्तुहिंसकः ।।१२२।।
* संवित्करः #
जिस प्रकार कुटिल (टेढी) गमन करने वाली नदियाँ अन्ततः समुद्र का ही
आश्रय ग्रहण करती है, ठीक उसी प्रकार सभी धर्म अहिंसक पुरुष का ही आश्रय
ग्रहण करते हैं। जैसे लकड़ी में विद्यमान आग अदृश्यरूप से छिपी रहती है, वैसे
चराचर में भगवान्] अतः जीवहिंसा करने वाला उस जीव में विद्यमान प्रभु की
हिंसा करने-जैसा ही पाप करता है।
* पदपरामर्शः *
उत्कर्षायाहिंसाया: सर्वथानुष्ठेयतामुक्तवा तत्सेविनामनायासेन सर्वध्माश्रयणलाभं
निदर्शयन् भगवच्छरीरभूतजीवहिंसनेन भगवद्धननतुल्यदोषमाह -- श्रयन्तीति।
'यस्यास्ति भक्तिर्भगवत्याकिञ्चना सर्वे गुणास्तत्र समासते सुराः? (५.१८.१२)
१५६ श्रीवेष्णवमताब्जभास्कर:
इति भागवतोक्तिकत्तस्या हिंसायाः प॒थक् स्थितान् धर्मलोपभिया मनसाप्यसम्बद्धाञ्जनान्
धर्मा मत्रीकरुणामुदितादयो गुणा: समाश्रयन्ति, तेषां धर्मजन्यसत््वशुद्धिलाभः सुतरामेव
जायत इति भावः। पात्रतां विग्नश्यौभिरेव वयं साध्वनुष्ठिताः स्यामेत्याश्रयन्तीति वा।
तेषामनिच्छयापि धर्मलाभे दृष्टान्तमाह -- सुवक्रगाः सिन्धुमिवापि निम्नगा
इति। भूमेरुच्चावचतया कौटिल्यं धारयन्त्योऽपि निम्नगा गङ्गादिनद्यः सिन्धु सागरं
यथा श्रयन्ति ग्राणुवन्ति, तथा धर्मास्तादृशानहिंसात्रतिन इति। हिंसकाचु धर्मादयो5पि
विध्यतीति ध्वन्यते। अहिंसका एव प्राप्तान् धर्मान् यथावत्पात्रतोदयात्सेवितुर्महन्तीति
भावः। हिंसनशीलस्य पापिछत्वमाह -- अयन्न केवल प्राणिनो व्यापादयति,
अपितु तदन्व्यामितयावस्थितं हारिमपीति। जन्तुहिंसको जीवघातकः सकलचेतनाचेतना-
न्तर्यामिन: अकृत्यैव जीवपापतापहरणशीलस्य श्रीहरेरपि घातको मारकः। यद्यपि
जीवात्मपरमात्मनोनित्यत्वान्न तत्राशस्तथापि शरीरनाशान्म्रत इति लोकदृटिमनुञत्येत्थमुक्े-
यदनुग्रहेण जगद्रक्ष्यते, तद्रक्षकनाशरूपोपजीव्यविरोधबोध्यः पापातिशयो विवक्ष्यते।
अस्मादृशप्रत्यक्षाविषयस्य हरेहननकथनं कथं, कथं वा तस्य चराचरयोः स्थितिरिति
ृष्टान्तेन बोधयति -- काष्ठस्थवह्वेरिवेति। काष्ठस्पर्शेन तदर्शनेन वा न
दाहप्रतीतिस्तथापि तद्घर्षणात्तद्वतो वह्विराविर्भवतीति सर्वानुभवसिद्धम्, तथैवान्तर्यामि
अस्मादृशानां नयनागोचरोऽपि हरिश्चराचरान्तरवस्थितः सर्व नियमयति क््ववित्प्रीत्याति-
शयात््रत्यक्षमापि भवति। 'सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु
विभावसुवद्विभासि’ (४. ९. ७) इति भागवतोक्तेः काष्छवह्वयोद्रशन्तेनोभयोः सहभावेऽपि
सावरणानिरावरणरूपो भेदो द्योत्यते।
जलस्थलोत्पन्नशरीरिहिंसया विवर्जयेन्मांसमुदारधीः सदा ।
दयापरोऽधोगतिहेतुरूपया चिराय लभ्यं भवभीनिवृत्तये ।।१२३।।
* संवित्करः #
उदार बुद्धि वाले दयालु मनुष्य को चाहिए कि, संसारभय की निवृत्ति के लिए,
अधोगति नरकादि के कारणभूत, जल एवं स्थल में उत्पन्न सभी जीवों की हिंसा
को तत्क्षण ही त्याग दे।
* पदपरामर्शः *
हिंसका न केवलं बन्धनताडनवृत्तिनाशत्रासादिनैव जीवान् व्यथयन्त्यपितु केचन
पिशिताशना निर्दयं व्यापाद्य तन्मांसमपि भक्षयान्ति, केचन च पापीयांसस्ततोऽपि
जघन्या जिह्वालौल्याद्धमपिदेशेन देवबलिव्याजेन श्राद्धकर्मणि च पशून् विशसन्ति,
तेषु परमकारुणिक आचायों नरकसाधनाद्वत्योपलन्धमांससाधनक़त्यात्साग्रहं वारयति
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १५७
-- जलस्थलोत्पन्नशरीरिहिंसयोति। शास्रपर्यालोचनया विवेकपूर्वकं विशेषतो
वर्जयेत्परित्यजेदिति। सम्प्रत्यपि वादृशपापाचारे प्रवर्तमानश्चेदचिराय विवर्जयेत्, पुनश्च
केनापि कल्पितश्लोकसहकारेण प्रोरितोऽपि नैवं कुर्यादिति सदा विवर्जयेदिति। मांसपदं
तत्साधनककृत्यपरं तस्यानेकरूपतया न भक्षणादिपदोपादानं तेषामर्थत एव लाभात्।
अचिराय लभ्यस्यापि मांसस्य हिंसापूर्वकत्वमेवेत्याह -- जलस्थलोत्पन्नशरीरिहिंसयोति
जलोत्पन्नमत्स्यादीनां स्थलोत्पन्राजादीनां शरीराहिंसाऽ धोगतिहेतुरूपा नरकादिगमनकारण-
भूता भवतीति नरकयातनानन्तरमपि .प्राप्ताधोयोनिजन्मजनितभयवारणाय तया लभ्यं
मासं सर्वथा त्यजेदेव। दयापरः कारुणिक: उदारधीर्विशदमतिरिति। ‘अग्नीषोमात्मकं
जगत्" (बृ. जा.उ. २.४) इति श्रुत्यनुरोधेन लोके द्विविधा मनुष्या भवन्ति, हृदयप्रधाना
दयालवो बुद्धिप्रधानाश्च युक्तायुक्तविवेचनचतुराः। तत्र यदि परदुःखासहिष्णुत्वरूपया
करुणयैव हिंसामांसभक्षणादिकं त्यजति चेत्साधु यदि प्रकृत्यैव निछुरः स्यादा
शास्रोक्तं विचार्यं नरकपातादात्मानं वारयितुमेव किन्न स्यान्मांसं वर्जयेदिति भावः।
मांसशब्दस्य निर्वचनलम्यार्थ विचाया55स्तिकानां भीतिर्भवति -- तथाहि 'मां स
भक्षयितामुत्र यस्य मांसामिहाइयहम्। एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः '
(मनु.५.५५) इति। यद्यापि 'पशुना यजेत’ इत्यादिना श्रौते यागे तदालम्भनं
श्रूयते, “मा हिंस्यात्सर्वा भूतानि” इत्यस्य सामान्यशाख्रतया “अग्नीषोमीयं
पशुमालभेत” इत्यस्य विशेषतया विशेषकषेत्रपरित्यागेन सामान्यशाख्रवृत्या श्रौतयागे
न निषेध इति; तथापि साङ्कयतत्वको मुदीकारेण त्वत्र विहितत्वेऽ प्यनर्थजनकत्वन्तूक्तमेव।
अत एवोक्तं 'फलकामास्तु वेदोक्तैः पशोरालम्भनं मखे। पुनस्तत्तत्फलं भुक्तवा
ये कुर्वन्ति पतन्त्यधः” इति। श्रीमद्धागवतेऽपि नारदेन यागे पशुहिंसाफलं
साक्षादरितिमेवम् "भोः भोः प्रजापते राजन् पशुन् यश्य त्वयाध्वरे। सञ्ज्ञापिताञ्जीव-
सङ्कात्निर्घृणेन सहस्रशः ।। एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव। सम्परेत-
मय: कूटेश्छिन्दन्त्युत्थितमन्यवः' (४. २५. ७-८) इति। पशुशब्दस्य छागपरत्वात्तस्यापि
च बीजपरत्वं महाभारते लभ्यते 'अजेन यष्टव्यमिति प्राहुदेवा द्विजोत्तमान्। स
चच्छागोऽप्यजो ज्ञेयो नान्य: पशुरिति स्थितिः।। ऋषय ऊचुः - बीजैयज्ञेषु
यष्टव्यामिति वै वैदिकी श्रुतिः। अजसन्ज्ञानि बीजानि छागं नो हन्तुर्महथ।।
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः? (१२. ३४५. ६) इति। इत्थं यागादावपि
मांसनिषेध:।
श्राद्धे तु नारदेन तन्निषेधः कृतो भागवते -- “न दद्यादामिषं श्राद्धे न चाद्या-
द्वमतित््वावित्। मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया’ (७.१५.६) इति।
कलौ ठु विशेषेण तन्निषेधो निर्णयसिन्धूक्ताद्रम्यते -- "अश्वालम्भं गवालम्भं
१५८ श्रीवैष्णवमताब्जभास्करः
सन्न्यास पलपैतकम्। देवराच्च सुतोत्यत्तिं कलौ पञ्च विवर्जयेत्” इति। देवीपृजनादावपि
स्वयं देव्या महादेवं प्रत्युक्तया तन्निषेधो बोध्यते -- 'पशून् हत्वा तथा त्वां मां
योऽ चॅन्मांसश्ोणितैः। तावत्तन्नरके वासो यावच्चन्द्रदिवाकरौ।। मानवो यः
परत्रेह तर्चुमिच्छेत्सदाशिव। सर्वविष्णुमयत्वेन न कुर्यात्माणिनां वधम्” इति।
श्रीमद्धागवतेऽपि पञ्चमस्कन्धे नरकवर्णन एवमेव लभ्यते -- यै त्विह वै दाम्भिका
दम्भयज्ञेषु पशून् विशसन्ति तानमु्ष्मिँोके वैशसे नरके पतितान् निरयपतयो
यातयित्वा विशान्ति’ (५.२६.२५) इति। मांसभक्षकस्य नरकवास: शास्रे वर्णित:
'लोभात्स्व भक्षणार्थाय जीविनं हान्ति यो नरः। मज्जाकुण्डे वसेत्सोऽपि तद्धोजी
वर्षलक्षकम्” इति।
न स्त्रियं परिगृह्णीयाद्विरक्तो वैष्णवः क्वचित् ।
मन्वादिस्मृतिशास्त्रेषु तन्निषेधस्य शासनात् ।।१२४।।
* संवित्करः ४
विरक्त वैष्णव को कभी भी दारपणिग्रह (विवाह/स्रीसेवन) नहीं करना चाहिए,
मनुस्मृति आदि धर्मग्रन्थो में इसका स्पष्ट एवं नितान्त निषेध किया गया है।
* पदपरामर्शः *
अहिंसाधर्म यथावत्निरूप्येदानी विरक्तपौण्कल्पान्नैष्ठिकवैष्णवस्य परिगरहनिषेध॑ सुदृढम्
अनुशास्ति न स्रियं परिगुह्णीयादिति। यथा माताग्नेश्शिश्युं वारयति तथा
वात्सल्याच्छाख्रमुखेनात्र विरक्तेभ्यो हितानुशासनं करोतीति बोध्यते; लक्ष्यसिद्धौ
विषयवैतृष्ण्यस्यात्यन्तापेक्षणात्। 'वदिच्छन्तो ब्रह्मचर्यं चरात्ति’ (गी.८. ११) इति
स्मृत्या ज्ञानस्य भगवत्कैङ्कर्यस्य चानिवार्यपरिकरभूतं वैराग्यं सकलानार्थभूतरागनिव्ृत्यैव
चारितार्थ्यं बिभर्ति; नान्यथा। परमात्मव्यतिरिक्तेभ्यः स्वेभ्यो वैराग्यस्यापवर्ग प्रत्यन्वय-
व्यतिरेकानुविधायित्वेनातितरां भजनोपकारकतया च प्राधान्यम्। कोषात्पस्िहशन्दस्या-
नेकार्थकत्वेऽपि यावदपेक्षितवस्तुनोऽतिरिक्तपस्िहस्य निषेधात्तत्रापि स्रीपर््रिहस्यातिमात्रं
बन्धकारितया तत्रैव निषेधः पर्यवसन्नः; क्वचित्कदापि। यथोक्तं भागवते “न तथास्य
भवेन्मोहो बन्धश्चान्यप्रसङ्गतः। योवित्सङ्गाद्यथा पुंसो यथा तत्साङ्गिसङ्गतः '
(३.३ १. ३५) इति। सङ्गस्तु इदं मे स्यादित्याकारिका विषयोन्युखधीः। परिपूर्वकग्रहधातो-
दरिक्रियायामपि दर्शनाद्विवहेदित्यर्थस्तथापि न केवल विवाहनिषेधोऽपितु यथाकथञ्चिदपि
तद्ग्रहणे निषेधस्य विवक्षितत्वाचादृगधातुग्रहणं, 'खियो हि नरकाग्नीनामिन्धनं
चारु दारुणम्” (१०) इत्युपक्रम्य 'स्त्रियं त्यक्तवा जगत््यक्तं जगत्त्यक्तवा सुखी
भवेत्’ (१४) इत्यन्तेन याज्ञवल्क्योपरिषदुक्तेन लभ्यार्थो बोधितः। भागवतेऽपि
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १५९
तदपारिग्राह्मत्वयेवं कथितं “सङ्घ न कुर्या्रमदासु जातु योगस्य पार परमारुरुक्षुः।
मत्सेवया प्रतिलब्धात्मभावो वदन्ति या निरयद्वारमस्य।। योपयाति शनैर्माया
योषिद्देवविनिर्मिता। तामीक्षेतात्मनो मृत्यु तृणैः कृपमिवाद्वतम्' (३.३१.३९-
४०) इति। तत्परि्रहस्य सर्वार्थविनाशकत्वं सौभरिवचनात्सिद्धं 'अहो इमं पश्यत
मे विनाशं तपस्विनः सच्चारितव्रवस्य। अन्तर्जले वारिचरप्रसङ्गात्प्रच्यावितं
ब्रह्म चिरं धृतं यत्’ (भा.पु. ९.६.५०) इति। अतो विरक्तानां श्रीवेष्णवसन्यासिनां
न स्पृशेद्दारवीमपीति स्रीपरिग्रहस्यात्यान्तिको निषेधः, तादृशपरिग्रहस्य निषेधकं
धर्मशास्रं हेतुत्वेनोपन्यस्यति -- मन्वादिस्म्रतिश्ा्रेषु तन्निषेधस्य शासनादिति।
यद्वै किञ्च मनुरवदत्तद्धेषजामिति श्रवणात्, 'मन्वर्थविपरीता ठु या स्मरतिः सा न
शस्यते” (गृ स्प. २९.१६) इत्युक्तेश् ग्राधान्यान्मनुस्म्रतेः प्रथमं स्मरणमादिशन्दादत्रि-
दक्षस्मुत्यादीनां सङ्ग्रहः! यद्यपि मुख्यशास्रत्वं तु वेदस्यैव, तथापि वेदाविरोधेन
विधिनिषेधशासकत्वादेवेषां शास्रत्वम्। अत आचार्योऽपि शा्रसुलभाकारेणैव निषेधति
-- न परिंगुह्वीयादिति।
विवाहे तु कृते स स्यादारूढपतितो श्रुवम् ।
आरूढपतितस्यार्थे प्रायश्चित्तं न विद्यते ।। १२५।।
* संवित्करः #
यदि विरक्त वैष्णव विवाह करता है, तो वह आरूढपतित माना जाता है। उस
पाप की निवृत्ति के लिए शास्त्रों में कोई प्रायश्चित्त नहीं है।
* पदपरामर्शः *
यदि कश्चिद्विरक्तो कै्णवो धृत्यभावात्निवृत्तिधर्म परित्यज्य विवाहं कुर्यात्तथापि
तस्य कृतविवाहस्य कलङ्कयोगो दुर्निवार्योऽग्रायश्चित्तीयतया दुर्गतिश्च नूनामिति तस्य
लोकवेदोभयभ्रष्टतामाह -- विवाहे तु कृत इति। प्रथमं मुमुक्षुतया निव्ृतिपथमारुह्ण
ततः परिश्रय अत्तो पतित इत्यारूढपतितो नियमतो मन्यते। तादृशानाम् ‘आश्रमादाश्रमं
गच्छेत् (भा.पु. ११.१७.३८) इति स्मृत्या पूर्व गृहस्थाश्रमे मनोनिग्रहमभ्यस्य
तदनु यथाक्रममारोहस्यौचित्यात्, 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ (जा.उ.५)
इत्यस्यानुसारमुत्कटवैराग्यं विनैव स्वीकृतनिव्रतितो अ्ंशस्यातितरामयुक्तत्वात्। अत
एव शास्रेऽपि 'वान्ताशी निरपत्रपः” इत्यादिना तन्निन्दा लभ्यते। स्वसामर्थ्यमविगणय्य
लोकपूज्यताकामनया श्मशानवैराग्येन वा यथाकथिज्चदारूढोऽनिर्वाहाद् वृक्षात्पतितः
कपिरिव म॒त्युभिया युद्धाददेहरक्षायै पलायितः सैनिक इव वा लोक उपहासपात्रं भवति।
वैराग्याभावे पूर्वमेव विवाह: कथन्न कृत: 2 इत्येवमुपहासास्पदस्यापि न केवलं पातित्यमपितु
१६० श्रीवेष्णवमताब्जभास्कर:
न पुनस्तस्य तावतापि समुद्धारसम्भव:; अप्रायश्चित्ती यत्वात्। श्रूयते हि
ब्रह्महत्यादीनामुत्कटपापानामपि प्रायश्चित्तं किन्तु तत्राप्येवंविधस्य न प्रायश्चित्तमित्याह
प्रायाश्चित्तं न विद्यत ड्रति। यदीयप्रगाढप्रश्लिपापशोधने, तत्परिच्छेदने वा
नियामकमपि शास्रमसमर्थम्, यश्च जघन्य इति मत्वा शास्रेणापि स्वानुशासनाहूरं
अक्षिप्तस्तं रौरवादिनरकनिमज्जनात्को वारयेदिति भावः। अयमेवाघपापयो-रर्थक्तो विशेषः,
जनाः पान्त्यस्मादात्मानमिति पापं किन्तु इदमेवाघस्याषत्वं यद्धोग विना प्रायक्चित्तेनापि
न हन्यत इति।
प्रच्युतो नैष्ठिकाद्धर्मादात्महापि प्रकीर्तितः ।
मठाध्यक्षत्वदीक्षादौ बहिष्कार्यः स यत्नतः ।।१२६।।
* संवित्करः *
इस प्रकार, जो विरक्त वैष्णवधर्म से पतित (च्युत) हो गया, वह आत्मघाती
कहलाता है; क्योंकि उसने आत्मकल्याण के लिये स्वीकृत विरक्तधर्म का त्याग
किया। अतः ऐसे व्यक्ति को मठाध्यक्ष-महान्त-आदि पद से एवं दीक्षादि कार्य से
सद्य: बाहर कर देना चाहिए!
* पदपरामर्शः *
प्रायश्चिचाविषयत्वेन पातित्यं निरूप्य तादृशस्य सर्वथा स्वरूपात्रच्युतस्य लोकप्राप्ता-
धिकाराद् बहिष्कृतिगाह -- प्रच्युत ड्रति। आत्मशब्दस्य धतिबुद्धिस्वभावनत्रह्मद्यर्थे
प्रयोगदर्शनादनेन क्षृतेर्बुद्धेः स्वभावस्य च नाश: कृत इत्यात्महा, ब्रह्मशब्दस्य
तेज:परत्वाद् ब्रह्मणो नाशोऽपि कृत:। यथोक्तं सौभरिणा 'प्रच्यावित॑ ब्रह्म चिर धृतं
यत्” (भा. पु. ९.६.५०) इति। यथा दाहकत्वाभावेऽग्नेः स्वरूपनिरूपकधर्मो नटः;
वतिमत््वस्य धर्मत्वोक्तेः, तथायमपि नेछिकाद्धर्मारच्युत इत्यात्महेत्युच्यते। अतः
स्वरूपमाश्रितोऽधिकारः सुतरामेव नष्ट इत्यत आह -- मठाध्यक्षत्वेति। मठाध्यक्षत्वे
दीक्षादौ च न विनियोक्तव्यः, यदि पुनर्दीक्षा गृहीत्वा विरक्तजनसमवाये, प्रविविक्षेत्,
नामरूपादिकं परिवर्त्य छद्मना दवेष्टुमिच्छेत्तदा विज्ञातः सन् बहिष्कार्यः बलप्रयोगेणापीति
यत्नत इत्यनेन लभ्यते। अपिशब्देन साम्प्रदायिकवैष्णवाराधनादिकृत्येषु स कीदृशमपि
कैड्डर्य नहिति, संलापादिसामान्यव्यवहारयोग्योऽपि नास्तीति धिया न ग्राह्म: किमुत
प्किप्रवेशादाविति भाव:। तादृरापतितेन सह सहासनोपवेशसम्भाषणकर्तुरपि प्रायक्षित्त
कार्य स्यात्।
व्यासेन ब्रह्मविद्यातो बहिष्कारोऽस्य सूचितः ।
शिष्टा यज्ञादिकार्य्येषु वर्जयन्ति तथाविधम् ।।१२७।।
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १६१
* संवित्करः *
भगवान् वेदव्यास ने भी उस आरूढपतित को ब्रह्मविद्या प्राप्ति के अधिकार से
बहिष्कृत किया है तथा शिष्टजन भी यज्ञादि कार्यो में उसे स्थान नहीं देते।
* पदपरामर्शः *
तादृशस्य साम्प्रदायिकबहिव्कारमुक्तवेदानी शाख्रे शास्रीये यागादौ चानधिक्ृततया
ततो बहिष्कृतिमभिधत्ते -- व्यासेनोति। आरूढपतितत्वादेवास्यार्थित्वसत््वेऽपि
ब्रह्मविद्यायामधिकाराभावं संसूच्य शाख्रपर्युदस्तत्वात्ततो बहिष्कारो निर्दिष्टः, यञ्च
ब्रह्वसूत्रस्यापशुद्राधिकरणे महता विस्तरेण विवेचितः। व्यासेन, येन वेदार्थबुबोधियिषया
कारुण्यान्महाभारतादि रचितम्, तेनापि 'व्यासो कृपणवत्सलः ' (भा. पु. १.४. २४)
इत्युक्तेः। मास्तु ब्रह्मविद्याधिकारो यथाधिकारं यज्ञादौ दूरसेवां कोऽ पनेष्यति, तत्राह
-- तथाविधा जना यज्ञादिकार्येष्वपि दूरत एव वर्जनीया वैगुण्यभीत्या न क्वचिदपि
कर्मणि विनियोज्याः। शिष्ट वेदप्रामाण्याभ्युपगन्तार:, प्रमाणभूता आचारनिषछाक्च राह्मण
विवक्षिताः। यथोक्तं महाभाष्ये 'एतस्मिन्नायावर्चे निवासिनो ये ब्राह्मणा कुम्भीधान्या
अलोलुपा अग॒ह्वमाणकरणा किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारङ्गतास्वत्र
भवन्तः शिष्टाः (६.३.१०९) इति। न तादृशस्य ज्ञानाधिकारो न वा कर्माधिकारः,
येन ज्ञानपूर्वककर्मानुछानजन्यपुण्यद्वारा पापं नाशयेदिति भावः।
विरक्तैवैष्णवैस्तस्मादारूढपतितो न हि ।
व्यवहारेषु योक्तव्यः तत्संसर्गोऽपि पापकृत् ।।१२८।।
* संवित्करः #
इसीलिए विरक्त वैष्णवों को चाहिए कि उस आरूढपतित व्यक्ति के साथ
सहभोजन-सम्भाषणादि जैसा कोई व्यवहार नहीं रक्खे; क्योंकि पतित का संसर्ग
भी पापजनक ही होता है।
* पदपरामर्शः *
इत्थं लोकवेदबहिव्कारेण गर्हितस्य कारुणिकैर्वैष्णवैरप्यस्वीकारमाह -- तादृशः
सर्वबहिष्कृतो वेष्णवेर्बाह्मव्यवहारेछपि न नीयते, किमुतान्तरङ्गसेवायाम्, तेन सह
भोजनसम्भावणादिव्यवहारे का हानिरित्यत्राह ~ वत्ससर्गोऽपि पापकदिति।
संसर्गजानि पापानि तेन सह व्यवहर्तुरापि स्युरिति भिया कथमपि सम्बन्धो न स्थाप्य
इति भावः; 'ग्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” (स्क.पृ. ६.३२.३७)
इत्युक्ते। एवमारूढपतितस्य सर्वाविधबहिष्कार्यतां दुर्गतिञ्च निरूप्याच्युतगोत्रीयो वैष्णवो
विवाहं कृत्वा कथमप्यात्मपातं न कुर्यादिति कठोरादेश आचार्यस्य।
१६२ श्रीवेष्णवमताब्जभास्कर:
समर्प्य कर्माणि शुभानि वैष्णवो रामाय भक्ष्यं च निवेद्य भक्षयेत् ।
अहर्दिवं वीतभयं समुत्तमं विमुक्तधीः स्वाघनिवृत्तिकामनः ।।१२९।।
* संवित्करः #
पूर्णतः पापनिवृत्ति एवं मोक्ष की कामना रखने वाले वैष्णवों को चाहिए कि
अपने सभी शुभ कर्मों को प्रभु श्रीरामजी के श्रीचरणों में समर्पित करता जाए तथा
भगवान् श्रीराम को नैवेद्य अर्पित करके भगवत्प्रसाद ही ग्रहण करे।
* पदपरामर्शः *
*राज्यं चाहं च रामस्य” (वा. रा. २.८२. १६) इति श्रीभरतोक्तयात्मा भवत्वात्मीयं
वा सर्वमपि भगवते समर्षणीयमिति समर्पणप्रधानेऽस्मिन् वैष्णवधर्मे तदर्पणबुद्धया
क्रियमाणकर्मणामपि न बन्धनकारित्वं तत्कुरुष्व मदर्षणम्' (९.२७) इत्युक्रम्य
“मोक्ष्यसे कर्मबन्धनैः? (९.२८) इति गीतोक्तेः, आत इत्थमर्पणमेव भक्तानां
तत्प्रसादाद्धीतिनिवर्तकं सिद्धयतीति; तच्छिक्षयति ~ समर्ष्योति। कर्मफलाद्विमुक्ताय
विमुक्तये धीर्यस्य, यद्वा विमुक्ता असङ्कचिता धीर्यस्योदारमना:, स्वस्याघाना' निवृत्तौ
कामना समीहा यस्य, निजपापविनाशनेच्छुर्वेष्णवो विष्णुदेवताको भक्त: शुभानि कर्माणि
रामाय भगवते समर्प्यं समुत्तममुत्तमोत्तमं भक्ष्यं भोज्यं तस्मै भगवते अहरदिवं प्रत्यहं
निवेद्य समर्प्यं वीतभयं निश्चिन्त भक्षयेद् भुञ्जीत। वीतभयमिति क्रियाविशेषणम्।
अहानि च दिवा चेति द्वन्द्रे चातुरोति निपातनादहरदिवं प्रत्यहमित्यर्थः। शुभकर्मसमर्पणं
नाम भगवत एव कमारिध्यत्वं कर्तृत्वं भोकतत्वञ्चेति बुद्धयार्पणम्, एतेन स्वकर्तृत्व-
समर्पणादात्मसमर्पणमुक्तम्, उत्तमवस्तुसमर्पणेन ममतात्याग आत्मीय-समर्पणञ्चोक्त
भवति। भगवत्मसादग्रहणात्सत््वशुद्धिः कर्मसमर्पणाच्च तत्फलभीतिनिव्रति- भवतीति
भाव:। उक्तञ्च 'आहारशुद्धौ सत्त्वशुद्धि:' इति। भगवत्रसादसेविनां मायाविजयोऽञ्जसा
भागवते वण्यते "त्वयोपभुक्तत्रग्गन्धवासोऽ लङ्कारचार्चिताः। उच्छिष्ट भोजिनो
दासास्तव मायां जयेमाहि' (११.६.४६) इति।
अर्चावतारोऽपि च देशकालप्रकर्षहीनः श्रितसम्मतश्च ।
सहिष्णुरप्राकृतदेहयुक्तः पूर्णोऽर्चकाधीनसमात्मकृत्यः ।। १३०।।
* संवित्करः *
श्रीभगवान् का अर्चावतार, स्वरूप देश तथा काल के प्रकर्ष से हीन (अर्थात्
सर्वत्र एवं सर्वदा समान रूप से शुभ फलप्रद), स्वाश्रित-भक्तों का मनोरथपूरक
तथा उनके समस्त अपराधों को सहन करने वाला, अप्राकृतविग्रह धारण करने
वाला, पूर्णतम तथा भक्त के समस्त उपचार (धूप नैवेद्यादि) के अधीन होता है।
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १६३
* पदपरामर्शः ४
तादुशचित्तशोधकप्रसादलाभोउर्चनस्य दृष्टफलं तच्चार्चनमर्चाविग्रह्ययत्तमिति पञ्चविधेष्वपि
परव्यूहविभवाचन्तर्यामिषु भगवदर्चाविग्रहस्य सौलभ्यातिशयत्वेन तद्रैशिएयमाह --
अचविवारो5 पीति। अर्चाया अवतारोचवितार: अर्च्यते इत्यर्चा भगवद्धिग्रह:, सैवावतार
इत्यचवितारः; 'मन्रमन्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहः ' इत्युत्ते। यथा सववितारिणो
भगवतो रामस्य कृष्णाद्यवतारास्तदानीन्तानां परमसौलभ्येन नयनविषयताङ्गतास्तथैव
भक्तः क्रियमाणसपर्याविधिसम्पूर्त्या5ऽराध्याकारेण करुणया सर्वलोकनयनगोचरतयाविर्भृत
इति। यथाऽन्ये भगवदवतारा: पूर्णा अनन्तकल्याण-गुणनिलयतया प्रसिद्धास्तथैवायम-
पीत्यपिना समुच्चिनोति। सर्वश्षर्यसम्पन्रस्याप्यस्य केचन गुणविशेषाः समधिकवात्सल्यमाहुः।
नास्य प्रकर्षो देशकालनिबन्धन इति सर्वेषु देशेषु सर्वकाले चैश्वर्य समानमेवेति।
तीर्थविशेषे पूजितो भवतु साधारणगुहे वा सेवितो भवतु, .प्राचीनविग्रहो भवत्वर्वाचीनो वा
-- सकीक्षर्य सममेवेति भावः। सामान्यचक्षुषां भोतिकवत्ातीतमपि तत्स्वरूपमप्राक्रतमेव,
भगवन्मूर्तिः सर्वदा चिन्मय्येव भवति, पाषाणविग्रहो धाठुविग्रहो इत्यादिव्यवहारस्तु
स्वरूपाज्ञानपरयुक्तः। यथा भगवदवताराः पूर्ण पारमेश्वरं स्वभावमजहतोऽवतरन्ति तथाऽ यमपि
विभुत्वादिना परिपूर्ण एव।त्रिभिर्विशेषणैस्तदैशवर्यस्य स्वरूपस्य च परिपूर्णत्व तित्यत्वञ्चोत्तवा
त्रिभिरचकेपु कारुण्यातिरेकाब्दक्तपारवश्यसूचका गुणविशेष उच्यन्ते -- श्रितानां स्वाश्रितां
भक्तानां सर्वथाभिमतस्तदानुकूल्येन वर्तते। पूजकस्य सेवापराधानपि कारुण्यात्सहते।
अथवा को वेह सामान्यो यथाशाख्रं तत्पूजनं सविध्यनुष्छातुंप्रभवेत्तथापि समक्षं तदपचारान्
सहत इति भावः। अपूर्णमपि पूर्ण मत्वा प्रसीदति। यथोक्तञ्च गौतमीयतन्त्रे ‘तुलसीदलमात्रेण
जलस्य चुलुकेन वा। विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः? इति
अर्चकाधीनसमात्मकरत्य इति यदीयं सर्वमपि जागरणस्नानभोजनादिक्रत्यं पूजकाधीनम्।
इदमेव भक्तभावपारतन्त्यँ सर्वेश्वरस्य स्वतन््रस्यापि भगवतः। यत्रीत्या भगवांस्तदिच्छानुविधायी
भवति। तद्यथा यदा तुलसीदलं निक्षिप्य नाभ्येति मन्त्रमुच्चार्य घण्टानादेन नैवेद्यं पुरतो
निधाय च भोजयति तदानीमेव भगवांस्तद्रुचिमनुवर्तमानो भुङ्के अयमेव चाचवितारस्य
सौलभ्यातिरेकः। “न तस्य प्रातिमास्ति’ (यजु.३२.३) इति मन्त्रानुरोधेन
केचनेत्यम्चाविग्रहार्चन-मवैदिकमिति प्रलपन्ति, तत्र प्रतिमाशन्दः सदृशपरस्तेन न
तत्सदूशोऽस्तीत्याशय्ः, दृश्यते च लोकेऽप्रतिमो विद्वानित्यादौ प्रतिमाशन्दस्य
सादृश्यार्थवाचकत्वम्। अत आह श्रुतिः 'न तत्समश्चाभ्यधिकञ्च दृश्यते' (थे. ६.८)
झति।
स्वयं व्यक्तश्च दैवश्च सैद्धो मानुष एव च ।
१६४ श्रीवेष्णवमताब्जभास्कर:
देशादौ हि प्रशस्ते स वर्तमानश्वतुर्विधः ।।१३१।।
* संवित्करः +
दिव्यदेशादि प्रशस्त स्थान पर विद्यमान यह अर्चावतार व्यक्त, दैव, सैद्ध, एवं
मानुष भेद से चार प्रकार का माना जाता है।
* पदपरामर्शः *
अभिमतशास्रविहितमनोवाक्कायसाध्यसपर्याविधिसम्पूर्त्या सौशील्यात्सात्रिध्यदित्सया
स्वस्वरूपमुपलम्भयतो नयनानन्दाम्बुधिं वर्धयतः स्नानतिलकालङ्करणादिव्याजेन
दिव्यस्पर्शयुखं वितरतो भक्तातुकम्पिनो भगवत: सेवेच्छापूर्णान्तराविभवकभेदनिबन्धनं
चातुर्विध्यमाह -- स्वयामिति। अचावतारतया स एव सौलभ्यादिपरिपूर्णो भगवाज्
श्रीरामः क्वचित् स्वयं व्यक्तः स्वेच्छयाविर्भूृत क्वचन दैवो देवप्रार्थनयाविर्भूतः
सैद्धः सिद्धैः ग्रकाटितः क्वचिच्च मानुषो भक्तिपष्टये मनुष्यप्रार्थनां व्याजीकृत्य
लन्धाविभाव इति चतुर्विधोऽचावतारोऽयोध्यामिथिलाचित्रकूटवाराणसीप्रयाग-
वन्दावनतिरुपत्यादो पुण्यदेशे वर्तमानो विद्यमानो वैष्णवजने: पाञ्चरत्राद्यागमविधिना
सेव्यमानस्तन्मनोरथं दुहानो विलसतीत्यर्थः।
आवाहनासनाभ्यां च पादाद्याचमनैस्तथा ।
स्नानवस्त्रोपवीतैश्च गन्धपुष्पसुधूपकैः।।१३२।।
दीपनैवेद्यताम्बूलप्रदक्षिणविसर्जनैः ।
षोडशार्चाप्रकारैस्तमेतैरर्चेत्सदा सुधीः। । १३३। ।
* संवित्करः +
इनका आवाहन, आसन, पाद्य, अर्घ्य, आचमन, स्नान, वस्त्र, उपवीत,
गन्ध, पुष्प, धूप, दीप, नैवेद्य, ताम्बूल, प्रदक्षिणा तथा विसर्जन -- वैष्णवजन
इन षोडश उपचारों से समन्त्रक (पुरुषसूक्त आदि के मन्त्रों से) यथावत् पूजन करें।
* पदपरामर्शः *
सभेदं पूजाधिष्ठानमुत्तवा तत्पूजनक्रमज्ञानाय षोडशोपचारान् परिगणयति --
आवाहनासनाभ्यामिति। क्रमस्यापेक्षितत्वादेव पूर्वनिपातविध्युपेक्षा। षोडशत्वायादि-
पदनोर्घ्यसड्ग्रहः। आचार्यातुगुहीतरामार्चनपद्धत्युक्तविधिना पुरुषसुक्तगतमन्त्रैस्तज्जञानाभावे
षडक्षखह्वविद्ययैव वा सर्वोपचारान्कुर्यातु; 'वैष्णवो मूलमन्त्रेण सर्वत्राचनिकर्मणि।
उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा” इत्दुक्तेः। आवाहनविसर्जने विधिसाङ्गत्व-
सिद्धयर्थे नित्यसत्रिहितत्वाद्भगवतः। अर्चेत्सदेत्यनेन भगवदर्चनस्य नित्यविधित्वं
दर्शितम्, तेन नित्यकर्मणि निष्कामस्य यथाशक्तथुपचारेणापि न दोषः। यथोक्तं
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १६५
मनुना विदोदितं स्वकं कर्म नित्यं कुयादतान्रितः। तद्धि कुर्वन् यथाशक्ति
प्राप्नोति परमां गतिम्" (१. १४) इति। इत्थं यथाकालं न्यूनाधिकोपचारादिकमुपपद्यते,
अतश्च 'अण्वप्युपह्ृतं भक्तैर्मम तोषाय कल्पते’ इति भगवदुक्ति:। सुधीर्कैणवागमोक्त-
पूजनविधिं सम्यग्जानञ् शोभनभावनो वा। एतेनार्चनस्य समन्त्रकत्वमुक्तम्। उक्तञ्च
(सर्प दृष्ट्वा यथा कार्य कम्पते च मुहुर्मुहुः! अमन्त्रमचकं दृष्टवा तथा भीतो
जनार्दनः? इति। जगज्जननप्रवेशनियमनप्रकटितैश्षयोँ भगवानेव सर्वथानहेऽपि मयि
करुणया स्वोपलन्धिपूर्वकपूजनावसरदानेन स्वीकृत्य माँ कृतार्थयतीत्यहो तस्य दीनानुकम्पि-
त्वमित्येवं सम्यग्ध्यायन्नरचेदिति द्योतयितुं सुधीरित्युक्तम्। द्रीतिपूर्वकत्वसमाहितत्वादि-
कन्त्वर्थतः सिद्धम्। अत्र षोडशार्चाप्रकारोरिति राजोपचारस्याप्युपलक्षणमू; तत्स्वरूपञ्च
“ततः पञ्जामृताभ्यङ्गस्योद्वर्तनं तथा। मधुपर्कपरिमलद्रव्यानि विविधानि च।।
पादुकान्दोलनादर्श व्यजनं छत्रचामरे। वाद्यार्तिक्यं नृत्यगीतं शय्या राजोप-
चारकाः' इति
जगत्पते श्रीश जगन्निवास प्रभो जगत्कारण रामचन्द्र ।
नमो नमः कारुणिकाय तुभ्यं पादाब्जयुग्मे तव भक्तिरस्तु ।।१३४।।
* संवित्करः *
'हे जगत् के पालक! जगन्निवास! जगत्कारण! करुणावरुणालय! श्रीसीतानाथ!
श्रीरामचन्द्र! आपको बारम्बार प्रणाम है, आपके युगल श्रीचरणकमलों में मेरी
भक्ति दृढ हो' -- वैष्णवजन इन शब्दों से परमप्रभु का बारम्बार संस्तवन करें।
* पदपरामर्शः *
“एष मे सर्वधर्माणां धर्मोऽधिकतमो मत:। यद्भक्त्या पुण्डरीकाक्षं स्तवैर चेन्नरः
सदा” (महा. १३. २५४.८) इति भीव्मोक्तया पूजनविधिं प्रदर्श्य पूजावसाने भगवन्तं
स्तुयादित्यनुरोधेनार्चनस्य सर्ववेगुण्यापहारकं स्वाभिमुखीकरणानुगुणपदावलिनिवेशललित-
मभीठप्रार्थनागर्भ स्तवं सप्रकारं शिक्षयितुं स्वयं स्तवीति जगत्पत इति।
जगत्पते चराचरस्वामिन्! श्रीश श्रीसीतानाथ! जगन्निवास सर्वान्तर्यामिन्! प्रभो
सर्वसमर्थ! जगत्कारण संसारोत्पादक! रामचन्र दाशरथे! -- इत्येवं वड्भिः
पदैः षड्विधमैश्चर्य प्रकाशितम्। तथाहि जगद्रक्षणपालनजनितं यशो जगत्यत
इत्यनेन, धर्मविग्रहत्वाद्धर्म रामचन्द्र इत्यनेन, श्रीश इत्यनेन श्रियं, सर्वविधैक्षर्य
प्रभो इत्यनेन, सरवान्तर्यामित्वेऽपि निर्लिप्ततालक्षणं वैराग्यं जगन्निवास इत्यनेन,
जगच्चिकीर्षाया ज्ञानपूर्वकत्वाज्जानं जगत्कारण इत्यनेन च समसूचयत्। उत्पत्तिपालन-
नियमनानि जगदादिपदत्रयेण संसूच्य तस्य निर्विशेषतरह्मवद्गुणदारिद्र्यं निराकर्तु
नित्यसोभाग्यसम्पदमाह -- श्रीशेति। सकलमङ्गलमूलनित्यश्रीनित्यपरिचरितचरणयुगल
१६६ श्रीवेष्णवमताब्जभास्कर:
इत्यर्थस्तेन न केवल जगन्निवास:, श्रीनिवासोऽपीति लभ्यते। भगवति थक्तिप्रार्थनायां
क्रियमाणायां तत्रावश्यकपुरुषकारसम्पत्ति: सन्दर्शिता। प्रभो इत्यनेन न केवलं
सर्वसामर्थ्यमपितु विभुत्वमपि, तेन सर्वत्र परिपूर्ण इत्यर्थः। तस्य चात्रितरक्षणविलक्षणत्वेन
सौम्यत्वसौलभ्यादिस्प्रहणीयगुणाकरत्वमाह -- रामचन्रेति। शरणागतरक्षणादिधर्म-
प्रवर्तक! जातिगुणवृत्तादिवैषम्यानादरेण आर्थनामात्रेणाभयदानप्रथितो दार्य! अत्र
जगत्पतित्वादिपङ्चकमीश्वरलक्षणमनूद्य तद्रामचन्द्रेऽभिधातुमन्ते तदुपन्यासो विशेषणानां
विशेष्यान्वयित्वौचित्यात्। तस्यैव सर्वेश्वरत्वेन भरार्पणयोग्यत्वं ्योतितम्। स्वनमस्कारोदेश्य-
तया साधनहीनेष्वपि करुणाकरत्वमेव चतुर्थ्यन्तेनाह -- कारुणिकाय निसर्गक्रपान्धये
परदुः खेक्षणाव्यवहितोत्तद्ववणशीलाय नमो नम:। नमो नम इति वीप्सा विभूतिगुणा-
नन्त्यानुभूतिजनितं भक्तिग्रकर्ष द्योतयति। फलरूपतया स्वाभी ्ार्थयते -- पादान्जयुग्े
तव भक्तिरस्तु। पादान्जयुग्म इति परमप्रेमास्पदत्वेन भोग्यत्वं सूचितम्। भक्तिरत्र
प्रीतिः, अस्त्विति प्रार्थनायां लोद्।
मनोमिलिन्दस्तव पादपङ्कजे रमार्चिते संरमतां भवे भवे ।
यशःश्रुतौ ते मम कर्णयुग्मकं त्वद्भक्तसङ्गोऽस्तु सदा मम प्रभो ।।१३५।।
* संवित्करः #
हे स्वामिन्! हे भगवन्! श्रीराघवेन्द्र रामचन्द्र! में जब-जब संसार में देह धारण
करूँ; तब-तब निरन्तर जगज्जननी श्रीसीताजी के द्वारा पूजित एवं सेवित आपके
युगल श्रीचरणकमलों में मेरा चित्तरूपी भ्रमर रमण करता रहे, मेरे कर्णयुगल
आपके पावन गुणमय चरितों के श्रवण में सदा संलग्न रहे तथा आपके प्रिय भक्तों
का सत्संग सदैव मुझे प्राप्त होता रहे।
* पदपरामर्शः *
यथा घृतबिन्दुपातेन नाग्निज्चाला शाम्यति, सैव महता प्रतधारासम्पातेनाचिरं
शाम्यति, तथैव दुएं दुर्धरं मनो अमर इव स्वल्पविषयसौरभेषु क्षणसुभगेषु पद्येषु
अमन्न शान्तिमेति, आभिमतामोदनिर्भरं भगवत्पादपङ्कजं प्राप्यावश्यं निश्चलं स्यादिति
मनसे श्रवणेद्वियाय च दिव्याभिमतभोगप्रदानेन तदसद्विषयप्रावण्यप्रयुक्तचापल्यादि-
निरसनपूर्वकं भागवतप्रसङ्गः प्रार्थयते -- मनोमिलिन्द इति। मन एव मिलिन्दो
अमरो मनोमिलिन्दः, विषयाधिनिविष्टतया यत्नशतेनाप्यनिवार्यं इति गम्यते। तव
पादपङ्कजे चरणारविन्दे सम्यग् रमतां तदानन्दसम्भ्रतो भवतु। मिलिन्दो यथा
कण्टकैराविध्यमानोऽपि तत्रैव रमते, तथेव मे मनो विघ्नानुपेक्ष्य रमतामिति भावः।
पादपङ्कज इत्यनेनानुगुणामोदाकरत्वं सूच्यते। पुनस्तद्विशिनडि ~ रमार्चित इति।
रमया श्रियाऽचिते पूजिते, विभवकामनया देवैरप्यचितिया रमयार्चित इति एज्यतमत्वात्पारम्यं
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १६७
द्योतितम्। यद्वा निरतिशयपेशला हि रमा, ततोऽ प्यधिककोमलाभ्यां तत्करकञ्जाभ्यामप्यर्चित
इत्याशयेन भगवत्पादपड्जयोनिरतिशयसोकुमार्य प्रकाशितम्। यद्वा; सकलरमणीय-
गुणाकरस्यापि रामस्य मनोरमा या रमा श्रीसीता द्रीतिषात्रम्, तयाऽपि ्रेमास्पदतयार्चिति
सेविते; तेन पादपङ्कजस्य तत्परमेप्सितत्वं सूचितम्। यथोक्तं भागवते 'ऊर्वोर्तिधाय
करपल्लवरोचिषा यत्संलालितम्” (३.२८.२३) इति। कर्मफलस्य दुर्निवार्यतया
तत्कर्मपारवश्यादनेकजन्मलाभेऽ प्यभिमतामोदास्वादे गाढाभिसन्धि द्योतयत्नेरन्तर्य वाञ्छति
-- भवे भवे जन्मानि जन्मनीति। निरतिशयानन्दनिमग्नस्य तस्यासकृदु:खालयस्य
भवस्य प्राप्तिरपि न दुःखावहा स्यादिति भावः। "भद्रं कर्णोभिः श्रृणुयाम देवा’
इत्याम्नायापेक्षामनुरुध्याभिमतविषयलाभं द्रार्थयते -- यशश्श्रुतौ। श्रवणं श्रुतिभावि
क्तिन्। त्वदीययशःश्रवणे मम कर्णयुग्मकं श्रवणयुगल संरमतामिति पूर्वक्रियान्वय:।
यदि भवप्राप्तिस्तत्संसर्गो वानुरागं प्रतिबन्धीयात्तदा यशःश्रवणमेवोत्तेजकसामग्रीवत्
तत्राधिकरतिजनने ग्रभवेदिति गुणगणैः कर्णरन्रपू्त्यर्थं तत्सामग्रीसंसर्गः ,प्राथ्यते
इति भावः। कर्णरन्भ्रस्याकाशत्वाद्गुणगणानां चामूर्तत्वान्न कदाचिदपि एरणमतो
नित्यमेव श्रवणं फलिष्यतीति स्वाभिचरणा:। एकस्यापि कर्णस्य पूरणमशक्यं किमुत
द्वयोरिति द्योतयितुं युग्मशन्दः। यशःश्रवणस्य वक्त्राधीनत्वाद्धक्तसङ्ग' प्रार्थयते तत्र
तस्य नित्योपलन्धे:, अत आह -- त्वद्धक्तसङ्गोऽस्तु, यस्मात्कस्मादपि श्रुतो
भगवद्गुणोऽपि न तथा रोचको भवति यथा भक्तमुखाच्छ्रवणे, ततस्तु सविशेषं
माधुर्यमुदयत इति भाव:। यत्सङ्गो भगवत्मीतिमवर्यं फलति, यठ्मसङ्गो यत्नत एव
सकलानर्थपरम्परां समूलं छिनति, तादृशस्य त्वदीयभक्तस्य भक्तिसुधानिमग्नस्य
सदाऽविच्छेदेन सङ्गोऽस्तु। भागवतप्रसङ्ग: सुतरामेव भक्तिफलावसायी भवति। यथोक्तं
भागवते 'सतां प्रसङ्गान्मम वीर्यसांविदो भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्चपवर्गवर्त्मीनि श्रद्धा रतिर्भक्तिरनुक्रमिष्याति' इति। अतः श्रीप्रह्मदेनापि
नय मां निजभ्रत्यपारश्चम्” (७.९. २४) इति भगवान् ग्ार्थितः। सर्वसमर्थस्योभय-
विभूतिनायकस्य तेऽभिमतदाने कियानायास इत्याह -- प्रभो इति। मम प्रभो इत्यनेन
स्वाराध्ये ममत्वातिशर्य बोधयति। सदा मम प्रभो इत्यनेन च प्रतिजन्म श्रीसाकेतनाथ
एव मम प्रभुर्भवेदित्याग्रहः सूचितः। यहा
उरः शिरो दृष्टरिमनो बचःपदद्ठयप्रराजत्करयुग्मजानुशिः।
अङ्कैः क्षितौ तं प्रणमेदथाष्ट्राभिदीर्घं तथैतैः कृतधीश्च दण्डवत् ।।१३६।।९
१. यहां आष्टाभिरङ्गैः प्रणयेत्क्षितावथ पाठ भी उपलब्ध होता है।
१६८ श्रीवैष्णवमताब्जभास्कर:
* संवित्करः *
स्तुति के अनन्तर श्रीभगवान् के श्रीचरणों में साष्टांग दण्डवत् प्रणाम करे। हृदय,
शिर, नेत्र, मन, वाणी, दोनों पैर, दोनों जानु तथा दोनों भुजा -- इन आठ अंगों से
किया गया वन्दन साष्टांग दण्डवत् प्रणाम माना जाता है।
* पदपरामर्शः *
अचनि सञ्जातापराधक्षमापणाय प्रणिपातमतिरिच्य नान्यत्निदानं भवतीति 'तस्माद्रणम्य
प्रणिधाय कायम्" (११.४४) इति गीतोक्तमनुसन्धाय स्तवप्रकारमुत्तवा वैष्णवागमोक्त
प्रणतिविधिं शिक्षयति ~ उर इत्यादिना। उरसा शिरसा दृष्ट्या मनसा वचसा
पादाथ्यां कराभ्यां जानुभ्याञ्चेति वाङ्मनसयोरप्यङ्गत्वं ग्रणिपातोपकारकत्वात्।
मनोबुद्धयभिमानेन सह न्यस्य कूर्मवच्चतुरः पादाज् शिरस्तत्रैव पञ्चममिति।
पूवर्धिनाट्टानामङ्गानां परिगणनं विधायोततरार्धेनाद्ाभिरङ्गैः क्षितौ भुवि दण्डवर्द्धीर्ध
तमर्चितं स्तुतं श्रीभगवन्तं 'समस्तपारिकरविशिष्टाय सर्वमङ्गलाविग्रहाय भगवते
श्रीरामचन्द्राय नमः” इत्युक्तवा प्रणमोदिति विधिमाह। तत्र विशेषणद्वारा प्रणिपततो
बुद्धिदशां निर्दिशाति -- क्ृतधीरिति। कृता नियता भगवान् राम एव मे परमाश्रय
इति निश्चयात्मिका धीर्बद्धिर्यस्य, तथाभूतोऽनन्यमतिः सन््रणमेदिति सम्प्रदायसरणि;।
प्रणमेदिति पतनं विशिनडि -- दण्ड इव पततीति; तेन तुल्यं क्रिया चेद्रतिरिति
वतिः दण्डवत्। छिन्रमूलो निराश्रय एव दण्डः पततीत्यहमापि निराश्रयो भवत्पादमूल-
माश्रयमवलम्ब इति; हे राघवेन्द्र! मम देहि कराबलम्बमिति भावनावत्। स्वस्य
निराश्रयत्वं भगवतश्चाश्रवदातृत्वमनुसन्धाय दण्डवदिति निर्देशनम्। तेनान्याश्रयपरित्यागो
व्यञ्जितः।
भगवांस्तु नित्यज्ञानवत्वेनेदं मे स्वमिति धियाऽङ्गीकुर्यात्न खलु दण्डो, जडत्वात्कथं
स्वस्वामिभावं जानीयात्। दण्डस्तु ज्ञानेच्छाप्रयत्नादिमन्तं चेतनं विना स्पन्दितुमपि
नाहीति, तमोभूतपापप्रगाढसम्पर्काचुक्तायुक्तज्ञानछून्योऽहं भगवदधीनग्रवृत्तिक इति स्वाभिमते
कर्मणि विनियोज्यः। दण्डपुरुषयोः सम्बन्धस्योभयनिष्छत्वेऽपि तं प्रति दण्डः सर्वथा
प्रकार एवेति लोके दण्डी पुरुष इतिवत्पुरुषी दण्ड इति न प्रयुज्यते; नियामकस्य
विलक्षणसम्बन्धस्याभावात्। संयुक्तदण्ड एव पुरुषो दण्डी मन्यते न तु ग्रहावस्थितदण्डोऽ पीति
स्वस्य परित्यागानर्हत्वं सूचितम्। एतेन तवास्मीत्याश्रययाच्या-नुसन्धीयते। वक्रोऽपि
कोदण्डो यथा त्वया न केवल हस्तेनाबलाम्बितोऽपितु
वक्षसाऽङ्गीकृतस्तथाहमप्यात्मसात्करणीयः। प्रहरणादिसाधनतया लोकस्यापि भयावहस्य
सौम्यत्वादिरहितस्याभिमानरुक्षस्य मम पुष्यादिभिरर्चनीयं भगवत्पादपङ्कजमुद्विश्य दण्डपात
इव अखिमाणोऽप्यमर्षणीय इति दैन्याभिप्रायेण ग्रणिपातेऽप्यविनयं ध्वनयितुमाह --
पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् १६९
दण्डवदिति। दीर्घमिति क्रियाविशेषणेन निराश्रयं मत्वा करुणया थगवतेवोत्थापित:
स्यामित्याशया यावदुत्थापनं लम्बायमानमिति लभ्यते। उत्थायोत्थाय त्रि: प्रणमेत्सकृदेव
वा प्रणमेदित्युभवधाचारो दृश्यते, भावभेदात्सर्वमनवद्यम्। अयमेव विधिराचार्यसम्मुखं
गुरुजनसमक्षं वा प्रणिपातस्येति सङ्घेपः। प्रणमेदिति भगवत्याप्तिप्रत्यूहनिकरनिर्वापणाय।
अपूर्वकनम्धातो: स्वावधिकोत्कर्षबोधानुकूलो व्यापारोऽर्थः, सिद्धान्ते भगवदाज्ञेव लिर्थः
स च मां नमस्कुर्वित्यनेनाप्युपब्रहित एव।
बाहू च पादौ च प्रसार्य साञ्जलिः
स्तवैः स्तुवन् यश्च नमेद्रधूत्तमम् ।
शतैः क्रतूनां तु सुदुर्लभां गतिं
स चाणुयाद्रामपरायणो जनः ।।१३७।।
* संवित्करः *
श्रीरामचन्द्रजी के अनन्य भक्तो को, दोनों हाथों तथा पैरों को फैलाकर सविधि
बद्धांजलिपूर्वक, स्तोत्रों का पाठ करते हुए, श्रीरामजी को साष्टांग प्रणाम करना
चाहिए; जिससे वे सौ अश्वमेध यज्ञों से भी बढ़कर पुण्यप्रद तथा सुदुर्लभ गति (मोक्ष)
को प्राप्त करते हैं
* पदपरामर्शः *
“अज्ञलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' (वि. ध. पु. ३३. १०५) इति स्तुतिकालि-
कीमवस्थामवबोधयति -- स्तवनकाले बाहू पादौ च नाकुझ्ेत्, य: साज्जलि: स्तवैः
स्तुतिभिः स्तुवन् प्रार्थयमानो रघूत्तमं श्रीरामं नमेद्रन्देत, स रामपरायणो जन:
क्रतूनां यज्ञानां शतैरपि सुदुर्लभां लन्धुमशक्यां गतिं प्राप्नोत्यधिगच्छति। प्रसार्येत्यनेन
शाण्डिल्यस्पृत्युक्तं दण्डप्रणामलक्षणमनुसंहितम् 'निधाय दण्डवददेह प्रसार्य चरणौ
करौ। बद्धवा मुकुलवत्पाणी प्रणामो दण्डसब्ज़ितः ' इति। यद्यपि विंशत्याद्याः
सदेकत्व इत्यमरकोशाद् शतेनेत्येव भाव्यम् तथाप्यनेकशताभिप्रायके शतञ्च शतञ्च
शतञ्चेत्येकरोषेण तृतीयानहुवचने शतौरिति बहुवचनं सम्भवति। पद्यमिदं साविधि
सतुतिपूर्वकभगवत्रमनफलं वक्ति। राम एव परमयनमाधारो यस्य, तथाभूतः सन्नित्यमक्षय्यफलं
मोक्षमश्नुते, यज्ञादेः फलस्य स्वल्पत्वं विनाशित्वञ्चोच्यते, स्तुवत्रिति नमस्कारकालिकस्तवनं
बोधयति, स्तुतिश्चोत्कृ्गुणवत्वप्रकारकबोधानुकूलो व्यापारः, बोधरूपधात्वर्थ-
फलाश्रयत्वाद्रधूत्तमस्य कर्मता; “स्तवैः स्तुवन्निति विधिना विधत्ते’ इतिवत्रयोगः।
१७० श्रीवैष्णवमताब्जभास्करः
मान्तु वेद न कश्चनेत्युक्तया कथं स्तवनं तत्राह -- स्तवैरिति। अल्पज्ञत्वादिभि-
रशक्तोउपि यथाज्ञातं नित्यानकद्यास्नायैनियताकारैवाचार्यरचितैरनन्तस्यापि भगवतो-
साधारणमहिम्न: प्रकर्षकथनपरैः स्तवैः स्तुवत्रमेदित्यर्थ:। इत्थं सर्वेषं धर्माणां श्रेष्ठस्य
भागवतधर्मस्यात्मसमर्षणप्रधानस्य यज्ञफलाद्यपेक्षया मोक्षाख्यं फलमुक्तम्। यथोक्तं
'एकोऽपि कृष्णस्य कृतप्रणामो दशाश्वमेधावभृथेन तुल्यः। दशाश्वमेधी पुनरेति
जन्म कृष्णप्रणामी न पुनर्भवाय” इति।
भः अ ( इति पञ्चमप्रश्नोत्तरे सर्वोत्तमधर्मनिरूपणम् ) # +
।। श्रीसीतारामार्पणमस्तु ।।
( अथ षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् )
अथोच्यते वैष्णवभेद ईप्सितो ज्ञातुं च ते विष्णुपरायणैर्जनैः ।
सुवेदनीयो बहुधा महामते सुनिश्चितो विज्ञवरैर्महर्षिभि: ।।१३८।।
* संवित्करः *
हे महामते (विलक्षण प्रतिभासम्पन्न)! अब श्रेष्ठ महर्षियाँ के द्वारा सुनिश्चित,
अवश्य जानने योग्य, वैष्णवभेद का श्रवण करो।
* पदपरामर्शः *
भावसंशुद्धिकैङ्कयोदेश्यशोधनतत्समर्पणतदर्चनप्रकारादिविव्रत्या निव्रृत्तिरवैष्णवधर्मस्य
मुख्यत्वमुपपाद्येदानी यथाक्रमं वैष्णवभेदविषयकजिज्ञासामुपशमयितुमात्मानं विनियुङ्के
-- अधोच्यत ड्रति। अथेत्यनेन विषयान्तरोपन्यासारम्भं सूचयति। स्वशिष्यस्य
सूक्ष्मेक्षिकया तत््वावधारणसामर्थ्यं सम्बुध्या प्रकाश्य प्रोत्साहयति महामते।
यस्तव वैष्णवाः कतिधा? इति वैष्णवभेदो ज्ञातुमीप्सितः स वेष्णवत्वादन्यैरपि वैष्णवैरपि
सुवेदनीयः।
यश्च कैष्णवभेदो विज्ञवरोविद्रतछजेर्महर्षिभिः क्रान्तदर्शिभिः साक्षात्कृतधर्मभिराप्तैश्च
बहुधा वियृश्य सुनिश्चित इत्थमेवेति लक्षणप्रमाणाभ्यां परीक्ष्य निणीतिः स मयोच्यते।
वक्ष्यत इत्यर्थे वर्तमानसामीप्ये वर्तमानवद्वोति भविष्यत्यपि वर्तमानवद्भावः। एतेन
वक्ष्यमाणभेदस्य ग्रामाणिकजनैः सुनिश्चिततया विप्रतिपत््यादि-राहितस्य पूर्णप्रतीत्या
सावधानं वेदनीयता सूचिता भवति। त्वज्जिज्ञास्यस्यान्यविद्वज्जनैरपि विचारपूर्वकनिश्षितपू्वतचं
संसूच्य विषयप्राशस्त्यमुक्तम्। विज्ञवरेमहर्षिभिरित्युभयोपादानेन न केवलं बुद्धचाधारेणापितु
तत्वसाक्षात्काराधारेण, परोक्षेणापरोक्षेणापीत्युक्तं भवति, तेनाप्रामाण्यशङ्कां वैष्णवविभाजने
दूरतोऽपि निरस्यते। यद्यपि ्थममुददेशस्तदतूदिष्टस्यैव विभाग इति नियमाद्वेष्णवसामान्यलक्षण-
कथनान्तरमेव वैष्णवभेदस्य वक्तव्यत्वात्पूर्वं विभाजनमयुक्तं, विभागं अत्युद्देश्यज्ञानस्य
हेतुत्वात्, विष्णुरेव देवतास्येति व्युत्पत्यैव विष्णुमात्रदेवताकत्वं वैष्णवम्, विष्णुभक्तो
हि वैष्णव इति लोकत एव वैष्णवत्वावच्छित्रे शक्तिप्रतिपादनाद्वा वैष्णवसामान्य-
स्योपस्थित्योक्तदोषप्रसक्ते। अतः समाख्यातिर्वचनाम्भ्यां वस्तुवाचकपदेनेव लक्ष्यलक्षण-
योग्रहणसम्भवान्न नियमभङ्ग:। यथोक्तं सव्यभिचारप्रकरणेनायं ग्रन्थो विभागपरः,
किन्त्वसाधारणादिसाधारणस्य लक्ष्यताप्रदर्शनपर इति बोधयितुं प्रथमं विभागकरणेऽपि
न दोषः।
१७२ श्रीवैष्णवमतान्जभास्करः
प्राप्तु परां सिद्धिमकिञ्चनो जनो द्विजातिरिच्छञ्छरणं हरि व्रजेत् ।
परं दयालु स्वगुणानपेक्षितक्रियाकलापादिकजातिबन्धनम् ।।१३९।।
* संवित्करः *
मोक्ष की कामना वाले द्विजाति को चाहिए कि वह अकिंचन, अहंकार से रहित
होकर, परमदयालु भगवान् श्रीराम की शरण ग्रहण करे; क्योंकि वे अपने आश्रित
भक्त पर जाति-गुण-क्रिया-आदि की अपेक्षा किए बिना अनुग्रह करते हैं।
* पदपरामर्शः *
द्विजातीनां ब्राह्मणादीनां स्वस्ववर्णाश्रमाचारनियतं कर्म तु शास्रसिद्धमनुष्ठेयमेव
किन्तु तेषामप्युत्कट पापयोगान्नष्टसदाचाराणां वैष्णवत्वाश्रयेण वैकल्यनिवर॒त्या भगवव्याप्तौ
सौँकर्यम्। न भक्तियोरत्रताद्यसमर्थानामेव शरणागतिरपितु द्विजातेरप्याश्रयणीयेति
अत्र प्रपत्तावन्यनिरपेक्षको भगवान् स्वयं साधयतीति तच्छरणवरणस्य निरपवादसाधन-
त्वादित्याह -- ग्राप्तुमिति। आकिञ्चनोऽपि द्विजातिर्जनः परां सिद्धिमिच्छन् परं
दयालुं हरिं शरणं ब्रजेदित्यर्थयोजना। ब्रजेदिति 'मामेकं शरणं ब्रज” (गी. १८.६६)
इति भगवदुक्तधातुविशेषानुक्ृत्यभिप्रायेण शरणग्रहणस्य तदभिमतत्वं प्रकाश्यते।
द्विजातिरित्यनेन जात्या संस्कारेण च ब्रतवैराग्यसन्र्यासवेदाभ्यासकर्मदाक्ष्यदानतपः
शौचादावधिक्रृतत्वं सूचयति; तथापि यस्तद्राहित इत्यकिञ्चनः, न किङ्चनास्येति
साधनदारिदरयं तदीप्सिताया: सिद्धेः पुष्कलपुण्यलभ्यत्वञ्च प्रकाश्य महदन्तरं सूचयितुमेव
परामिति सिद्धिं विशिनहि। शरणागतस्य द्विजातेरकिञ्चनत्वादिकं भगवत्माप्तौ न
प्रतिबन्धकम्, 'हारिरधनात्मधनाप्रियो रसज्ञः” (भा.पु. ४.३१.२१) इत्युक्तेस्तस्य
अकिञ्चनप्रियत्वात्। सर्वफलप्रदस्य "चातुर्वण्यं मया सृष्ट गुणकर्मविभागशः '
(गी. ४. १३) इत्युक्तवतो भगवतः करुणोदये जात्याचारादिरपरिगणनीयतया किञ्चित्करो
भवति। स्वस्य दयादिगुणैः क्रियाकलाप आचाखत्तशुचितादिकं तन्मूलं जातिबन्धनं
नापेक्षते, न गणयतीति भाव:। निर्बन्धं निर्बन्ध आग्रहः, विधिनिषेधगृलकशासप्रवृत्तो
जात्याचारतपोविद्यादीनामाग्रहो बद्धानामेव। न तु बन्धप्रसङ्गरहितस्य बन्धच्छेदहेतोर-
पीश्चरस्योति भावः। षरं श्रेष्ठमुत्तरावधिरहितं दयालुामिति, सामान्योऽपि दयालुः
प्रयोजननिरपेक्षतयोपकरोत्ययन्तु परो दयालुरिति कथं तदपेक्षेतेति परपदेन ध्वन्यते।
दयालुर्हि स्वप्रयोजनान्तरमनपेक्ष्यैव परदुःखनिराकरणेच्छावान् भवति, असमर्थस्य
कालसर्पेण अस्यमानस्य जीवस्य दयालुत्केपि को लाभ इति तादटूशासमर्थदयाळुव्यावृत्यर्थ
परपदम्। स॒ च सर्वेश्वर एव तत्रैव नित्यदयालुत्वेनापकारिष्वापि तत्कृपादर्शानात्।
यथोक्तं भागवते 'कं वा दयालु शरणं ब्रजेम' (३. २. २३) इति। हरिशन्दोऽत्र
कारुण्यादिमहागुणैः सर्वमनोहरतापरः। यद्वा; परपदमिह हरावन्वेति तेन परं हरिं
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १७३
श्रीराममित्यर्थ:। यथोक्तं नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम्। प्रमाणो दु: खशमनस्तं
नमामि हारि परम्’ (भा.पु. १२.१३.२३) इति। किञ्च परां सिद्धिमिच्छेत्तदा तदनुगुणं
परं दयाळु हरि ब्जेदित्युपायोपेययोः परत्वसाम्यात्, तेन काम्यवस्त्वनुरूपसाधनाश्रय-
रूपमौचित्यं लब्धं भवति। परसिद्धेमोक्षत्वात्तस्य च भगवत्ग्राप्तिरूपत्वादुभयो:
परत्वकथनमेक्याभिप्रायेण, तेन स्वप्राप्तौ भगवान् स्वयं मुख्यो हेतुरिति लभ्यते;
'यमेवैष वृणुते तेन लभ्यः? (क. १.२.२३) इति श्रुतेः।
जीवो द्विधाऽमन्यत बद्धमुक्तभेदेन पूर्वैस्तु महर्षिवर्यैः ।
बद्धोऽपि तत्र द्विविधो मुमुक्षुबुभुक्षुभेदाद्रदितो मतज्ञैः।। १४०।।
* संवित्करः #
ूर्वमहर्षियों ने बद्ध और मुक्त के भेद से जीव दो प्रकार के बताए हैं। इसमें
बद्धजीव, मुमुक्षु एवं बुभुक्षु भेद से दो प्रकार के होते हैं।
* पदपरामर्शः *
विशिष्टज्ञानं प्रति सामान्यज्ञानस्य हेतुत्वेन वैष्णवभेदनिरूपणाठाग्जीवभेदोपस्थापनस्य
युक्ततया तं विभजते -- जीवो ब्विधेति। यद्यपि सर्वाणि शरीराणि मयैवात्मवन्ति
शरीरत्वादेतच्छरीरवदित्यनुमानेन ऐकात्म्यं साधयान्ति केचित्, तथापि चैत्रात्मा
म्रात्मतादात्म्यरहितस्तदीयज्ञानसुखाद्यप्रतिसन्धातत्वादिति प्रत्यनुमानान्र सर्वजीवस्वरूपैक्यं
साधयितुं शक्यते। यद्यपि वैष्णवभेद उच्यत इति प्रतिज्ञाय जीवभेदनिरूपणमुपयुत्तार्थ-
कथनाभावात्मतिज्ञापरित्यागाच्चाथन्तरं ग्रतिज्ञासतर्यासञ्चोपसङ्क्रान्तमिति प्रतिभाति,
तथापि व्यापकमुखेन व्याप्यनिरूपणस्य ग्रन्थकारशैलीसिद्धत्वान्न दोष:। अयं भावः-
विषयोपस्थापनस्य ग्रन्थे द्विधा क्रमो दृश्यत आरोहणक्रमोऽवरोहणक्रमक्ष। अत्र
वैष्णवत्वव्याप्यजिज्ञासायामापि वैष्णवत्वं पुनः किंव्याप्यामित्युत्थितजिज्ञासाया
आमूलादृपशमनाय व्यापकस्य तद्व्याप्यतदव्याप्यादिरीत्याऽवरोहणक्रमस्य विवक्षणान्न
दोषः। पूवँमहिषिवर्ये: प्रक्तनेस्तत्तार्थदर्शिभिमतज्ञविशिएद्रेतसिद्धान्तविद्धिश् बद्धगक्त भेदेन
जीवो द्विधाऽमन्यतामानि, तत्र बद्धोऽपि मुमुक्षुवुभुक्षुभेदाद् द्विविधो गदितः परोक्त इति
सुगमोऽन्वयः। इत्यं विभाजने प्रमाणन्तु अजो ह्येको जुषमाणोऽ नुशेते जहात्येनां
भुक्त भोगामजोऽन्यः' (8. ४. ५) इति श्रुति: उपबृहितश्वायमर्थो गीतायां स्वयं भगवता
द्वाविमौ पुरुषौ लोके” (१५.१६) इत्यादिना। तत्र हि क्षराक्षरभेदेन जीवात्मनोऽ वस्थाग्रयुक्तं
्रविध्यमुक्तम् -- क्षरणस्वभावाचित्संसृष्टो ब्रह्मादिस्तम्बपर्यन्तो जीवः क्षरपदेन,
अचित्संसर्गवियुक्तश्च पुनः स्वेन रूपेण विद्यमानो मुक्तात्माऽक्षरपदेनोक्तः। भगवास्तूभाभ्यां
विलक्षणः, 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाह्ृतः' (गी. १५. १७) इत्युक्तेः।
क्षारस्य कर्मयोगाद्देहादिसम्बन्धस्तत एव सर्वदुः खसुखप्रतिसन्धानमित्येव तस्य बद्धतेति।
१७४ श्रीवेष्णवमताब्जभास्कर:
मुक्तस्य चासङ्कृचितज्ञानैकाकारतेति विशेषः। पूर्वै्महर्षिवर्यौरिति 'आरिनः
पूर्वेभिक्रर्षिभिरीड्यो नूतनैरुत” (नऋ. १.१.२) इति ऋङ्मन्त्रं स्मारयाति। एतेन
शाख्रप्रमाणकत्वाद्वन्धमोक्षव्यवस्थायाः पारमार्थिकत्वं सिद्धयति। अत्रेदमाकूतम् --
जीवसामान्यस्य संसरणे स्वरूपयोग्यता विद्यते सा च स्वरूपयोग्यता संसारजनकता-
वच्छेदकधर्मसम्बन्धरूपा, परतन्त्रचोतनत्वमत्र धर्मः; तच्च यद्यपि नित्यमुक्तयोरापि
सम्भवति तथापि सापराधचेतनत्वरूपां सहकारियोग्यतां विना परतन्त्रचेतनत्वरूप-
धर्ममात्रस्य फलोपधायकत्वं न भवति, नित्यग्रत्यक्षितभगवदभिप्रायेषु नित्यमुक्तेषु
सापराधचेतनत्वरूपा संसतिसहकारियोग्यता न सम्भवति। अतस्ततो भिन्नाः
स्वरूपयोग्यतासहकारियोग्यतोभयविधयोग्यतावत्वाद् बद्धाः संसारेऽ नुवर्तन्ते,
संसारेऽनुव्रतिश्च संग्रत्यवच्छित्रध्वंसानृदयो न तु संग्तेरुत्तरोत्तरक्षणसम्बन्धः। ध्वंसानुदयो
नाय ध्वंसप्रागभावः। इत्थं संसारत्वावच्छिन्नध्वसप्रागभावाधिकरणत्वं बद्धत्वम्,
संसारत्वावच्छित्नध्वंसाधिकरणत्वं मुक्तत्वमिति पर्यवसितम्।
अनादिकर्मोत्करजातनानादेहाभिमानी सुमतोऽथ बद्धः ।
स चाऽच्युताहेतुकृपाबलेनाविद्याक्रियावासरुचिप्रवृत्तेः ।।१४१।।
विमोक्तुमिच्छुस्तु मुमुक्षुरुक्तः सम्बन्धतः प्राज्ञसुसम्मतो यम् ।
तथैव सांसारिकभोगमिच्छुर्बुभुक्षुरन्यः कथितो बुधेन्द्रैः ।।९४२।।
* संवित्करः #
अनादिकाल के शुभाशुभ कर्मो के फलस्वरूप प्राप्त विभिन्न देह में जो आसक्ति
एवं अहंबुद्धि रखता है, वह बद्धजीव है। जबकि जो भगवान् श्रीहरि की अहैतुकी
कृपा से कर्मजन्य संसाररूप बन्धन से मुक्त होना चाहता हे, वह मुमुक्षु जीव है।
इस प्रकार, सांसारिक भोग की कामना वाले जीव को बुभुक्षु तथा मुक्ति की इच्छा
वाले को मुमुक्षु जीव कहा जाता है।
* पदपरामर्शः *
इत्यं संसारध्वंसप्रागभाववान् बद्धः, संसारध्वंसवान् मुक्त इति सामान्यतो दशाभेद-
सद्भावाज्जीवद्रविध्यं व्यवस्थाप्येदानी तस्य मुमुक्षुबुभुक्षभेदं विवक्ष्यन् बद्धजीवं लक्षयति
-- अनादीति। अथ बद्धमुक्तनाम्ना जीवभेदप्रदर्शनानन्तरम्, अनादिकर्मण
उत्करात्सञ्चयाज्जातेषु नानादेहेषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधेषु ममाहमिदम्
इत्याकारेण योऽभिमन्यते आन्त्या मोगुह्यते स जीवो बद्ध: सुमतस्तथात्वेन निश्चित
इति श्लोकाशय:। अस्थाने रागादिना स्वस्य बन्धकं कर्म जीव: स्वयं करोति; तत्र
थमं साधनं सकलानर्थपरम्परानिदानभूतानाद्यविद्योव, तयानात्मन्यात्मबुद्धिरस्वे स्वमिति
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १७५
च न्त्याः सन्ततिजायते तद्यथा -- ईश्वरो नास्ति, स च श्रीरामादन्य इति आन्त्येक्षरापहारः,
जीवो नास्ति, स श्रीरामादन्यस्य शेष: स्वतन्त्रो वेति आन्त्या जीवापहार:, इत्यं
शन्दादिविषयेषु रागं परदेह्यदिषु द्वेषं जनयति, सर्वो रागाद्यागादि, शत्र द्वेषादभिचारादि
कुर्वतो देहे बद्धस्य तस्य तापत्रयाभिघातस्तु नियतस्तथापि तच्छरीरेऽभिमन्यमानो
भवतीति भावः। एकैकप्रतिनियतत्वाद् दुः खसम्बन्धो बद्धानामसाधारणधर्मः। अह्मगरुडादीनामपि
दैत्यपीडाकृतं दुः खमस्त्येवेति। बद्धजीवेषु यदि घटपटादीनामिव स्वरूपवैलक्षण्यं स्फुट
स्यात्तदा तत्पुरस्कारेणेव तेषां विभाजनं युक्त स्यात्, अतस्तत्त्कर्मानुगुणज्ञानसुखदुः खादे-
स्तारतम्यसत्त्वेन तेषां भेदस्तु युक्त इतीत्थं बद्धस्येच्छाकृतं भेदमाह -- स चेति। पापं
प्रज्ञा नाशयति क्रियमार्ण पुनः पुनः, “नष्टप्रज्ञः पापमेव पुनरार भतेऽर्जुन' इत्युक्तरीत्या
बीजाङकुरन्यायेन अवृत्तानां जीवानां बन्धनहेतुप्रतिरोधरनं कदापि न स्यादित्यत्राह --
अच्युतस्य कदाचिदप्यसम्भावितप्रच्युतेर्भगवतो हेतुक्रपाया यादूच्छिककरुणाया बलेन
तस्य मुमुक्षा जायते। कुतो मुमुक्षेत्यत उच्यते -- अविद्याक्रियावासरुचिप्रवृत्तेरिति।
अनाद्यविद्यया प्रवर्तमानक्रियाया कर्मणो या वासना तज्जन्येदं मे स्यादिति रुचिस्तदनुकूला
अक्रतिसम्बन्धानुगुणप्रवृतिः चेशेत्यं चक्रवद्धान्तस्य ततो विमोक्तुमिच्छुरात्मानं मोचयितुकाम
एवायमविद्यामूलसंसारसम्बन्धान्मुमुक्षु ग्राज्चसुसम्मत इति। प्ाज्ञसुसम्मत इत्यत्र प्राज्ञानां
सुसम्मत इति मतिबुद्धिपृजार्थेभ्यश्चेति वर्तमाने क्तान्तेन क्तस्य च वर्तमाने इति
विहितषष्छ्यन्तस्य प्रतिपदविधाना षष्ठी न समस्यत इति वार्तिकेन समासनिषेधः
स्यात्तथापि कृद्योगा षष्ठी समस्यत इति ,प्रातिप्रसवात्समास:। मत्तः स्पृतिज्ञिनिमपोहनं
चेति क्कु: कृपाबलं विना मुमुक्षाया अनुदयात्त्र कृपासामर्थ्यमाह ~ अच्युत इति।
य: कदापि स्वरूपान्न च्यवते स एव बद्धानुन्नेतुर्महतीति भाव:। तादृशमुमुक्षाजनने
जीवक्रपाया असामर्थ्यादुक्तादन्यस्य हीनता विवक्ष॑स्तस्य प्रतियोगिसापेक्षत्वाठक्तमुमुक्षोरेव
प्रतियोगित्वमाह -- बुभुश्चुरन्य ड्राति। यक्चाविद्याजन्यकर्मफलवासनया तत्र
मोमुह्यमानस्ताटृशभोगमिच्छुः कामयमानः स बुभुक्षुरिति बुधेन््रैः पण्डितराजैः,
कथित: प्रोक्त इति। सांसारिकभोगमिच्छुरित्यत्र न लोकाव्ययेति षष्ठीनिषेधात्कर्मणि
द्वितीया। तथैवेतीच्छानिबन्धनमेव लक्षणभेदमुभयत्रापीति बोधयितुम्। युक्तायुक्तपरिशीलन-
दाख्यादस्य दोरभाग्यमाह -- सांसारिकभोगामिच्छुरिति। सांसारिकभोगमित्यनेनाल्पत्वा-
नित्यत्वसूचनेनात्यन्तक्षद्रत्वमुक्तं भवति। एवमीहासमागुक्तं क्रतान्तः कुरुते वश इत्युक्तेः
कामभोगसक्तत्वादज्ञानविमोहितस्यातिमूढत्वं सूचितं भवति। स्वल्पसत्त्वस्यापि
तस्येष्टप्राप्त्यानिष्टपरिहारयो: स्वसामर्थ्याधीनत्वश्रमो भवति। यथोक्तं बुधुक्षोरदर्मातित्वं
भागवते "नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययाविमोक्षणमन्यहेतोः।
अर्चान्ति कल्पकतरुं कुणपोपभोग्यामिच्छन्ति यत्स्पर्शजं निरयेऽपि नृणाम्’
१७६ श्रीवैष्णवमताब्जभास्कर:
(४.९.९), 'यदध्ुवस्य देहस्य सानुबन्धस्य दुर्मातिः। ध्रुवाणि मन्यते मोहाद्
गृहक्षेत्रवसूनि च।। जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत्। तस्यां तस्यां
स लभते निर्वत्ति न विरज्यते? (३.३०.३-४) इति
बुभुक्षो मुमुक्ष्वपेक्षया हीनत्वं द्योतयितुमेव मुमुक्षुः प्राज्ञसुसम्मत इति विशिष्यते,
बुभृक्षुरन्य इत्युच्यते, अन्यो नामासदूशः, अन्यो सदृशोतरयोरिति हैमः। अत्रेदं
विचार्यम् -- यद्यच्युतकृपा तद्दया वा हेतुरस्ति तर्हि सर्वभूतहितैषित्वात्सर्वुक्तिप्रसङ्ग:
स्यात्। स्वार्थनिरपेक्षा परदुः खनिराकरणेच्छेव दया भवति। परहितप्रापणप्रधानफलतया
तहु: खनिवृत्यध्यवसायस्यावश्यंभावा्तद्धितेच्छा स्वव्यापकतदुः खनिराकरणेच्छायामेव
पर्यवस्यति यथा यागेच्छा स्वर्गेच्छायाम्। अत्र स्वार्थनिरपेक्षत्वविशेषणं क्रोडीकरणीयमेव,
अन्यथा स्वार्थमन्यान् रक्षति कारुणिकत्वव्यवहारः स्यात्। स्वदुःखनिराकरणेच्छाया
निर्दयेछपि सत््वादतः परेति तत्रोपादीयते। वस्तुतो दयालक्षणबटकपरशन्देन स्वव्यतिरिक्त:
सर्वोऽपि विवक्षितो, नत्वनुकूलमात्रम्, तथा सति भगवत्कारुण्यस्य जीवानुकूल्याचरणा-
पक्षत्वेन निहितुकत्वं नोपपद्योत, ईश्वरस्य हि निरुपाधिकसर्वसुहत्वस्य सवैरप्यङ्गीकारात्।
लोकयात्रां निवोंढुमेतत्क्रतरक्षणप्रार्थनादिव्याजविशेषस्यावसर्रतीक्षो भवति भगवान्,
पापानुरूपं तं दण्डयितुं प्रवृत्तोऽपि तद्विलोकने स्वान्तर्दयोदयमाशङ्कमानः स्वमुखं
परावृत्यैव काठिन्यमारोप्य दण्डयति; अतस्तादृशोऽपि पुरुषे दया निराबाधा। इत्थं
सामान्यतो दयाया: करणाया वा स्वरूपस्य सर्वविषयत्वं निहेतुकत्वमेव तस्माठ्ातिकूलेऽपि
सा प्रवहत्येवेति भावः। केचन तु परदुः खदुःखित्वं दया 'व्यसनेषु मनुष्याणां भशं
भवति दुःखितः? (२.२.४०) इति रामायणोक्तेदित्याहुस्तत्र शक्तस्य परेषां दुःखं
पश्यतस्तदपनोदनेच्छैव जायते शोभते च, न तु स्वयं दुःखित्वम्, पुरुषान्तरे
परदुःखदुः खित्वदर्शनस्याप्यशक्तदुपाधिकत्वमेव, सर्वशक्ते्भगवति भृशं भवति दुःखित
इत्यादिकमुच्यमानमभिनयार्थमेव्, स्वयं दुःखादिदोषदूरोऽपि स्वाश्रितानां दुःखं
स्वदुःखमाभिमन्यते; अत एवाद्रीभवति सन्तप्यते च। इत्यं स्वसौलभ्यप्रकाशनायोपयुक्ताभि-
नयविषयत्वमेव तस्य। तथा च सद्य एव तहु:खापाकरणेच्छा भवति, तथास्य बभूव
लुलितं मन इति तदसहिष्णुतायामेव तात्पर्यम्।
मुमुक्षवोऽपि द्विविधा महर्षिभिः प्रोक्ता अकामाः स्म्रतिभक्तिशालिनः ।
वेदोक्तवर्णाश्रमकर्मकारिणस्तूपासकादिप्रतिभेदभेदिताः ।।१४३।।
* संवित्करः *
मुमुक्षु भी, ज्ञानाद्यसाधन तथा चेतनान्तरसाधन के भेद से, दो प्रकार के होते हैं।
प्रथम कोटि में वे मुमुक्षु आते हैं, जो मुक्ति के लिए ज्ञानादि साधनों के प्रति
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १७७
कामनारहित होकर निरन्तर भगवत्स्मृति में तन्मय रहते हैं, भगवदाज्ञा समझकर
वेदविहित वर्णाश्रमकर्म का अनुष्ठान करते हैं। ऐसे मुमुक्षु भी उपासक और शुद्ध
भक्त के भेद से दो प्रकार के होते हैं।
* पदपरामर्शः *
भगवत्कृपयानादिकर्मप्रवाहरूपसंसाराज्जातमोक्षाभिलाणान्मुमुक्षनपि विभजते --
मुमुक्षवोऽ पीति। महर्षिभिस्तत्त्वापरोक्षानुभूतिं लब्धवद्धि: अकामाः स्मरृतिभक्तिशालिन
इति मुमुक्षवोऽपि द्विविधा परोक्ता इति पदान्वयः। महर्षिभिरित्यनेनाप्तत्वेन श्रीबोधायनाचार्य-
प्रभृतीनां विभाजनेऽभिमतिं द्योतयित्वाऽर्वाचीनकल्पितत्वं निरस्यते। तत्र गधे वक्ष्यमाण-
लक्षणा अकामा भगवन्तं विना साधनान्तराश्रयणे नास्ति कामोऽभिरुचिर्येषान्तादृशा
भवान्ति, अपरे चाविच्छित्रभगवत्स्म्रतिरूपां भक्तिमुपायत्वेनाप्रितवन्त उच्यन्ते। ये
चोपासकशुद्धभक्तभेदेनापि द्वैविध्यं भजन्ते। तदाह ~ उपासकादिप्रातिभेद भेदिता
इति। तथाविधानामपि तेषां वेदोक्तत्वाद्वणाश्रमकर्मणां परिपालने प्रमत्तां सूचयति
-- वेदोक्तेत्यादिना। केचन मुमुक्ष्णामपि देवतान्तरनिष्ठा भगवन्निष्ठा इति विभज्य
पुनरुपायभक्तिनिछा भगवदेकनिष्ठा इति द्विधा विभजनमाहु:।
स्वकर्मविज्ञानसभक्तिसाधनं तथोररीकृत्य सुविज्ञ! कञ्चन ।
सम्प्राप्य सम्बन्धविशेषमुत्तमं सदा भवन्त्येव च मोक्षनिश्चयाः ।।१४४।।
* संवित्करः #
चेतनान्तरसाधन मुमुक्षु, कर्म-ज्ञान-भक्ति को भगवत्राप्ति में साधन के रूप में
स्वीकार कर, आचार्य द्वारा किसी एक भगवत्सम्बन्ध को प्राप्त कर, अपने
आत्मकल्याण के विषय में पूर्णत: निश्चिन्त हो जाते है।
* पदपरामर्शः *
पूर्वसमुदिष्टस्य स्मृतिभक्तिशालिमुमुक्षो: साधनास्वरूपमाह -- स्वोति। सूक्ष्माथवि-
धारणसमर्थबुद्धिप्रशस्त्या भक्तिप्रपतिसूक्ष्मभेदाधिगतये स्वाभिगुखीकरोति -- सुविज्ञेति।
एतावत्पर्यन्तप्रकतार्थानृसन्धानविशदीक्रतप्ज्ञ! स्वकर्मेति 'स्वे स्वे कर्मण्यभिरतः संसिद्धि
लभते नरः (१८.४५) इति गीतानिर्दिष्ट स्ववणाश्रिमानियतं कर्म बोध्यते। विज्ञानमिति
यथावस्थितात्मविषयकं विशिष्टं सत््वोपचयजनितमहं भगवच्छेष इत्याकारकं ज्ञानं सूच्यते।
सभक्तिसाधनमिति भक्तया सहेति समासेन परमात्मव्यतिरिक्तेषु सर्वेषु विरक्तिः
मुमुक्षुजनस्वभावसिद्धा मध्ये प्रश्लिष्टा, तस्याश्च ज्ञानएर्वकत्वाद्धक्तचुपकारकत्वाच्च
भक्तेरव्यवहितपूर्वसमावेशस्तदनु भक्तियोगाधिकारसिद्धेः। एवं यथाक्रमसञ्जातभक्तियोगं
साधनत्वेनोररीकृत्य स्वीकृत्य तथा कङ्चनोत्तमं सम्बन्धविशेषं सम्प्राप्य, मन्त्रार्थनिरूपणे
१७८ श्रीवेष्णवमताब्जभास्कर:
प्रोक्तेषु पितापुत्रत्व-रक्ष्यक्षकत्व- शेषशेषित्व- भार्याभर्तृत्व-स्वस्वामित्वाधाराधेयत्व-
सेव्यसेवकत्वाउ5 त्यात्मीयत्व- भोग्यभोक्तत्व- भावरूपनवसम्बन्धेषु कञ्चनान्यतमं
स्वग्रकृत्यनुग्ण सम्बन्ध सानुरागं परिगुह्य मोक्षनिश्चया मोक्षो मे स्यादेवेति सुटूढप्रत्ययवन्तो
भवन्ति; सहकारिकारणतया सम्बन्धभावनयानुरागप्रकर्षसिद्धेः। यद्वा; भक्तिरससमुल्लासे
शान्तवात्सल्यसख्यश्ङ्गारदास्यरसेषु पञ्चविधेषु कमप्येकं भावमुपादाय प्रीतिप्रकर्षमाधाय
मोक्षनिक्षया भवन्ति। "भक्ता त्वनन्यया शक्य अहमेवांविधोऽ जुनि। ज्ञातु दरषटुञ्ज
तत्त्वेन प्वेषटुञ्ज परन्तप” (गी. १ १. १४) इति स्वयं भक्तियोगलभ्यत्वोक्तेः। भक्तिसम्बन्धानां
सर्वेषामुत्तमत्वेऽप्युत्तमपदं परिगुहीतसम्बन्धेऽत्युत्तमत्वावधारणायैकान्तभक्तिसिद्धये
तीव्रध्यानसम्पत्तये च प्रतिलन्धस्य भावमार्ग निर्दिशति सम्बन्धविशेषं सम्प्राप्येति।
सम्बन्धग्रहणं रागस्यैव विशेषज्ञापनार्थम्, पुत्रादिसम्बन्धस्य स्नेहदाढ्यार्थित्वात्।
मारीचरावणादिवद्वैरद्वेषजानितध्यानावेशस्य निन्दितत्वात्तद्वारणायाह ~ उत्तममिति।
यथोक्तं पतिपुत्रसुहृद्भातृपितृवन्मातृव्धरिम्। ये ध्यायन्ति सदोद्युक्तास्ते भ्योऽ पीह
नमो नमः” इति। नवसु पञ्चसु वा कस्यचिदेकस्यापि सुद्ृढपरिपह: कल्याणकरो
भवतीत्याह -- कञ्चनेति। महासारत्वाद्धक्तेरुक्तसम्बद्धस्य च सांसिद्धिकत्वात्।
विहाय चान्यत्परमं दयानिधिं प्राप्यं समर्थ निरपायमीश्वरम् ।
उपायमेतेऽध्वसीय सुस्थिता ज्ञेयाः प्रपन्नाः सततं हरिप्रिया: ।।१४५।।
* संवित्करः *
कुछ मुमुक्षु ऐसे होते हैं, जो ज्ञान-भक्ति-आदि सभी साधनों का छोड़कर,
अनाथनाथ करुणामय भगवान् जानकीनाथ को ही अपना उपाय मानकर, उन्हीं
की कृपा पर महाविश्वास रखकर मोक्ष के विषय में आश्वस्त रहते हैं। इस प्रकार
के मुमुक्षु प्रपन्नः कहलाते हैं; जो भगवान् के अतिशय प्रिय होते हैं।
* पदपरामर्शः *
साधनभक्तिनिष्ठ मुमुक्ष तत्क्रत्याध्यवसायकथनपूर्वकं निरूप्येदानी अपन्न तदध्यवसाय-
मुखेनाचष्टे -- विह्ायेति। एतेऽ न्यद्वक्तियोगादिकं साधनं विहायेश्वरमुपायमध्यवसीय
सुस्थिता इति वाक्यस्य मुख्यांशः। एते बुद्धेः सन्निकृष्टतराः प्रपन्नाः ज्ञेया इति
अपत्रलक्षणविवक्षाचार्यचरणस्य, सामान्योऽपि जनस्तदाश्रितमतितरां प्रीणाति, किम्पुन-
भगवानित्याह -- साततं हरिप्रिया इति एषां हरावेव साध्यत्वसाधनत्वोभयनिबन्धना
प्रीतिरिति विशेषः। विहाय चान्यदिति तथा महामहिमशालिनी भक्तिमापि साधनधिया
परित्यज्य किमुत लोकिकं वस्तु, तचु रत्नेच्छवो लोष्ठमिव द्राप्यभगवदपेक्षया5तितरां
ठुच्छतया सुतरामेव हेयं भवति। ईक्षरमुपायमध्यवसीयेत्यत्रेक्षरपदेनाव्ययत्वव्यापनभरण-
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १७९
स्वाम्यादितल्लक्षणमुच्यते, तेन सर्वशेषित्वं प्रकाश्य देवतान्तरव्यावृत्तिः क्रता। तस्य
नित्यपूणानिन्दरू पतयेतरेच्छानधीनेच्छाविषयत्वात््राप्यत्वमाह। तादृशानन्दरूपस्य
फलरूपतया तदिच्छा एवोपायेच्छां प्रति कारणमिति। अपत्तावृपेयस्यैवो पायत्वमित्याह
-- उपायमिति। यथा सेतुः स्वस्मिन्नेव धृत्वोचतरतटप्रापको भवति तथेति भावः,
'अग्गतस्यैष सेतुः? (क. २.२.२५) इति श्रुतेः, "तेषामहं समुद्धता” (गी. १ २.७)
इति स्म्॒तेक्च। नासमर्थस्य महाकार्यसिद्धिरितीश्चरं विशिनाटि समर्थ सर्वनिर्वहणसक्षम-
मिति भाव;। न समोऽपि निछुरः करुणां विधत्त इति महाकारुणिकत्वं तस्याह --
परमं दयानिधिमिति। समर्थोऽपि सन् परमकारुणिकोऽपि सन् यदि विग्रकृष्टान्तरः
स्यात्तदा तत्रिष्फलतेत्याह -- निरपायामिति। अपायो विश्लेषो निर्गतो5 पायो यस्मादिति
तादृशम्। स्वदेशे सर्वकाले नित्योपलब्धयु, तेन नित्यसत्निहितत्वं संसूच्य तदाश्रयणसीकर्य
द्योतितम्। प्रपन्नाः सुस्थिता इत्यनेन "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’
(गी. ७.१४) इति भगवद्वचनमनुसन्धाय स्वोद्धारे वीतचिन्ता भवन्तीति भाव:।
यथोक्तं 'समस्तपुरुषार्थानां साधकस्य दयानिधेः। श्रीमतः पूर्वसिद्धत्वात्
सिद्धोपायामिमं विदुः।। प्रपततेलक्षणे मन्त्रे विधौ वाक्यान्तरेषु च। भाव्यादौ
सम्प्रदाये चोपायत्वं ब्रह्मणि स्थितम्” इति
पुरुषकारैकनिष्ठास्तु हरिस्वातन्त्र्यमैक्ष्य च ।
कृपाप्रचुरमाचार्य मत्त्वोपायमवस्थिताः ।।१४६।।
द्विविधास्ते निजाचार्यकृपामात्रप्रपन्नकाः ।
तथा सेवातिरेकप्रपन्नश्चेति सदा सताम् ।।१४७।।
* संवित्करः *
कुछ मुमुक्षु पुरुषकार किसी समर्थ मध्यस्थ में विश्वास करते है। वे सोचते हैं कि
भगवान् को किसी साधन से वश में कर मुक्ति प्राप्त नहीं की जा सकती है; क्योंकि
वे परमस्वतनत्र हैं, साधनसाध्य नहीं है। उन्हें किसी मध्यस्थ के माध्यम से प्राप्त
करना चाहिए -- ऐसा विचारकर, वे अपने परम कृपामय आचार्य को उपाय
मानकर, आचार्यकृपा के बल पर भगवत्राप्ति के विषय में निश्चिन्त हो जाते हैं।
पुरुषकार में निष्ठा वाले मुमुक्षु भी दो प्रकार के होते हैं - प्रथम जो अपने
आचार्यकृपामात्रप्रपन्न होते हैं तथा दूसरे भागवतसेवातिरेकप्रपन्न होते हैं। वे किसी
सद्वैष्णव महात्मा की निरन्तर सेवा करते हुए अनन्यभक्तसेवा के बल पर अपने
आत्मकल्याण के प्रति इसलिए आश्वस्त रहते हैं कि भगवान् को भगवत्सेवा की
अपेक्षा भक्त की सेवा से अधिक प्रसन्नता होती है।
१८० श्रीवैष्णवमतान्जभास्करः
* पदपरामर्शः ॐ
साधनभक्तिनिषछं प्रपतनद्चेति द्विविधमपि मुमुक्षुमभिधायेदानी पुरुषकारनिष्ठान् विव्रणोति
-- पुरुषकारैकनिष्ठासिचाति। केचन पुरुषकारे नि्ां दधाना भवन्ति, तेऽप्याचार्यनिष्छा
भागवतकैङ्कर्यनिष्ठाश्रेति द्विविधा भवन्तीति श्लोकद्वयाशयः। पुरुषकारे घटक एव
निष्ठा येषान्तथाभूता: हरेः स्वातर्यमनन्याधीनत्वमेक्ष्य विचार्य क्रपाप्रचुरं पुष्कलानुकम्पम्
आचार्य गुरुमेवोपायं भगवत्ाप्तिसाधनं मत्वा निश्चित्य, गुरुकृपैव मे सर्वेषं साधायिष्यतीति
मन्वाना अवस्थिता वीतचिन्ता भवन्तीति भाव:। वस्तुतस्तु भगवानेवाचार्यः “यस्पाद्देवो
जगन्नाथः कृत्वा मर्त्यमयी तनुम्। तस्माद्भक्तिगुरौ कार्या संसारभयभीरुणा’
इत्युक्तेः "गुरवो दीनवत्सलाः? इत्युक्तिमनुचिन्त्य कृपाप्रचुरमित्याचार्यं विशिनडि।
इत्थं केचन स्वगुर्वनुग्रहमात्रपरास्तथा च केचन सतां भक्तिमतां महापुरुषाणां सेवातिरेके
निष्ठां दधानास्तत्रैवाभिनिविशन्ते। अत्रायमाभिसन्धिः -- "हन्त्येव नियमाद्वध्यान्'
(२.२.४७) इति रामायणोक्तया 'क्षिपाम्यजस्रमणुभानाएुरीष्वेवयोनिषु' (१६.१९)
इति गीतोक्तया च पापाचारपरायणेषु जीवेषु भगवतो निग्रहसङ्कल्पं निश्चित्याविरतापराधानां
निग्रहार्थमुद्यतस्य सत्यसङ्कल्पस्य सर्वेक्षरस्य नियमनात्की रक्षितुं ग्रभवेत्तस्यानन्याधीन-
त्वादकुण्ठस्वातत्यात्। अतस्तादृशस्य भगवच्छरणवरणेऽपि भीत्यतिरेकात्कश्चित्पुरुषकारो
मध्यस्थो घटको वापेक्ष्यते, येन स साक्षाचदभिमुखमगत्वा स्वरक्षप्रार्थनं दैन्यप्रकाशनं
वा कर्तु शक्नुयात्तदर्थ स परमकृपालठुमाचार्यमेवोपायतयाश्रित्य निश्चिन्तो भवति,
भगवांश्च यथाशाख्रमाचार्यकृपाविशिष्ट तत्पुरस्कृतं जीवमाचार्यग्रार्थनया सकरुणः
सन्नङ्गीकरोति। इत्थमाचायो भगवन्निग्रहसङ्कल्पमपि तत्र शमयितु प्रभवतीति तद्विशेषो
वर्णितं च रामायणे “नाशयामि जगत्सर्व त्रैलोक्यं सचराचरम्” (३.६४.७१)
इत्युक्तवा निग्रहोन्मुखस्य भगवतो भक्तयाचार्यश्रीलक्ष्मणद्वारेत्थं प्रसादनम् 'सदा त्वं
सर्वभूतानां शरण्यः परमा गतिः’ (३.६५.१०), पुरा भूत्वा म्र॒दुर्दान्तः
सर्वभूतहिते रतः। न क्रोधवशमापन्नः प्रकृतिं हातुर्महासि’ (३.६५.४), 'ततः
सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।। रामं सम्बोधयामास चरणौ चाभिपीडयन्'
(३.६६.२) इति। किञ्च समुद्रं शोषयितुमुद्यतमपि भगवन्तं स एव तद्धनुरालम्ब्य
रोद्धुं प्राभवत् 'सौवित्रिरुत्पत्य सम्पुच्छसन्तं मामोति चोक्त्वा धनुराललम्बे
(६.२१.३३) इति।
आचार्यस्य भगवतः सोमित्रेरेवं प्रभावं विज्ञायैवेदं सुग्रीवं प्रतीदं हनुमद्वचनं सङ्गच्छते
-- 'कृतापराधस्य हि ते न हि पश्याम्यहं क्षमम्। अन्वरेणाञ्जलि बद्धवा
लक्ष्मणस्य प्रसादनात्’ (४.३२.१७) इति। आचार्यप्रसादो भगवससादहेतुर्भवति,
अतो मुक्तये तद्वत्तापेक्षा स्मर्यते -- 'पापिष्ठः क्षत्रबन्धुश्च पुण्डरीकश्च पुण्यक्कत्।
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १८१
आचार्यवत्तया मुक्तौ तस्मादाचार्यवान् भवेत्’ इति। 'मोक्षमूल गुरोः कृपा”
इत्युक्तभावाभिनिवेशेन सदाचार्याभिमानोऽपि योगत्वेनोपायत्वेन तत्र तत्र दर्शितः। तद्यथा
‘आचार्यस्य प्रसादेन मम सर्वमभीष्सितम्। प्राणुयामिति यस्यास्ति विश्वासः स
सुखी भवेत्' इति। स्वाचार्यातुग्रहं शरणीक्त्य तत्नियोगात्सधैयमवस्थायान्ते भगवत्ाप्तिकत्र
शबरी रामायणे वर्णिता, अतः 'कच्चित्ते गुरुशुश्रणा सफला चारुभाषिणि" (३.७४.९)
इति भगवता प्रा सा स्वयं भगवद्वर्शनमाचार्यक्ृपयावाप्तामिति भगवत्समक्षमेव वीति
'अद्य मे सफलं जन्म गुरवश्च सुपूजिताः | साक्षाद्धगवद्वक्तप्रपतिरहितानान्त्वाचार्यतिष्छैव
पुरुषकारो, येषामाचार्यक्रणाबलमपि न तेषां भागवतशेषतेव पुरुषकार इति साक्षाअपदनाभाकेपि
तस्मिंस्तज्जने भेदाभावादित्युक्तवासनया परम्परयापीष्टसाधकत्वमाह -- तथेति
श्रीशुष्तचरितमत्र शिक्षकम्। मत्स्मरतिः साधुसेवया, यथोपाश्रयमाणस्य भगवन्तं विभावसुं
-- शीत भयं तमोऽप्योति साधून् संसेवतस्तथेत्युक्तमनुचिन्त्य भागवतकेङ्करयमात्रं मे
पुरुषार्थ इति मन्यमाना अपि पुरुषकारंकनिष्ठा एव। यथा राजा स्वसेवकानुबन्धिनामपि
रक्षणं करोति, तथैव भागवताश्रयस्य भगवान् 'पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः।
तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम्।। दुर्लभा भगवद्योग- भाविनो भुवि
मानवा: । तदवर्शनाचदालापात्युलभं शाश्वतं पदम्” इत्याहुक्ते:। (दृश्यते च भगवतोऽपि
तत््रीतिपरवशाता। नारायणस्तमन्वास्ते वत्सं गौरिव वत्सला” इति। 'अनुब्रजाम्यहं
नित्यं पूयेयेत्यङ्प्रिरेणुभिः ' (११. १४.१६) इत्यादगुकतेः। वर्ण्यते च भगवत्सेवापेक्षयापि
तद्भक्तसेवामहत्वातिशयः 'सिद्धिर्भवाति वा नेति संशयोऽ च्युतसेविनाम्। न
संशयोऽस्ति तद्भक्तपरिचयारितात्मनाम्” इति। आराधनानां सवेषां विष्णोराराधनं
परम्। तस्मात्परतरं प्रोक्तं तदीयाराधनं परम्” इत्यादिना। विधीयते च
भगवठ्ासादजनकतया भागवतकेङ्कयम्; 'तस्माद्विष्णु-प्रसादाय वैष्णवान् परितोषयेत्।
मम भक्तभक्तेवु प्रीतिर भ्याधिका भवेत्’ इत्यादिना! आस्थीयते शुकेनापि भागवते
जात्या कर्मणा वा पापिनां तपक्चर्यादिकं विनैव भागवताश्रयेण परिशुद्धिः ~ "येऽन्ये
च पापा यदुयाश्रयाश्रयाः शुद्धयान्ति तस्मै प्रभविष्णवे नमः” (भा. पु. २.४. १८)
इति। अतो युज्यत एवोपायभावस्तत्र सदा सतां सेवातिरेकं प्रपन्नानामिति सङ्घेपः।
प्रपन्नश्चापि दृप्तः स तथा चार्त इति द्विधा ।
शरीरस्थितिपर्य्यन्तमाद्योऽत्रैव यथोचितम् ।।१४८।।
प्राप्तदुःखादि भुञ्जानः शरीरान्ते वसीय च ।
महाबोधोऽतिविश्वासो मोक्षसिद्धिमवस्थितः ।।९४९।।
१८२ श्रीवैष्णवमतान्जभास्करः
अथाऽन्त्यो सहमानस्ततक्षणमेव तु संसृतिम् ।
तथैव भगवत्प्राप्तौ सत्वरस्वान्त उच्यते ।।१५०।।
* संवित्करः *
प्रपन्न भी दृप्त एवं आर्त के भेद से दो प्रकार के होते हैं। टृप्तप्रपन्न वह होता है,
जो शरीरस्थितिपर्यन्त प्रारब्धानुसार प्राप्त कर्मफल को भोगकर, भगवत्कृपा से
महाबोधोदय होने पर, शरीर के अवसान में प्रभु मुझे सायुज्य अवश्य प्रदान
करेंगे! -- इस महाविश्वास पर अवस्थित रहता है। भगवद्विरह के उदित होने से
जिसे दुःखमय सांसारिक बन्धन को क्षणभर के लिए भी सहन करना कठिन हो
जाता है, वे सद्य: भगवान् को प्राप्त करना चाहते हैं। ऐसे भगवद्विरह के असहिष्णु
प्रपन्न को आर्तप्रपन्न कहते हैं।
* पदपरामर्शः +
आश्रयनिबन्धनभेदपुरस्कारेण प्रपत्रमुमुक्षुस्वरूपँ यथावत्निरूप्येदानीम् 'आर्तो वा
यदि वा दृष्त: (६.१८.१५) इति रामायणोक्तयनुसारेण तन्नाम्नैव व्यवसायप्रयुक्तं
तदवान्तरमापि भेदं स्वरूपकथनेन विविनक्ति त्रिभिः -- प्रपन्नश्चापीति। स च
प्रपन्नोऽपि दृप्त आर्तश्रेति द्विधा, आद्योफत्रेव शरीरस्थितिपर्यन्तं यथोचितं ग्राप्तदुः खादि
भुञ्जानः शरीरान्ते मोक्षसिद्धिमवसीय च महाबोधोऽतिविश्वासश्चावस्थितः, अथान्त्यस्तु
सं्रतिमसहमानस्तातक्षणमेव भगवत्याप्तौ सत्वरस्वान्त उच्यत इति विवक्षानुगुणपदयोजना।
एवार्थे तथेत्यनेन यथा पुरुषकारैकनिष्ठा द्विधा तथा प्रपन्ना अपीति पूर्वोक्तार्थेन भैदसाम्यं
वदाति। शरीरस्थितिपर्यन्तमादेहपातमत्रैव मर्त्यलोक एव। यथोचितमित्युक्तिस्तु सर्वज्ञस्य
समर्थस्य न्यायप्रियस्य भगवतः कर्मफल्प्रदाने वैषम्यादिदोषगन्धलेशाभावादुः खावाप्तावपि
तत्र गुणाकारेण युक्तत्वधियेव। ्ाप्तदुः खादी त्यत्रादिपदेन सुखसङ्ग्रहस्तस्यापि पुण्यफलतया
भोगेनैव नाशात्। प्रापतं स्वार्जितत्वादनिवार्यतयोपेतम्, भुञ्जान इत्यत्र “थुजोऽनवने'
(१.३.६६) इति विधेर्जाग-रूकत्वेऽपि कर्मफलस्य तत्कर्तृगामित्वेन
तदेक भोग्यत्वरूपमौचित्यं प्रकाश्य भोगे नासक्तिद्योत्यते। परमहितैषी भगवान् अनेनेव
देहेन कर्मफलं भोजयित्वा शरीरान्ते निर्मल मां स्वस्वरूपं प्रापयिष्यतीत्यवसीय योक्षसिद्धिं
निश्चित्यावस्थित इति। गुरुणोपदिष्टस्य भगवदादितत्वस्यापरोक्षानुभूतिर्यस्य स महाबोधः,
‘अभयं ददाम्येतद्व्रतं मम” (वा.रा.६. १८.३३) इति वक्ता ठूनं मां रक्षिष्यतीत्यतिशयेन
विश्वासोऽकम्पप्रत्ययो यस्य तथाभूतः, स दृष्तप्रपन्न:। यथा पुत्रस्य जीवनमेव दायप्राप्तौ
कारणन्तथैव पत्रस्य भगवत्ाप्तौ शैव नेति न तदर्थ प्रयासान्तरापेक्षा। यथोक्तं
भागवते "तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम्। हद्वाग्वपुर्भिर्वि-
दधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक्” (१०. १४.८) इति। यश्चान्त्यः प्रन्नः
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १८३
आतिकूल्यपौष्कल्याद्वीषणत्वेन संस्चति संसारं कर्मारिब्धं च शरीरमपि वोढ़मसमर्थस्तत्क्षणमेव
सद्यो भगवत्पाप्तो त्वरमाणमानस एवार्तप्रपन्न उच्यते। चिरक्षुधितस्याग्रतपानमिव भगवन्तं
पति तस्य विरहासहिष्णुतया त्वरातिशयो लभ्यते। तादूशविरहाग्नौ प्रारन्धकर्मनाशात्युनः
संसारावाप्तिनेति, पापस्य भगवद्विरहमयप्रेम-स्फोरकत्वाभावात्। वस्तुतस्तादृशामपि
आरब्धकृतजन्म न भवति, “न कर्मबन्धनं जन्म वैष्णवानाञ्च विद्यते’ (१. १२७.४५)
इति लक्ष्मीनारायणसंहितायां प्रोक्तत्वात्। सत्वर त्वरासहितं स्वान्तं मनो यस्येति
सत्वरस्वान्त इति। तथैवेति एकवृन्तफलद्वयवदुभयस्यापि पत्नव्याप्यत्वं द्योतयित्वा
पूर्ववदत्रापि महाबोधातिविश्वासोदयादिकृतं साम्यं वक्ति। स्वाभिमतसम्भवे
विलम्बाक्षमस्तीव्रसंवेगवान् आर्तः, दृप्तक्च विलम्बाविलम्बा-वनादृत्य फलसिद्धिमात्रासक्तः।
आरतप्रपत्नः संसारजुगुप्सानुसन्धानेन सद्य एव देहनिव्रतिकामो भवति, दृप्तश्च शरीरावसाने
मुक्तिकाम इत्युभयोर्विशेष इति भूषणाशयः। अत्र भावपारिपाकतारतम्याद्
ुप्तापेक्षयार्तस्योत्कृष्टत्वादेव वाल्मीक्युत्ताभ्यर्हित-पूर्वक्रमपरित्यागः।
श्रवणादिमात्रनिष्ठाः शुद्धभक्ताः प्रकीर्तिताः ।
अन्तर्भाव्यास्तत्र तत्र तथानुक्ता मुमुक्षवः ।।१५९॥।
* संवित्करः #
जो केवल श्रीरामजी के गुणों के श्रवण-कीर्तन-आदि नवधा भक्ति में लगे रहते
हैं, उन्हें शुद्धभक्त कहा गया है। इसके अतिरिक्त; जिन मुमुक्षुओं का किसी
वैष्णवभेद में परिगणन न हुआ हो, ऐसे मुमुक्षुओं का अन्तर्भाव भी इसी शुद्धभक्त
की कोटि में करना चाहिए।
* पदपरामर्शः *
श्रवणकीर्तनादिषु नवसु भक्तिभेदेष्वन्यतमे निष्ठावताँ का समाख्या, कुत्र च
मुमुक्षुभेदे तदन्तभाव इत्याकाङ्कायामाह -- श्रवणादिमात्रोति। ये च श्रवणादिसाधन-
भ्तेरेकैकभेदे निष्छावन्तस्ते शुद्धभक्ताः ्रकीर्तिताः, यथा वा केचन 'हरेनाम
हरेनाम” इत्यनुसन्धाय नाम्न्येव महतीं निष्ठां धारयन्तो नाम्न्येव भगवदभेदाध्यावसायेन
वा प्रीतिजुषो भवन्ति तादृशां नामरूपलीलाधामनिष्छानामङ्गोपासकानां तत्र तत्रान्तभावो
विधेय्ः। इत्यमनुक्तानामेषां यथायोग्यं मुमुक्षुभक्तेष्वन्तभाविः करणीय, एषामपि मुमुक्षृत्वात्।
अत एवेषां भागवते पुनर्भवः फलमुक्तं “श्रृण्वन् गृणन् संस्मरयंश्च चिन्तयन्नामानि
रूपाणि च मङ्गलानि ते। क्रियासु यस्त्वच्चरणारविन्दयोराविष्टचेता न भवाय
कल्पते? (१०.२.३७) इति।
१८४ श्रीवैष्णवमताब्जभास्करः
नित्यकादाचित्कभेदान्मुक्तद्वैविध्यमुच्यते ।
नित्याः कदाचित्तत्रापि सिद्धाः सुपुरुषा वराः ।।१५२।।
गर्भजन्मादिदुःखं येऽननुभूय स्थिताः सदा ।
सीतारामप्रियाः शश्चदाञ्जनेयादयो मताः ।।१५३।।
* संवित्करः #
मुक्त जीव दो प्रकार के होते हैं -- नित्यमुक्त एवं कादाचित्कमुक्त। जिन्होंने,
कभी जन्म-गर्भवासादि का दुःखानुभव किया ही नहीं हो, भगवान् श्रीरामजी के
दिव्यधाम साकेत में रहकर नित्यभगवत्परिचर्यारूप परमानन्द को प्राप्त करते रहते
हैं, वैसे श्रीसीतारामप्रिय श्रीहनुमान् आदि भगवत्पार्षद नित्यमुक्त जीव कहलाते हैं।
* पदपरामर्शः *
त्रिविधेष्वापि जीवेषु बद्धजीवं सभेदयुत्तवा सम्प्रति मुक्तस्य द्वैविध्यं विवक्षति।
यद्यपि मुक्तशन्दस्य स्वावधिं प्रति नित्यसाकाङ्कतया बन्धनपूर्वकत्वमेवावसीयते तथाप्यत्र
येषां कदाचिदपि कर्मबन्धनरूपसंसारयोगो नास्ति, तथाविधानां नित्यानामपि मुक्तौ
समावेशान्मुक्तद्वैविध्यमाह ~ नित्यकादाचित्क भेदान्मुक्तद्वैविध्ययुच्यत इति। संसार-
त्वावच्छित्रध्वंसाधिकरणात्वं कादाचित्कत्वम्, ते स्वबद्धतादशायामनुष्ठितैमोक्षोपायैरुदितेन
भगवत्सङ्कल्पेन निवृत्तबन्धा उच्यन्ते; किन्तु संसारात्यन्ताभाववन्तः श्रीहनुमदादयो
नित्या उच्यन्ते, ध्वंसाभावाधिकरणेऽत्यन्ताभावस्यानङ्गीकारात्संसारध्वंसप्रागभावति
बद्धे, संसारध्वंसवति कादाचित्के न संसारात्यन्ताभावसम्भव इति नित्यास्ताभ्यां
भिद्यन्ते/ यद्यापि नित्यानां कादाचित्कानां च कर्मकृतज्ञानसङ्कोचाद्यभावादेकरूप-
सुखानुभवाच्च स्वरूपभेदकथनं नोपपद्यते, तथापि कामान्नी कामरूपीत्याद्यागमात्
कर्माभावेऽपि भगवदिच्छाधीनेच्छाप्रयत्नादिभेदेन नित्यकादाचित्कयोः परस्परं भेदः
स्वीकार्य एव। यद्यपि सर्वेषां परतन्त्रचेतनत्वात्संसरणयोग्यता मुक्तियोग्यता च विद्यते,
तथापि सापराधत्वस्य संसरणं ग्रति भक्तिप्रपतत्यन्यतरस्यानुष्ठितोपायस्य च मुक्तिं
प्रति सहकारियोग्यता। अतो नित्यप्रत्यक्षितभगवदभिप्रायेषु नित्यकादाचित्कमुक्तेषु
सापराधचेतनत्वरूपसंहकारिकारणाभावात्संसारानुवृतिर्नास्ति। 'समोऽहं सर्वभूतेषु’
(गी. ९.२९) इत्युदारघोषणावतो भगवतः प्रसादस्यैव मुक्तिहेतोः आप्तो पौर्वापर्य
नियामकाभावात्सर्वेऽप्येकदेव मुच्येरन्, तथाप्यविद्याचक्रे प्रतिपुरुषं कर्मणां तत्तत्काले
विपक्तिर्भवति। अतः ग्रसादहेतुसामग्ग्राः विषाकसमयभेदात्ततत्पुरुषभेदेन मुक्तिलाभस्य
पौर्वापर्य युज्यते। प्रथमं नित्यानाह -- नित्या इति। ये कदाचिदपि गर्भजन्मादिदुः ख-
मननुभूय सदा तत्र स्थितास्ते नित्या इत्यन्वययोजना।
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १८५
नित्यानां नित्यभगवत्मीतिलाभसौभाग्यमाह ~ शश्चत्सीतारामाप्रिया इति। एतेन
श्रीसीतारामयोरेव परत्वं संसूच्यावताररूपतया विभवत्वमात्रमङ्गीकुर्वतां मतं निरस्तम्।
प्राप्यस्वरूपस्य युगलरूपताद्योतनायैव सीतारामेत्युभयोनिदेशः। तात्रित्यात्रामग्राहमाह
-- आञ्जनेयादय इति, तत्राप्याञ्जनेयस्य प्रामुख्याल्लोकप्रसिद्धया च प्रथमगणनीयत्वेन
तन्नामग्रहणम्। यद्यप्यञ्जनाया अपत्यं पुमानित्यपत्यप्रत्ययान्ततया गर्भजन्मादियोग:
प्रतीयते, तथापि रूपान्तरेण भगवल्लीलासिद्धो भगवत्सङ्कल्पादिव्याविभावस्वीकारेण
न नित्यताहानिः। नित्यसूरित्वन्तु सदा पश्यन्ति सूरयः? (ऋ. १.२२.२०) इति
्रुत्यानेकद्रष्टकृतसदादर्शनोक्तघा सिद्धयति। अत्रायमाशयः अनादिस्वतन्त्रसर्व्ञत्वं
भगवत एव अनादिपरतन्त्रसर्वज्ञत्वं नित्यानाम्, आदिमदकर्मकृतपरतन्त्रसर्वजञत्वं
कादाचित्कमुक्तानाम्; मुक्ते दुःखायोगेऽपि, तस्यैव पूर्व बद्धावस्थायां तद्योगेन
तदत्यन्तायोगाभावाद् बद्धकादाचित्कमुक्तयोः स्वप्रतियोग्यसमानाधिकरणदुःखाभावाभावः
साधर्म्यमिति। बद्धानामपि महर्ष्यादीनां तपः फलतया सार्वश्योदयादादिमत्कर्मक्ृतपरतन्त्र-
सर्वज्ञत्वं तेषां तदितरवद्धानां कर्मयोगात्सङ्कचितज्ञानतया दुःखसम्बन्धस्यासाधारणधर्मतया
च सर्वज्ञत्वरहितत्वे सति परतन्त्रचेतनत्वमिति भावः।
नित्यमुक्ता अपि द्वेधा परिजनाः परिच्छदाः ।
मारुत्याद्याः किरीटाद्याः क्रमात्ते च प्रकीर्त्तिताः ।।१५४।।
* संवित्करः #
नित्यमुक्त भी परिजन एवं परिच्छद भेद से दो प्रकार के होते हैं। जो समीपस्थ
हो, परिजनभाव से सर्वविध कैंकर्य करते हैं, वे श्रीहनुमान्-प्रभृति परिजनरूप
नित्यमुक्त जीव हैं तथा जो किरीट-मुकुट-आदि रूप से भगवत्सेवा करते हैं, वे
नित्यधाम में विराजमान परिच्छदभेद वाले नित्यमुक्त कहलाते हैं।
* पदपरामर्शः *
नित्यानां ज्ञानभोगयोरत्यन्तसाम्येऽपि स्वरूपाधिकारवैषम्यकृतं पारम्यं भगवत्येवेति
परिचारककिरीटादिवणनिन सर्वेक्षरानुरूपवैभवं श्रीसाकते भगवन्नित्यधाम्नि नित्यमुक्तानां
स्वामिगुणप्ररितकैङ्करयविधिं तदास्वादनगर्भ च विवक्ष॑स्तदनृगुणं द्रेविध्यमाह -- नित्यमुक्ता
अपि द्वेधेति! मारुत्याद्या श्रीहनुमदाद्याः पारिजनभावेन छत्रचामरव्यजनादिधारकतया
यथायोग्यं सेवन्ते, अपरे नित्यमुक्ता परिच्छदभावेन किरीटमूकुटकुण्डलहारकेवूरकटक-
काञ्चीगुणतूपुरादिभगवदनुरूपवेषेण श्रीरामचन्द्रं परिचरन्तीति भाव;। परिच्छाद्यतेऽ नेनेति
परिच्छद उपकरणम्, पुसि सज्ज्ञायां प: प्रायेणेति घ:। न केवलं परिचारकरूपेणापितु
नित्यमुक्ता एव सेवोपकरणरूपेणापि भगवन्तं परिचरन्ति। एतेन किरीटादीनामपि
चेतनत्वं तत्रेति लभ्यते। परिजनक्रिया खलु सेवा। अतः परिजनपरिच्छदयो:
१८६ श्रीवैष्णवमतान्जभास्करः
परिचरणैकोद्देश्यसाम्य॑ द्योतयतरुपसरगैक्यादनुभूयमानानन्देऽ प्युच्चावचराहित्यं ध्वनयाति।
परमयोगिभिर्ध्यातुमपि दूरस्य भगवत एभिर्न केवलं सान्निध्यं ग्राप्यतेऽपितु यथायोग्याकारेण
परिजनादिभावेन नित्यं निरपेक्षं स परिचर्यते, इत्यहो स्वरूपानन्दापेक्षयाप्यपरिच्छेद्य-
ब्रह्मस्पर्शाद्यानन्दास्वादधन्यतातिरेकस्तेषाम्।
भागवताः केवलाश्च कादाचित्का अपि द्विधा ।
तत्र भागवता बोध्या ये तेषु भगवत्पराः ।।१५५।।
भगवद्धोग्यभूत्यादिसाक्षात्कारसुखाश्रयाः ।
श्रीराममानसा नित्यं तदनुध्यानतत्पराः ।।१५६।।
केचिद् गुणानुसन्धानपराः कैङ्कर्यतत्पराः ।
इत्थं महर्षिभिः प्रोक्ता द्विविधा भगवत्पराः ।।१५७।।
द्विविधा केवला बोध्या दुःखभावैकतत्पराः ।
आत्मानुभूतिपरमा इति चोक्ता महर्षिभिः ।।१५८।।
* संवित्करः #
कादाचित्कमुक्त भी भागवत तथा केवल भेद से दो प्रकार के होते हैं। इनमें जो
अनन्यभाव से श्रीसीतारामपरायण होते हैं, वे भागवत कहलाते हैं। वैसे भागवत
भी दो प्रकार के होते हैं; जिनमें कुछ भक्त ऐसे होते हैं, जो भगवान् श्रीराम के
ऐश्वर्य आदि अनन्त दिव्यविभूतियों के साक्षात्कारजन्य सुख के हेतुभूत भगवद्धयान
में ही संलग्न रहते हैं। दूसरे वे है; जो भगवान् के दिव्यगुणों का निरन्तर चिन्तन
करते हुए भगवत्कैंकर्य में सदा संलग्न रहते हैं। महर्षियों ने इस प्रकार से भेद का
परिगणन किया है। केवलमुक्त भी दो प्रकार के होते हैं -- प्रथम वे हैं जो “सर्व
दुःखं विवेकिनः’ की भावना से संसार को दुःखरूप ही समझते हैं (अर्थात्
आत्मव्यतिरिक्त सभी संसार के पदार्थ दुःखरूप हैं -- ऐसा सदा अनुभव करते
हैं) दूसरे वे हैं, जो सर्वदा आत्मानुसन्धान करते हैं; आत्मव्यतिरिक्त पदार्थ का
चिन्तन ही नहीं करते।
* पदपरामर्शः *
मुक्तेषु स्वरूपनिदेशपूर्वकं सविभागं नित्यमुक्तं समुन्नीय कादाचित्कमुक्तं तत्स्वरूपभेदा-
विष्कारेणावगमयाति -- भागवता डृति। करुणासिन्धोर्भगवतः सञ्जातेन केनाप्यनुग्रहेण
कदाचिज्जातमुक्तेरेव कादाचित्कत्वमर्थतः सिद्धम्। एतेनाकस्मिकत्वाद् दुर्लभत्वं सूच्यते।
ते कादाचित्का मुक्ता आपि भागवतकेवलभेदादू द्विधा, तेषु भगवत्परा श्रीसीतारामानुरक्ता
भागवता बोध्याः। तेषामपि तदनुध्यानानन्दपरा, कैङ्कर्यपरा इतिभेदद्वयम्। प्रथमे
षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् १८७
भगवद्धोग्यभूतेर्नित्यानवद््षर्यमय्याः शुद्धसत्वमयत्वात्स्वरूपगुणसंस्थानादिवैचित्यातिशयेन
नित्यमपूर्ववदनुभाव्यमानाया साक्षात्कारेणानुभूत्या प्राप्तसुखस्याचिन्त्यानन्दस्याश्रयभूता
भवन्ति। श्रीरामे युक्तोपस॒प्ये भगवति मानसं येषान्तादृशा अतस्तदिव्यसौन्दर्यादि-
ठुन्धमानसतया नित्यं तस्यैवानुध्याने चिन्तने तत्पराः संलग्ना ये भवान्ति, ते
विभवाऽनुचिन्तनरसिकाः। केचिच्च भगवतः कारुण्यमाधुर्यमार्दवसौशील्यादि-
दिव्यगुणानुसन्धानपरा:, अतो गुणैदस्यमुपागत इत्युक्ता गुणग्रहीतचेतसः तत्केङ्क्ः
करसिका भवन्ति। इत्थं केचित्साक्षात्कारद्वारा तदनुचिन्तनमग्नाः, अपरे पुनस्तद्गुणा-
कुष्टमनस्काः कैङ्कर्यरसमरना इति भाव:।
इत्येवं क्रान्तदर्शिभिः भगवत्परकादाचित्कमुक्तानां भेदद्वयमभाणि। आश्चर्यमय-
विभूतिसाक्षात्कारेण चमत्कृतचेतसस्तदानन्दसिन्धौ निमग्नाः, अपरे च दिव्यगुण-
ठुन्धास्तत्सेवासुखरसमप्यास्वादयन्तो भवन्तीति मिथो भेद:। एकत्र मनोनयनानन्दरूपाया:
स्वात्मनि्वृतेः प्राधान्यमपरत्र भगवदेकसुखपर्यवसायिसेवानन्द-रुचिवैचित्यकृतो भेद:।
तेन मुक्तानां भगवत्परिचयादर्थनतदनुगुणविग्रहावाप्तिर्थतः सिद्धा। एतेन द्रत्यगानन्दापेक्षया
परमात्मानन्दस्य पारम्यं द्योतितम्। येन हि स्वात्मानन्दमप्यविगणय्य भगवदानन्दे ते
निमज्जन्ति। कादाचित्कमुक्तेषु ये केवलमुक्तास्तेऽपि दु:खभावैकतत्परा आत्मानुभूतिपरमा
इति नाम्ना महर्षिभिद्रिधाशओत्ता:। स्वात्मानन्दापेक्षया तद्व्यतिरिक्ते सर्वी दुःखभावमेवानुसन्दधते;
यद्वा दुःखपड़मग्नानां सांसारिकजनानां दुःखानुचिन्तया करुणाद्रचेतसो भवन्ति,
सर्वज्ञत्वलाभाहुःखं सर्व विवेकिन इत्युक्तेः। दुःखभावैकतत्परत्वे तेषामपि दुःखितत्वं
स्यादिति चेन्न तेषामविद्यानावृतत्वादुःखमूलकर्मणोऽग्रसक्तेश्च। अपरे चात्मानुभूतिः
स्वात्मानन्दानुसन्धानं परमा अत्यर्थप्रिया येषान्त आत्मानुभूतिपरमाः। परिशुद्धस्वात्म-
स्वरूपानन्दानुभवे निमग्ना इत्यर्थः। एतेन भगवद्रामानन्दाचार्यमते कैवल्यमोक्षस्य
स्वीकारो बोध्यते, यद्यप्ययं कैवल्याख्यो मोक्षो वेदान्तदेशिकप्रभ्रतिभिन्यायसिद्धाञ्जनादौ
श्रीयामुनादिमतोपान्यासपूर्वकमनूद्य युक्त्या प्रत्याख्यातः। किन्तु सर्वकर्मक्षयेण
भगवदनुभवरहितस्यास्य स्वीकारेऽपि न क्षतिः। केचन त्वस्य मुक्तिविशेषत्व
आनन्दतारतम्यमवर्जनीयं स्यादित्याशङ्कय प्रत्याचक्षते।
अतो भगवदनुभवराहितात्मानुभवमात्रतप्तस्यास्य केवलमुक्तस्य विरजापरमव्योम्नोरन्तरा
केवल: स्मृत इति स्थानविशेषं निश्चित्य मुक्तत्वव्यपदेशस्यापि विगतेच्छाभयक्रोधो यः
सदा मुक्त एव स इत्यत्रेव मुक्तचदूरविप्रकर्षेण गोणत्वान्न मुख्यमुक्तिरिति कथयन्ति;
किन्त्वस्मदाचायैस्तु तत्स्वीकारो व्यधायीति विशेष:।
*% + ( इति षष्ठप्रश्नोत्तरे वैष्णवभेदनिरूपणम् ) # #
।। श्रीसीतारामार्पणमस्तु ।।
( अथ सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् )
समुच्यते सम्प्रति लक्षणं सन्महात्मनां सद्गुणवैष्णवानाम् ।
विरिञ्चिशम्भुश्रितरामचन्द्रपदारविन्दस्थितचेतसाँ हि ।।१५९।।
* संवित्करः *
जिनका चित्त निरन्तर शिव-ब्रह्मादि के द्वारा सेवित व समाश्रित श्रीरामचन्द्र के
चरणारविन्द में भ्रमरवत् संलग्न रहता है, ऐसे सदगुणसम्पन्न वैष्णव महात्माओं
का लक्षण कहा जा रहा है।
* पदपरामर्शः +
श्रीवैष्णवत्वस्य जीवत्वव्याप्यतया जीवभेदनिरूपणाततद्धेदनिरूपणसिद्धेरिदानीं
पृष्क्रमानुगुणं श्रीवेष्णवलक्षणं वकुं प्रवर्तते -- समुच्यत इति। सम्प्रति हि महात्मनां
विरिज्चिशम्भु्रितरामचन्द्रपदारविन्दस्थितचेतसां सद्गुणवैष्णवानां सलक्षणं समुच्यत
इति विवक्षितार्थानुसारेण पदनिवेश:। जीवस्य लक्षणमितिवल्लक्षणीये प्राय एकवचनस्य
दशनिउप्यत्र तेषां वैष्णवानां लक्षणं किमित्याकारकप्रश्नवाक्ये लक्ष्यवाचके
बहुवचनदर्शनात्तदनुरूपस्योत्तरवाक्ये बहुवचनप्रयोगस्य युक्तता। कैष्णवानां लक्षणे
पृष्टेऽत्रत्यं सद्गुणवेष्णवलक्षणमुच्यमानमयुक्तामिति चेत्र; उत्तमानुत्तमयोर्युगपत्
पराप्तावुत्तमपरित्यागस्यायुक्तत्वात्। न हि रत्नलक्षणे जिज्ञासिते प्रथमं दुएलक्षणं
परीक्षणायोपादीयतेऽङ्गवैकल्यात्, तस्य लक्ष्यत्वेऽपि निर्दृष्टं रत्नं निदर्श्यत इति
विशिष्टोपादाने नायुक्तता। "हरावभक्तस्य कुतो महद्गुणा: ' (भा.पु. ५.१८.१२)
इत्युक्तिमनुसन्धायाह -- सद्गुणवैष्णवानामिति। सतां सज्जनानां गुणा येषु ते
सद्गुणाः, सद्गुणाश्च ते वेष्णवास्तेषायु, यद्वा सद्गुणैरेव वैष्णवा न तु नाम्नैव,
लोके पञ्चसंस्कारदीक्षितमात्रेपि वैष्णवपदव्यवहारदर्शनात्ताटृशनामवैष्णवव्यावृत्तये
सद्गुणेति। यद्वा भगवद्गुणाक्ष्तया वैष्णवाः, “गुणैदस्यिमुपागतः (वा. रा. ४.४.१२)
इति श्रीलक्ष्मणोक्तेः। वैष्णावैर्यथा भूयेत तथा स्वरूपानुगुणाचारनिष्ठा इत्यर्थः।
तेनाचारशुचितोक्ता।
विहितानुष्ठानेन बुद्धिर्विकासमेतीति सदाचारफलत्वेन तद्बुद्धिशुद्धिमाह --
महात्मनामिति। महान् विशदः समुदार आत्मा बुद्धिर्येषां, विशदज्ञानानामित्यर्थः।
महति भगवत्यात्मा बुद्धियेषामिति विग्रहे सामानाधिकरण्याभावाच्छूयमाणात्वानापतिः
स्यात्। अवदातप्रजञानां चित्तपनायासेन भगवत्पादारविन्दयोरनुरक्तं भवतीति बुद्धिवैशद्य-
सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् १८९
फलमाह -- विरिश्विशम्भ्वादिना। विरिञ्चिशम्भुभ्याँ हिरण्यगर्भशङ्कराभ्यां श्रितयो:
सेवितयो रामचन्द्रपदारविन्दयो: श्रीराषवेन्द्रचरणकमलयो: स्थितानि संलग्नानि चेतांसि
मनांसि येषामिति। विरिञ्चिञ्च शाम्भुश्चेति द्वन्द्व उभयोधित्वेः प्यल्पाच्त्वाच्छम्भुपदस्य
पूर्वप्रयोगे.प्राप्ते भागवतोक्तस्टिक्रममात्रित्यानुज्येष्छं पदाधानम्। विधातृत्वेन महादेवत्वेन
च लोक आराध्यतया ग्रधितप्रभावयोरापि रायचन्द्रपदारविन्दाश्रितत्वे भगवतो रामस्य
स्वेतरसवाराध्यत्वं संसूच्य सर्वेश्वरत्वं प्रकाशितम्। भगवत्पदारविन्दाश्रयणोक्ते:
तन्मकरन्दळुन्धभ्रमरवदेकान्तरसिकत्वं व्यज्यते। श्रितशब्दो यदि रामचन्द्रेछन्वीयते
तदा तयोश्चकोखतं, पदान्तेउन्वीयते तदा तद्दास्यन्तयोर्गम्यते। एतेनोभयोरेश्वर्य
श्रीरामपादारविन्दाश्रयस्येव फलमित्युक्तं भवति। यथा ऋग्वेदे (अस्य देवस्य मीढुषो
वया विष्णोरेषस्य प्रभृथे हविर्भिः। विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं
वर्तिरश्चिनाविरावत्’ (७.४०.५) इति। “महादेवः सर्वमेधे महात्मा हुत्वात्मानं
देवदेवो बभूव' (१२.२०.१२) इति महाभारतोक्तेः, 'ग्राजापत्यं त्वया कर्म
मयि सर्व निवोशितम्’ (७. १०४.७) इति रामायणे श्रीराममुदिश्य ब्रह्मणोत्तेश्।
स्थाधातुर्गतिनिवृत्यर्थस्तेन प्रकृत्या चपलचोतसोऽपि यदासाद्य गतिनिवृत्तिरिति
मकरन्दपौष्कल्यद्योतनेन तदास्वादनमुग्धमधुकरवृति्ध्वन्यते। इत्थं सद्गुणपदेन कर्मणः
महात्मपदेन बुद्धेः पदाराविन्दस्थितचेतस्त्वेन मनसश्च प्राशस्त्यमुक्तवा वैष्णवे साधनवैकल्यं
निरस्य सर्वसाधनसमन्वयः ्रदर्शितस्तत्रापि चरमविशेषणे भगवत्पदारविन्दप्रीतावितरयोः
पर्यवसानं सिद्धान्तितम्। यद्यपि दूषणत्रयराहितधर्मो लक्षणं भवति, तथाप्यस्फुटत्वादि-
राहित्यद्योतनाय सादिति तद्विशोषणम्। अज्ञानसंशयविपर्यय्रतिक्षेपेण उच्यत इति
समुच्यते।
धृतोर्ध्वपुण्ड्स्तुलसीसमुद्भवां दधच्च कण्ठे शुभमालिकां जनः ।
तज्जन्मकर्माणि हरेरुदाहरेद् गृह्णंश्च नामानि शुभप्रदानि सः ।।१६०।।
* संवित्करः *
जो द्वादश स्थानों पर ऊर्ध्वपुण्ड्-तिलक तथा कण्ठ में परमपावन तुलसीनिर्मित
माला धारण करे, भगवान् हरि के अवतार-चरितों एवं शुभप्रद नामों का गायन
व उच्चारण करे -- वह वैष्णव है।
* पदपरामर्शः *
भगवद्ग्चतिरिक्तस्य सर्वस्यापि तच्छरीरतया वैष्णवत्वे देवताप्रत्ययान्तस्य च
विष्णुदेवताके हविराद्यचेतनेष्वपि च तत्वे-्राप्ते सामान्यतः पञ्चसंस्कारपूर्वकभगवत्तदीयैक-
परत्वमिह सद्वैष्णवलक्षणम्, तत्र तत्तदीयपरत्वस्य मुख्यत्वेऽपि तद्योग्यतासिद्धये
१९० श्रीवेष्णवमताब्जभास्कर:
संस्कारपूर्वकत्वमनिवार्यम्। तत्तदीयपरत्वाभावे देवतोद्देश्यकस्य संस्कृतपुरोडाशस्य प्रदीप्त
आवहनीयाग्नावनिर्वपणवदत्यन्तायुक्तता, तस्य तादर्थ्यात्। इदं विरक्तगहस्थोभयसाधारणम्।
यथोक्तं 'गृहीतविष्णुदीक्षाको विष्णुसेवापरो नरः। वैष्णवश्चात्र सङ्ग्राह्मः
स्कान्दाद्युक्तानुसारतः' इति। पञ्चसंस्कारेषु मन्त्रनामतापानामस्फुटतयार्ध्वुण्ड-
ठुळसीमालयोक्चातितरां स्फुटत्वात्ततरप्यर्ध्वपृण्ड्स्य विप्रकृट्ठान्तरतोऽपि लक्ष्यमाणत्वेन
सर्वादौ तत एवाचारमूलं लक्षणं क्कुमुपक्रमते -- श्रवोर्ध्वपुण्ड़ इति। यततदोर्निप्यसम्बन्धात्स
इत्यनेन यच्छन्दपरामर्शाद्यो ध्तोर््वपुण्डस्तुलसीसमुद्धवां शुभमालिकां च कण्ठे दधद्धरेः
शुभप्रदानि नामानि गुह्नश्च तज्जन्मकर्माण्युदाहरेत्स जनः वैष्णव इति विवक्षानुगुण-
पदव्यवस्थितिः। ऊर्ध्वपृण्डादेः ,प्राथम्येनोक्तेवेष्णवत्वस्य पञ्चसंस्कारमूलकत्वं दर्शितम्।
पुण्ड़ं रेखा, ऊर्ध्वगामिरेखाकारतया नासिकामूलाछलाटे चार्चितं तिलकमूर्ध्वपुण्ड़म्।
विहितम्रदा समन्त्रकं यथाविहितं द्वादशसु स्थानेषु ध्रतमृर्ध्वपुण्ड़ं येन सः। यथा भगवाञ्शिवो
भगवत्पादतीर्थबुद्ध्यात्यादरेण गङ्गां शिरसा दधार, तथैवाहल्योद्धारादौ दृष्पप्रभावेर्भगवत्पादर-
जोर्भिहारिपादाकृत्यार्ध्वपुण्डुं धरते वैष्णवजनः। यज्ञोपवीतधारणादिवद्ध धातोरत्र
प्रयोगादादरातिशय: प्रकाशित इति न विलेपनादि-शन्दप्रयोगः। ऊर्ध्वपुण्डुमात्रोक्तया
तट्र्याप्यानां हारद्राश्चीशुक्लश्रीठुप्तश्रीबिन्दुश्रीप्रभतीनां सङ्ग्रह: यथा हि पतिव्रताया
माल्यं सौभाग्याश्रियं पतिपारार्थ्यं च सूचयति, तथेव वैष्णवानां भगवते निवेदितत्वं
तत्पारार्थ्यं महाभागवतसंश्रयञ्च ख्यापयति तुलसीमालेत्याह -- कण्ठे शुभमालिकां
ठुलसीसमुद्भवां दधदिति। कमलाक्षादीनामपि शुभमाल्यत्वेन परिगणितत्वेऽपि
विशेषणविधया सर्वव्यतिरेकात्रियमयति -- तुलसीसमुद्धवामिति। संस्कारसम्पादने
तस्या एव सर्वातिशायित्वात्, हुलसीसम्भवं सर्व पावनं ग्रत्तिकादिकम्” (६. २३. २)
इति पद्मपुराणोक्तेश्च। न च तुलसीमालाधारणस्य सन्ध्यादौ कुशादिधारणवदनुष्छान-
कालव्यापित्वमस्त्विति वाच्यम्। उपनयनादनन्तरं यज्ञोपवीतधारणस्य यथा न यज्ञाद्यावधिकत्वं,
तथेव तस्या यावज्जीवं धार्यताया विहितत्वात्।
यथावस्थितसेवाधिकारसिद्धये तदविच्छित्रयोगस्य युक्तत्वाचदभावे योग्यतावैकल्यात्
स्वरूपानुगुणसेवाया अलाभेन स्वरूपप्रच्युतिः स्यात्। यथा त्वं भगवत्पादयोर्नित्यसङ्गता
तथा मामपि कुर्विति भावनया श्रीरामचरणारविन्दप्रीतिमिच्छद्धि्वणवजनैः समाराध्येति
महतादरेण ध्रियत इत्याह -- दधादिति। आत्रात्ये दधत्पदे उत्तरार्धे गुह्णत्रिति पदे च
लक्षणहेत्वोः क्रियाया इति लक्षणे शता। वैष्णवलक्षणप्रस्तावे पञ्चसंस्कारेषु च
ठुळसीमालाया: प्रामुख्येन समावेशाततद्रहितस्यावेष्णवत्वं सूचितम्। जन इत्युक्तवा
मनुष्यमात्रस्याधिकारः सूचितः। चिह्वरूपं लक्षणमुत्तवेदानी तत्निसर्गसिद्धव्यापार प्रदर्श्य
लक्षयति हरेः शुभप्रदानि नामानि गृह्वन्निति। तन्रामग्रहणादिभिरिति
सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् १९१
वैकुण्ठनामग्रहणमित्यादौ प्रयुक्तधाठुमेवोपादद्ते गृह्णत्रिति, यथाकत्थच्चिद् ग्रहणेऽपि
कल्याणकरत्वमेवोति सूचितम्। हरेराश्रितविपद्धरणशीलस्य भगवतो रामस्य, तेन
वन्धहारित्वमुक्तं; यद्वा सर्वावतारसाधारणाद् हरोरिति सामान्यनि्देशान्मीरादिवन्नारायण-
क्रष्णगोविन्दादिनामग्रहणमप्याभिमतमेव्, तेन सम्प्रदायान्तरे दृश्यमानं दुरवग्रह निरस्य
श्रीसम्प्रदायस्यास्य भावशुद्धिरौदार्यञ्च प्रकाशितम्। नामानीति बहुवचनं यथारुच्यु-
पादानसालभ्यद्योतनाय। किङ्चैतेन चान्द्रायणादिवत्कृच्छ्रसाध्यं न, अपित्विदन्तु
वाङ्मात्रसाध्यमिति लभ्यते। रक्ष पाहीत्यादिक्रियापदाभावेऽपि नाम्ना सम्बुद्धया अलमिति।
व्याकरणसंस्काराभावेऽपि तेषां बोधकताशक्तया नित्यया न क्वचिदपि सादूगुण्यहानिः।
आत एव पदानीति नोक्तम्। नाम्नां मोक्षसाधनतामाह -- शुभग्रदानीति। अमङ्गल-
विधूननेन निरतिशयानन्दं भगवन्तमपि प्रयच्छन्तीत्यर्थः, तस्यैव सर्वशुभाश्रयत्वात्।
नाम स्वस्त्ययनं हरेः? (६.२.७) इति भागवतोक्तेः। उक्तञ्च "सकृदुच्चारितं येन
हारिरित्यक्षरद्वयम्। बद्धः परिकरस्तेन मोक्षाय गमनं प्राति’ इति। अनुपलन्धे
श्रोतरि नामजप कुर्यात्, उपलन्धे च तस्मिंस्तज्जन्मकर्माण्युदाहरेदिति। हरेर्जन्मकर्मणो
रहस्यतयान्यथाप्रतिपत्तिवारणाय विविधोपपादकवचनोपादनं द्योतयितुं धात्वन्तरेणाह
-- उदाहरादिति। अत एव भगवताऽविगीतमेवमगायि “जन्म कर्म च मे दिव्यमेवं
यो वेत्ति तत्त्वतः । त्यक्तवा देहं पुनर्जन्म नैति मामेति सोऽर्जुन’ (४.९) इति।
जन्म च कर्म चेति समस्यमानपदयोद्रित्वेऽपि जन्मकर्मणामिति बहुवचनं लीलावताराणा-
मार्विभावेहितयोः प्रतिकल्पं वैचित्र्यं प्रकाशायिठुं तदपरिच्छेद्यतामभिधत्ते। तेन जन्मानि
च कर्माणि चेति विग्रहो युक्तः। शुभप्रदानीत्यस्यात्राप्यन्वयः फलनिदेशकविशेषणैक्याद्
नामग्रहणस्य गुणकीर्तनस्य च समानफलकरत्व सूचितम्।
सीतापतेः संश्रृणुयान्निरन्तरं कथां च गायेत्सुयशोऽङ्कितां मुहुः ।
रूपं तदीयं च चराचरात्मकं पश्यन् सतां सङ्गमुदारधीश्चरेत् ।। १६१।।
* संवित्करः *
जो निरन्तर धनुर्धारी श्रीजानकीनाथ भगवान् की कथा का श्रवण करे तथा उनके
ललित सुयशों से युक्त चरित का सदा गान करे, जो चराचर विश्व को भगवदात्मक
बुद्धि से रामरूप में देखता हुआ सत्संगपूर्वक उदारभाव से जगत् में विचरण करे --
वह वैष्णव है।
* पदपरामर्शः *
सत्सङ्ग विना भगवत्कथाश्रवणस्य न कदाप्यवसरो लभ्यते, तद्गुणचरितश्रवण-
कथनाभ्याग्॒ते न बुद्धिवैशद्यं तद्विना च न जगतो भगवदात्मकतया दर्शनमिति "वासुदेवः
१९२ श्रीवैष्णवमतान्जभास्करः
सर्वामिति स महात्मा सुदुर्लभः? (गी. ७.१९) इति भगवदुक्तं माहात्म्यं
वैष्णावस्तदनुगुणसाधनपरतया लभत इत्याह -- सीतापतेरिति। सर्वादौ भगवदात्मक-
ताया अपरोक्षानुभूते: क्रमं विवक्षंस्तादृशदृषटिप्रकर्षस्य भगवद्गुणश्रवण- कीर्तनैकमूलत्वं
दर्शयितुं कैणवस्य कल्याणगुणाकरभगकल्लीलागुणान्धिमज्जनप्रावण्यमाह ~ कथां
निरन्तर स श्ृणुयादिति। कथाश्रवणं विना तद्विषयतदुपस्थापनादिज्ञानाभावेन कथागाने
तद्धेतुतया श्रवणं पूर्वमुक्तम्, आदौ कथां संश्रणुयात्ततोऽवाप्तनोधो भगवद्रसिकेषृ गायेदिति
भाव:। वेष्णवस्य सारग्राहित्वाद्भकतेश्च महासारत्वात्तदवाप्तयेऽ न्तरङ्गसाधनं कथाश्रवणमेव,
'यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे। भक्तिरुत्पद्यते पुंसः शोकमोह भयापहा’
(१.७.७) इति भागवतोक्तेः। सत्कारासेवितेऽपि तत्र साद्गुण्यायापेक्षितमविच्छेदमाह
-- निरन्तरामिति। कथामिति देहलीदीपन्यायेन पूर्वपादगते संश्रणुयादित्यत्रोत्तरपादगते
गायेदित्यत्र चान्वेति। विषयस्यैकस्य निरन्तरासेवनाद् जातं वैरस्यमपनेतुं तदनुरागविव्रद्धये
यश: ख्यापकानेकरोचकप्रसङ्गसम्पत्तिमाह -- सुयशोऽङ्कितामिति। यद्वा
सुयशोऽड्कितामित्यस्य गायेदित्यत्रैवान्वयः; संश्रणुयादित्यत्र तु यथापठितं निर्विशेषेण
कथामात्रमन्वेति, तेन भगवत्कथां सरसां सामान्यं वा यथाकधिद्चत्कृतश्चिद्रा लब्धां
संशणुयात्तस्या वक्त्रधीनत्वात्; किन्तु गाने स्वयं प्रवृत्तो वैष्णवो बहुधा विग्रश्य भक्तिवृद्धये
सुयशोऽड्कितामेव कथां गायेदू, गाने तस्य स्वातन्त्यादिति भावः। आविभविप्रसङ्गेन
भक्तवाज्छापूरकत्वं विश्वामित्रमनुगच्छतो गुरुजनपारतन्त्यं, यज्ञरक्षया धार्मिकजना-
निष्टनिवर्तकत्वम्, अहल्योद्धारणप्रसङ्गेन पतितपावनत्वं, वनगमनप्रसङ्गेन मातापित्रोर्भत्ति:,
साँग्रात्रञ्, निषादाद्यार्लेषेण सौशील्यं खरदूषणाबुद्धारेणाश्रितजनसंरक्षकत्वं, जटायुषो
गतिदानेन कृतज्ञत्वं, विषण्णसुग्रीवकष्ट-निवारणेन दीनबन्धुत्वं, विभीषणाभयदानेन
शरणागतवत्सलत्वं, अत्यावृत्तस्यायोध्याधिपतेः त्यागसमुज्ज्वलं प्रजारञ्जनमित्येवं-
विधानन्तयशोगुम्फितां भगवत्कथां गायेत्स वैष्णव इति। सतीष्वप्यनेकविधावतार-
कथास्वाचारशिक्षणेन धर्मप्रक्तौ रामकथाया यथा सामर्थ्य न तथा तदितरावतारकथानाम्।
अत एव श्रीकृष्णलीलाप्रधाने भागवतेऽपि भगवद्रामचन्द्रस्यानितरसाधारणं
सार्वभौमम्रषिजनगीयमानं यशोजातमनवद्यतया स्तौति शुकाचार्यः “यस्यामलं नृपसदस्यु
यशोऽधुनापि गायन्त्यघघ्नमृषयो दिगिभेन्द्रपद्टम्’ (९.११.२१) इति। "नास्ति
रामायणात्परम्” इत्युक्ते:।
स्वाभीट्विषयनिधारिणेन कर्था नियमयति -- सीतापतेरिति। यद्विषयकरतावति-
शयाधानमपेक्षितं तदनुरूपानुध्यानोत्तेजकसामखुपादानस्यौचित्यात्। सीतायाः पतिस्तस्य
सीतापते, सर्वथानुरूपपत्नीयोगोत्तम्भितचरितप्रकर्षस्य श्रीजानकीवल्वभस्येत्यर्थः।
अयमाशय: -- स्त्रीपुसात्मकस्य मानवसमाजस्य कर्चव्यशिक्षार्थं परवृत्तं रामायणं न
सप्तमप्रश्नोत्तरे वैष्णबलक्षणनिरूपणम् १९३
केवलं रामचारितेन पूर्तिमेत्यपिठु श्रीसीतारामयोश्चरितेन। भगवता नित्ययुक्तापि जगन्माता
लीलाप्रयुक्तेखिभिरापि स्ववियोगेरनन्यशेषत्वमनन्यहित्वमनन्यभोग्यत्वञ्च प्रकाश्य स्वस्याः
पतिपारार्थ्य प्रबोध्य न केवल नारीधर्ममापितु जीवस्वरूपमपि ज्ञपयति। आतो
गाङ्गयामुनतरङ्गसङ्गसुभगेव रामायणकथा काञ्चिन्मनोज्ञतां बिभ्राणा सहृदयबैष्णवानां
समधिकस्वादुतमा भवतीति ललितयुगलमाधुरयाभिधायिना नाम्ना कथान्तराद्रचतिरेचयतीति
भावः। ताटृशकथाया नित्योपलन्ध्यैकभूमयस्तद्रसैकजीवनाः सन्त एवेति वैष्णवस्य
तठ्ासक्तिमाह - सातां सङ्गञ्जरेदिति। सत्यु सज्जेत बुद्धिमान्” इत्युक्तेस्तत्वज्ञ-
महात्मनामुपदेशेन रागोच्छेदवर्णनात्तत्सङ्ग: परमं ज्योतिः, यच्च विद्योतयति चेतः,
प्रबोधयति विवेकं, विगमयति दुर्मतिम्, अपहरति मलं मलिनात्मनाम्, सङ्गमयति
च भगवद्धावसरणिम्। आत उच्यते भागवतेऽपि 'सन्तो दिशन्ति चक्षूंषि’
(११.२६.२३४) इति। भगवच्चरितसेवाफलमाह -- उदारधीरिति। विशदप्रज्ञः
इत्यर्थः। तादृशप्रज्ञाफलमाह -- रूपं तदीयं चराचरात्मकं जगत्तदीयं तस्य भगवतो
रूपमिति पश्यन् साक्षात्करोति चराचरात्मकमित्यत्रात्मपदं स्वरूपपरम्, तेन बहुवीहिस्तत:
समासान्तः कप्; जगदित्यर्थः। भगवानेवास्य जगतो निमित्तोपादानकारणम्, यथा
घटादौ कार्ये उपादानभूतमुदतिरिक्तं किमपि नोपलभ्यते, घटस्य गण्मवत्वातु तथेव
कार्यभूतं चराचरं जगद्भगवन्मयमित्यनुभवति वैष्णवो भगवदुपादानकत्वात्। 'यतो
वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति’ (ते. ३. १.१) इत्यादिश्रुतिभिः,
'यस्मिन्निदं यतश्चेदं येनेदं य इद स्वयम्’ (८.३.३) इति श्रीमद्धागवतोक्तेश्च
यस्मित्रधिष्ठाने यत यदुपानाद्येन कर्त्रेदं जातमतस्तद्रपमेवेत्याह -- य इदं स्वयमिति
कथं जगन्मिथ्या स्यादिति भावः। अत एव चैकविज्ञानेन सर्वविज्ञानमिति सिद्धान्त
उपपद्यते। वस्तुतस्तु चिदचिदित्युभय॑ वस्तु कारणावस्थं कायाविस्थं वा भवतु, तत्सर्व
भगवच्छरीरभूतमिति भगवदा्रितम्, भगवांश्चोभयोरात्येति सर्व भगवदात्मकमत एव
सामानाधिकरण्येन सर्वविशिष्टो भगवान् राम एव सर्वत्र राजते! 'यस्य प्रथिवी
शरीरम्”, 'यस्यात्मा शरीरम्” इत्याद्यन्तर्यामित्राह्मणोक्तया ब्रह्मास्मि’ इत्यादावपि
शरीरात्मभावेन विशिष्टेकत्वविवक्षया जीवन्रह्मसामानाधिकरण्यं सम्भवति; सम्बन्धविशेष-
विवक्षयैव रामायणे रामसुग्रीवयोरैक्यमित्युक्तम्।
'ऐतदात्म्यामिदं सर्वम्’ (छा. ६.८.७) इति श्रुतेः, “सर्व ब्रह्मात्मकं तस्य
विद्ययात्ममनीषया' (१ १.२९.१८) इति भागवतोक्तेश्च। आतो नात्र सर्वभेदमिथ्यात्व-
वेदनेन स्वरूपैक्ये तात्पर्यम्। यद्वात्रार्जयन् वसतीत्तरार्जनार्थो वास इत्यर्थलाभाह्क्षणहेत्वोः
क्रियाया इति फलार्थे शता, तथैवात्र चराचरात्मकं तदीयं रूपं पश्यन् सतां सङ्गञ्चरेदित्यत्र
तादृशनह्यात्मकदर्शनार्थे सत्सङ्ग चरेत्ततो बुद्धिवैशद्यलाभात्।
१९४ श्रीवेष्णवमताब्जभास्कर:
चापादिपञ्चायुधचिह्विताङ्गकः समीक्ष्य हृष्टश्च हरिप्रियानथ ।
तथाविधान् भक्तिपर: प्रपूजयेत्सुवैष्णवाञ्जन्मफलादि संस्तुवन्।। १६२।।
* संवित्करः #
जो भगवान् के धनुर्बाणादि पंचायुध से चिह्नित अंग वाले भगवत्प्रिय श्रीवैष्णवजनों
को देखकर अत्यन्त उल्लास एवं भक्ति के साथ अपने जन्मफल (भाग्य) की
सराहना करता हुआ उनका पूजन करे -- वह वैष्णव है।
* पदपरामर्शः *
वैष्णावलक्षणप्रस्तावे तापसंस्कारस्यानुपेक्षणीयतां निर्दिशन् भागवतपरत्वं घटकीकरोति
-- चापादिपञ्चायुधाचिद्विताङ्गक ड्राति। "अतप्ततनूर्न तदामो अङ्नुते'
(त्र: ९.८३.१) इति मन्त्रेण भगवदायुधाङ्कनं विहितम्। तत्र थनुर्बाणनन्दकचक्रादेः
पञ्चायुधत्वे धनुर्बाणयो; ग्रथमोपादानान्मुख्यत्वमुक्तम्। “यो नाङ्कितो धनुशरैर्नं च
मन्त्रराजस्योपासको न स जनो रघुनन्दनस्य” इति सदाशिवसंहितोक्तेः। पञ्चायुधेषु
क्वचिदन्यतरयोरुङ्कनेनापि तत्सिद्ध्या पञ्चायुधपदोपादानम्, अङ्कनाधारातुरोधेन द्वयोरादानन्न
तु पञ्चानामपीति बोध्यम्। अयन्तापसंस्कारोऽत्र निर्दिश्यमान: संस्कारान्तरस्याप्युपलक्षणमुः
संस्काराणां पञ्चत्वानुपपत्त। इत्थं पञ्चसंस्कारसंस्क्रतो वैष्णवस्तदीयानां समर्चनमिति
पाञ्चरात्रोत्ते: “वैष्णवे बन्धुसत्कृत्या’ इति (१ १. १ १. ४४) भागवतोक्तेश्च सुवेष्णवान्
अपूजयेत्। सुवेष्णवानित्यत्र स्विति नेतरव्यावर्तकमपितु अकृत्या शोभनानित्यर्धे स्वरूपपरम्।
तथाविधान् संस्कृतान्पूर्वोक्तभावसम्पन्नान् हरिप्रियान् हरेः प्रियान्, हारिः प्रियो
येषान्तानित्युभयथा विग्राह्मतया प्रीत्या भगवत्सम्बद्धान्; "साधवो हृदयं मह्यं
साधूनां हृदयन्त्वहम्’ इति (९.४.६८) भागवतोक्तेश्च। यद्वा; यो मद्भक्तः स मे
प्रिय: ' इति गीताद्वादशाध्यायोक्तां हरेभक्तिमूलां प्रियतां दधानान् समीक्ष्य 'तस्मिस्तज्जने
भेदाभावात्’ (४१) इति नारदसून्रोक्ताभेदभार्वं मनस्याधाय भगवत्कृपानिबन्धनां
तत्प्राप्तिं मत्वा हृशोऽतिमात्रं मुदितः, 'अथ भागवता भूयं प्रिया स्थ भगवान्
यथा” (भा.पु. ४. २४.३०) इति श्रीरुद्रोक्तेः। भक्तिपर इत्यनेन स्वाराध्यवत्
साहटाङ्गवन्दनादिकमुच्यते -- 'वैष्णवो वैष्णवं दृष्ट्वा दण्डवठ्ाणमेद्धुवि' इत्युक्ते:।
“अद्य मे सफल जन्म जीवितं सफलञ्च मे” (स्क. पु. २.५. १ १. १ २) इत्यादयुक्त-
प्रकारेणात्मार्नं श्लाघमानः, जन्मफलादीत्यत्रादिपदेन तत्कृतानुग्रहधन्यतादि सङ्गृह्यते;
तद्यथा 'अहो भाग्यस्य योगेन दर्शनं भवतामिह। अनुग्रहस्तु कर्चव्यो मायि दीने
दयापरैः ' (था. मा. प. २.५०), “अहो आचरितं कि मे मङ्गल मङ्कलायनाः। यस्य
वो दर्शनं ह्यासीहुर्दशानाञ्च योगिभिः? (भा. पु ४. २२.७) इति। सुवैष्णवान् भगवद्बुद्धया
सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् १९५
थगवन्तयिव ग्रपूजयेद्यः स वैष्णव इति पूर्वोक्तार्थेनान्वय:। 'श्रपदेन मत्सेवाभ्यधिका
मता? इति भगवदुक्त्या ततोऽप्याधिकभावेन पूजयेद्वैष्णवपूजाया अतिमात्रं
भगवत्रसादजनकत्वादिति सूचितम्।
पञ्चायुधाङ्काङ्कितवैष्णवा ये विप्रा अथ क्षत्रियवैश्यशूद्राः ।
स्त्रियस्तथाऽन्येऽपि च विष्णुरूपा जगत्पवित्रप्रपवित्रिणस्ते ।।१६३।।
* संवित्करः #
जो भगवान् के दिव्य पंचायुधों से अंकित वैष्णव हैं, वे विष्णुस्वरूप ही हैं; फिर
चाहे वह जन्म से ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, सत्री या निम्नतम जाति के ही क्यों
न हों। वैष्णवता के प्रभाव से वे स्वयं तो पावन हैं ही, जगत् में पावन तीर्थादि को
भी पवित्र करने वाले हैं।
* पदपरामर्शः *
वैष्णवलक्षणनिरूपणे भक्तिहेतुकं वैष्णावत्वाधायकपञ्चसस्काखयुक्तं वैष्णवानां
परमपावनत्वं वक्ति -- पञ्चायुधाङ्काङ्कितवैष्णवा इत्यादिना। “पवित्र ते विततं
ब्रह्मणस्पते’ (ऋ. ९.८३. १) इत्यादिमन्त्रैर्विहितस्य तापसंस्कारस्य कबषायपक्तचा
पावनत्वाधाने पर्यवस्थितिः। भगवतो धनुर्बाणनन्दकचक्रादिनाम्नां पञ्चायुधानां
सुतापितानामङ्गैरङ्किता ये वेष्णवास्त इत्यर्थः। अङ्कनाधिकरणभूतयोर्भुजमूलयोद्रित्विन
पञ्चायुधेषु यथासम्प्रदायं कयोश्रिदृद्दयोरायुधयोरड्रेनाड़िता वैष्णवा अपि वैष्णवा एवेति
कवचित्परम्परायां दृश्यमानस्य शङ्कचक्राङ्कनस्याप्यविहितत्वं नेति बोधनाय,
शङ्कचक्राड्कितानां सम्प्रदायान्तरीयवैष्णवानामपि तथैव पूज्यत्वद्योतनाय च पञ्चायृधे्युक्तम्।
अत्र पञ्चायुधेत्यायुधसत्तामात्रबोधकम्, द्रयोरुपादानन्तु ग्रकरणानुरोधात्सम्भवाच्च।
अत्र सम्प्रदाये तु धनुर्बाणयोरङ्कनमभिमतम्। अस्य संस्कारान्तरोपलक्षकतया
पञ्चसंस्कारसंस्कृता वैष्णवा विष्णुरूपा भवन्तीति ते जगत्यवित्रप्रपवित्रिणो भवन्ति,
कामं ते जात्या विप्रा कष्रियवैश्यशूद्रा भवन्तु ख्रियस्तदन्ये 'किरातहूणान्ध्रपुलिन्दपुल्कसा
आभीरकङ्का यवनाः खसादयः ' (भा. पु. २.४. १८) इति श्लोकोक्ताः पापजातयो
भवन्तु, कर्मतः पतिताः पापरूपा वा भवन्तु, सर्वे तपश्चर्यादि विनापि भक्तयर्थमवाप्तैः
पञ्चसंस्कारैर्न केवल शुद्धबन्त्यपितु निष्पापाः सन्तो विष्णुरूपा भवन्ति;
अचिन्त्यसामथ्यद्भिगवतस्तन्भक्तेः “भक्तिः पुनाति मन्निष्ठा श्वपाकानपि सम्भवात्”
(११.१४.२१) इति भागवतोक्तेश्च। संस्कारयोगात्ते भगवत्समाराधनेऽ नर्हताया हेतुभूतानि
पापान्यतिलङ्घयन्तीति भाव:। तेषां भक्तावभिरुचिरेव महागुणः जात्माद्यपकर्केपि
भगवत्समाश्रयणमात्रेण पावनत्वं किमुत जात्याद्टुत्केन भक्तिपौष्कल्ये वा। भगवांस्तु
१९६ श्रीवेष्णवमताब्जभास्कर:
निन््द्गुणवृत्तजन्मनागपि भजनीयो भवति। स हि स्वभावतः "पवित्राणां पवित्रम्”
इत्याश्रितदोषविशेषनिमोकपरो भवाति। जीवस्य दोषोऽविद्या भगवदपराधरागद्वेषादिः,
भगवानेव तं दोषं समूलमुन्मूलयति; तस्यैव सर्वथा निर्दृष्टत्वात्। पावनः सर्वलोकानां
त्वमेव रघुनन्दन” (७. ७३. ९) इति श्रीरामायणोक्तेर्यथा भगवान् सीनवराहकच्छपादि-
रूपेणापि पावनत्वं नोज्झति, तथैवेगे विष्णुयोगात्परमपावना इति जन्मादिविचारेण न
हेया:। वौष्णवत्वादिमे विष्णुरूपा अतश्चेमे जगत्पवित्प्रपवित्रिणः, गङ्गादितीर्था-
देर्जगत्पवित्रकरत्वं, ताटृशतीर्थान्यपीमे पवित्रयान्ति; 'ती्थीकुर्वान्ति तीर्थानि स्वान्तः स्थेन
गदाभृता" (भा. पु. १.१३.१०) इत्युक्ते:/
उक्त हि वेष्णवलक्षणे 'ये कण्ठलग्नतुलसीनलिनाक्षमाला ये वा ललाटपटले
लसदूर्थ्वपुण्ड्रा:। ये बाहुमूलपारिचिद्वितशङ्कचक्रास्ते वैष्णवा भुवनमाशु पवित्रयन्ति'
इति। यद्यपि सकी वर्ण्यमानं सर्वविधं पावनत्वं भगवन्मूलं, तथापि भक्तियोगात्तेपामतिशयपावनत्वं
बोधयितुं भगवान् स्वशरीरभूतमखिलब्रह्माण्ड तत्पादरजोभिः पाववितु तादृशं
परमभागवतमनुधावति। यथोक्तं स्वयन्तेन “अनुव्रजाम्यह नित्यं पूर्येयेत्याडिप्रेणुभि: '
(भा. पु. १ १. १४. १६)॥ नारायणकेशवादिनाममन्त्रैः श्रीकमलाविष्णुपत्न्यादिनाममन्त्श्च
थगवत्पादाकृत्या तत्पादरजोभिद्वादशाङ्गपर्ध्वपुण्ड-धारणाचुलसीसमलङ्कृतग्रीवा
दिव्यभगवदायु धाङ्कितबाहुमूला भगवद्गुणावलिश्रवण-कथनानुरक्तश्रवणवचना
नामोच्चारणपवित्रितानना: सर्व जगदिदं भगवदात्मना भगवद्धावेन विलोकयन्तो
भगवद्धागवतपरिचरणविनियुक्तेद्धिया हृदयेन भगवन्तं भावयन्तो वैष्णवा नूनं विष्णुरूपा
एवेति सर्व जगत्पुनाना विचारन्तीति भावः। वस्तुतस्तु विष्णो रूपाणीति विग्रहे षष्ठीतत्पुरुषे
परवल्लिङ्गतया विष्णुरूपा इति न स्यादिति मुद्रामालातिलकादिभिर्किणो रूपमिव रूपं
येषामित्येवंविधविग्रहादिना समासेन तदत्यन्ताल्यांशसाम्यावाप्तेरेतावत् पावनत्वादि किमुत
पूर्ण सारूप्यं निभ्राणानां भगवत्नित्यधामश्रीसाकेतवर्तिना तत्पार्षदानामिति कैमुत्यंद्योत्यते।
अतोऽद्यापि सम्प्रदाये वेषेण भगवानिति वेषभगवानित्यादरातिशयो दुश्यते।
ते सर्वतीर्थाश्रयभूतदेहा देशे महाभागवता वसन्ति ।
यस्मिन् स तद्दर्शनसंस्थितिभ्यां सूते सुपुण्यं निखिलाघशून्यम् ।। १६४।।
* संवित्करः #
पावन तीर्थो के आश्रयभूत परमपावन भगवान् जिनमें निवास करते हैं (अर्थात्
जो भगवद्विग्रहरूप ही हैं), ऐसे महाभागवत परमवैष्णव जहाँ निवास करते हैं,
उस स्थान के दर्शन या वहाँ निवास करने से मनुष्य निष्पाप होकर परमपुण्यफल को
प्राप्त करता है।
सप्तमप्रश्नोत्तरे वैष्णवलक्षणनिरूपणम् १९७
* पदपरामर्शः *
पञ्चसंस्कारसंस्क्रतवैष्णवानां जन्मजात्यनादरेण भगवद्रपापत्या साक्षाज्जगत्पावनत्वं
निरूप्य तेनातृप्यत्रिव परम्परयाऽपि तदधिष्ठितदेशं पापहारित्वाध्युक्तया स्तौति --
त इत्यादिना। यस्मिन् देशे सर्वतीथाश्रियभूतदेहा महाभागवता वसन्ति, स
तदर्शनसंस्थितिभ्याँ निखिलाषशून्यं सुपुण्यं सूत इति विवक्षातः पदक्रमः। त
इत्यनेनोक्तपरामशदि वैष्णवास्त एव यथाक्रमं प्रीतिपरिपाकान्महाभागवता भवन्तीति
गम्यते। महाभागवतत्वन्तु भागवतैकादशस्कन्धे निमियोगीश्वरसंवादे हरिप्रवचने भूम्ना
विम्रष्टयू: तद्यथा -- “सर्वभूतेषु यः पश्येद्भयवद्भावमात्मनः। भूतानि भगवत्यात्मन्नेष
भागवतोत्तयः।। संसारधर्मैरविमुह्यमानः स्म्रत्या हरेभागवतप्रधानः। वासुदेवैक -
निलयः: स वै भागवतोत्तमः।। विसृजाति हृदयं न यस्य साक्षाद्धरिरवशाभि-
हितोऽ प्यघौघनाशः। प्रणयरसनया धृताङ्ग्प्रिपद्मः स॒ भवति भागवतप्रधान
उक्तः” (११.२.४५ व ५५) यः स्वयं मुक्तये विष्णुदीक्षया निरतिशयानन्दं
भगवन्तं भजति, स भागवतो भवति। यस्य सम्पर्केण प्रेरणयोपदेशेनान्येऽपि भगवदभिमुखं
ब्रजन्ति, ते परमदयालवो लोकहितार्थमेव जीवन्तो महाभागवता भवन्ति। न हि
देहगेहाद्याभिमानवतां महाभागवतत्वं सम्भवति। इदमेव हि वौष्णवत्वपरिपाकरूपं
भगवत्परत्वम्। यथोक्तं स्वयं भगवता तत्रापि कोटिशतजन्मसु वैष्णवत्वं तत्रापि
कोटिशतजन्मसु मत्परत्वम्' इति
तेष्वास्ते ह्यघभिद्धरिरित्युक्ते्गङ्गादेः सर्वतीर्थस्य तत्तीर्थास्पदपादोदकत्वेन भगवानेव
सर्वतीर्थाश्रयभूत:, स एव येषां देहे वसाति, ते सर्वती्थाश्रयभूतदेहाः। तन्निवासदेशोऽपि
तीर्थवत्पावनमिति तद्देशदर्शकानां तत्र स्थायिना च पापनिवृत््या सुपुण्यं जनयति।
तादृशमहाभागवतस्थित्या तद्देशस्य दोषनाशेनान्यपावनकरत्वन्तु स्वयं भगवानेवाह
-- वित्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः। साधवः समुदाचारास्ते
पूयन्त्यापि कीकटाः? (भा.पु. ७.१०.१९) इति। तद्दर्शनसंस्थितिभ्यामिति हेतो
दृतीया। पूर्वं कदाचित्समागत्य पश्यति, तद्वने सञ्जातपुण्येन पापनाशात्तदनु
कथाश्रवणादिलिप्सया तत्र स्थातुं निश्चिनोतीति बुद्धयारूढस्य क्रमस्य विवक्षया
पूर्वनिपातशास्रस्यानित्यत्वाद्वा संस्थितिशब्दस्य घित्वेऽपि न पूर्वप्रयोग:। तद्दर्शनपूर्वक-
संस्थिते: फलमाह ~ निखिलाघट्टून्यं सुपुण्यं सूत इति। तदधिछितदेशदर्शनस्ये-
यत्फलं तर्हि साक्षात्तदर्शादे: कियत्फलं स्यादिति कैमुत्येन सूचयति। यथा तमोराहितः
प्रकाश इति प्रयोगे विशेषणमयुक्तं प्रतिभाति, तथैव निखिलाषशून्यं सुपृण्यमित्यत्र;
तथाप्यत्र सुस्थिरं पुण्यं सुपुण्यमक्षय्यमिति यावत्। अक्षय्यमपि पुण्यं क्वचिद्यज्
पश्चालम्भनवदनथहितुना पापेन मिश्रितं भवति। तादृशं पापमिश्रं सुपुण्यं व्यावर्तयितुं
१९८ श्रीवेष्णवमताब्जभास्कर:
निखिलाषशून्यमिति विशेषणम्। तादृशवेष्णवाधिष्ठितदेशदर्शनादि पापैरनाविद्धमक्षय्यं
पुण्यं सूते जनयतीति भाव:।
तदर्चनात्तत्पदनीरपानात्तत्सङ्कतेस्तत्प्रणतेर्विधानात् ।
नृणां हि तच्छिष्टसुभोजनाच्च स्यात्कोटिजन्मार्जितपापनाशः । १६५।।
* संवित्करः #
ऐसे पंचसंस्कार से सुसंस्कृत महाभागवतों के अर्चन, पादतीर्थपान, सत्संग,
वन्दन तथा उनके प्रसादग्रहणानन्तर प्रसादग्रहण से कोटि जन्मों के पापों का नाश
होता है।
* पदपरामर्शः *
यथा भगवान् ध्यातोऽर्चितः स्तुतः प्रणत इत्यादिसेवाभावभेदेनानेकधा प्रीत्या
विषयीक्रतो भक्तानां सर्वविधामङ्गलमुच्छिनति, तथैव तदेकपरो वैष्णावोऽपि तद्भक्ता
सङ्क्रान्ततुल्यग्रभावो भगवत्याप्तिविरोधिपापनिबर्हणेनासन्रलोकहिताय कल्पत इत्याह
-- वदर्चनादित्यादिना। तृणां तदर्चनादिभ्यः कोटिजन्मार्जितपापनाशः स्यात् इति
मुख्यांशः। सत्सङ्गतिः कथय किन्न करोति पुंसाम् (नी. श. २२) इति तदर्चनादेः
सङ्गतिमूलत्वन्तथापि .राप्तावर्घ्यासनपादप्रक्षालनादिना तदर्चनं ततः प्रक्षालितपदयोनीरस्य
पानं तदनु सुखोपविष्टस्य मुखात्सदुपदेशश्रवणरूपा सङ्गतिः सवन्ति प्रणतेर्विधानात्तत्-
एजावसाने तदनुज्ञया तद्भुक्तस्य भोजनमिति क्रमः। अत्र भागवतसपर्याविधौ पञ्चानां
क्रियाणां समुल्लेख: पञ्चोपचारे देवपूजनं स्मारयति। तत्पदस्य पञ्चस्वप्यावृत्यैकाश्रयेण
विविधानां पृजाङ्गानां निर्वाहद्योतनात्युखसम्पाद्यत्वं सूचितम्। तदर्चनाचत्पदनीरानात्
तच्छिष्टभोजनात् इति त्रिषु हेतौ पञ्चमी, तत्सङ्गतेर्विधानात्तत्रणतेर्विधानादिति
बष्छ्यन्तयोः पङ्चम्यन्तेनान्वयः। यद्वा तत्सङ्गतेस्तत्ाणतेरित्यनयोरपि हेतुपञ्घमी।
विधानादित्यत्र विधिर्विधानम्, तदनुसृत्येति ल्यन्लोपे कर्मण्यधिकरण इति कर्मणि
पञ्चमी। सविधीत्यर्थः। ‘उच्छिष्टभोजिनो दासाः? (उ.गी. ४६) इत्युक्तेवेष्णवानां
भगवठ्ासादभोजित्वेन पुनस्तच्छिष्टस्योभयप्रसादतया तन्माहात्म्यातिशयं सुपदं द्योतयाति।
नैवोच्छिष्टं कदाचन” इति निषेधाद् ‘उच्छिष्टभोजिनः श्वानाः' इति निन्दनाच्च
कथमत्रैवमुक्तिरिति चेत्रिषेधो विहितेतरपरस्तेन ग्राणाहुत्यनन्तरं भोजनस्य समाप्त्या
गुहे भोजनावशिष्टभोजनादित्यर्थेन न दोषः।
अतोऽत्र तच्छिष्टे्युपात्तं न तु तद्भुक्तशिष्टोति। अनुमोदनपूर्वकवैष्णवोच्छिटटग्रहणे
पापनाशाद्धागवतधर्मेऽभिरुचिरिति भागवतोक्तम् 'उच्छिष्टलेपाननुमोदितो द्विजैः
सकृत्स्म भुञ्जे तदपास्ताकिल्विषः। एवं प्रवृत्तस्य विशुद्धचेतसस्तद्वर्म एवात्मरुचिः
सप्तमप्रश्नोत्तरे वैष्णबलक्षणनिरूपणम् १९९
प्रजायते' (१.५. २५) इति। वैष्णवपूजायां श्रद्धामात्रस्यैवापेक्षा नान्येति सामान्यस्य
पात्रतामाह -- त्रणामिति। ताद्रशपजनादिना तावत्पापनाशे पआ’प्तामाशाङ्का स्यात्पदलभ्यां
निरस्यति हिना। हिनिक्षिये, निश्चयेन पापनाशो भवतीत्यर्थः! यथोक्तं भागवते येषां
संस्मरणात्पुंसां सद्यः शुद्धयन्ति वै गृहाः। किं पुनर्दर्शनस्पर्शषादशौचा-
सनादिभिः।। सान्निध्यात्ते महायोगिन् पातकानि महान्त्यपि। सद्यो नश्यन्ति
वै पुंसां विष्णोरिव सुरेतराः? (१.१९.३३-३४) इति।
कार्पासकैः सप्तभिरद्भुतैर्गुणैः सुनिर्मितं तत्कटिसूत्रमुत्तमम्।
काषायकं वस्त्रयुगं च धारयेत्तथोदर्ध्वपुण्ड्रादिकमेव वैष्णवः ।।१६६।।
* संवित्करः *
विरक्त वैष्णव कपास के सुन्दर सात धागों से बटे हुए कटिसूत्र (आड़वन), कौपीन
तथा दो वस्त्र (अँचला और गमछा) धारण करे। ऊर्ध्वपुण्ड्रादि-धारण तो गृहस्थ एवं
विरक्त -- दोनों प्रकार के वैष्णवों के लिए समान ही है।
* पदपरामर्शः ॐ
ग्रहस्थविरक्तसाधारणकै्णवलक्षणमुक्तवा सम्प्रत्येकेन विरक्तवैष्णवस्य विशेषमाह --
कार्पासकैरित्यादिना। वैष्णव: कटिसूत्रं वस्रयृगमूर्ध्वपण्डादिकञ्च धारयेत्। धर्तन्यकटि सूत्रस्य
निर्माणविधिमुपादानवस्तुनिरदेशेनाह -- उत्तमत्वे हेतुः सुनिमितिम्। तत्र हेतुः
सप्तभिरद्धुतैगुणौरिति तत्रापि गुणानवधारयति -- कार्पासकैरिति। यदर्थं कटिसूत्रं
तदवलम्ब्यं काँपीनं तदाच्छादकमुत्तरीयञ्चाह -- वस्रयुगामिति। कषायेण रक्तं काषायं
तदेव काषायकमू। कषायरज्जितं तत्स्यात्। ऊर्ध्वपुण्ड्रादिकमेव धारयेद् इत्यत्रेवकारेण
्रिपृण्डादिकं लीलयापि न धारयेदिति वचनं पराम्॒श्यते। आदिपदेन विरक्तस्वरूपानुगुणं
कमण्डल्वादिकं परिगरहीतं भवतीति सङ्घेपः।
भ + ( इति सप्तमप्रशनोत्तरे वैष्णवलक्षणनिरूपणम् ) # ४:
।। श्रीसीतारामार्पणमस्तु ।।
( अथाष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् )
कार्यो महात्मभिर्नित्यं कालक्षेपो मुमुक्षुभिः ।
परमात्मपरैरित्थं वैष्णवैरिति वर्ण्यते ।।१६७।।
* संवित्करः #
मोक्ष की कामना वाले वैष्णवजनों के कालक्षेप (समययापन) की विधि बताने
जा रहा हुँ। उनके कालक्षेप की विधि इस प्रकार है।
* पदपरामर्शः *
तेषां वैष्णवानां कालक्षेप: कथं कार्य इत्यष्टमप्रश्ने कथमित्यनेन तत्स्वरूपतदुपादान-
तद्विधानतदवधितठ्ायोजकप्रयोज्यादिप्रकारकजिज्ञासा ज्ञायते, प्रकारवचने थमुविधानात्।
तमविकलं समाधित्सुर्भगवाज् श्रीरामानन्दाचार्यः पूर्व कालक्षेपविषयकप्रश्नोचित्यं संस्तौति
— कार्य इत्यादिना! वेष्णवैर्नित्यं कालक्षेपः कार्य इति वण्यति। हेतुद्योतकेनेतिपदेन
विषयस्य वैष्णवेतिकर्तव्यताज्ञानेन नित्यसम्बद्धतया प्रसक्तिदोषनिरसनेन विवोच्यता
सूच्यते। कालस्तु स्वयमेव क्षिप्यत तत्र वैष्णवानां कीदृशो योगविशेषस्तस्य तु
पुरुषप्रयत्ननिरपेक्षतया सिद्धेः? तत्रोच्यते -- अत्र कालक्षेपशब्द आचार्यमुखेन
आष्याद्यर्थविचारे, तत्राशक्तानां भक्तिविषयकार्षग्रन्थस्वाध्याये च रूढ इति विधिविशेषः।
अतो नित्यं कार्य इत्यत्र विधिबोधको ण्यत्युक्तः, स च पुरुषप्रयत्नसाध्यतामाह।
तत्रापि नित्यमित्यनेन अल्ययज्ञवदस्य नित्यविधित्वं लभ्यते। यथाचार्यमुखान्मन्त्रमन्रार्थादि-
श्रवणनियमस्तथैव निष्कम्पभक्तिनिष्ठासिद्धये वैष्णवाचारपरिज्ञानाय यथार्थतो
वैष्णवसिद्धान्तावगतये च स्वाचार्यक्रतभाव्याद्युपादायाचार्यसन्निधौ कालक्षेपेण शास्रप्राप्ति:
परम्परालब्धा। यद्वैकल्ये सम्प्रदायस्य विद्यास्रोतांस्यनुदिनं क्षीयन्ते, दर्शनं तत्सिद्धान्तश्च
क्रमेण यथावस्थिताकारेणासुरक्षितं सहुराधिगम्यतां याति, अत एवाद्त्वे प्रवचनादौ
वैष्णवा अप्यपदार्थमाहुस्तेषु सिद्धान्तज्ञानविराहितेषु करुणया सुहृद्धूत्वाचार्यः
कालक्षेपविधिमाह। अत्र शास्रादेशोऽपि 'स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्”
(तै. १.११.१) इति। भगवान् पार्थसारथिरप्येतदर्थमाह ~ 'माच्चित्ता मद्गतप्राणा
बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुव्यान्ति च रमान्ति च' (गी. १०.९)
इति। नीतिरप्येतदुत्रयति 'काव्यशास्राविनोदेन कालो गच्छाति धीमताम्’ इति।
एवमपि वैष्णवैः कया वृत्त्या वर्तितव्यमिति कालक्षेपोपादानजिज्ञासा साम्प्रतमेव,
व्यर्थकालक्षेपस्यायुक्तत्वात्। यथोक्तं 'यन्मुहूर्त क्षणं वापि वासुदेवो न चिन्त्यते।
अष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् २०१
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया।। एकस्मन्नप्यतिक्रान्ते मुहूर्ते
ध्यानवाजिति। दस्युभिर्मुषितेनेव युक्तमाक्रन्दितु भृशम्' इति। अभीष्ठापि
तैलधारावदविच्छित्रभगवत्स्म्रतिस्तावन्नोदेति यावन्मनसोऽ त्यन्तशुद्धिर्भगवति गरेष्ठताबुद्धिश्च
न जायेते, अतः सञ्जातमोक्षाभिलाषाणामपि भक्तयोषवर्धनानुगुणभक्तयुद्रोधकराख्रचिन्तने
बुद्धिव्यापारः सर्वथा युक्त एव; अन्यथा विषयान्तरचिन्तनं स्यात्। अवशिष्टरोगांशानां
जनानां भेषजपरित्यागस्येवातितरामयुक्तत्वात्। अतः 'शुद्धयन्ति दानैः सन्तुष्य
दरव्याण्यात्मात्मविद्यया' (१ ०. ५.४) इति भागवतोक्तयात्मविद्ययात्मरुद्धेर्तिरपणा-
द्विषयतः फलतश्च विद्यान्तरेभ्य उत्कृष्टाया अध्यात्मविद्याया स्वाचार्यभाष्याद्याधारेण
प्राप्तये कालक्षेपो विहितः। यथा वैराग्यं विना ज्ञानं दुर्बलं भवति तथा श्रुतं
शास्रश्रवर्ण विना भक्तिर्न निष्कम्पतामश्नुते। यथोक्तं भागवते 'यच्छुद्धया
श्रुतवत्या च भक्तया संग्रज्यमाने हृदयेऽवधाय। ज्ञानेन वैराग्यबलेन धीरा व्रजेम
तत्तेङ्ख्रिसरोजपीठम्' (३.५.४१) इति। इत्थं कालक्षेपविषयकजिज्ञासाया- स्तदनुसारं
समाधानोकतेश्चोपयुक्तता। वैष्णवैर्नित्यं कालक्षेपः कार्य इत्यत्र वैष्णवांस्तरभिर्विशेषणौराह
-- महात्माभिर्मुमुक्षाभिः परमात्मपरेरिति/ कर्मानुष्ठार्न विना न सत्त्वशुद्धिर्न तां
विना विषयानभिषङ्गमभावस्तदनु बुद्धिप्रसादेन मुमुक्षोदय इति महात्मभिरित्यनेनोक्तं
महान् तत्वविचारोपयुक्तवैशद्यमापन्न आत्मा बुद्िरयेषान्तैरित्यनेन बुद्धिनेर्मल्यमुच्यते।
ततो बुद्धिशुद्धया जातवौराग्याणां मुमुक्षुत्वमुच्यते, तदनु जातवौराग्याणां
दुक्तावुक्ततनिश्वयरूपविवेकोदयाद्यथर्थमुद्देश्यबोध:, तदाह -- परात्मपरैरिति परमात्मा
भगवान् राम एव परो मुख्यो येषामिति लक्ष्यसिद्धिरुच्यत; भगवानेव मे मुक्ति
दास्यतीति निक्षयात्। एतेन आक्तमध्यमोत्तमौस्तिविधैरपि वेष्णवैर्नित्यं सदा कालक्षेपः
कार्य इति तदाचार्यतया ताद्धितैषुणा मयोपदिश्यत इत्याशयः, आचार्यस्य
हानोपादानविषयबोधनौचित्यात्। यथा कथं कार्य इति प्रश्नस्तथैवेत्थ कार्य इत्युपक्रम्य
समाधीयते।
प्रातर्मध्याह्ृसायं कृतशुचिकृतिभिः राममभ्यर्च्य सम्यकू
श्रीमद्रामायणेन प्रतिदिनमखिलैर्भारतेन प्रपन्नैः ।
शक्तैरानन्दभाष्यैथ च शुभतमाचार्यदिव्यप्रबन्धैः
कालक्षेपो विधेयः सुविजितकरणैः स्वाकृतेर्यावदन्तम् ।।१६८।।
* संवित्करः =
जितेन्द्रिय प्रपन्न वैष्णव को प्रतिदिन प्रातर्मध्याह् एवं सायंकालीन स्नानादि से
निवृत्त होकर, श्रीसीतारामजी का पूजन करके श्रीमद्रामायण-महाभारत-भागवतादि
२०२ श्रीवैष्णवमतान्जभास्करः
सच्छास्रों तथा आनन्दभाष्यादि वैष्णवग्रन्थों के स्वाध्याय से, अपना कालक्षेप करना
चाहिए।
* पदपरामर्शः ४:
वर्ण्यत इत्युक्तवा तदविच्छेदेन प्रतिज्ञातं कालक्षेपविधिं तत्पूर्ववत्तस्य तच्चरमावधेक्च
निर्देशेन अपन्नमात्रैकविधेयतानिक्चयेन च भगवानवबोधयति -- ग्रातर्मध्याह्वसायम्
इत्यादिना। अखिले: प्रपन्नै: स्वाकुतेरन्तं यावव्यतिदिनं राममभ्यर्च्य श्रीमद्रामायणादिभिः
कालक्षेपो विधेय इति मुख्यांशः। तत्र स्वरूपयोग्यतां सूचायितुं शक्तैरिति, सुविजितकरणौरिति
प्रपन्नविशेषणाभ्यां यथाक्रमं शास्रग्रहणे गनोनिग्रहणे च सामर्थ्यभुक्तम्। प्रपत्रैरित्यनेन
कैणवसुलभाः शास्रग्रहणानुगुणविनयसमर्पणादिगुणा: सूचिताः, अखिलैरित्यनेन
अ्रपत्रानामविशेषेणाधिकारो बोधितः। कालक्षेपारम्भात्पूर्वकृत्यमाह -- सम्यद्रामम भ्यर्च्येति।
सम्यग् यथाविधि। राममाराध्यत्वेन प्राप्यत्वेन निरुपाधिकस्वामित्वेन च सर्वथा
सर्वदाभ्यर्चनीयं सर्वेक्षरमित्यर्थः। ग्रतिदिनमन्वहम्। प्रातर्मध्याह्ले सायञ्चेति त्रिसन्थ्यम्।
शरीरादेश्शुचित्वाय याः क्तयश्शुचिक्रतयः, कृता: सम्पादिताश्शुचिक्रतयो यैस्तैरिति,
तच्छौचं विना भगवदर्चनानहित्वात्। सम्यगर्चितस्य भगवतः समक्षमेव कालक्षेपे न
दोषः, प्रत्युत साद्गुण्यकरः। यथोक्तं 'अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो हरेः।
आगमाध्ययनं कुयतिद्वाक्यार्थविचारणम्' इति। कालक्षेपस्य साधनभूतं अन्धविशेषमाह
-- श्रीमद्रामायणेन भारतेनेति। वाच्यवाचकयोक्च तादात्म्यमनुसन्धाय भगवत्यनन्य-
साधारणतया दृ श्रीमदितिपदं युक्तं सत्तस्यानन्यलभ्यं पारम्यमाह। सकलश्रुतिसवेद्य-
स्वाराध्यश्रीरामचरितमयत्वेनाम्नायस्य ललितावतरणतया चारुतररचनावौचित्र्येण
रमणीयतयाभ्वर्हितत्वेन च महाभारताद्यपेक्षया पूर्ववर्तित्वाच्च श्रीमद्रामायणस्य सवपिक्षया
पूर्वप्रयोगः, तदपेक्षया महाभारतस्यावरत्वं द्योतयितुं तस्य महत्त्वमप्यपहत्याह --
भारतेनेति। यद्याचार्यैस्तच्छिष्यैश्शक्तेभाष्याशायग्रहणनोधनयोः समर्थैर्भूयते,
तदानन्दभाष्यैशशुभतमै: प्राचीनाचार्याणां श्रीमद्रोधायनप्रभ्नतीनां दिव्यप्रबन्धैक्च कालक्षेपो
विधेयः। आनन्दभाष्यैरित्यत्र बहुवचनं प्रस्थानत्रयानन्दभाष्यानुरोधेन। अनाप्तै-
रप्युच्यमानानि शाख्रवचांसि शुभं सृजान्ति किमुत तथाविधानां दिव्यप्रबन्धा इति
तमपा प्रकर्षो बोध्यते। आचार्येति संशयविपर्ययप्रतिक्षेपं, दिव्येति च मन्त्रवदादरणीयतां
सूचवितुम्। कालक्षेपोऽयं कियदवधिर्विधियस्तत्राह -- स्वाक़्तेयावदन्वामिति। आक्रतिदेहिः,
स्वदेहस्यावसानं यावत्। यावच्छरीरपातमिति। 'यावज्जीवमग्निहोत्रं जुहोति’ इत्यत्र
यथाग्निहो्रस्य यावज्जीवमनुष्छेयता तथा कालक्षेपस्यापीति भाव:। शक्तैरानन्दभाष्यौरिति
कथनाद्वैष्णवमतान्जभास्कररचनापेक्षयानन्दभाष्यरचनाया ग्ग्भावित्वं संसूच्यानन्दभाष्य-
स्यार्वाचीनतां वदन्त: अत्युच्यन्ते।
अष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् २०३
स्नानादिकर्माणि विधाय नित्यं ग्रन्थानमून् संश्रुणुयादशक्त: ।
श्रीरामसन्नामसुकीर्तनञ्च द्वयानुसन्धानमथो विदध्यात् ।।१६९।।
* संवित्करः *
इसमें असमर्थ होने पर प्रतिदिन स्नानादि कर्म के बाद पवित्र होकर पूर्वोक्त सद्ग्न्थों
का श्रवण करना चाहिए। इसमें भी असमर्थ होने पर श्रीसीतारामजी का नामसंकीर्तन
करना चाहिए। यदि ऐसा भी न हो सके, तो श्रीरामजी के द्वयमन्त्र का अनुसन्धान करते
रहना चाहिए।
* पदपरामर्शः *
यथाचार्यसत्रिधौ साम्प्रदायिकशाष्यादिश्रवणे कालक्षेपस्य नियतत्वे 'अभ्यासेऽ प्य-
समर्थोऽसि’, 'अथैतदप्यशक्तोउखि' इति गीताया द्वादशाध्यायोक्तरीत्या सामर्थ्यतार-
तम्याद्गुरुलघुसरण्योपायपरम्परानिर्देशस्तथैवात्रोपायान्तरम् 'तस्मात्केनाप्युपायेन मनः
कृष्णे निवेशयेत्’ इत्यनुसन्धायाह -- स्नानादिकर्माणीति। वाक्यद्वयमध्यवर्तितया-
उशक्तपदं यथासम्भवमुभयत्रान्वयि। यदि कश्चिदू श्रीरामायणभाष्याद्याशयावबोधने.प्रश्क्षेत्रनं
कैणवेए तदर्थव्याख्यानेन, यदि तत्राशक्तश्वेत्स्ननादिकरमीणि स्नानादिकं विधाय समाप्यामून्
पूर्वोक्तान् श्रीमद्रामायणभाष्यादीन् ग्रन्थान् संश्रणुयाद् श्रद्धयाकर्णयेत्, श्रवणस्य
कक्नसापेक्षतयानन्दभाष्यादेरवगतौ दर्शनशास्रीयर्संस्कारापेक्षणाच्चाशक्त: श्रीरामसन्नाम-
सुकीर्तन॑ द्वयानुसन्धानं विदध्यात्। श्रीराम रामेति भगवत्रामान्तरेभ्योऽ प्युत्तमत्वात्युनाग्न:
सुकीर्तनं सुस्वर सश्रद्धं कीर्तनं द्वयमन्त्रस्यार्थनुसन्धान च कुयात्। अहमस्म्यपराधानामालयो-
ऽकिङ्चनोऽगतिः, त्वमेवोपायभूतो मे भवेति आर्थनामतिरित्याकारेण स्वदोषानुसन्धानं
कुर्वत्रेव भगवत्रामसुकीर्तनं कुर्यात्, तावतापि कालक्षेपविधिपूर्तेः, भगवत्रामकीर्तनस्य
वेदानुवचनवत्कल्याणकरत्वान्मन्त्रमन्तार्थयोस्तादात्य्याच्च ब्रह्मानूचुनाम गृणन्ति ये
ते! इति (३.३३.८) भागवतोक्तेश्।
दिव्येषु देशेषु सतां प्रसङ्गं तदीयकैङ्कर्यपरायणः सन् ।
यावच्छरीरान्तमहर्दिवं तत्कथामुदारां श्ृणुयाद्भवघ्नीम् ।।१७०।।
* संवित्करः *
वैष्णवजन श्रीअयोध्या-चित्रकूटादि दिव्यदेशों में, भगवद्धागवतसेवा एवं सत्संगादि
का लाभ प्राप्त करते हुए, मरणपर्यन्त प्रतिदिन उदार एवं संसारभयनाशिनी
भगवत्कथा का श्रवण करें।
* पदपरामर्शः *
'यथावरुन्थे सत्सङ्गस्सर्वसङ्गापहो हि मामू” इति (भा.पु. ११.१२. २) भगवदुक्ति-
२०४ श्रीवेष्णवमताब्जभास्कर:
मनुसन्धाय सत्सेवातत्कथयोराभिरुचिं दधानास्स्युस्तदा श्रीअयोध्याचित्रकूटादिषु
भौमेष्वप्यप्राकृततया दिव्यदेशेषु सतां विद्यमानानां सतां तत्त्वज्ञवेष्णवानां प्रसङ्गं
विदध्यादिति पूर्वश्लोकानुव्ृत्तक्रियाया अनुसन्धानात्। सत्सङ्गस्यापि भक्तयङ्गत्वात्।
तत्रापि प्रकृष्टात्सङ्गादवश्यं भगवत्कथालाभो भवतीति भावः। यद्वा सतां प्रसङ्गं
श्रणुयादित्यत्र क्रियान्वयः, भक्तजनचरितश्रवणस्यापि कल्याणकरत्वात्, 'भवज्जनकथा-
श्रवणेन वा स्यात्” (४.९.१०) इति श्रीध्रुवोक्तेः। साधुजनकैङ्कर्यपरायण: सन्
तत्सेवनाततन्मुखोद्वीतां भवघ्नीं संसारोच्छेदनीमुदारां चतुर्वोण सह भगवत्यीतिपर्यन्तस्य
प्रदायित्वेन वदान्यां भगवद्भागवतकथां शणुयात्। साधुसङ्गो भगवद्रतौ पर्यवस्यति,
तया च कृतार्थता। यथोक्तं 'सतां प्रसङ्गान्मम वीर्यसंविदो भवन्ति हृत्कणरिसायनाः
कथाः। तज्जोषणादाश्चपवर्गवर्त्मीनि श्रद्धा रतिर्भाक्तिरनुक्रामिष्याति’ इति
(था. पु. २. २५. २५)। कथाश्रवणकालं नियमयति -- यावच्छरीरान्तमहर्दिवम्।
प्रतिदिनं देहपातं यावदाकणयेदित्यर्थः। 'लभते मयि सद्भक्तिं मत्स्प्रतिः साधुसेवया'
(भा. पु. ११.१०.४७) इति भगवदुक्तेः।
तत्राप्यशक्तास्तु कुटीरमात्रं विधाय कुर्युस्त्वथ राघवाद्रौ ।
अन्यत्र वासं च गुरूपदिष्टान्मन्त्रञ्जपन्तो ह्यभिमानशून्याः ।।९७१।।
* संवित्करः *
उसमें भी असमर्थ होने पर चित्रकूट या अन्यत्र पुण्यप्रदेशों में, निवास के लिए
कुटीर बनाकर, अभिमानरहित होकर गुरूपदिष्ट मन्त्र का जप करना चाहिए।
* पदपरामर्शः +
यो यद्यार्छ्न्यश्रवणपरायणादा साधुजनसेवायां वा न प्रभवेच्तदा विविक्तसेवित्वेनाभिमान-
राहित्येन च मन्रेकशरणः स्यादित्युपायान्तरमाह -- तत्रापीति। राघवाद्रौ चित्रकूटे,
अन्यत्र जनकपुरधामादिषु, भगवद्व्यतिरिक्ताविषये सदोषतानुचिन्तनेन विविक्तजनसेवि-
त्वाभिप्रायेण, तत्राप्यहेरिव गणाद्धीत इति न्यायेन कुटीरमात्रं विधाय, स्वकुटीं
निर्माय, स्वा कुटी कुटीरः 'कुटीशमीशुण्डाभ्यो रः? (पा.सू. ५.३.८८) इति
स्वार्थे रः। भजनसाधनभूतदेहररक्षामात्रप्रयोजनमिति भावः, न तु मठादिकम्। मात्रमत्रावधारणे।
अभिमानस्यानन्यापेक्षोऽहमित्याकारकस्योदयसम्भवनायां तद्राहित्यमपेक्षमाण आह --
ह्याभिमानट्टून्या इति। मन्त्रानुष्ठावित्वादिमूलो गर्व एवात्राभिमानः, स्वबलानुसन्धानाद्धि
सकलाज्ञानहेतोः पृज्यजनावमानप्रतिस्पर्थित्वादिकं यज्जायते, तादृशाभिमानस्य
सकलार्थनाशकत्वाद्धेयतोच्यते। यथोक्तं 'यद्यहङ्कारमाश्रित्य यज्ञदानतपःक्रियाः।
कुर्वस्तत्फलमाप्नोति पुनरावर्तनं तु तत्’ इति। अतो नारदभक्तिसूत्र
अष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् २०५
'इश्चरस्याप्यभिमानद्वेवित्वाद्ैन्यप्रित्वाच्च' (२७) इत्युक्तम्। गुरूपदिशन् मन्त्राञ्जपन्तो
वासं कुर्युरित्यत्र गुरूपदिष्टानिति परम्पराप्राप्ततया तेषामेवोष्टसाधकत्वात्। मन्त्रान्
श्रीरामतारकमन्त्रराजादीन्, द्वयादिसहिताभिप्रायेण बहुकचनम्। ऐकान्तिकेन मन््रानुष्ठानेनापि
कालक्षेपविधेः सम्पूर्तिभविति, गन्त्रजपस्य स्वाध्यायरूपत्वादिति भावः।
भक्तघादियुक्तस्य तथाऽनहङकृतेर्महात्मनस्तस्य निदेशपालनम्।
उपायमेनं चरमं निरन्तरं सुवैष्णवो यं विदधात्वतन्द्रितः ।।१७२।।
* संवित्करः *
ऐसे सदगुणसम्पन्न वैष्णव को, सर्वथा अभिमान एवं आलस्य से रहित होकर,
आचार्योपदिष्ट उपदेशों का पालन करना चाहिए।
* पदपरामर्शः *
“महत्सेवां द्वारमाहु विमुक्तेः ! इत्युक्तेः 'वयं तु हरिदासानां पादत्राणावलम्बकाः '
(पद्यावल्यां ५८) इति भावनया विधीयमानाया भागवतशेषवते्षरमोपायत्वेन तदाधारेणापि
कालक्षेपस्य करणीयतामाह -- भक्तचादियुक्तस्योति। अयमुपायान्तरे निष्ठावान्
सुकैणवः विष्णुदेवताको वैष्णवो भवत्ययन्तु विष्णुदेवताकदेवताक इति तदुपाश्रयाश्रयत्वात्
सुवैष्णावः, 'दविर्बद्धं सुबद्धं भवाति’ इत्युक्तेः! निदर्शनञ्चात्र श्रीभरताधीनशतुष्नचरितम्।
भागवतशेषत्वस्य चरमोपायतां मन्वानोऽतद्भितः अमादालस्यश्रमादिरहितोऽ यमेव मुदुद्धारस्य
चरम उपाय इति धिया तस्य महात्मनो भागवतस्य निदेशपालनं तदधीनतया तदाज्ञानुसरणं
विदधातु कुर्यादिति। तस्येति पूर्वोक्तं निरभिमानं विविक्तसेविनं मन्त्रजापकं पराग्रशति --
तस्य तादृशस्य वा। यश्च भक्तचादियुक्तो भक्तिज्ञानवैराग्यादि-विशिष्टः सन्नप्यनहष्कृतिः
स॒ नूनं महात्मा, भगवानेव सर्व कारयतीति तस्य विशदात्म-बोधसम्पत्तेः।
तदर्थपुष्यप्रचयेन सन्ततं तथैव तन्मन्दिरमार्जनादिना ।
तदीयनामाभ्यसनेन तन्मनाः क्षिपेत्स कालं नितरां गतालसः ।।१७३।।
* संवित्करः ४
वैष्णव को भगवदर्चन के निमित्त पुष्प-तुलसी-आदि पूजोपकरण का नित्य
संग्रह, देवालय की स्वच्छता एवं पवित्रता आदि का कार्य, आलस्यरहित होकर
भगवन्नामोच्चारणपूर्वक करना चाहिए।
* पदपरामर्शः *
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि’ (गी. १२. १०) इति भगवदुक्तचा
यत्तत्रिमि्तकपुष्पप्रचयादिकमनुतिषठेत्तस्यापि कालक्षेपसिद्धिरित्यत आह --
तदर्थपुष्पप्रचयेनेत्यादिना। यो गतालस आलस्यरहितः सेवासमुत्सुकस्तन्मन्दिर-
२०६ श्रीवेष्णवमताब्जभास्कर:
मार्जनादिना भगवदालयस्य मार्जनेन पूजनपात्रप्रक्षालनेन यथाधिकारं जलाहरणादिना,
भगवत्सपर्यार्थ पुष्पप्रचयेनाभिमतकुसुमाहरणेन तदीयनामाभ्यसनेनाविच्छित्रनामोच्चारणेन
नितरामत्यन्तं तन्मनाः भगवत्येव मनो यस्य, भगवति निरतिशायप्रीतिमान् सन्
कालं क्षिपेदतिवाहयेत्तेन कालक्षेपो विधीयत इति भाव:। तन्मना इति मन्मना भवेति
भगवदुक्तयपेक्षाभिप्रायेणोक्तम्।
तीर्थेषु वासेन सतां महात्मनां समागमेनाथ तदर्चनेन ।
जिज्ञासया तद्यशसः श्रवेण तच्छावणेन स्मरणेन तस्य ।।१७४।।
* संवित्करः *
वैष्णवों के लिए तीर्थो में वास, महात्माओं की संगति एवं उनकी सर्वविध सेवा,
भगवद्विषयक जिज्ञासा, भगवद्यशोगाथा का श्रवण, दूसरों को भगवच्चरित सुनाना
तथा भगवद्विषयक चिन्तन करना ही कालक्षेप का सर्वोत्तम साधन है।
* पदपरामर्शः *
कालक्षेप: कथं कार्य इत्यपेक्षायां सप्तभिस्तृतीयान्तैः साधनमालामेकेन पद्येन
सङ्गह्याह - तीर्थेषु वासेनेत्यादिना। अयोध्यामधुराकाश्यादिपुण्यतीथेषु वासेन,
पृण्यनदीस्नानभगवद्धागवतदर्शनाद्युपलन्धेः, सतां शाख्रज्ञानां वैष्णवजनानामचनिन
सविधि पूजनेन, सन्नेषु च तेषु तत््वविषयकजिज्ञासया परिप्रश्नेन तदुक्तानां भगवद्यशसा
श्रवेण श्रद्धया श्रवणेन, श्रुत्वा च समीपवर्तिषु श्रोतृषु भगवद्गुणश्रावणेन, तदित्थं
भगवद्यशः श्रवणकथनादेः सञ्जातेन भगवत्स्मरणेन वैष्णव: कां क्षिपेदिति पू्वक्रियान्वयः।
अत्र सकें साधनानां भगवत्स्मरणे पर्यवसानं द्योतितम्। एवं तीर्थानां कालक्षेपानुगुणप्रचुर-
सामग्रीसम्भृतत्वं सूच्यते।
रामस्य साङ्गस्य सपार्षदस्य सीतासमेतस्य सहानुजस्य ।
कैङ्कर्यमीर्ष्यारहितः प्रकुर्वन् क्षिपेत्स्वकालं सततं सुभक्तः ।।९७५।।
* संवित्करः +
वैष्णवभक्त को इर्ष्यारहित होकर, अंगो एवं पार्षदों के सहित श्रीसीताजी तथा
श्रीभरतादि अनुजों से समन्वित भगवान् श्रीरामजी की सेवा करते हुए, अपना
कालक्षेप करना चाहिए।
* पदपरामर्शः *
अन्ते रामकेङ्कर्यस्यैव सर्वथा करणीयतां वदन् प्रकरणमुपसंहरति रामस्योति।
सुभक्तः सततमीर्ष्यारहितो रामस्य कैङ्कर्यं प्रकुर्वन् स्वकालं क्षिपेदिति सारः।
नानाशाखरज्ञानस्य वाग्विलासस्य तीर्थनिषेवनमन्त्रानु्छानविविक्तसेवित्वादेः सत्पुरुषसमागम-
अष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् २०७
पूजनादेश्व फल श्रीरामकैङ्कर्यमेव, सर्वेषां श्रेयस्साधनानागात्मैवावधि:, स एवात्मा
भगवान् रामस्तत्कैड्डयें स्वाध्यायादे: पर्यवसानञ्चरमफलरूपत्वात्तस्य। रामस्य कैङ्कर्यं
शेषवृत्तिस्तत्वतो भक्तिः, भक्ति लब्धवतः साधो किमन्यदवशिष्यते' इति
(भा. पु. ११.२६.३०) इदमेव स्वस्वरूपावाप्तिजीवस्य, “मकारार्थो जीवः सकल-
विधकैङ्कर्यनिषुणः' इत्युक्तेः। आत्मत्वेन स एव निरुपाधिकसेव्यः। सपरिकरस्य
सेव्यत्वमाह -- सीतासमेतस्येति। सश्रीकस्य सहानुजस्य सश्राृकस्य सपार्षदस्य
पार्षदसमन्वितस्य साङ्गस्य रामरहस्योपनिषत्मतिपादिताङ्गविशिटस्य भगवतो रामस्येति।
एतेनास्मिन् सेवित आचार्यभागवतादिसेवा सुतरामेव सिद्धयतीति द्योतयितुं पूवार्धि
विशेषणचतुष्टयम्। इष्यारहितस्यैव सुभक्तत्वमित्युक्तं यद्वा श्रीरामपरत्वेनेव भक्तस्य
सुभक्तत्वम्, न शास्रश्रवणमात्रेण न वा तठ्रवचनमात्रेण। भक्ते सौष्ठवं भजनीयतायाधार्थ्य-
परिज्ञानप्रयुक्तम्, "आत्मानमुपासीत' (श.त्रा. १०.६.३.२) इति श्रुतेः। सततं
अकुर्वन्निति प्रीत्यतिरेकादविच्छेदेनेति लभ्यते। भगवत्कैङ्करयनिष्ठस्योपादेयगुणमाह --
ईब्यारहित इति। परोत्कर्षासहनं परदोषासहिष्णुत्वड्लेष्य5िक्षमेत्येव। दृश्यते चैतत्कैङ्कर्यमहमेव
कुर्या नान्य इत्याकारकाग्रहोऽरच॑कादिषृ। अन्योऽपि भगवत्कैङ्कर्यं विधाय मदधिकारं
मत्साम्यं वा न ग्राणुयादितिरूपोऽमर्षः पदं न लभेतेत्यत आह -- ईष्यारहित इति।
भवति रियः पत्युरन्यप्रियासङ्गदर्शनादिजन्यो मानभेदः, सोऽपीष्यापिदेन गह्यते, यस्मिं्रोदिते
भगवदन्तर्धानं वर्ण्यते रासेऽपि। भगवता करुणया किङ्करत्वेन स्वीकृतस्य जीवस्यान्यो
मदपेक्षया हीन:, एष्वहं गुणकत्वात्कैङ्कर्यदानेनानुगहीत इत्येवंभूता बुद्धिरपि तथैव।
वस्तुतस्तु प्रक्तमीर्ष्यापदमसूयादिसकलचित्तदोषाणामुपलक्षणं केङ्कयवैगुण्यापादकत्वात्।
तेन जयाविजययोभागिवतावज्ञानात्कैङ्कर्याच्च्युतिर्वण्यते। देवतान्तरेषु तद्भक्तेषु च
हीनत्वायुक्तत्वादिबुद्धिराषि दोष एव। अत एवोक्तं साङ्गस्येति देवतादेस्तदङ्गत्वात्।
प्ररन्धवशाठाप्तदुः खैराक्रान्तस्य हितपरे भगवत्यप्यभजन्तमप्ययं सुखयति, भजन्तमपि
मां व्यथयतीत्यादिरूपेण दोषमनुसन्दधानस्य न सुभक्ततेति तद्राहित्यं नित्यापेक्षम्।
भ % ( इत्यष्टमप्रश्नोत्तरे वैष्णवकालक्षेपनिरूपणम् ) # *%
।। श्रीसीतारामार्पणमस्तु ।।
( अथ नवमप्रशनोत्तरे प्राप्यनिरूपणम् )
तथाविधैस्तैः परमार्थभूतं सुवैष्णवैः प्राप्यमथोच्यते यत् ।
जितेन्द्रियैरात्मरतैर्बुधाग्ग्रैर्महत्तमैः स्वाभिमतार्थदोहम् ।।९७६।।
* संवित्करः *
भत्तिप्रपत्तिनिष्ठ सद्वैष्णवों के सकल साधनों का जो अभीष्टपूरक तथा परमार्थरूप
प्राप्य है, जिसे जितेन्द्रिय भगवत्परायण महनीय विद्वज्जनों ने सद्रैष्णवों का
परमप्राप्य कहा है, अब मैं उसका स्वरूप बताता हूँ]
* पदपरामर्शः ४:
'किमाप्यं कथमुरुशुभदम्' इत्याकारकस्य नवमप्रश्नस्येकव्ृन्तावलम्बिफलद्वयवत्
“किमाप्यं कथमुरुशुभदम्' आप्यमित्यन्वयवैचित्र्यादाप्यस्वरूपतदाप्तिसाधनप्रकारक-
जिज्ञासाद्वयघटितत्वेन प्रक्रतिसिद्धकरुणयाचार्यो भगवान् सपरिकरबोधानुगुणाकारेण
प्रबोधयितुं द्वाभ्यामाप्यं त्रिभिस्तत्साधनं द्वाभ्यामूर्ध्वगतिक्रमं द्वाभ्याञ्चान्त आप्तिफलं
यथाक्रमं विविच्याभिधत्ते तथाविधैरित्यादिना। अथेति विषयान्तरोपक्रमं सूचयति।
यत्तदोर्नित्यसम्बन्धाद्वत्युवेष्णवे: (प्यं तदुच्यत इति। यद्रोच्यत इत्यस्यावृत्या यत्युवेष्णवे:
प्राप्यमुच्यते तदेवोच्यत इति। प्राप्यं पराप्तुं योग्यं प्राप्त्यहमित्यर्थ:, परमानन्दरूपतया
तस्य चेतनमात्रेणेप्स्यमानत्वातु: अंशानामंशिन्येवान्वयस्य युक्तत्वाच्च प’प्तुं शक्यमिति
वा ब्रह्मविदाप्नोति परम्” (ते. २. १. १) इति श्रुतेस्तदवाप्तिशक्यतायाः प्रतिपादनात्।
न हि शास्रमशक्यं शास्ति प्रमत्तत्वाफ्ते:। अहे कृत्यतृचश्चेति ण्यत्। यद्वा; प्राप्यत
इति पआ’प्यम्, कर्मणि ण्यत्। न हि नदीनां ज्ञानेच्छाक्रता समुद्रप्राप्ति:, तदेकपर्यवसायित्वेन
तत्मप्तेः प्रक्तिसिद्धत्वात्; 'यथा नद्यः स्यन्दमानाः समुद्रे’ (मु. ३. २.८) इति
दृष्टान्तश्रुते:। तत्र स्वेच्छया निवर्तितुमशक्यत्वद्योतनाय नदीदृष्टान्तः निर्वत्यादिष्वीष्सितकर्मसु
आपय॑ कर्म, मन्दिर गच्छामीत्यत्र मन्दिरस्य यथा क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीति-
विषयतानाश्रयत्वे सति फलाश्रयत्वात्तथा। लौकिके धनादो आप्यत्वबुद्धेदर्शनान्न केवलमचितो-
ऽपितु चिदपेक्षयापि तस्य श्रेष्ठत्वमाह -- परमार्थभूतमिति। एतेन प्राप्यप्रापकभाव-
स्याज्ञानकल्पितत्वं वदन्तः परास्ताः। न रत्नप्रभावमजानतस्तत्र प्राप्यत्वबुद्धिजायत
इति प्राप्यभूतस्य भगवत: सकलाभीट्प्रदत्वरूपं गुणविशेषमाह -- स्वाभिमतार्थदोहम्
इति। स्वस्य स्वकीयभक्तस्याभिमतार्थमभिलषितार्थ दोग्धि पूरयतीति। आश्रितवाज्छतार्थ-
पूरकमित्यर्थः। एतेन तव्याप्तेरमोघफलत्वं दर्शितम्। यदिति प्राथम्येन सिद्धत्वेन च
नवमप्रश्नोत्तरे प्राप्पनिरूपणम् २०९
प्रतीयमानमिति बोध्यते। 'यदिच्छन्तो ब्रह्मचर्य चरन्ति’ (क. १. २. १५) इत्यादिश्रुत्युक्तं
सर्वसाधनोदेश्यभूतमित्यर्थः। यथोक्तं धाट्टवार्तिके 'यच्छब्दयोगः प्राथम्यं सिद्धत्वं
चाप्यनूद्यता' इति।
किंविधै: प्राप्यमिति सप्तभिः पदैराह ~ जिवेत्धियैर्जितानीद्धियाणि यैर्निएहीतोभय-
करणैरित्यर्थः। एतेन तादृशौरनुष्ठेयं शास्त्रविहितं कर्म निर्दिष्टम्। बुधेष्वखे;
शास्त्रज्ञेपत्तमौरित्यर्थस्तेन यथावस्थितात्मबोधो निर्दिष्ट आत्मानि भगवति रतं
रतिरनुरक्तिर्येषान्तैरित्यनेन भक्तिरुक्ता। सुवैष्णवैरिति सत्सम्प्रदायानुगुणाचार्यस्य
तदुक्तोपासनापद्धतेश्च प्राप्तिः सूचिता। इत्थमाचार्यमुखेन कर्मज्ञानभक्तिसहितैस्तथाविधेश्च
प्राप्यमिति भगवत्राप्तौ साधनानि कथितानि। यत्ाप्यप्रशस्त्या तत्साधनपराणामपि
यन्महत्तमत्वं किमुत लन्धप्राप्याणामिति कैमुत्यं गम्यते। यद्वा वक्ष्यमाणं यत्प्राप्यं
तदेवंविधेरुच्यते, तदुक्तं आ्राप्यं मयाप्युच्यत इत्याशयेन आप्यस्वरूपमुच्चारयितृणां
प्रामाण्यनोधनाय तानाह -- सुवैष्णवौरित्यादिना। सुवैष्णवौरित्यनेन तेषां
सत्सम्प्रदायाचार्यपरिग्रहन्तत्राषि सुना साभिनिविष्टतया गहनप्रवेश सूचयति,
असकृदनुछितविविधाचारेः गोछीनिष्ठे: सुवैष्णवैर्यत्राप्यमुच्यते इत्यनेन तदुच्यमान-
स्यानाहार्यत्वं बोधयति। न हि य्वृत्युद्देश्यं सम्यगनिर्धा्यकस्यचित्ववचिदिष्टताबुद्धिजयते,
किम्पुनस्तदवाप्तिमार्गाधिरूढानां प्रबृति:; लोकेऽनाहार्यज्ञानस्यैव प्रवर्तकत्वस्य
टृष्टत्वाठाप्तेरिच्छाविषयस्यैव पआ’प्यत्वाच्च। चपलेद्धियाणां चिततस्थैरयाभावे बुद्धिनिष्कम्पता
न, तदभावे प्रत्ययदार्ढ्य नेति जितेन्दरियैरिति चित्तसमाधिरुक्तः। आत्मन्येव रतं रतियेषायिति
विषयान्तरविरक्तया हानोपादानविवेकेन साय्याहित्वं.प्रकाशितमा बुधेष्वग्र्यैरिधिगतवेदार्थेष्वपि
मुख्यैलक्षणप्रमाणाभ्यां तत्त्वपरीक्षणदक्षौ:, महत्तमरात्मबुद्धघादि- शौचेन नितान्तं
पृतान्तःकरणतया प्रकृत्यैव ग्रमाणभूतैः। एतेनाविम्र्॒यैव विश्वसनीयत्वं लक्ष्यते।
तथाविधैरुत्तरोत्तरगुणपौष्कल्यात्सर्वथापरिच्छेद्यमाहात्म्येनासामान्यत्वं द्योतयित्वा
्ान्त्याद्यत्यन्तासम्भावना ध्वन्यते। तैरुक्तगुणकैः। पूर्वप्रकरणानुसन्धानेनोक्तरीत्या
कालक्षेपपरेवा। आ”रमाण्यनिक्चयाय येष्वेकसत््तमप्यल' किमुत तत्समवाय इति प्रकाशयितुं
बहुवचनम्। उक्तविशोषणेर्वक्ष्यमाणायां भगवतो रामस्य ग्राप्यतायां महाजनवक्तप्रामाण्यं
पुरस्कृतम्।
श्रीमान् दिव्यगुणाब्धिरौपनिषदो हेतुः शरण्यः प्रभुः
देवेशो जगतामनादिनिधनो ब्रह्मादिदेवार्चितः ।
तारार्कानल-चन्द्रमोबहु-महस्सौदामिनी-भासको-
जय्यो वीरसपत्नशस्त्रनिचयैर्जेता च तेषां मुहुः ।।१७७।।
२१० श्रीवैष्णवमताब्जभास्कर:
* संवित्करः *
जो नित्य ऐश्वर्य एवं श्रीसीता से संयुक्त रहते हैं, दिव्य कल्याणगुणों के सागर हैं,
जो उपनिषद्वेद्य तथा जगत्कारण हैं, जो उत्पत्तिविनाशरहित तथा ब्रह्मादि-देवताओं के
द्वारा पूजित देवेश्वर हँ, तारे-सूर्य-चन्द्र-अग्नि-बिजली-जैसे प्रकाशको के भी प्रकाशक
तथा वीर शत्रुओं के शखसमूहों द्वारा भी अजेय होते हुए उनको जीतने वाले हैं; ऐसे
भगवान् श्रीरामजी ही परमप्राप्य हैं।
* पदपरामर्शः *
औपनिषदस्य परमपुरुषस्य श्रीरामस्य नित्यज्ञानबलेश्र्यादिसूचकैशशास्रसिद्धोर्विशेषणे:
आप्यतां निश्चिनोति -- श्रीमानित्यादिना द्वाथ्याम्। श्रियोऽपीः श्री: श्रीसीता,
पुरुषकारभूतया तयाउविनाभूतो नित्यं युक्त: श्रीमान् श्रीराम इत्यर्थः; एतेन प्राप्यं
मिथुनमेवेति स्वोक्तं स्मारितम्। यद्वा स्वस्वरूपानुरूपसर्वातिशायिज्ञानेक्ष्यादिसम्पन्र इति
विभूत्यानन्त्यमुत्तवा तत्कल्याणगुणानन्त्यमाह ~ दिव्यगुणान्धिरिति। दिव्यानां
वेदान्तोदितानां जगत्कारणत्वसर्वज्ञत्वसर्वशक्तिमत््वसर्वान्तर्यामित्वादीनामप्राकृतानां
नित्यनिरतिशयोज्ज्वल्यादिविग्रहगुणानां समाश्रयणोपयुक्तगुणानां सौशील्यकारुण्यादीनाम्
अन्धिः समुद्रो नित्याश्रयभूत आकर इत्यर्थः। तादृशस्य तस्य श्रुतिप्रतिपन्नत्वमाह
-- औपनिषद इति। उपनिषदा श्रुत्या प्रमुखज्ञातव्यत्वेन प्रतिपाद्यत इत्यौपनिषदः,
शेष इत्यण्। उपनिषत्यमाणक:, 'तं त्वौपनिषदं पुरुषं प्रच्छामि’ (व. ३.९.२६)
इत्यादिना, कारणवाक्येषु च बहुधा पुरुषादिशान्दैः श्रूयमाण इति भावः। सूत्रितञ्च
श्रीबादरायणेन 'शाख्रयोनित्वात्' (ज. सू. १. १.३) इति। कारणवाक्यैः श्रूयमाणत्वेन
किम्प्रतिपन्रमित्यत आह -- हेतुरिति। उत्पादकः कारणमिति, नित्यसाकाङ्कतया
कार्यमनुसन्धाय वष्ठ्यन्तेनोपस्थापयति -- जगतामिति। प्रत्यक्षादिप्रमाणप्रतिपत्नानां
जङ्गमाजङ्गमरूपाणां कृत्स्नजगतां सकलकार्यवर्गस्यानिमित्तोपादानकारणम्, 'स कारणं
करणाधिपाधिपः” (थे. ६.९) इति श्रुतेः! यथा कुलालादिरहमेतत्कार्य
कृर्यामितीच्छाकृत्यादिविशिष्टतया घटादिकार्य प्रति निमित्त भवति, तथैवेश्वरो 'बहुस्यां
प्रजायेय” (छा. ६. २. २) इति सङ्कल्पविशिष्ट: सन्रविशेषेण सर्वकार्यनिमित्तकारणम्।
ईश्वरस्य सर्वकार्यं प्रत्यपि एऐक्यरूप्येण निमित्वेऽप्युषादानत्वं तथा न भवति,
किन्तु क्वचित्साक्षात्कवचित्परम्परया।
ईश्चरगतघटसंयोगादिनिष्ुङशुद्धस्वरूपेण, एषां साक्षात्स्वरूपगततयाऽऽगन्तुकतया
च तदुपादानत्वं साक्षादेवेश्वरस्य भवतीति। एतेनैककार्ये निमित्तोपदानयोरेक्यं न
सम्भवति विरोधादिति वदन्तः परास्ताः। सर्वकार्यनिमि्तभूतस्येश्वरस्य स्वगतषटसंयोगादिकं
प्रत्युपादानत्वस्य दृष्टत्वेन सर्वैरभ्युपगतत्वात्। अवस्थाश्रयत्वमुपादानत्वम्, तद्घटकावस्था
नवमप्रश्नोत्तरे प्राप्यनिरूपणम् २११
चागन्तुकाएथक्सिद्धधर्म:। आगन्तुकत्वञ्च प्रागभावप्रातियोगित्वरूपं जन्यत्वम्,
ईश्वरगतघटसंयोगसूक्ष्मचिदचिद्वेशिष्टचादीनां च तथात्वात्तदुपादाय तस्योपादानत्वमुपपद्यते।
यद्यप्युपयन्नपयन् धर्मो विकरोति हि धर्मिणमिति न्यायेनेश्वरस्य विकारित्वापत्या
निर्विकारश्ुतिविरोधः स्यादिति; तथापि विकारत्वावस्थात्वघटकजन्यत्वयोर्मिथः पार्थक्येन
सूक्ष्मचिदचिद्वौशिष्ट्यादिकमादायेश्वरस्योपादानत्वोपपत्तावाषि न विकारित्वम्।
विकारत्वघटकजन्यत्वं च प्रागभावाप्रतियोगित्वात्मकनित्यत्वाभावरूपं व्यतिरेकमुख-
निरूप्यम्, अवस्थात्वघटकजन्यत्वं च प्रागभावप्रतियोगित्वरूपमेवान्वयमुखतः। एवञ्च
सूक्ष्मत्वविशिष्टचिदचिदपृथक्सिद्धे: विशिष्टं शुद्धात्रातिरिच्यत इति न्यायेन
केवलचिदचिदप्रथक्सिद्धनतिरेकात्। तस्याक्षेश्वरे सनातनत्वेनास्या आपि कथज्ञिव्याग-
भावाप्रतियोगित्वरूपनित्यत्वप्राप्त्या तदभावाभावान्र विकाररूपत्वमिति न तामादायेश्वरस्य
विकारित्वापत्तिः। सूक्ष्मत्वविशिष्टचिदचिदप्रथक्सद्धेर्विशिष्टवेषेण प्रागभावप्रतियोगित्वाद-
वस्थारूपत्वमिति तानादाय तस्योपादानतानिवाहिश्च भवति। अत उत्त श्रीरामायणे जगत्सर्व
शरीर ते! (६.११७. २५) इति। भगवतो रामस्य निमित्तकारणातापि तत्रेवेत्थं.प्रतिपाद्यते
-- 'सवाह्लोकान् सुसंहत्य सभूतान् सचराचरान्। पुनरेव तथा स्रष्टुं शक्तो
रामो महायशा: ' इति।
जगतां हेतुरित्यत्र कार्यवर्गेषु भेदप्रयुक्तवौचित्र्याभिप्रायेण बृहुवचनम्। चेतनपक्षे
हेतुः प्रयोजको नियामक इत्यर्थः। यथाह भगवान् पाणिनिः 'तद्ायोजको हेतुश्च’
(१.४.५५) इति। जगतामिति शरण्यः प्रभुरित्यनयोरापि सम्बध्यते, तेन जगतां
शरण्यो जगतां प्रभुरिति लभ्यते। शरणे साधुः शरण्यो, जगतां शरण्यः,
'सर्वलोकशरण्याय राघवाय महात्मने” (६. १७.१७) इति श्रीरामायणोक्तेः। न
त्यजामि कथञ्चनेति रतिज्ञनुगुणमात्रितरक्षणे ग्हीतक्रतः। असमर्थतवे शरण्यत्वं व्यर्थमित्यत
आह - प्रधुरिति। प्रभुः समर्थ इत्यर्थः। यद्वा; सर्वस्पृहणीयतवा सर्वेषां हृदयहरणे
प्रभवतीति प्रभुः, अक्रत्यैवातिमात्रकमनीयः, “राम: कमलपत्राक्षः सर्वसत्त्वगनोहरः
(२.६६.८) इति श्रीरामायणोक्तेः। यद्वा प्रभवतीति प्रभुः, निरुपाधिकसर्वस्वामी, “पतिं
पतीनाम्” (श्च. ६.७) इति श्रुतेः, "त्रयाणामपि लोकानामादिकर्चा स्वयग्प्रधु:
(६. ११७.७) इति श्रीरामायणोकेशच। देवेशो बरह्मादिदेवानामीशो राक्षसादिभ्यो रक्षणात्पालक:।
देवानामीक्षरत्वादेव त्रह्मादिदेवार्चित इत्यप्युक्तम्। लोकपूजितानामपि पूजित इति निरुपाधिकएज्य
इति जगद्रिधात्रादिभिः पूज्यतया तस्य ततोऽपि य्राचीनतरत्वं स्यात्तस्य सनातनत्वमाह
-- अनादिनिधन इति! आदिश्च निधनश्चेत्यादिनिधनौ न तौ यस्य सः, उत्पत्तिविनाशराहितो
नित्य इत्यर्थः। नित्यत्वञ्च ध्वंसभिन्नत्वे सति ग्रागभावाप्रतियोगित्वम्। वस्तुतो भगवांस्त्व-
कालोपाधिक:, तेन नित्यकिशोरतया जरादिदुरितराहिततया नित्यविग्रह इति लभ्यते,
२१२ श्रीवेष्णवमताब्जभास्कर:
'सदा पश्यन्ति सूरयः (ऋ. १. २२. २०) इति मन्त्रवर्णात्। इत्थं तस्य स्वयम्प्रकाशत्वं
संसूच्य सर्वप्रकाशकत्वमाह -- वाराकनिलचन्द्रमोबहुमहस्सौदामिनीभासक ड्राति।
ताराश्चार्कश्चानलश्च चन्द्रमाञ्च, ताराकनिलचन्द्रमसः, बहुमहस्तेजो यस्या सा बहुमहा:,
सा चासौं सौदामिनी, ताराकानिलचन्द्रमसञ्च बहुमहस्सौदामिनी चेति द्वन्द्र:;
लोकप्रकाशकत्वेन प्रसिद्धानामपि भासकः प्रकाशक इत्थं भगवत्यकाशेनैवैतत्
प्रकाशकत्वमुक्तम्। 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वयिदं विभाति’
(मु. २.२.११) इत्यादिश्रुतेः, 'सूर्यस्यापि थवेत्यूर्यो ह्यग्नेरग्निः' (२.४४. १५)
इति रामायणोक्तेः, “यदादित्यगतं तेजो जगद्ासयतेऽखिलम्। यच्चन्रमसि
यच्चाग्नौ तत्तेजो विद्धि मामकम्” (१५.१२) इति गीतोक्तेश्च। चन्द्रादिषु
चिख्रकाशकेप्क्तेए पुनरचिखकाशायां सौदामन्यामपि निहितं चपलमपि तेजस्तदीयमेवेति
द्योतयितुं सौदामन्याः पुनरुपादानम्।
तेज उक्तवा परेरनभिभवनीयताया वर्णनिनाचिन्त्यप्रभावमाह ~ वीरसपलशस्र-
निचयैरजय्य इृति। वीराणां वीर्यवतां सपत्नानां शत्रूणां शस्रनिचयै: प्रहरणनिकरेरप्यजय्यो
न जेतुं शक्यः, क्षय्यजय्यौ शक्यार्थे? इति शक्यार्थे जय्यशन्दस्य निपातनात्।
अभ्यस्यति श्रीमद्रामायण तस्य जेतुमशक्यतां 'न हि रामो दशग्रीव शक्यो जेतुं
त्वया रणे। रक्षसां वापि लोकेन स्वर्गः पापजनैरिव' (३.३१.२७),
'पूरितश्शरजालेन थनुमुक्तिन संयुगे। महागिरिरिवाकम्प्यः काकुत्स्थो न
प्रकम्पते’ (६. १०५.४), "अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः ' (२.१.२९)
इति। प्रभावमुक्तवा पराक्रमं वक्ति -- जेता च तेषां मुहुरिति। तेषां तत्र प्रसह्य
सापत्न्यं दधानानां खरदूषणत्रिशिरः कुम्भकर्णरावणप्रभ्रतीनां जेता निगृहीता। यथोक्तं
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्। खरदूषणमुख्यानां निहतानि
महामृधे।। अहो बत महत्कर्म रामस्य विदितात्मनः! अहो वीर्यमहो दार्ढ्यं
विष्णोरिव हि दृश्यते? (३.३०.३४-३६) इति। भगवास्तु सर्वदा विजयी,
सत्यसङ्कल्पत्वात्। उपब्रृंहितज्ञ रामायणे 'नाविजित्य निवतति’ (२.२.३७) इति।
तेषामिति बहुवचनेनानेकेषां विविधायुधानां शत्रूणामेकाकी निरायुधोऽपि जेतेति बोधितम्।
तद्यथा 'चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा
शत्रुः कस्तस्य नोद्विजोत्’ (५.३७.१४), 'पिशाचान् दानवान् यक्षान् प्रथिव्यां
चैव राक्षसान्। अङ्कल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर’ (६.१८.१०)
इति। मुहुरित्यनेन पराजितोऽपि शत्रुः पुनः सबलः सन् यदा यदा योद्धुमागतस्तदा
तदा तज्जेतेति द्योतितम्। एतेनासकृदयुद्धात्पलावितस्य योद्धु पुनरागतरावणस्य
पराजयप्रसङ्गः स्मारितः; 'भवाद्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः '
नवमप्रश्नोत्तरे प्राप्पनिरूपणम् २१३
(६. १००. ६३) इति रामायणोक्तेः।
नित्यो ब्रह्मविधायकश्च पुरुषो वेदप्रदो ब्रह्मणे
नित्यानां शरणं तपःप्रभृतिभिः सद्योगिनां दुर्लभः ।
एकश्चेतनचेतनो भृतजगद्धयेयः स्वतन्त्रो वशी
स प्राप्योऽस्ति मुमुक्षुभिः सुगुरुभिः सत्सङ्गिभिस्तत्परैः ।। १७८।।
* संवित्करः #
जो नित्यों में भी नित्य एवं पुराणपुरुष हैं, जिन्होंने सृष्टिकर्ता ब्रह्मा को उत्पन्न
कर उसे अपनी अनादि वेदविद्या प्रदान की, जो श्रेष्ठ योगियों की तपःसाधना-
आदि के द्वारा भी दुर्लभ हैं, जो नित्यमुक्तों के परमाश्रय हैं, चेतनरूप जीवों के
नियामक होने से परमचेतन तथा जगत् के पोषक एवं रक्षक है, स्वाधीन होने पर
भी भक्त की भक्ति से वश में होने वाले हैं, वे भगवान् श्रीरामजी ही गुरुकृपाप्राप्त
भक्तिपरायण मुमुक्ष₹ओं के एकमात्र प्राप्य हैं।
* पदपरामर्शः *
अनादिनिधन इत्यनेनोक्तनित्यतया जीवेक्षरसाधारण्यात्पुनर्जीवापेक्षया तद्विशेषम्
अभिदधाति -- नित्यानां नित्य इति। निधरिणे षष्ठी। लोके यथा गुरूणां गुरुरिति
प्रयोगो विद्यादिक्ृतं प्राशस्त्यं द्योतयितुं भवति, तथैवाशांशिभावगर्भ नियम्यनियामक-
भावप्रयुक्तं यारम्यं सूचायितुमित्यमुक्तिः। नित्यानामक्षराणाञ्जीवानां स नित्यस्तदपेक्षयोत्क्ट
इत्यर्थः, "नित्यो नित्यानाम्’ (8.६. १३) इति श्रुतेः, "अक्षरादपि चोत्तमः
(गी. १५.१८) इति स्प॒तेश्ष। विदधातीति विधायक उत्पादक:। ब्रह्मण: अजापते:
हिरण्यगर्भस्य विधायको ब्रह्मिविधायक:। तृजकाभ्यां कर्तरीति समासानिषेधेऽपि शेषषष्छ्या
समास इति कैयट:। “यो ब्रह्माणं विदधाति पूर्वम्' (थे. ६.१८) इति श्रुतेः, "मां
त्वं पूर्वमजीजनः'? (७.१०४.४) इति रामायणोक्तेश्च। “विताहमस्य जगत;
(गी. ९.१७) इत्युक्तेः पिता यथा पुत्रमुत्पाद्य हिते प्रवर्तनाय शास्रमुखेनोपदिशति,
तथैव भगवान् ब्रह्माणमुत्पाद्य तस्मै जगद्ग्यवस्थायै च स्वानादिज्ञानं वेदं प्रयच्छति।
तदेवाह -- ब्रह्मणे वेदप्रदश्चेति; 'यो वै वेदाश्च प्रहिणोति तस्मै’ (8 ६. १८)
इति श्रुतेः औदार्यमाह -- पुरुष इति। पुरु बहु सनोति ददातीति पुरुषः,
दानकर्मण: सनोतेर्ड: निरतिशयानन्दप्रदानेच्छया सह सामर्थ्यस्याविनाभावं सूचयति
ुरुषशन्दः। पूर्वश्लोकोक्तस्यौपनिषदपदस्यानुसन्धानात्पुरुषसूक्तादिषु जगत्कारणतयाम्नातः
'पुरुषान्नपरं किञ्चित्’ (क. १.३.११) इत्यादिश्रुत्युक्त औपनिषदः पुरुषो भगवान्
राम एवेति निष्पद्यते; 'यत्रागृतः स पुरुषो ह्यव्ययात्मा (मु. १. २. ११) इत्यादिशरुतेः।
२१४ श्रीवेष्णवमताब्जभास्कर:
यद्वा; मुकतेभ्योऽपि वाड्यनसापरिच्छेद्यं स्वदिव्यानुभवं ददाति, स भगवान् पुरुष इत्युच्यते;
“एष ह्येवानन्दयाति” (ते. २. ७. १) इति श्रुतेः। अत्र पुरुषपदं पुरि शरीरे शोत इत्यर्थतया
प्रत्यक्परं न, अपि तु प्राप्यतया निर्देशात् (परात्पर पुरुषमुपैति दिव्यम्” (मु. ३. २.८)
इति श्रुत्या दिव्यपरात्परोभयविशेषणभूषित उपेयतयोच्यमानः। यश्च 'वेदाहमेतं पुरुषं
महान्तम्” (थे. ३.८) इति श्रुत्या महत्पदविशिट्टतयोपात्तो भगवता बादरायणेन च
“वन्दे महापुरुष ते चरणारविन्दम्” (भा. पु. ११.५.३४) इत्यादिना प्रत्यभिज्ञापितः,
पतञ्जलिना चेक्षरलक्षणसूत्रेण पुरुषविशेषतया लक्षितः स सर्वेश्षरो महापुरुषो भगवाञ्
श्रीराम एव तत्पदबोध्यस्तस्यैव तथात्वेन युक्तत्वात्।
पूर्व भगवाञ् शरण्य इत्युक्तः, इदानी साक्षाच्छरणमेवेत्युच्यते -- नित्यानां
जीवानां शरणं रक्षक: परमाश्रयोऽभयदातेति; शरणं गृहरक्षित्रोः (३.३.४५०)
इत्यमरकोषात्। शरणाशन्दस्योपायपरत्वे जीवानां स्वप्राप्तौ प्रतिबन्धकनिवर्तकत्वेन
भगवान् स्वयमेवोपायो नान्य इत्याशयेन नित्यानामित्यस्य शरणमित्यतो व्यवहितएवीयोग:।
"शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः? (६. १२०. १८) इति रामायणोक्तेः।
अतस्तप आदीनां पापनाशकतयव सार्थक्यं न तेषां भगवदुपलन्धौ साक्षात्सामर्थ्यमित्याह
-- तपःप्रभतिभिः सद्योगिनां दुर्लभ इति। 'हारिर्हि साध्यते भक्त्या प्रमाणं
तत्र गोपिका? (भा. या. प. २.१८) इत्युक्तयनुसार' भक्तिविरहितैस्तप आदिभिरित्यर्थः
सम्पद्यते। दुर्लभो दुष्प्राप्प:। ग्रभ्नतिपदेन सत्यन्रह्मचयशौचादीनां परिग्रह:। पापनाशकत्वं
यथा भक्तेस्तथा तप आदीनां नेत्यवधारयच्छुकोऽपि न तथा ह्यघवान् राजन् एयेत
तप आदिभिरित्यादिना। 'भक्तयाउहमेकया ग्राह्य: ' इत्यत्रैकया नाम तपआदिनिरपेक्षया
केवलयाऽहं भक्त्या वशीकर्तु शक्य इत्यर्थः। यद्यपि ज्ञानाे्ह्मप्रापकत्वं श्रूयते, तत्र
भगवदुपासनात्मकज्ञानेन तदवाप्तिरिति; भत्तेज्ञनविशेषत्वात्। सद्योगिनां निर्जितमनसामपि
प्रशस्तयोगिनां तपःप्रभ्रतिभिर्दुलभो भगवान् किमुत साधारणयोगिनां कुयोगिनां वा
यथोक्तं स्वयं भगवता 'अक्पिक्वकबायाणां दुर्दशोऽ हं कुयोगिनाम्” (भा पु १.६. २२)
इति। तथाविधो भक्तिळभ्यो भगवाञ्जीववदनेक एको वेत्यवधारयति ~ एक इति
स भगवानेक एव। “एके मुख्यान्यकेवला” इतिकोषादेक: प्रधान: श्रेष्ठ, केवलो-
ऽप्रतिमः; न तस्य प्रतिमास्ति' (यजु. ३ २.३) इति मन्रवर्णात्, “न तत्समश्चाभ्यधिकश्च
दृश्यते" (8. ६.८) इति श्रुतेः श्रीराममुदिश्याधिकसाम्यवियुक्तधामत्वस्य श्रीमद्धागवतो-
क्तेश। एकशन्दस्यान्यपरत्वे एको विलक्षणः; “उत्तम: पुरुषस्त्वन्यः ' (गी. १५.१७)
इति स्मरणात्।
जीवापेक्षया भगवतो ज्ञातृत्वे विशेषयमाह -- चेतनचेतन इति। “चेतनश्चेतनानाम्”
(8.६. १३) इतिश्रुत्यनुरोधेनोक्तिः, अत्र चेतनेषु चेतन इति विग्रहो न्याय्यः, षष्ठी-
नवमप्रश्नोत्तरे प्राप्यनिरूपणम् २१५
तत्पुरुषस्य न निधरिण इति निषेधात्। चेतनानां जीवानां चेतनो जीवक: येन जातानि
जीवान्ति' (ते. ३. १) इतिश्रुतेः ज्ञानाश्रयत्वं चेतनत्वं, चेतनेषु भगवत्सङ्कल्पा-
धीनसङ्कोचविकासशीलज्ञानेषु जीवेषु चेतनो नित्यज्ञानवान् भगवानित्यर्थः। यद्वा;
चेततीति चेतन: प्रत्यक्, तेषां चेतनानां प्रत्यगात्मनाञ्चेतनः प्रवर्तक: प्रेरकः,
आत्मनामप्यात्मा सर्वात्मेति यावत्, 'यस्यात्मा शरीरम्’ (वृ. ३.७.२२) इति
श्रुतेः 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’ (तै आ. ३. ११) इति श्रुतेश्च। भृतं
धृतं जङ्गमाजङ्गमं जगद्येन स जगद्धारको भगवान्; 'स दाधार प॒थिवीम्' (यजु १३.४)
इत्याम्नायात्। सर्वाधारत्वे सति चोतनत्वमीक्षरलक्षणमाधेयत्वे सति चेतनत्वञ्जीवलक्षणम्,
आधेयत्वमात्रस्याचेतनेषु चेतनत्वादीश्वरे चातिव्याप्त्योभयोरुपादानम्। आधेयत्वकथनेन
चिदचिदो्ब्रह्मशरीरत्वं सिद्धयति। आधाराधेयभावादेद्वि्त्वेन व्यासज्यवृत्ित्वद्योतनाय
सम्बन्धकथनं, नियमपदेन च कदाचिदाधेयत्वविधेयत्वादिमतो घटपुत्रादे्भूतलपित्रादिकं
प्रति शरीरत्वं व्युदस्यते। इत्यं यत्ति नियताधेयत्वादिमद्द्रव्यं तत्तत्प्राति शरीरमिति।
यथा चेतनपरिणामभूतो देहो जीवं प्रति शरीरमुक्तसम्बन्धानियमाठ्, तथैव तत्सम्बन्धनियमेन
जीवो5पीश्वरं ग्राति शारीरमिति भावः। अचेतनानामन्यशरीरतयोपलन्ध्या कथं ब्ह्मशरीरत्वं
न ह्येकस्य शरीर भवदन्यस्यापि शरीरं भवति ब्रैराज्यप्रसङ्गात्। प्रथिव्याद्यचेतनानाम्
“अनेन जीवेनात्मनानुप्रविश्य' (छा. ६. ३. २) इत्यादिश्रुत्या जीववर्ग प्रति शरीरत्वेऽव-
गतेऽपि यस्य सर्वाणि भूतानि शरीरम्” इत्यन्तर्यामित्राह्मणानुरोधेन भगवच्छरीरत्वस्यै-
छव्यत्वादुभयं प्रत्यपि चेतनाचेतनानाञ्च युगपदेव शरीरत्वं प्रामाणिकमेवेति भाव:।
वस्तुतो जीवस्य स्वाधीनभोक्त्वं आन्तिसिद्धम्, तस्य स्वतन्त्रतया पुण्यपापफलभोकत्वं
नास्ति।
स ध्यातुं योग्य इति ध्येयश्चिन्तनार्ह:। तदतिरिक्तचिन्तनस्य रागत एव प्राप्तेः। पुना
रागादिजनकतया वासनामुखेन बन्धकरत्वाद्धगवाच्चिन्तनस्य वेदनीयतया
विहितत्वेनोपासनारूपतया च बन्धानिवर्तकत्वाच्च भगवतो ध्यानस्यैव युक्तत्वादेवमुक्तिः।
'स्मर्तव्यश्चेच्छताभयम्” (२.१.५) इति भागवतोक्तेः। यश्च विषयान् ध्यायति तस्य
सङ्गकामादिक्रमेण पुनरपि संसाखाप्ति गायति स्वयं भगवानपि "ध्यायतो विषयान्'
इत्यारभ्य 'बुद्धिनाशात्मणश्याति' (गी.२.६२-६३) इत्यन्तेन। ध्येयः, पत्न्या
पतिरिव, दरिद्रर्धनमिवात्यन्तकाम्यतया, सर्वदा प्रीत्या चिन्तनीयो भगवानिति भावः।
अत एव 'ध्यायेदाजानुबाहुं ध्रृतशरथनुषम्” इत्यादो लिङा निर्देश उपपद्यते। यद्वा
भृतजगद्धयेय इत्यखण्डं समस्तं पदम्। तेन यच्च येन धतं पोषितञ्च भवति,
तदधीनस्थितिप्रवृतिमता तेन सोऽवश्यं ध्येय उपजीव्योपक्षाया अयुक्तत्वात्क्रतष्नस्य
निन्दनाच्च, 'कृते च प्रतिकर्तव्यमेष धर्मः सनातनः” (वा.रा. ५. १. ११४) इत्युक्ते:।
२१६ श्रीवैष्णवमताब्जभास्कर:
भगवतोऽनितरसाधारणं वैशिएयमाह -- स्वतन्त्र इति। स्वाधीनः, नियोगपर्यनुयोगार्नह
इत्यर्थ-। जीवस्वातन्यन्तु स्वेच्छानुविधायिप्रवृत्तिशीलत्वम्। अतो जीवश्च यथेच्छं
दृष्टार्थक्रष्यादावदृष्टार्ध यागादौ यथाकामं प्रवर्तते किन्त्वीश्वरो चेतनेषु भोग्यत्वं चेतनेपु
भोक्तृत्व॑ वदनुगुणज्ञानशक्तद्यादिकं सङ्कल्प्य विहरति। ततश्च जीव ईश्वरदत्तज्ञानतया
हिताहितोपदेशं श्रुत्वा तदाहितशक्तया यथाज्ञानं प्रवर्तते। अतो जीवस्वातत्र्यस्येक्वर-
सङ्कल्पाधीनत्वमेव। अतो याथार्थ्येन स्वातनत्यमीश्वरस्येवेत्याह ~ स्वतन्त्र इति।
अनितरचेतनप्रेर्य इत्यर्थः। तादृशोऽपि भगवान् ग्रीत्यतिशयाद्भक्तवशे भवतीत्याह
-- वशी। आश्रिततन्त्र इत्यर्थ; "अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज’
(भा. पु. ९.४. ६३) इति भगवदुक्तेः। एतेन प्रोक्तं स्वातन्यमाधिकं शोभते। 'वशीकुर्वान्ति
मां भक्तया सत्स्रियः सत्पतिं यथा” (९.४.६६) इत्युक्तेः। यद्वा; 'वशः कान्तौ"
इत्यमरोक्तेस्ततो नित्यातिशायनयोर्मत्वथीयेना नित्यातिशायितकान्तिमानिति वशिपदेनोक्तः।
यद्वा वश: स्वायत्तत्वमस्त्यस्योति वशी, स्वाधीनोपकरण इत्यर्थः। इत्थमनितरचेतनप्रेर्यत्वं
स्वाधीनलीलोपकरणत्वङ्घेश्वरस्यासाधारणधर्म:। एतादृशो भगवान् रामः प्राप्यत्वेन
निश्चित: कीदृशैः द्राप्यते, तत्राह -- मुमुक्षाभिः सुगुरुभिः सत्सङ्गिभिस्तत्परेरिति।
अत्र चतुरण्णामपि कश्चित्रमो दर्शितः। आदा स्वधर्मानुष्ठानान्मुमुक्षा जायते,
तादृशैर्जातमुमुक्षैः 'तब्विज्ञानार्थ गुरुमेवाभिगच्छेत्' (मु. १.२.१२) इति श्रुत्यर्थम्
अनुसन्धाय प्रशस्ताचार्यपरम्परासंश्रयश्च कृतो भवेत्युगुरूणां सात्रिध्याद्धगवान् मे ग्राप्त:
स्यादित्याकारको भगवद्विषयक: सङ्गो जायेत, तदा जातसङ्गानां तदुपायजिज्ञासायां
भक्तया त्वन्या शक्य इत्युक्तरीत्या तद्भक्तिपरत्वे तत््ाप्तिर्भवतीति कश्चि्रमो
निर्दिश्यते।
तथाविधं प्राप्यमथो सुवैष्णवः सुचिन्तयन्नित्यमनुक्षणं प्रिय ।
सदा सदाचाररतं गुरु वरं ज्ञातं भजेताखिलसंशयच्छिदम् ।। १७९।।
* संवित्करः #
ऐसे परमप्रभु श्रीराम को अपना परमप्राप्य मानकर, उनकी प्राप्ति के लिए,
साधक जीव पहले सर्वसंशयो के निवारक सदाचारपरायण श्रेष्ठ वैष्णव सद्गुरु की
सेवा करे।
* पदपरामर्शः *
लौकिकार्थस्य स्वरूपतः फलतश्च दुःखरूपतां निश्चित्य जातनिर्वेदस्य भगवलप्तौ
'तद्वज्ञानार्थ गुरुमेवाभिगच्छेत्’ (मु. १. २. १२) इति श्रुत्युक्तमनुस्मुत्य सदाचार्य-
समाश्रयणरूपं प्रथम सोपानमाह -- तथाविधामित्यादिना। तव तूच्यमानगुरूपसति-
नवमप्रश्नोत्तरे प्राप्पनिरूपणम् २१७
लाभात्सवर्धिसाधिकाचार्यप्रीणननेप॒ण्यादिगुणविशेषधन्यता सुतरामिति सम्बोधनेन द्योतयति
-- प्रिय ड्रति। अथो प्राप्यस्वरूपज्ञानानन्तरं लोकपरीक्षणानन्तर वा। सुवैष्णवः
सुवेष्णवो बुभूषुः, यद्यपि वेष्णवीयपल्ञसंस्कायप्राप्त्यनन्तरमेव आप्यं वैष्णावत्वमाचार्य-
समाश्रयणफल तथापि सूत्रशाटकवद्भाविसज्ज्ञाश्रयणान्नन्योन्याश्रय:। तथाविधं वेदान्तेषु
नित्यनिरतिशयज्ञानानन्दरूपत्वेनोच्यमारनं भगवन्तं श्रीरामं प्राप्यमनादिकालाच्चेतनमात्रेण
सर्वविधज्ञानेच्छाक्तिभिः सततमीष्यमाणं तस्येतरानधीनेच्छाविषयरूपत्वात्। नित्यं
प्रतिदिनमनुक्षणं निरन्तरं सुचिन्तयन् सुटूढमवधारयन् गुरुमाचार्यं भजेत सेवेतेति
गुरुशब्दनिरुक्तवैव तस्यान्धकारनिवर्तकत्वं लभ्यते। तथापि चतुर्भिरविशेषणौस्तत्राप्यपेक्ष्य-
माणगुणगौरवमाह -- सदा सदाचाररतं वरं ज्ञातमखिलसंशयच्छिदमिति च! ‘आचारहीनं
न युनान्ति वेदाः (दे. भा. ६. ३) इति वेदसम्पन्रस्याचारहीनत्वे निन्दोक्तेः स्वयमाचरते
यस्मादित्याचार्यलक्षणानुरोधेन नित्यसदाचारानुष्ठायित्वमाह -- सदा सदाचाररतामिति।
एतेन 'क्रियावानेष ब्रह्मविदां वरिष्ठः? (मु. 3. १. ४) इति श्रुत्यर्थं उक्तः। एतेनैव च
सत्कुलप्रसूतत्वं तद्धेतुकवेदलाभश्च सूचिते। वरमाचारयत्विन वरणीयम्, भक्तया विरक्तया
स्वात्मपरात्मबोधेन च श्रेष्ठम्। तेन स्वप्राप्यभूतश्रीरामभक्ति-सत्सम्प्रदायान्वयेन सद्रैष्णवत्वं
लब्धं भवति। स्वभक्तिज्ञानवैराग्यादिभिरवै्णवजनेषु ज्ञातः ख्यातः, सम्यक् परीक्षितो वा।
“सा विद्या या विमुक्तये” इत्युक्तया भगवत्यराप्त्युप- युक्तेन शाख्रसिद्धेन
स्वपरस्वरूपादिज्ञानेन सह विविधोपपत्तिभिर्युक्तायुक्ताविवेचन- शक्तचाऽभिव्यक्तया च
शिष्यसंशयादिनिवर्तनसामर्थ्यमाह -- अखिलसंशय- च्छिदमिति। छिनत्तीति च्छित्,
अखिलसंशयानां च्छित्तमित्यर्थः; 'श्ीत्रियं ब्रह्मनिष्ठम्” (मु. १. २. १ २) इति श्रुतेः,
'ज्ञानिनस्तत््वदार्शिनः? (गी. ४.३४) इति स्मृतेश्चष। यद्वा वरामित्यस्य
मनोविभ्रमादिशून्यमित्यर्थः, ज्ञानाभावे सन्देहापकरणसामर्थ्य न स्यात्तत्रापि स्वस्यापरोक्षज्ञानं
विनासम्बोधस्व योगात् तद्विना शिष्ये उपदिटज्ञानसङ्क्रमणं न स्वात्, न हि षटाज्ञानवानन्यं
प्रति घट बोधयितुं ग्रभवति। अत उक्तं "भिन्ननावाश्रितः स्वन्धो यथा पारं न
गच्छति। ज्ञानहीनं गुरु प्राप्य कुतो मोक्षमवाप्नुयात्' इति। तादृशं गुरु प्राप्य
शिष्यस्य कर्तव्यमाह -- भजेतेति! 'यथा देवे तथा गुरौ" (थे. ६. २ २) इतिश्रुत्यक्तरीत्या
भगवद्धावेन परिचरेदित्यर्थ; “आचार्य मां विजानीयात्" (१ १. १७. २७) इति भागवतोक्तेः।
सत्संगतः सन् विगतस्पृहो मुहू रामं प्रपद्याऽथ गुरोर्मुखादसौ ।
कर्माखिलं सम्परिभुज्य चात्मवान् प्रारब्धमेवं प्रहतान्यकर्म्मकः ।।१८०।।
न्यासात्स्वतन्त्रेश्वरजातसहयानिर्लूनमायान्वय एव दैशिकः ।
हार्दोत्तमानुग्रहलब्धमध्यसन्नाडीशुभद्वारनहिर्विनिर्गतः ।।१८९।।
२१८ श्रीवेष्णवमताब्जभास्कर:
* संवित्करः *
उनके संग के प्रभाव से वैराग्यसम्पन्न होकर, गुरुमुख से भगवनमन्तरग्रहणपूर्वक,
भगवान् श्रीरामजी की प्रपत्ति शरणागति प्राप्त करे। तदनन्तर प्रपत्ति द्वारा, संचित
व क्रियमाण कर्मा के नष्ट होने पर, प्रारब्ध को भी निर्विकारभाव से भोग ले।
शरणागति से प्रसन्न हुए परमस्वतन्त्र भगवान् की अहेतुकी दया से मायासम्बन्ध
का विच्छेद हो जाने पर वह गुरुकृपाप्राप्त वैष्णव, सुषुम्ना नाडी के द्वार से
निकलकर, स्थूलदेह का परित्याग कर ऊर्ध्वगमन करता है।
* पदपरामर्शः *
आचार्यप्राप्त्या त्रिविधैषणानाशो भगवत्ाप्त्युपायभूतन्यासाधिगमो ज्ञानप्राप्त्या च
सर्वकर्मपरिक्षयो न्यासप्रसादितेक्षरक्रपया मायासम्बन्धविच्छेदेन सुपुम्नानाड्या देहत्यागक्रमेण
च मुक्तिरित्येवमाचार्यद्वारकन्यासेन भगवठासादगुखेन सकलानर्थनिव्रतिमाह -- सत्सङ्कत
इत्यादिना। असो मुगुक्षुर्मुहरसक्रत्सत्सङ्गतस्तत्वज्ञाचार्यसङ्गत्या ज्ञानोपदेशाद्विगतस्पृहः
सन् विगता निवृत्ता भगवद््यतिरिक्तवस्तुविषयिणी स्पृहा यतस्तादृशो भगवदैककामनो
भवन् गुरोरमुखाद्रामं प्रपद्य गुरुगुखेनेत्यर्थः, प्रपत्तावाचार्यमुखादेव मन्त्रप्राप्तेर्विहित-
तयाऽवधिविवक्षया पञ्चमी, मुखशब्द उपायपरोऽतिप्रीत्याचार्यसमाश्रयापूर्वक-
भगवच्छरणागतिविधिं सम्पाद्य। रामं सर्वशेषिणं परमप्राप्यं भगवन्तमित्यर्थः। प्रपद्य
महाविश्वासपूर्वकं रक्षकत्वेन वृत्वात्मानं तत्र समरप्येत्यर्थः। तत आत्मवा्लन्धस्वभावो
बुद्धिमाञ्ज्ञानवान् वा; “आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च” इत्यमरः
(३.३.५७३) अहं भगवच्छेष इति सुदृढ भावयन् स्वभावे शेषवृत्तौ स्थितः।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ (गी. ४. ३७) इत्युक्तया ज्ञानमाहात्म्येन
तत्निवर्त्यमाह -- प्रहवान्यकर्मक इति। ग्रहतानि पूर्णतो नष्टान्यन्यानि आ”रन्धव्यतिरिक्ताति
प्राचीनानि वासनासहितानि कर्माणि येन सः। शिष्टस्य प्रारब्धस्य कर्मणः पुनः किं
भवतीत्याह -- अखिल प्रारब्धं कमैव सम्परिभुज्योति -- प्रारन्धस्य भोगेनैव
नाश इति तस्य फलं साक्षात्कृत्य, “नाभुक्तं क्षीयते कर्मी इत्युक्तेः। "भोगेन
त्वितरे क्षपयित्वा सम्पद्यते' (४. १. १९) इति ब्रह्मसूत्रेणापि सञ्चितक्रियमाणाभ्याम्
अतिरिक्तस्य प्रारन्धरूपशुभाशुभकर्मण: फलमुपभोगेन क्षपयित्वैव भगवठाप्तेर्वणनाच्च।
विहितन्यासमहाविद्याफलमाह -- न्यासादिति। न्यासात्य़पत्त्या: जाता समुद्धृता,
दयासामान्यस्य सर्वेषु सत्वेऽपि निरतिशयानन्दरूपमोक्षप्रापकत्वात्सती चासौ दया,
सद्दया सुकरुणा, स्वतन्त्रेक्षरस्य अन्याधीनत्वव्याव्ृत्तये, स्वक्रपामात्रेकसाध्यताद्योतनाय
च स्वतन्त्रेति विशोषणम्, तस्य तादृश्या सद्दयया, निर्ळूनो नितरामुच्छित्रो मायान्वयो
मायामूलोऽचित्संसर्गो भगवत्ाप्तावशेषप्रतिबन्धकसंसगों यस्य, तादृशो दैशिको
नवमप्रश्नोत्तरे प्राप्पनिरूपणम् २१९
भगवद्धामप्राप्तियोग्यो जीव:। देश: ्राप्यदेश: श्रीसाकेताख्यं नित्यं भगवद्धाम, तं
देशमर्हतीत्याहीयष्ठज्। यद्वा तादृशो देश: प्रयोजनं फलं यस्येति प्रयोजनमिति ठञ्।
यद्वा भगवन्मन्त्रादि दिशति प्रयच्छतीति देशिको मनत्राहुपदेषटाचार्यस्तदनुशिष्टतया शैषिकेनाणा
दैशिक आचार्यानुग्रहपरिपुष्ट इत्यर्थ:ः। एवकारेण मायान्वयविच्छेदाव्यवधानेन
साकेतप्राप्तिपात्रतालाभ इति द्योत्यते। हृदि भवो हादों हृदयस्थो भगवान् 'हृद्वेशेऽ जुन
तिष्ठाति’ (१८. ६ १) इति गीतोक्ते:, तस्योत्तमानुग्रहः परमानुकम्पा, सन्महदित्युत्तम-
शब्दस्य पूर्वनिपातः। अत एव ब्रह्मसूत्रे हर्दानृगरहीत इत्युक्तम्; तद्यथा ‘तदोकोऽग्रज्वलनं
तत्रकाशितद्वारो विद्यासामश्यात्तच्छेषगत्यनुस्प्रतियोगाच्च हार्दानुगृहीतः
शताधिकया” (४.२.१७), "तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनेष
आत्मा निष्क्रामाति' इति (ब ४.४.२) श्रुतेश्ष। यद्वा हृदि भवोऽभिलाषो हार्दः,
भगवन्तं प्राप्तुमुत्कटाभिरुचिस्तेन, भगवतः परमानुकम्पया चोति। यद्वा हार्देन
भगवदनुरागेण, भगवतक्च परमानुग्रहेण लब्धं यन्मध्यसन्नाडीरुभद्वारम्, तेन द्वारेण
बहिर्विनिर्गतो बहिरुद्रत इति। अत्र मध्यगतया सन्नाउया: सुषुम्नानाम्न्या यच्छुभं
द्वारमात्मनो बहिर्गमनस्य मार्गः। मोक्षप्रापकत्वाद् द्वारे शुभत्वमुक्तम्। सन्नाडीपदेन
सुषुम्नाया एव ग्रहणम्, मेरुदण्डबाह्ये इडापिङ्गलानाडीमध्यस्थनाडीविशेषत्वात्तस्याः।
यथोक्तञ्च योगस्वरोदये 'मेरुदण्डे इडा नाडी पिङ्गलया समान्विता। सुषुम्ना
भानुमार्गेण ब्रह्मद्वारावाधिस्थिता' इति। इत्थं भगवत््रपन्रजीवस्य भगवत्कृपयाविद्या-
मुलविच्छेदेन युषुम्नानाडीद्वारेण शरीरदूर्ध्वगतिभवितीति भावः
मार्गे ततः सोऽर्चिरुपैति मुक्तकस्तथाऽर्चिषोऽहो दिनतः सुरार्चितः ।
आपूर्यमाणं विविधैस्तु वासरैः पक्षं प्रभूतोत्तमशर्मविज्वरः ।।१८२।।
पक्षाटुदङमासमथो षडात्मकं तेभ्यश्च सम्वत्सरमब्दतो रविम् ।
चन्द्रं ततश्चन्द्रमसोऽथ विद्युतं स तत्र तत्राखिलदेवपूजितः ।।१८३।।
परं पदं सोऽयमुपेत्य नित्यममानवं ब्रह्मपथेन तेन ।
सायुज्यमेव प्रतिलभ्य तत्र प्राप्यस्य सन्नन्दति तेन साकम् ।।१८४।।
* संवित्करः *
वह स्थूलदेहत्याग के बाद, अर्चिरादि मार्ग से देवपूजित होता हुआ, भगवद्धाम के
लिए ऊर्ध्वप्रयाण करता है। उस समय वह जीवात्मा अर्चि-पथ से अहर्मार्ग तथा
अहमार्ग से पक्ष के लिए ऊर्ध्वगमन करता है, उन-उन स्थानों के अभिमानी
देवाताओं द्वारा पूजित होता हुआ आगे बढ़ता है। इस प्रकार पक्ष से मास, वहाँ से
उत्तरायण, संवत्सर, सूर्य, चन्द्र, विद्युद् आदि देवलोकों के देवताओं द्वारा पूजित तथा
२२० श्रीवैष्णवमताब्जभास्कर:
अग्रेसारित होता हुआ आगे बढ़ता जाता है। वह मुक्तात्मा अमानव दिव्यपुरुष के द्वारा
ब्रह्मपथ से भगवान् के नित्यधाम श्रीसाकेत की ओर ले जाया जाता है, जहाँ जीव
भगवत्सायुज्य (भगवान् के भोगसाम्य) को प्राप्तकर परब्रह्म श्रीरामजी के साथ
निरतिशय आनन्द प्राप्त करता है।
* पदपरामर्शः *
ततः: शरीरादुत्क्रमणानन्तरं स मुक्तको मुक्तो जीवोउचिंमार्गगुपीति, ततो दिनत
आपूर्यमाणाह उपैति, तदनु विविधेर्वासरेरापूर्यमार्ण पक्षमुपैतीति प्रतिवाक्यं तत्क्रियान्वयः।
जीवस्य तदानीन्तनावस्थां तत्समादरञ्चाह -- सुरार्चितः ग्रधूत्तोत्तमशर्मविज्वर
इति स ततत्स्थानदेवैः समभ्यर्चितो भवति, ततश्च सञ्जातोत्क्रटसुखलाभेन निव्रताखिल-
व्यथो जायत इति भाव:। 'तेऽर्चिकमाभिसम्भवन्त्या्चिषोऽ हरह्व आपूर्यमाणपक्षम्”
(४.१५.५) इति छान्दोग्यश्रुतेः। यथा तमेतं वेदानुवचनेन’ (ब्र. ४.४.४२) इति
श्रुत्या बिद्योत्पत्तौ वणाश्रिमशौचाचारादीनामपेक्षा भवति, तथैव सम्पूर्णाविद्यानिवत्ति-
रूपविद्यानिष्पत्तये तेऽर्चिषिमभिसम्भवन्तीत्यादिशास्राद्रिशिट्देशगतिरपेक्षिता भवति।
शरीराद्न्ह्मनाड्या समुत्क्रान्तस्यापि सर्वकर्मक्षयेऽपि सूक्ष्मशरीरमनुवर्तते, तदानीं
प्रणेद्धियादिमत्वादेवार्चिरादिमार्गे भोगविहारसंवादादिकमुपपद्यते। तच्च शरीरं प्रत्यगात्मनः
स्वरूपाविभवि प्रतिबन्धकं भवति, अमानवकरस्पर्शानन्तर ब्रह्मविन्युक्तो भवति;
'तत्पुरुषोऽ मानवः स एतान् ब्रह्म गमयति’ (४.१५.५) इति श्रुतेः।
तदित्यमर्चिरादिनामभिरबोध्यमानास्तततछ्लोकाभिमानिदेवता आतिवाहिकपुरुषा यथाक्रमं
तं ब्रह्मविदं स्वस्वदेशसीमानं प्रापयन्ति, वेद्युतो मानव: पुरुषस्तं वरुणादिसमीपं
प्रापय्यान्ते पखह्योपलम्भयति इति छान्दोग्यादिश्रुत्याद्याधारेण तद्रातिक्रयं निरूपयति
-- पक्षादित्यादिना। पूर्वश्लोकादुपतिष्ठमानमुपैति क्रियापदं प्रतिद्वितीयान्तं सम्बध्यते।
अथो स युषुम्नानाड्या शरीरादु्रान्त: प्रत्यगात्मा पक्षात्सितपक्षात् षडात्मकमुदङ्मास-
मुपेति, तेभ्यः सम्वत्सर ततोऽन्दतः सम्वत्सराद्रविं ततश्चन्द्र चन्द्रमसो विद्युतमुपैति।
तत्र तत्र लोकविशेषे तत्त्लोकाभिमानिदेवैः स पूजितो भवतीति शलोकाशयः। उत्तरायणपरम्
उदड्मासपद श्रुत्युक्तस्वरूपानुरोधेन, 'षडुदङ्तिमासान् मासेभ्यः? इति श्रुते:।
वस्तुतस्तु दक्षिणायने मृतस्यापि ब्रह्मप्राप्तिरस्त्येवेति 'अतश्चायनेऽपि दक्षिणे’
(४.२.२१) इति ब्रह्मसूत्रे निणीतत्वात्। अत्र वायुमन्दादविशेषविशेषाभ्यामिति सूत्रोक्त्या
सम्वत्सरादनन्तरं वायोरपि समावेशो विवक्षितः। अखिलदेवपूजित इत्यत्राखिलदेवैः
पूजित इति विग्रहः। पूजितो यः सुरासुरौरिति प्रयोगकद्भूते क्तो न तु मतिवुद्धिपृजारथेभ्यश्चेति
वर्तमाने, तेनेत्यधिकार उपज्ञात इति लिङ्गेन मतिबुद्धिप्जार्थेभ्यञ्चेति वर्तमानक्तेन भूतक्तस्य
नवमप्रश्नोत्तरे प्राप्पनिरूपणम् २२१
बाधो न भवतीति ज्ञापनात्।
स जीवो वेद्युतममानवं प्राप्य ब्रह्मपथेन भगवत्सायुज्यं लभत इत्यत आह --परं
पदमित्यादिना। सोऽयममानवमुपेत्य तेन ब्रह्मपथेन परं पदं नित्यं प्राप्यस्य सायुज्यमेव
प्रतिलभ्य तत्र तेन साकं सन्नन्दतीत्यर्थानुरोधात्पदक्रमः। यद्यप्यमानवेन वैद्युतेन पृरुषेण
वरुणेन्द्रप्रजापतिसमीपप्राप्तिपूर्विका परब्रह्मप्राप्तिरिति श्रुत्योच्यते, तथाप्यत्र
परमपुरुषसायुज्योक्तेस्तत्यराप्तेराक्षेपात्सिद्ग्यति। केचनात्र बैद्युतपुरुषो मानवः
स्वसीमानमतिक्रमक्च्य वरुणेन्द्रप्रजापतिसहायेन तत्तदवधिं समुतीर्य विरजातीरं प्रापयति
तदनु ततोऽन्यः कक्षिदमानवः पुरुषो विरजायां सूक्ष्मशरीरं त्यक्तवन्तन्तदुत्तरतीरे
पराप्तं मुमुक्षुं स्पृष्टवा तत्सर्ववासनानाशेन मुक्तिपदं प्रापयतीत्यभिप्रयान्ति। किन्तु
श्रीमदानन्दभाष्यकारेण तस्यानुछेखोदेक एवामानव: पुरुषो विरजापारं गतस्य तस्य
हस्तस्पर्शप्रभावेन मुमुक्षोः सर्ववासनानाशेन तं भगवन्तं -प्रापयतीति गम्यते। अयमभिप्रायः
-- भगवत़्ाप्तौ केवलं कमैव प्रतिबन्धकं न, तु चरमशरीरनाशात्रिवर्तते;
अमानवकरस्पर्शा्रकतिसम्बन्धरूप: प्रतिबन्धको निवर्तते।
येन तस्य स्वाभाविकमपहतपाप्पत्वादिगुणाष्टक॑ तिरोहितमभृद्धगवत्सङ्कल्पात्तादुशप्रति-
बन्धकस्यापि निवृत्तौ सकलप्रतिबन्धकनिवर्तनात्तस्य स्वाभाविकरूपाविर्धावों भवतीति
भाव:। सोऽयं प्राप्यस्य नित्यं सायुज्यं प्राप्य तेन साकं सन्रन्दतीत्यत्र सोऽयमिति
तत्तेदन्तावगाहिनी प्रतीतिः ग्रत्यभिज्ञैव, यश्च भगवत्प्रपत्ते: पूर्व बद्धतया संसाराग्निना
दन्दह्ममानोऽभूत्स एवेदानी तत्मपत््या तदनुग्रहेण सर्वकर्मक्षयात्पर' पदमुपेत्य न केवलं
पराप्यं ग्राप्नोदपितु तेन साकं मोदते। स्वरूपैक्येऽपि देशकालक्रतमवस्थावैलक्षण्यमुक्तं
भवति। सायुज्यमेव प्रतिलभ्येत्यत्रैवकारेण सामीप्यसालोक्यादर्वास्तवमोक्षत्वं नेति
सूच्यते। तत्र प्राप्तानां प्राप्यसायुज्यस्यैव प्राप्तिरित्यनेन मोक्षे तारतम्याभावो बोधित:।
वस्तुतो यथा सहस्रे शतं तथा सायुज्ये सालोक्यादिकं स्वतोऽन्तर्भवति,
तद्यथाऽद्धुतार्चिरादिगत्याऽतिवाहिकेदैवैरुन्नीतो विरजाप्रवाहमवगाह्य पवित्रपाणिना मानवेन
करस्पर्शेन विधूतवासनाविशेषो जीवो दिव्यदेशं श्रीसाकेतं प्राप्य सर्वेश्वरेण भगवता
सलोकतां गतः, तदनु ऐरम्मदीये सरसि स्नात्वा प्राकृताग्ृतमयविलक्षणविग्रह-
दिव्याभरणादियोगेन सरूपतां द्राप्त:, दिव्यनगरी श्रीमदयोध्यां क्रमेण प्राप्य कल्पवृक्षतले
दिव्यमणिमण्डपे ब्ह्मवेश्मनि सहस्रदलपद्ने दिव्यरत्नसिंहासने श्रीहनुमदादिदिव्यपार्षदसंयुतं
श्रीसीतया सह भगवन्तं श्रीराममुपगम्य सामीप्यं भजमानो तदभ्याशमुपेत्य साद्ाङ्गं
ग्रणिपतितः 'त्वं कोऽसि’ इति भगवतः पृष्टो, नाथ! सर्वशेषिणस्तवैवाहं शेषः
इति ब्ुवन् पराम्बया श्रीसीतया भगवदुत्सङ्गे समारोपितः, भगवता च सोळासमालिङ्गनादिना
नित्यमुल्लसितो भगवद्गुणेषु गाढावगाढ: सन् तं ब्रह्वानन्दगनुभवति, एतदेव सायुज्यम्;
२२२ श्रीवैष्णवमताब्जभास्कर:
'सोऽश्नुते सर्वान् कामान् ब्रह्मणा सह विपाश्चिता' (तै २. १) इति श्रुतेः। तत्र
भगवदुणानां विग्रहगुणानाञ्च ग्रत्यक्षाज्जातप्रीत्यतिरेकात्सवदिशसर्वकालसर्वावस्थोचित-
कैङ्कयेण नित्यानन्दमग्नो भवति। इयं परिपूर्णप्राप्तिर्ञानसाक्षात्काराभ्यामुत्तरा,
यथावस्थितसर्वाकारेणानुभवरूपा, तेन व्यूहविभवादिमात्रप्राप्तिव्यवच्छेदः। तद्यथा
प्राक्तनजन्मपुण्यमूलसात्तिकजनसंवादादिजनि्तं यच्छास्रश्चवणानुगुर्णं भक्तिमात्रं
शाख्रजन्यज्ञानोत्पत्तौ सहकारि भवति, तत्राप्युत्कटभगवदिदृक्ष गर्भा परभक्तिस्तत्साक्षात्कारे
हेतुः, साक्षात्कृते च तस्मिन् परिपूर्णानुभवाभिनिवेशलक्षणा परमभक्तिस्तत्कैङ्कर्यफला
तदुत्सङ्गप्रवेशे हेतुर्भवतीति भावः। अयमेवार्थस्तेन साकं सन्नन्दतीत्यनेनोक्तः। तेनेत्यनेन
पूर्व परमप्राप्यतया निरन्तरं काम्यमानेनेदानीन्तत्कृपया प्राप्तेन भगवतेति लभ्यते।
तेन सहेत्यत्र साहित्यविवक्षया तात्तिको5 भेदो निरस्तः, "निरञ्जनः परमं साम्यमुपैति’
(मु. ३. १.३) इति श्रुतेभेदघटितस्य साम्यस्य निर्देशात्। तेन सह साम्यं ग्राप्याविर्भूतस्व-
ज्ञानानन्दस्वरूपः सन् पूर्वाननुभूतेन निरतिशयानन्देन भगवता तदानन्दाप्रतसन्दोहेनेत्यर्थः,
तन्महानन्दास्वादनस्य तेन सहेक्येऽ शक्यतया तेन सहेत्युक्तम्।
सीमान्तसिन्ध्वाप्लुत एव धन्यो गत्वा परब्रहासुवीक्षितोऽथ ।
प्राप्यं महानन्दमहाब्धिमग्नो नावर्त्तते जातु ततः पुनः सः ।।१८५।।
* संवित्करः *
जब वह प्रकृतिमण्डल की सीमारूप विरजानदी में अवगाहन करता है; उस समय
ही वह, उसके सूक्ष्मादि शरीर का प्रवाह हो जाने से, शुद्धस्वरूप धन्य हो जाता है।
वह मायामुक्त हो भगवत्सान्निध्य प्राप्तकर, प्रभु द्वारा कृपादृष्टि से अवलोकित होकर
वह परमानन्द में निमग्न हो जाता है; वहाँ से पुन: संसार में नहीं आता।
* पदपरामर्शः ४
किन्तादृशमुक्तानां पुनः कदाचित्संसाय्प्राप्तिस्स्यादित्यत्राह ~ सौमान्तसिन्ध्वाप्लुत
इत्यादिना। प्राप्यं गत्वा प्राप्य तत: स पुनर्जातु नावतति इति 'न स पुनरावतति’
(छा.८.१.५) इति श्रुत्यर्थः प्रकाशितः। स सीमान्तसिन्ध्वाप्छुत एव धन्यः, अथ
पख्रह्मसुवीक्षितः आप्यं गत्वा महानन्दमहान्धिमग्नस्ततः पुनर्जातु नावर्तत इत्यर्थटृशा
पदक्रमः। सीमान्तसिन्धुर्विजा, यतोऽधस्ताठ्रक्ृतिमण्डलं परस्ताद्धगवद्धामेति या
त्रिपादविभूतेर्भगवतो धाम्नोउवधिभूता, तस्यामेव सूक्ष्मशरीवाहाचदुत्तरतटमासाद्याप्छुतः
समुत्तीर्ण एव शुद्धस्वरूपलाभाद् धन्यः कृतकृत्यो भवति। किम्पुनः प्राप्यं गत्वा
प्राप्य ततोऽप्यधिकधन्यता, तेन च पुनर्न वीक्षितोऽपितु सुवीक्षितस्तस्य धन्यताविषये
कथं वक्तव्यमित्येवकारेणोत्तरोत्तर्रकर्षो ध्वन्यते। पखह्मपदेन सर्वशेषी भगवाञ् श्रीराम
नवमप्रश्नोत्तरे प्राप्यनिरूपणम् २२३
एवोच्यते, ब्रह्मलक्षणयोगा्तस्यैव पखह्मत्वं दर्शयति, तत्सद्नह्मादि सामान्यशन्दानां
तत्रैव विशेषे पर्यवसानं सूचयति। ब्रह्मशब्दस्य चरमावधिप्राप्तवृहत्वर््ुहणत्वयोगाद्धगवति
श्रीराम एव योगरूढत्वेऽपि तस्मादन्यत्र जीवादौ तद्गुणलेशयोगादौपचारिक-
प्रयोगात्तद्ग्यवच्छेदाय परेति विशेषितम्। पह्मणा श्रीरामेण सुवीक्षितोऽतितरां स्नेहेन
सुधास्राविकमलनयनाभ्यां समवलोकितः, एतेन भगवतोऽप्यपहतस्वकीय-वस्तुलाभादिव
चिराहूरादागतस्य पुत्रस्य दर्शनादिव पितुस्तद्वर्शनजन्यप्रीतिविकसित-नयननलिनाभ्यां न
केवलमीक्षितोऽपितु विशेषप्रीत्या वीक्षितः, न केवल वीक्षितोऽपितु अलभ्यलाभ इव
सुवीक्षित इत्युपसर्गद्रयेन गम्योऽर्थः। परमात्मना सुवीक्षितस्य प्राप्तप्राप्तव्यस्य
जीवस्यानन्दातिरेकमाह -- महानन्दमहान्धिमग्न इति। ब्रह्मानन्दस्य नित्यत्वं परिपूर्णत्वञ्च
द्योतयितुं महद्विशेषणम्, पुनर्महानन्दस्यापि नान्धिरपितु महान्धिरत्ाप्यपरिच्छेद्यत्वमपरिमेयत्वं
वा द्योतयितुं महद्योग:। तत्र मग्नो निश्शेषेण पूर्णव्याप्त्या निमज्जनं मग्नपदं सूचयति।
एवं भगवदानन्दनिमग्नस्य जीवस्य कदाचित्पुनः संसारयराप्तिः स्यादित्याशङ्कय परिहरति
-- नावतति जातु ततः पुनः स॒ इति। पुनः कदाचिदपि स संसारे नावर्तते एतेन
प्रतिपाद्यमान (इमं मानवमावर्तं नावर्तन्ते’ इति (४. १५.५) तत्रत्यबुहदारण्यकश्रुते;।
भ भ ( इति नवमप्रशनोत्तरे प्राप्यनिरूपणम् ) # *%
।। श्रीसीतारामार्पणमस्तु ।।
( अथ दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् )
महामते प्रोच्य तदीयमाप्यं तेषां निवासस्तु निरूप्यते$थ ।
मोक्षप्रदः शास्त्रसुसम्मतश्च जिज्ञासुबोध्यो भव सावधानः ।।१८६।।
* संवित्करः *
वैष्णवजनों के प्राप्य भगवत्सायुज्य के निरूपण के बाद, वैष्णवों के निवासस्थान
(निवास करने योग्य भूमि); जो शास्त्रसम्मत, मोक्षप्रद तथा जिज्ञासुओं के लिए
ज्ञातव्य जानने योग्य है -- उसे श्रवण करो।
* पदपरामर्शः *
पूर्व कालक्षेपस्य विधि: प्रोक्त इदानी वैष्णवानां भजनसाधनानुरूपस्य
निवासदेशस्यावधारणमावश्यकामिति तदाह -- महामत इति। वेषा श्रीवेष्णवानामिदं
तदीयमा्यं भगवन्तं तत्पाप्तक्रमञ्च यथावत् प्रोच्य छान्दोग्यादिशरुत्याधारेण ग्रकृष्ट पद्धत्या
सुगमयोक्तवाथेदानीं कुत्र कार्यो निवास इति त्वदीयस्य चरमप्रश्नस्य समाधित्सया
मया तेषां श्रीवैष्णवानां निवासो वासोपयुक्तं स्थानजातं निरूप्यते निर्दिश्यते। न्युष्यते
स्मित्रित्यधिकरणे घज्। निरूप्यमाणं तन्निवासं विशिनडि -- मोक्षप्रदः शास्रसुसम्मतो
जिज्चासुबोध्य इति। अयोध्यादिसप्तपुरीणां मोक्षप्रदत्वेन प्रसिद्धेस्तदितरस्य भक्तयनुगुण-
भगवद्वागवतकेङ्कयादिसामग्रीसोलभ्यद्वारेण तद्विरोधिराहित्येन च गोक्षप्रदत्वय् 'अवैष्णवो
हृतो देशः” (भा. पु. गा. ५. ७४) इत्याद्युक्त्या कीकटादिनिषिद्धदेशपरिहारेण
शास्रानुज्ञातत्वमाह- शाख्रसुसम्मत इति। “देशान् युण्यानाश्रयेत मद्भक्तैः साधुभिः
श्रितान्’ (११.२९. १०) इति भागवतोक्तेः! साधकभजनाद्यर्थ योग्यायोग्यदेशाज्जिज्ञायुभिः
सुबोध्यः सुषुतयाउवधारणीय:। अतस्त्वं सावधान; समाहितमना भवः तवापि
विरक्तत्वेन मुमुक्षुत्वेन च जिज्ञसुत्वात्। धारणानुगुणसामर्थ्यं संसूच्याभिमुखीकरोति --
महामत इति। समुदारशेमुपीक! ये देहगेहादिसम्बन्धानुविद्धा: अवृत्तिपरा गृहस्थवैष्णवास्ते
गृहेष्वेव सपरिकरं भगवद्धागवतसमर्चामनुतिष्ठन्ति। किन्तु ये लौकिकसम्बन्धमपहाय
भागवतधर्मैकपरा भगवदेकाश्रया विरक्तवैष्णवास्तेषां निवासदेशात्रिश्चिनोत्याचार्यः; यत्र
भक्तेस्तदङ्गानाञ्चानुक्षणं परिपोष: स्यात्। स्वरूपानुगुणे केङ्क्येऽन्तरायानुपहतिः स्यात्,
यत्र वासश्चित्तशुद्धावुपकारकः स्यात्। यथोक्तं श्रीरामायणे “यावता चित्रकूटस्य नरः
श्वङ्काण्यवेक्षते। कल्याणानि समाधत्ते न पापं कुरुते मनः? (२.५४.३०) इति।
अत एव भूसंस्कारादिकं शास्रे विधीयते। भागवते च परिगण्यते तथाविधदेशजातम्
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २२५
-- अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान्। स वै पुण्यतमो देश: सत्पात्रं
यत्र लभ्यते। विम्बं भगवतो यत्र सर्वमेतच्चराचरम्। यत्र ह ब्राह्मणकुलं
तपोविद्यादयान्वितम्। यत्र यत्र हरेरर्चा स देश: श्रेयसां पदम्। यत्र गङ्गादयो
नद्यः पुराणेषु च विश्वुताः। सरांसि पुष्करादीनि क्षेत्राण्यर्चाश्रितान्युत। कुरुक्षेत्र
गयशिरः प्रयागः पुलहाश्रमः। नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली।
वाराणसी मधुपुरी यम्या वविन्दुसरस्तथा। नारायणाश्रयो नन्दा
सीतारामाश्रयमादयः। सर्वेकुलाचला राजन् महेन््रमलयादयः। एते पुण्यतमा
देशा हरेरर्चाश्रिताक्च ये। एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो
हत्रेहितः पुंसां सहस्राधिक - फलोदयः ' (७. १४. २७-३३) इति। देवा अपि व्यतिरेकेण
तादृशदेशान् प्रशंसान्ति -- न यत्र वैकुण्ठकथासुधापगा न साधवो
भागवतास्तदाश्रयाः। न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स
सेव्यताम्” (भा. पु ५. १९. २४) इति।
अशेषतीर्थेषु वसेत्प्रपूजयन् स यत्र यत्राविरभूद्यथा यथा ।
तथा तथा तत्र रघूत्तमं जगत्पतिं चतुर्वर्गफलप्रदं हरिम् ।।१८७।।
* संवित्करः *
जहाँ-जहाँ, जगत्पति श्रीराम का जिस-जिस लीलाभूमि पर, जिस-जिस रूपों में
अवतार हुआ है, उन-उन रूपों में अर्चन करते हुए वैष्णवों को निवास करना चाहिए
(अर्थात् चारों पुरुषार्थो के देने वाले परमाराध्य श्रीराम ही सर्वत्र उन-उन रूपों में पूजित
हो रहे हैं -- वैष्णवों को इस भावना से, उनकी अर्चना करते हुए, उन-उन तीथों
में निवास करना चाहिए)।
* पदपरामर्शः *
वासविषयकप्रश््नं समादधान: पूर्व सामान्यतः सर्वाण्येव तीर्थानि वासयोग्यानि
इत्यभिप्रेत्याह अशेषतीर्थेष्विति। वैष्णावो विशिष्य विरक्तवैष्णवोऽ शोषतीर्थेषु वसेत्।
निराश्रयस्य पातित्याशङ्कया भगवदेकाश्रयाणां तेषां प्रधानकृत्यं स्मारयत्राह --
रघूत्तमं प्रपूजयात्निति। सर्वाराध्यं सर्वेक्षर श्रीरामचन्द्रमाराधयन्नेव वसेत्तीर्थवासेऽ लम्बुद्धि-
माभूदिति भावः; कस्यामप्यवस्थायां भगवच्छेषतापरित्यागस्यात्यन्तमयुक्तत्वात्। रघूत्तमं
रघुषु रघुरवश्येषु धर्मपरायणेषु राजसूत्तमम्, रघोरप्युत्तमं वा; 'इक्ष्वाकु भ्योऽपि
सर्वेभ्यो ह्यतिरिक्तो विशाम्पते’ (२.२.२८) इति श्रीरामायणोक्तेः। राघवा उत्तमा
उत्कृष्टा येनेति वा, अत एव रघुकंशभूषणेत्यादिसव्ज्ञाप्रसिद्धिः। उत्तमपदस्य पूर्वनिपात-
प्रसक्तिस्त्वनित्यत्वाद्वारणीया। रत्नमालायां यथा महामणियोगेनान्यरत्नानि समधिकं
२२६ श्रीवेष्णवमताब्जभास्कर:
शोभन्ते, तथैव धर्मात्मानोऽपि तेऽनेन दिव्यगुणोज्ज्वलेन श्रीरामचन्द्रेणेति भावः।
यथोक्तमादिकाविना शक्तख्रेलोक्यमप्येष भोछुं किन्तु महीमिमामिति। रघुशन्दस्य
जनपदवाचित्वाभावात्परस्य तद्राजसञ्ज्ञा नेति लुको5ग्रवृत्या राघवाणामित्येव स्यात्तथापि
रघुशन्दे तदपत्ये लक्षणा, तेनोक्तार्थप्रत्ययो नात्पन्न इति। वस्तुतस्तु 'लघि गत्यर्थः
(१.११३) धातोर्लङ्घतीति व्युत्पत्त्या कुप्रत्यये लस्य रत्वे रघुपदसिद्धिस्तथात्वे
रघुशब्दस्य चेतन इत्यर्थ; अततीत्यात्मेतिवत्। रघुषु चेतनेपृत्तम इति विग्रहेण
'चेतनश्चेतनानाम्' (क. २. २. १३) इति श्रुतेः परमात्मेत्यर्थः स्थिरीभवति। अत
एव “परास्य शक्तिर्विविधेव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” (बे. ६.८)
इति श्रुत्यनुरोधेन सर्वीनियमनसामर्थ्यवत््वात् सर्वशेषित्वेन जगत्पतिमित्यनेन। बलं
सार्वज्ञ्यं विना सर्वकर्मफलप्रदातृत्वस्यानुपपत््या चतुर्वगफलप्रदमित्यनेन ज्ञानम्,
सर्वभूतमनोहरस्य तस्य श्रितजनसन्तापहरणपरायणतया हारिमित्यनेन क्रिया चोच्यते।
तेनौपनिषदमीश्चरलक्षणं सूचितम्। इत्थं त्रिभिर्विशेषणैः सर्वशेषित्वकारुण्यसौशील्यौ-
दार्याद्यनेकगुणा: सन्निधापिता:।
यद्येवमशेषतीर्थेषु वसेदिति निश्चये श्रीरामप्राधान्यरहितेष्ववेष्णवतीर्थेषु वा वासेन
स्वाराध्यनामरूपलीलाभिनिवेशवतां वैष्णवानां भावपरिपोषः कथं स्याद्? यद्वा;
शैवशाक्तादितीर्थेष्वनन्यदेवताकत्वरूपानन्यतानिर्वाहः कथं स्यादिति प्राप्तशङ्कामपहरति
-- स यत्र यत्राविरभूद्यथा यथा तथा तथा तत्रेति। भगवान् राम एव
श्रीकृष्णत्सिंहनारायणादिरूपेण पूजितो भवतीति भावनया भावपरिपोषः सम्भवति,
'सर्वेामवताराणामवतारी रघूत्तमः” इत्यतः, *रामपादनखज्योत्स्ना पर ब्रह्मेति
गीयते' इत्यागमोक्तया तस्यैव सर्वावतारित्वात्। आविरभूद् इत्यनेन वामनाद्यवतार-
वत्सम्पूणमिश्चर्य बिभ्राणस्यारचाविग्रहस्य साक्षाद्धगवद्रूपतयानुगरहं विधातुं प्रीतिपारवश्याद्धक्त-
भिलबितभावानुगुणाकारेणार्चासोलभ्यार्थ स्वेच्छया प्रकटितो5 भूदित्यर्थो लभ्यते। 'ऐहि
अश्मानमारोह अश्मा भवतु ते तनूः” (अथर्व. २.१३.४) इति मन्त्रात्।
'बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते। अचापि लौकिकी या सा
भगवद्धावितात्मनाम्। मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहा' इत्यागमोक्तेः।
इत्यमप्राक्तदिव्यविग्रहेण सह तत्रानुप्रविश्यायोध्यादिदेशानामवतारकालानां नियमैर्विना
सर्वदेशेष्वाराधकापेक्षितेपु कालेषु रुचिमत्सर्वाधिकारिविषयेऽपि सर्वानप्यपराधानविगणय्य
विलसाति। यथोक्तं ‘तदिच्छया महातेजा भुङ्के वै भक्तवत्सलः। स्नानं पानं तथा
यात्रां कुरुते वै जगत्पतिः? इति।
एवमाराधके स्वामित्वं स्वस्मिन् स्वत्वं नृतनतयोत्पाद्य शक्तो शक्तो रक्षकोऽपि रक्ष्यो
भृत्वा विलसति भगवान्। यस्मिन् यस्मिंस्तीर्थे तथा तथा यठामाणाकारेण यद्रूपगुणकर्मतया
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २२७
बाल्यकैशोर्यतापसत्वाद्याकारेण श्यामत्वद्विभुजचतुर्भजधनुर्धरमुरलीधर-
चक्रधरश्रीरामकृष्णनृसिंहादिरूपेणाचवितारस्याविभाव:, तादृशं तथा तथा तेन तेन
प्रकारेणावस्थितमपि श्रीरामभावेन प्रपूजयेदित्याशय:। यथोक्तं भागवते यद्यद्धिया त
उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय’ (३.९.११) इति।
शैवशाक्तादितीर्थेष्वपि शिवदुर्गादिदेवतारूपेण भगवत एवोपासना भवति, “यस्यादित्यः
शरीरम्” इत्यादिश्रुत्या तेषां भगवच्छरीरत्वात्तत्र तेषां सुक्रततारतम्येन तादृशोपासनश्रद्धाया
भगवतैवाधानात्। यथोक्तं गीतायां “यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्" (७. २ १) इति। इत्थं तदात्मकत्वात्सर्वस्य
भगवद्धावेनार्चने न दोषः। अशेषतीर्थेषु वसेदित्यस्यान्यतमतीर्थे वासं कुर्यादित्याशय:
अ्रतितीर्थ वसेदेवेत्याकार आग्रहो नाभिमत:। यत्र कुत्रापि तीर्थे वसन् भगवद्रघुपतिपूजनपर
एव स्यादिति विवक्षितार्थः। श्रूयते तीर्थेष्वपि तत्क्षेत्रपतिरसन्तु प्रसह्य ततो वसन्तं
निष्कासयति देवानामपि भक्तिपरिपन्थित्वत्वेन वर्णनात् "श्रूयते खलु गोविन्दे भक्ति-
मुद्रहता बृणाम्। संसारन्यूनताभीता्िदशाः पारिपन्थिनः।। सत्यं शतेन विघ्नानां
सहस्रेण तथा तपः। विघ्नायुतेन गोविन्दे तृणां भक्तिनिवार्यते! इति। इत्यतो
विघ्ननिवारणामोषसाधनं निर्दिशति -- प्रपूजयन् वसेदिति। अर्चितो भगवांस्तदर्चा वा
स्वयमर्चनपरायर्ण कालादिप्रभावप्रयुक्तविघ्नदोषजातात्निवार्यं तदाव्रित्य वर्तमानन्तं सर्वतो
रक्षति तदाश्रितसाधनममुतेन च सेचयति। अत एवोक्तं श्रीसात्वते 'सङ्कल्पादेव
भगवान् तत्वतो भावितात्मनाम्। व्रतान्तमखिलं काल सेचयत्यमृतेन तु’ इति।
अतस्तीर्थवासप्रसङ्गेऽपि नियमतो भगवत्पूजाया एव प्रधानविधेयता। यथोक्तं स्वयं
भगवता भागवते "ममार्चनं नाहीति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात्’
(८.१७.१७) इति। एकत्र वासेनेदं ममेत्यासक्त्ुदयाशङ्कया तीर्थेषु वसेदिति लिङा
तीर्थे तीर्थे वसेदित्याचायदिशोऽपि द्योत्यते। उच्यते चाउवधूतेन 'विषयेष्वाविशन्
योगी नानाधर्मेषु सर्वतः। गुणदोषव्यपेतात्या न विषज्जेत वायुवत्”
(भा.पु ११.७.४०) इति।
वैकुण्ठदेशे खलु वासुदेवमामोदसञ्ज्ञे त्वथ कर्षणाख्यम् ।
प्र्युम्नमन्जाक्षमपि प्रमोदे सम्मोद ईशन्तु तथाऽनिरुद्धम् ।।१८८।।
* संवित्करः *
वैकुण्ठ में श्रीभगवान् वासुदेव, आमोद में श्रीसंकर्षण, प्रमोद में कमलाक्ष श्रीप्रधुम्नभगवान्
तथा सम्मोद में श्रीअनिरुद्ध के रूप में भगवान् निवास करते हैं। मोक्षेच्छु वैष्णव इन
तीर्था में निवास करते हुए तत्तद्देवता की आराधना करके अपनी मनोकामना पूर्ण करते
हैं
२२८ श्रीवैष्णवमतान्जभास्करः
* पदपरामर्शः *
'चत्वारि शङ्का त्रयो अस्य पादा' (ऋ ४ ५८. ३) इति मन्त्रेण प्रतिपादिताकारस्य
भगवतो रामस्य चतुर्णा व्यूहानामाराधनं मनोबुद्धिचितताहङ्कारशुद्धयर्थ तदधिछित- देशानुरोधेन
कुर्यादित्याह -- वैकुण्ठदेश इति! अप्राक्गते वैकुण्ठदेशे वासुदेवमामोदसण्ञ आमोदनामके
क्षेत्रविशेषे कर्षणाख्यं सङ्कर्षणं प्रमोदे प्रद्युम्नं सम्मोदेऽनिरुद्धमाराधयद्विर्वासः कार्य
इत्युत्तरेण सम्बन्धः। चतुर्णा व्यूहानामन्तःकरणचतुटयदेवतारूपेण भागवते वर्णनं लभ्यते।
तत्रोच्यते श्रीधरस्वामिना 'आधिभूतरूपेण तस्यैव महानिति सज्ज़ा, अध्यात्मरूपेण
चित्तमिति उपास्यरूपेण वासुदेव इति, अधिष्ठाता तु तस्य क्षेत्रज्ञः । एवमहङ्कारे
सङ्कर्षण उपास्यो रुद्रोऽधिष्ठाता, मनस्यनिरुद्ध उपास्यश्चन्द्रोऽथिष्ठाता, बुद्धौ
प्रद्युम्न उपास्यो ब्रह्माधिष्ठातेति ज्ञातव्यम्’ इति। वस्तुतो भगवान् रामस्तु परात्परो
यः पूर्वश्लोके सर्वतीर्थ सामान्यतः पृज्यतयोक्तस्तस्यैव वासुदेवसङ्क्णपदयुम्नानिरुद्धरूपेण
चतुर्धा व्यूहाः, तेषामुपासकानुग्रहः सृष्ट्यादय: संसारिसरक्षणञ्च मुख्यं कृत्यम्;
'उपासकानुग्रहार्थ जगतो रक्षणाय च” इत्यृत्त। सर्वत्र वसति दीव्यति च वासुदेवो
ज्ञानबलैश्चर्यवीर्यशक्तितेजोभिः षड्गुणै: परिपूर्णो वैकुण्ठदेशे समाराध्यते। अस्मादेव
केशवनारायणमाधवाख्यं स्वरूपत्रयं विभाव्यते। आमोदाख्ये देशे सङ्कर्षणः
वाड्गुण्यपूर्णो5 प्यधिक्रतकार्यानृगुणत्वाञ्ज्ञानबलप्रकाशेन जीवतत्वमधिष्ठाय शाखप्रवर्तनं
जगत्संहरणञ्च करोति। यथोक्तं स्तो 'बलेन हरतीदं स गुणेन निखिल मुने।
ज्ञानेन तनुते शास्रं सर्वसिद्धान्तगोचरम्’ इति। तस्य ज्ञानं सर्वदा सर्वीविषयकः
स्वप्रकाशक्च गुणविशेषः, बलञ्च जगत्कारणत्वप्रयुक्तश्रमाभावः सर्ववस्तुधारणसामर्थ्यञ्च।
सम्यक्यापकर्षणशीलत्वादयं सङ्कर्षण इति गीयते। अस्मादेव गोविन्दविष्णुमधुसूदनेति
रयं रूपं विभाव्यते। ग्रमोदाख्ये दिव्यदेशे सवीतियन्त्रत्व-रूपेणेक्व्येण, जगदाकारेण परिणामेऽपि
स्वयमविकारित्वरूपवीर्येण च युक्तः प्रद्युम्नो मनस्यधिष्छाय धर्मोपदेशं मनुचतुष्टय-
प्रश्नतिशुद्धवर्गसष्ठिञ्च करोति। यथोक्तं 'ऐश्वर्येण गुणेनासौ सुजते तच्चराचरम्
वीर्येण सर्वधर्माणि प्रवर्तयति सर्वशः ' इति। अत: प्रकृष्टं दयुम्नं बलमस्येति अद्यग्नसज्ज्ञा,
एतस्मातिविक्रमवामनश्रीधररूपं त्रयं प्रकाश्यते। न केनापि स्वेच्छा विनाउनिरुद्ध इत्यनिरुद्धो
रक्षणस्य तत््वज्ञानप्रदानस्य कालसऐेर्मिश्रिसष्टेश्व निर्वाहक: सम्मोदाख्ये देशे समाराध्यते।
यथोक्तं शक्तया जगदिदं सर्वमनन्ताङ्गं निरन्तरम्। बिभर्ति पाति च हरिर्मीणि-
सानुरिवाणुकम्। तेजसा निखिल तत्त्व ज्ञापयत्यात्मनो मुने' इति। अन्जाक्षमीशमिति
च विशेषणद्वयं सौन्दर्यैश्वर्यबोधकतया चतुर्ष व्यहेष्वन्वेतव्यम्। वैकुण्ठादेरदिव्यधामत्वेन
भौमतीथेवेव सामान्यवैष्णवजनवाससम्भवात्तदु्ेखश्चतुरव्युहाणां स्थानज्ञापनाभिप्रायेण,
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २२९
भूतशुद्धया ध्यानेन च भगवद्धामग्रवेशपूर्वकार्चनकर्तृणां व्यूहस्थितिबोधनाय वा।
एवमेवोत्तरश्लोकेऽपि।
विष्णुं तु लोके वरसत्यसज्ज्ञके पद्याक्षमित्थं त्वथ सूर्यमण्डले ।
क्षीराब्धिमध्ये शुभशेषशायिनं श्वेते तथा द्वीपवरे च तारकम् ।।१८९।।
* संवित्करः *
सत्यलोक में श्रीविष्णुभगवान्, सूर्यमण्डल में श्रीपद्ाक्ष, क्षीरसागर में श्रीशेषशायी
तथा श्वेतद्वीप में श्रीतारकभगवान् निवास करते हैं। अत: वैष्णवों को इन तीर्थो में
इनका पूजन करते हुए निवास करना चाहिए।
* पदपरामर्शः *
वैकुण्ठादधस्ताद् ब्रह्मलोके सूर्यमण्डले क्षीरसागरमध्ये श्षेतद्वीपे च भगवान् केन
केन नाम्नाराधनीय इति बोधयति -- विष्णुमिति। सत्यनामके श्रेष्ठे लोके भगवान्
राम एव विष्णुनाम्ना समाराध्यते -- वेवेष्टि व्याप्नोतीति विष्णुरिति सर्वव्यापको
भगवांस्तत्र तमाराधयता वासः कार्यः। इत्यं सूर्यमण्डले पद्माक्षं पद्माक्षनामकं
भगवन्तम्, क्षीराब्धिमध्ये क्षीरसमुद्रमध्ये शुभे शेषाख्य आसने शयितु शीलं
यस्य, तथाविधं भगवन्तं, श्रेष्ठे श्वेतद्वीपे तारकनामकं भगवन्तं सेवमानो वसेदिति
भावः। पूर्वाधोतरार्धयोः वरशन्दः प्रशस्तपरः। 'श्वेतद्वीपं गतवति त्वायि द्रष्टु तदीश्वरम्'
(१०.८७.१०) इति भागवतपद्यव्याख्यावसरे श्रीधरस्वामी श्वेतद्वीपाधीक्षरतया
आनिरुद्धमूर्तिमाह ~ क्षीराब्धिमध्ये शेषातिरिक्तस्य स्थानाभावात्, शेषस्य
चानादिपार्षदतया, तत्र शायनं युज्यते। शरीर भेदैस्तव शेषतां गत इत्युक्तः
स्पार्यते' इति। सत्यलोकादधस्ताच्छूवेतद्वीपाख्यं भगवद्धाम, यत्रैकदा योद्धुकामो
गतो रावणस्तत्रत्ययैकया योवितैकहस्तेन धृतो यथाकथजञ्चिदात्मानं मोचयित्वा पालयित
इति रामायणकथा परामृश्यते। यथोक्तं सत्यलोके तथा विष्णुं पद्माक्ष सूर्यमण्डले।
क्षीरान्धौ शेषशयनं श्वेतद्वीपे तु तारकम्” इति।
तथा बदर्याभिध आश्रमे वरे सुरर्षिराजर्षिमहर्षिसेविते ।
नारायणं लोकनमस्कृताडिघ्रिकं मुनीशसेव्ये त्वथ नैमिषे हरिम् ।।१९०।।
* संवित्करः *
सुरर्षि, राजर्षि तथा महर्षियों द्वारा संसेवित बदरिकाश्रम में सर्वजनार्चितचरणकमल
भगवान् श्रीमन्नारायण तथा श्रेष्ठमुनियों की निवासभूमि नैमिषारण्य में श्रीहरिभगवान्
निवास करते हैं; अतः वैष्णवों को यहाँ इनका पूजन करते हुए निवास करना
चाहिए।
२३० श्रीवैष्णवमतान्जभास्करः
* पदपरामर्शः ४
वैकुण्ठादारभ्य सत्यलोकसूर्यमण्डलादेरवरोहणक्रमेण भगवद्धामतत्सेव्याभिधाना-
भिधानमुखेन वासस्थानं निर्दिश्येदानी सुरसङ्घसमुपासिते भारते तत्रापि भागवतोक्तरीत्या
भारतवर्षाधिदैवतं नारायणम्रषिं तदधिष्ठितं सर्वोत्रतहिमालयप्रान्ते3 वस्थितं बदरिकाश्रमञ्च
स्मृत्वा, तदनु नैमिषारण्यञ्च विरक्तजननिवासयोग्यं मत्वोपन्यस्याति -- तथोति।
बदर्याभिध आश्रमे नारायणं नमिषे च हरिमाराधयन् वसेदिति शलोकसारः। तथेति
समुच्चयार्थचकारार्थे। बदरी आभिध नाम यस्य तस्मिन्। बदरी आभिधा यस्येति
विग्रहे 'बदर्याभिधे' इतिरूपनिष्पत््या छन्दोभङ्ग: स्यादित्यभिधैव आभिधं स्वार्थेऽण्।
यद्वात्वं छन्दोऽनुरोधात् "आपि माषं मष कु्याच्छन्दो भङ्गः न कारयेत्’ इत्युक्तेः।
बदरिकाचिह्लित आश्रमे बदरिकाश्रम इत्यर्थ:ः। आश्रमे मुनीनां वासस्थाने तेन
मुमुक्षुजनवासयोग्यत्वं सूचितम्। तथाविधनिर्विणणतपस्विजननिर्वाहसाधनसम्पदमाह
-- बदर्योति। साधनानुष्छाने बदरीफलभक्षणविधानात्; तद्यथा 'त्रिरात्रान्ते त्रिरात्रान्ते
कपित्थबदराशनः । आत्मवृत््यनुसारेण मासं निन्येऽचयन् हरिम्’ (४.८.७२)
इति ध्रुवोपाख्याने भागवतोक्तिः। देहे रममाणानां विलासिनां नाम्नैव कण्टकस्मत्या
दुरासाद्यत्वं दुप्रवेश्यत्वं वा सूचितं भवति, एतेन मुमुक्षुजनानुरूपं विविक्तत्वमुच्यते।
यत्र भगवन्तमुद्विश्य तपस्विनस्तपश्चरान्त, स आश्रमो यत्र च सर्वाराध्यो भगवानपि
नृणां स्वस्तये क्षेमाय च तपश्चरति सोऽतितरां प्रशस्ततया वर आश्रमः। यथोक्तं
‘नारायणो विभुर्विष्णुः शाश्वतः पुरुषोत्तमः। तस्यातियशसः पुण्यां विशालां
बदरीमनु। आश्रमः ख्यायते पुण्यास्रिवु लोकेषु विश्रुतः? (महा. ३.८८.२४),
'योऽ वतीर्यात्मनोऽ शेन दाक्षायण्यान्तु धर्मतः।। लोकानां स्वस्तयेऽ ध्यास्ते
तपो बदरिकाश्रमे (७.११.६) इति च भागवते।
न केवलं परमोन्रतशिखरारूढतयैवोच्चौस्त्वमपितु तपोवैराग्योत्तम्भकत्वादपीति भावः।
यत्र स्वाराध्यं तपस्यन्तं विलोक्य मुमुक्षूणां तपसि निष्छानुदिनं परिबुढा भवतीति
वासयोग्यतया वरणीयतामाह -- वर इति। यदवर्शनमात्रेण चेतसि वैराग्यं समुज्जुम्भते
भक्तिक्ष पुष्रिमश्नुत इति भावः। अतो भगवानपि भागवते परमात्मीयतया स्वाश्रमं
ममेत्यनेनाभिधत्ते 'गच्छोद्धव मयादिष्टो बदर्याख्यं ममाश्रमम्’ (११.२९.४१)
इति। तस्य लोकवन्दितर्षिजनसेवितत्वमाह -- सुरर्षिराजर्षिमहार्षिसोवित इति।
नारदादिभिस्सुरर्षिभित्ऋर्तुप्णादिभी राजर्षिभिर्व्यासादिभिक्च महर्षिभिः सेविते समुपासित
इति। भगवत ऋषित्वन्तु लोकसङ्ग्रहार्थमेव। युज्यते च नारायणर्षेनरिदादिभिः
पूजनमुपास्योपासकयोनित्रत्िपरत्वेन साजात्यात्। बदरिकाश्रमे भगवदचकिषु श्रीनारदस्य
सुरषेरेव प्रामुख्यात्सुररषिपदस्य प्रथमोपादानम्। यदर्चकस्य नारदस्योपदेशान्मायाजयः
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २३१
श्रूयते, साक्षात्तदर्च्यस्य भगवतः सेवया किन्न स्यादिति भाव:। आराध्यगौरवमाह --
नारायणामिति। नराणां समूहो नारं तत्रायनमस्येति नाम्नैव सर्वभूतनिवासताप्रत्ययेन
न केवलं सर्वपरविद्यावेद्यत्वमपितु सर्वनियामकत्वरूपमैश्चर्यगर्भ पारम्यमुक्तं भवति।
तस्य न केवलं भारतभुवि संश्रितमात्रनगस्कृतत्वमपित्वकुण्ठमैश्चर्यमाह --
लोकनमस्कृताड्प्रिकमिति। लोकत इति लोकश्चतेनवर्गस्तेन नमस्कृतौ वन्दितावड्ग्नी
चरणौ यस्येति बहुत्रीहौ समासान्तः कप्। आश्रमे तपस्विभावेन नित्यं विद्यमानतया
सौलभ्यं संसूच्य तदाङ्स्रियुगले प्रह्मीभावमात्रेण सकलानर्थनिव्रतिरिति। कृपोत्तम्भकत्वेन
ओचित्यादङ्घिशन्दः। यदङ्ख्रिमुद्विश्य कृतो नमस्कारोऽपि लोकस्य मङ्गलपरम्परां
सूते, किमुत स्थिरवासेन तदङ्मिमुपसेवमानानामिति कैमुत्यं लभ्यते। नैमिषे नैमिषारण्ये
वसेच्चेद्धरिमाराधयन् वसोदिति भावः। तत्र तदरण्यस्य भगवद्भावेन शिष्टजनसेवित-
चरत्वमाह -- मुनीशसेव्य इति। मुनीशानां शौनकादीनां तीर्थबुद्धया सेव्ये सेवनीये
वेष्णवक्षेत्रत्वात्। तत्र क्षेत्राधिपतिं नाम्नाह हारिमिति। आश्रितविपद्धारितया
पुराणादौ प्रथितयशसं पुरुषोत्तमं भगवन्तमित्यर्थः। नैमिषनामकरणे तद्रैष्णवक्षेत्रत्वे
चाह श्रीधरस्वामी ब्रह्मणा विसृष्टस्य मनोमयस्य चक्रस्य नेमिश्शीयति कुण्ठीभवति
यत्र तन्नेमिशं, नोमिशमेव नैमिशम्/ तथा च 'एतन्मनोमयं चक्रं मया सृष्ट
विसुज्यते। यत्रास्य शीयति नोमिः स देशस्तपसः शुभः।। इत्युक्तवा सूर्यसङ्काशं
चक्रं सृष्ट्वा मनोमयम्। प्रणिपत्य महादेवं विससर्ज पितामहः।। तेऽपि
हृष्टतमा विप्रा: प्रणम्य जगता प्रभुम्। प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत ।
तद्वनं तेन विख्यातं नैमिशं मुनिपूजितम्’ (शि. पृ. ७.१.३.५३-५७) इति।
मूर्धन्यघटितपाठं वाराहपुराणकथां स्मुत्वोपपादयति गौरमुखमषिं प्रति भगवद्वचनम्
“एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा। उवाच निमिषेणेदं निहितं दानवं
बलम्। । अरण्येऽस्मिस्ततस्त्वेतन्नौमिषारण्यसाव्जितम्। भाविष्याति यथार्थ वै
ब्राह्मणानां विशेषकम्" (११. १०८-१०९) इति। अनिमिषः श्रीविष्णुरलुप्तदृष्टित्वात्
तस्य क्षेत्रे तथा चात्रैव शौनकादिवचनम् क्षेत्रेऽस्मिन् वैष्णवे वयम्" (भा. पु. १. १. २१)
इति। इत्थं नैमिषे हरिं पूजयन् वसेदिति भाव:।
शालग्रामममोघदिव्यफलदं देवं हरिक्षेत्रतो-
योध्यायां रघुपुङ्गवं गुणनिधिं श्रीरामचन्द्रं प्रभुम् ।
सत्स्थाने मथुराभिधाश्रमवरे श्रीबालकृष्णं परं
मायायां मधुसूदनं सुरनरध्येयाङिघ्रपदां सदा ।।१९९।।
२३२ श्रीवैष्णवमताब्जभास्कर:
* संवित्करः *
हरिक्षेत्र में अमोघफल प्रदान करने वाले श्रीशालग्रामभगवान्, श्रीअयोध्याजी में
सकलदिव्यगुणसागर रघुकुलश्रेष्ठ श्रीरामचन्द्रजी, साधु-संत-महात्माओं द्वारा सेवित
श्रीमथुराजी में श्रीबालकृष्ण तथा मायातीर्थ हरिद्वार में श्रीमधुसूदनभगवान् निवास
करते हैं। अतः वैष्णवों को इन तीर्थस्थलों में तत्तद्देवतार्चनपूर्वक निवास करना
चाहिए।
* पदपरामर्शः *
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमेः। तत्र योजनमात्रनतु तीर्थकोटिसमन्वितमित्युक्तया
तत्पूजनस्थलपावनताया अधिगमो भवति, यच्च तदाविभावस्थलं तत्पावनता कथं
कथ्येतेति तदर्चावतारभूमित्वेन श्रीहारिक्षेत्रं तत्र वासेन निसर्गत एव वैष्णवाणां
तत्रत्यं नित्यार्चनीयभगवत्सेवासत्निधानसुखसौलभ्यङ्च स्मरत्राह ~ शालग्राममित्यादिना।
हरिक्षेत्रत इत्यत्र 'तस्यादित उदात्तमर्धह्वस्वम्” (१.२.३२) इति पाणिनीयसूत्रोक्त
लिङ्गमनुस्मत्याद्यादेराक्रतिगणत्वात्सप्तम्यर्थे तसि:। हरिक्षेत्र इत्यर्थः। तत्रामोषदिव्यफलदं
देवं शाल्ग्राममाराधयन् वैष्णवो वसेदिति विवक्षातुगुणपदसन्धानम्। हरिक्षेत्र शाल्य्रामक्षेत्ं
गुलहाश्रम इत्यनर्थान्तरम्। यत्स्वरूपमाविष्कुर्वत्नाह भगवान् बादरायणो भागवते
“यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सत्रिधाप्यत
इच्छारूपेण। यत्राश्रमपदान्युभयतो नाभिभिदूषच्चक्रेश्वक्रनदी नाम सरिठ्ावरा
सर्वतः पवित्रीकरोति’ (५. ७. ९-१०) इति। तत्र पूज्यस्वरूपमाह ~ शालग्रामम्
ड्रति। हरिक्षेत्रे गण्डक्याँ विद्याधरकुण्डे समाविर्भूतं भगवदर्चाविग्रहम्, यत्र "नित्यं
सन्निहितो हारिः” इत्युक्तेः। 'शाइ श्लाघायाम्" (१. ३ २४) इत्यतो डलयोरभेदात्
शाल्यते प्रशस्यत इति शालो गुण:, शालानां दिव्यगुणानामपराधसहिष्णुत्वसौशील्य-
कारुण्यौदार्यादीना आग: समूहो यत्रेति व्यधिकरणबहुवीहौ शालग्रामपदमनन्तकल्याण-
गुणनिलयपरम्। वाङ्मनसागोचरत्वेन दुरधिगमोऽपि भगवान् करुणया स्वाचकिभ्यः
स्वात्मानमुपलम्भयति, अतस्तदर्चनस्य भक्तैः सुखसाध्यतैवमृच्यते -- 'तुलसीदल-
मात्रेण जलस्य चुलुकेन वा। विक्रीणीते स्वामात्मानं भक्तेभ्यो भक्तवत्सलः '
इति गौतमीयतन्रे। अत एव भक्ताय मोक्षं धारयति हारिरित्यत्र भक्तस्योत्तमर्णत्विन
हरेश्चा्मर्णत्विन तन्निबन्धना विभक्तिव्यवस्था। 'परिजनानुरागविराचितशबलसंशब्द-
सालिलसिताकिसलयतुलसिकादूर्वाङ्कुरैरापि सम्भृतया सपर्यया किल परम
परितुव्यासि” (भा.पु. ५.३.५) इति भगवन्तमुद्दिश्यत्विग्जनोक्ते। पाषाणाकारतया
प्रतीतौ जडत्वाशङ्कायामाह -- देवामिति। सर्वभूतेष्वात्मतया दीव्यति द्योतत इति
देवः परमात्मा, दीव्याति नित्यं मोदत इति देवः; “मोदते भगवान् भूतैर्बालः
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २३३
क्रीडनकैरिव' (महा. ३. ३०. ३७) इत्युक्तेः। देवशब्देन पूज्यत्वमुक्तम् 'एको देव’
(8. ६. ११) इति मन्त्रवर्णात्। देवो दानाद्दीपनाह्योतनाद्वोते निर्वचनोक्तदातृत्वमनुसन्धायाह
-- अमोघदिव्यफलदामिति। तत्सेवाया निष्फलत्वशङ्काया अत्यन्तासम्भावनोच्यते-
5मोघेत्यनेन, दिव्यफलेत्यनेन च भक्ति: सायुज्यं वा.प्रोच्यते, उभयोः परमफलत्वेनोक्ते:।
सक्नदथ्यरचिती विष्णु: शालग्रामशिलास्थितः। ददाति विपुलां मुक्ति सर्वसङ्ग-
विवर्जिताम्”, 'जन्मकोटिसहस्रेण पूजिते मयि यत्फलम्। तत्फल समवाप्नोति
शालग्रामशिलार्च्चनात्? इति।
अचवितारभूमितया वासयोग्यं हरिक्षेत्रमुत्तगा स्वकीयपरमाराध्यस्य सर्वावतारिणो
भगवतो रामचन्द्रस्य तदवतारभूतस्य तदभिन्रस्वरूपस्य कृष्णस्य भगवत्पादतीर्थभूतगङ्गाया-
्वावतरणस्थलं कैष्णवजननिवासयोग्यतया निश्चिनोति ~ अयोध्यायामित्यादिना।
अयोध्यायां श्रीरामचन्द्रं समर्चयन् वैष्णवो वसेदित्याशयः। अयोध्या च सप्तसु
मोक्षदायिपृरीु सर्वा्भ्यहितत्वाव्याथम्येन सम्प्रोक्ता, परमधार्मिकैः सूर्यवंशोद्धवै राजभिः
समाराधिता साकेतापरपर्याया 'अष्टाचक्रा नवद्वारा देवानां पूरयोध्या” (अथर्व
१०.२.३१) इत्यादिमन्रैराग्नाता मुमुक्षजनोपसेविता, कैणवैक्ष दिव्यभगवदवतार-स्थलत्वेन
दिव्यदेशतया परिगणिता विरक्तजनराजधानी श्रीरामनगरी, यत्र भगवत्करुणेव प्रवहन्ती
वासिष्छी सरयूर्नाम सरिठावराशेषकल्मषं क्षपयति। यत्परिचयमाहादिकविरेवम् --
"कोसलो नाम मुदितः स्फीतो जनपदो महान्। निविष्टः सरयूतीरे
प्रभूतधनधान्यवान्। । अयोध्या नाम नगरी तत्रासील्लोकविश्ुता। मनुना मानवेन्द्रेण
या पुरी निर्मिता स्वयम्” (वा.रा.१.५.५-६) इति। 'बिष्णोराद्या पुरी चेयं
क्षितिं न स्पृशति द्विज। विष्णोः सुदशने चक्रे स्थिता पुण्यकरी स्थित”
(स्क. पु. २.८. १.६ २) इति। न योद्धं शक्येत्ययोध्यापदव्युत्पत्याऽ यधवर्णधटितत्वाच्चेयं
त्रिदेवमयी निरुच्यते। 'अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते। धकारो
रुद्ररूपश्च अयोध्यानाम राजते” (स्क. पु. २.८. १.६०) इति। यत्र कृतं कर्माक्षय्यं
भवति, यत्र ग्रयागोऽप्यात्मशुक्धयर्थमायाति -- जप्त दत्तं हुतं दृष्ट तपस्तप्तं
कृतञ्च यत्। ध्यानमध्ययनं सर्व दानं भवति चाक्षयम्।। यत्र प्रयागराजोऽपि
स्नातुमायाति कार्तिके। शुद्धयर्थ साधुकामोऽसौ प्रयागो मुनिसत्तम’
(स्क.पृ.२.८.३.१४, २.८.६.१८१-१८२) इति। तत्रार्चनीयदेवमसाधारणनाम्ना
सर्वलोकविश्रुतेन निर्दिशाति -- श्रीरामचन्द्रामिति। नित्यश्रीविशिष्टं रामचन्द्रम्,
नाम्नि श्रीयोगात्पूज्यतमत्वमुक्तम्। सववितारिणमयोध्याना्थं श्रीभगवन्तमित्यर्थः। तं
त्रिभिर्विशिनडि -- प्रभुं गुणनिधिं रघुयुङ्गवामिति। प्रभुमित्यनेन सर्वेक्षरत्वम्,
गुणनिधिमित्यनेन शरण्यत्वसौशील्यधर्मिष्ठत्वादिगुणाकरत्वसूचनेन वरेण्यत्वम्,
२३४ श्रीवैष्णवमताब्जभास्कर:
रघुपुङ्गवमित्यनेन प्रशस्तवंशप्रसूतत्वलक्षणाभिजात्यञ्चोच्यते। रघुषु रघुर्वशोद्भवेषु राजसु
पुङ्गवः श्रेष्ठ इति विग्रहे सप्तमीति योगविभागात्समासः।
सप्तपुरीषु प्रथमाया अयोध्यायाः कथनादेकसम्बन्धिज्ञानमपरसम्बन्धिस्मारक-
मितिन्यायान्मधुरादिस्मरणात्तासामपि निवासयोग्यतया स्मरणं तत्रापि तदनन्तरवर्तित्वाठाथं
मथुरामेव स्मराति। श्रीरामकृष्णयोस्तात्तिकमैक्यमनुसन्धाय श्रीकृष्णावतारस्थल
वैष्णववासयोग्यत्वेनाह सत्स्थान इति। स्थीयतेऽस्मित्निति स्थानं वासः सतां
महात्मनां स्थाने। मधुराऽभिधा यस्येति मधुराभिधे आश्रमेषु वरे श्रेष्ठे वैष्णवो वसेत्,
मोक्षदायिषुरीष्वन्यतमत्वाततत्र निवसतां पापराशेनाशिकत्वाच्च मथ्यते पापराशिर्ययोति
व्युत्पत्तः। अस्या अप्ययोध्यावत्प्थ्वीमध्ये परिगणनं नेति भूतशुद्धितन्तराद्विज्ञायते;
तद्यथा श्रीरामधनुरग्रस्था अयोध्या सा महापुरी। मथुरा केशवोत्यडटसुदर्शन-
विधारिता' इति। तादृशपृण्यतीर्थनिवासिभिराराध्यमाह -- श्रीबालकृष्णमिति।
बालं मुकुन्दमित्यर्थः। कंसकारागहे लन्धाविभविस्य भगवतस्तदाकारेणैवोपास्यत्वात्तथोक्तिः।
तत्र बालसुलभमोग्ध्यारोपादचिरेण सुख्य्रसादनीयत्वमुच्यते। कथं बालस्य तथाविधैः
महाजनैरुपास्यत्वमित्यत आह ~ परामिति। उत्कृष्टतमं प्रकृतिपुरुषयोरुत्कृएमीश्वर-
मित्यर्थः। यद्वा; परं पुरुषं पुरुषोत्तममित्यर्थः। नात्र तमसः परस्तात्’ (गी.८.९)
इत्यादाविव दिगर्थे परशब्दः; पुरुष: स परः पार्थः? (गी.८. २२), “मत्तः
परतर' नान्यत्” (गी. ७.७), "मोहितं नाभिजानाति मामेभ्यः परमव्ययम्”
(गी. ७. १३) इत्यादावृत्कृटवाचकपरशब्दप्रयोगात्। ईश्वरत्वाद् बालरूपेणावस्थितस्य
नैश्वर्ये मनागपि नेयून्यामिति द्योतयितुमेव बालशन्दात्माक् श्रीशन्दप्रयोगः। अन्यथा
'श्रीकृष्णाय वयं नुमः? इत्यादिप्रयोगवत्कृष्णशन्दात्मागेव श्रीपदं प्रयुञ्यात्।
भगवत्पादाम्बुजनिःसताया भागीरथ्या भुव्यवतरणस्थलीयं माया हारिद्वारमित्यनेके
निश्चिन्वन्ति, केचन नवद्वीपाद् गङ्गापारं मायापुरीमिति प्रथितां मायामाहुः। अतश्श्लोके
तृतीये हरिद्वारस्य प्रथगुपादानम्। मायापुर्या वासेन मायासमुत्तरणं कथं स्यादित्यत्राह
-- मधृसूदनमाराधयन् वसेत्। मधु तन्रामानमाद्यसुरं यः सूदयति, तदाराधकं
प्रति मायाप्रभावस्याकिञ्चित्करत्वात्। यथोक्तं ब्रह्ववैवर्ते 'पारिणामाशुभं कर्म न्तानां
मधुर मधु। करोति सूदनं यो हि स एव मधुसूदनः (४. १११.३१) इति।
मधुसूदनशन्दस्य भ्रमरवाचकत्वेनान्यथाप्रतिपत्तौ विशेषणेन तदैश्चर्यमाह --
सुरनरध्येयाङ्ख्रिपद्यमिति। सुराश्च नराश्चेति सुरनरास्तैध्योयेऽङ्म्रिपद्गे यस्य तमा!
नरापेक्षयोत्कृटत्वात्सुरशन्दस्य पूर्वप्रयोगः। एतेनोभयो: कर्मवश्यतया तदुपासकत्वं
तदपेक्षया हीनत्वं च सुतरां गम्यते। नासौ श्रमरोऽपितु देवमनुष्यादेस्तत्पादपद्मभ्रमरत्वमिति
भाव:ः। अतो देवमनुष्यादिसाधारण्येन तद्धयानस्य स्मरणस्य फलमित्थं वर्णितं
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २३५
अल्यवेवर्तप॒राणे 'महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम्। विपत्तौ तस्य सम्पत्तिर्भ-
वेदित्याह शङ्कर: (२.३७.४०) इति।
काश्यां भोगिशयं सनातनमथावन्त्यामवन्तीपतिं
श्रीमदद्वारवतीतिनाम्नि शुभदे श्रीयादवेन्द्रं मुदा ।
रम्ये श्रीव्रजनामके सुरनतं गोपीजनानां प्रियं
ब्रह्मोशादिकिरीटसेवितपदाम्भोजं भुजङ्काश्रयम् ।।१९२।।
* संवित्करः *
काशीतीर्थ (वाराणसी) में सनातन श्रीभोगिशयनभगवान्, अवन्तिनामक पुण्यतीर्थ
में श्रीअवन्तीपति, द्वारिका में श्रीयादवेन्द्र तथा अत्यन्त रमणीय व्रजतीर्थ में
शेषाश्रय श्रीगोपीजनप्रिय निवास करते हैं; जिनके चरणकमल ब्रह्मा-शिवादि के
मुकुटों द्वारा सेवित होते हैं।
* पदपरामर्शः *
'मरणं मङ्गलं यत्र’ इत्युक्तेः काशते या सेति व्युत्पत्तेश्च सर्वलोकविश्रुतायां
काश्यां भोगिशयेत्याख्यं सनातनं भगवन्तं एजयन् वसेत्। भोगः फणो वक्रगतिर्वास्यास्तीति
भोगी सर्प, तत्र शोते शायनशीलो भगवान् शेषशायी नारायणस्तम्। यद्वा;
कर्मपारवश्यात्सुखदुः खान्यतरसाक्षात्कारवान् भोगी जीवस्तत्र शेते निवसतीत्यन्तर्यामिणं
भगवन्तम्। सना सर्वदा भवं विद्यमानं सनातनं यज्चिरामित्यादिना ट्युल्तुटौ;
नित्यमुत्पतिविनाशरहितमित्यर्थः। अवन्त्यामुज्जविन्यां शिप्रातटेऽवस्थितायां मोक्षदायिन्यां
पुर्यामवन्तीपतिमेतन्रामकं देवं पूजयन् वसेत्। पतिशब्दस्य पालकपरत्वेन भर्तृवाचकतया
तस्या राज्ञो बोधे तद्वारणाय सनातनपदस्यात्राप्यन्वयेन सनातनमवन्तीपतिं पूजयन्
इत्यर्थलाभाद्धगवद्रोधः, सनातनस्वामित्वस्येश्वर एव सत्त्वात्। क्रमप्राप्तां द्वारकां
स्मरति -- श्रीमदृद्वारवतीतिनाम्नीति। श्रीमती चासो द्वारवतीति कर्मधारये पुंवद्भावेन
श्रीमद्वारवती द्वारकेति यावत्। चतुर्वर्णानां मोक्षप्रदानि द्वाराणि सन्त्यत्र सा द्वारवती।
श्रीमदिति नित्यविभूतियोगं नित्यभगवत्सत्निधानप्रयुक्तनित्यशोभासमुद्धिं च सूचयति
अतस्तत्र वास विशिनष्टि -- पुदेति। इतिपदं प्रसिद्धि द्योतयति। शुभं मोक्षं
ददातीति शुभदे कल्याणप्रदे भगवद्धाम्नि; "यत्र चावस्थितो मर्त्यो मर्त्यधर्म्न
युज्यते’ (१०.५०.५४) इति भागवतोक्तेः। (आपि कीटपतङ्गाद्याः पशवोऽथ
सरीस॒पाः। विमुक्ताः पापिनः सर्वे द्वारकायाः प्रभावतः।। कि पुनर्मानवा
नित्यं द्वारकायां वसान्ति ये। या गतिः सर्वजन्तूनां द्वारकापुरवासिनाम्। सा
गतिर्ढुलशा नूनं मुनीनामूर्थ्वरेतसाम्’ (स्क. पृ. ७.४.३५.५-६) इति। तत्र पूज्यं
२३६ श्रीवेष्णवमताब्जभास्कर:
देवमाह -- श्रीयादवेद्धामिति। यदोरपत्यानां यादवानागिन्द्र श्रेष्ठ कृष्णं, तत्रापि
श्रीविशि्टधामानुगुण्येनाोतरषोडशसहस्रपत्नीभिर्नित्ययोगात्रित्यश्चीकं श्रीयादवेन्द्र
श्रीद्वारकाधीशमिति यावत्। भगवतोघजलीलां स्त्वा तत्र निवासं तत्रोपास्यदेवमनुस्परन्राह
-- रम्य इृति। रम्येऽतितरां रमणीये श्रीत्रजधामके ब्रजेत्याख्ये नित्यश्रीधाम्नि
वसेत्, अत्यन्तप्रशस्तत्वातु. 'जयाति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा
शश्चदत्र हि’ (भा.पु. ९०.३१. १) इति गोपीजनोक्तेः, अजन्ति वासार्थमत्र वैष्णवा
इति ब्रजपदनिर्वचनाच्च। कृष्णमयत्वात्त्राराध्यस्य सुग्राह्मत्वमाह ~ गोपीजनानां
प्रियामिति। 'एताः पर तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मानि
रूढभावा: ' (भा. पु. १०.४७.५८) इत्यादिवचोभिः प्रथितयशसां गोपीजनानां प्रियं
नित्याप्रियं जीवातुभूतं सर्वस्वभूतम्, गोपीजनवल्ञभमित्यर्थः। तदीयैश्वर्य द्योतयितुं
त्रिभिर्विशेषयति -- सुरनुवं देववन्दितम्, ब्रह्मेशादिकिरीटसोवितपदाम्भोजं
विरिञ्चिरुद्रमुकुटाचितिचरणारविन्दम्; एतेनेद्रब्रह्वादिभि: कृतस्य वन्दनादे: अ्सङ्गोऽनु-
सन्धीयते। भुजङ्गाश्रयं भृजङ्गरुशेष आश्रयो यस्य तं साक्षात्नारायणमिति। यद्वा; कालियं
तत्फणमाश्रयते नर्तकमुद्रया यस्तथाविधं नटवरम्, तेन दुष्टदमनशीलमुक्तवा कालस्यापि
नियमने सामर्थ्य प्रकार्वैश्चर्य सूचितम्। तत्र निवसतां सर्वविधं विघ्नजातं स्वयं भगवानेव
शमयतीति भाव:।
वृन्दावने सुन्दरनन्दसूनुकं गोविन्दमेवं त्वथ कालियहुदे ।
गोवर्धने गोपसुवेषधारिणं तथा भवध्नेऽपि च पद्मलोचनम् ।।१९३।।
* संवित्करः *
श्रीवृन्दावन में श्रीनन्दनन्दनभगवान्, कालियहद में यमुनाजी के तटपर श्रीगोविन्द,
पुण्यतीर्थं गोवर्धन में श्रीगोपवेषधारी भगवान् गोपाल तथा भवघ्ननामक तीर्थ में
श्रीपद्मलोचनभगवान् विराजते हैं।
* पदपरामर्शः *
ब्रजक्षे्रं वासयोग्यतया संस्तुत्य "भारते व्रजभूः श्रेष्ठा तत्र वृन्दावनं परम्”
इत्युक्तेः, 'धन्यं वृन्दावनं तेन भक्तिरृत्याति यत्र च' (भा.मा.प. १.६१) इति
पाद्मोक्तेश्च, श्रीधामतया भक्तिपोषणकामनिषेवणीयतया चाह -- वृन्दावन इति।
वन्दावने सुन्दरनन्दसूनुकं भजन् वसेद्रैष्णव इति विवक्षितम्। यत्र गोविन्दचरणप्रियाया:
श्रीवृन्दायास्तुलस्या परम्परया योगस्तत्र भगवद्धावो वैष्णवाणां, किमुत यच्च वृन्दाया
वनं तत्र भक्तचित्तविहरणशीलस्य भगवतो नित्यविहारे कः सन्देहः। अत उक्तं
“वृन्दावनं परित्यज्य पादमेकं न गच्छाति’ इति ब्रह्मयामले। भगवता चोक्तं
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २३७
गौतमीये 'पञ्चयोजनमेवास्ति वनं मे देहरूपकम्” इति। भगवल्लीलास्मारकत्वाद्धक्तयोघ-
वर्षकत्वाद्धगवद्धागवतदर्शनसङ्घग्रीत्युपलम्भकत्वेन तत्पादरज:प्राप्तिधन्यतापादकत्वाच्च
तत्र वासः कार्यः। यत््ाशस्त्यमुक्तं भागवते “वृन्दावनं सखि भुवो वितनोति कीर्ति
यद्देवकीसुतपदाम्बुजलन्धलाक्ष्मि। गोविन्दवेणुमनुमचमयूरनृत्यं प्रक्ष्याद्रिसान्व-
परतान्यसमस्ततत््वम्’ (१०.२१.१०) इति। तत्र समभ्यर्च्यस्वरूपमाह --
सुन्दरनन्दसूनुकामिति। तत्म्धानधामत्वादखिललोकचित्तापहारकशोभासम्पदमाह --
सुन्दरोतिः तेन सुग्राह्मत्वमुक्तम्। सुन्दर्चासौ नन्दसूनुकस्तमिति। ह्वे कः, सुकुमारलीलामधुरं
नन्दनन्दन भजंस्तत्र वसेदिति भावः। तदनु कालियमर्दनलीलां संस्म्त्य कालियहृदस्यापि
भगवलछ्लीलास्थलत्वेन तत्र वासे विनियुङ्े गोविन्दामिति। कालियहृदे कालियस्य
नागविशेषस्य हृदोऽगाधजलः कुण्डविशेषः; 'तत्रागाधजलो हृदः? (१.१०.५६७)
इत्यमरकोषात्। पूर्ववासनिबन्धना5ख्या। कालियह्द इत्यत्र गङ्गायां घोष” इतिप्रयोगवत्सामीप्ये
लक्षणा, मुख्यार्थबाधात्। तत्र भजनीयदेवविशेष-समाख्यामाह -- गोविन्दामिति। गां
भुवं विन्दति भक्तेषु कारुण्याद्यः स भगवान् गोविन्द इत्युच्यते, गवादिषु विन्देः
सञ्ज्ञायामिति श:। अत्र तु महाविषधरं निगह्य हदान्रिवार्य भक्तजनरक्षार्थ गामगाधजलमपि
विन्दतीत्याश्रितरक्षापरो भगवांस्तथा प्रोक्तः। विन्दतीति विन्दः, गो; प्रथिव्या विन्दः
पालको गोविन्द इति व्युत्पत्तः। अतस्तादृशां गोविन्दं चिन्तयन् कालियहृदसमीपे वैष्णवो
वसेदिति। भागवते तु तत्र स्नानदेवपूजन-भगवत्स्मरणार्चनादेः सर्वपापनिवर्तकत्वमुक्तं
‘योऽस्मिन् स्नात्वा मदाक्रीडे देवादी- स्तर्पयेज्जलैः। उपोष्य मां स्मरत्नचेत्सर्वपापैः
प्रमुच्यते' (१०.१६.६२) इति।
प्रत्यासत्या तदनन्तरलीलानुसन्धानाद्रोवर्धनवासे प्रेरयति -- गोवर्धन इति;
स्वनामख्यातश्रीवृन्दावनसमीपस्थितपर्वतविशेषः। गा: वर्धयति, गावो वा वर्धेन्तेऽत्र,
कोमलतृणपत्रादिसम्पत्त्या स गोवर्धन:। गोशब्दस्य ज्ञानपरत्वे भगवदुपासनात्मकज्ञान-
वर्धकत्वेन तत्र वासादेर्युक्तत्वम्। भगवद्रूपत्वात्तत्र वासो भगवदाश्रयणं, तदाश्रितानां
रक्षको भगवानेव सुरराजकोपाद्रक्षणकथाया: प्रसिद्धे:। तत्र वासेन भागवतसंश्रयविधिरपि
फलति "श्रीकृष्णदासवरयोऽ यं श्रीगोवद्धनभूधरः ' इत्युक्तेः। तस्य भक्तिवर्धनानुगुण-
स्वरूपवैभवमुक्तं भागवते 'हन्तायमाद्रिवला हारिदासवर्यो यद्रामकृष्णचरण-
स्पर्शप्रमोद:। मानं तनोति सहगोगणयोस्तयोर्यत्पानीयसूयवसकन्दरकन्दमूलेः ”
इति बृहद्भागवताम्रते। त्रदक्षिणादेर्भगवद्धामप्राप्तिफलकत्वं पाद्य उच्यते -- 'मधुरायां
तथा साक्षात्कृत्वा चैव प्रदक्षिणम्। वैष्णवं धाम सम्प्राप्य मोदते हरिसन्निधौ'
इति। गिरिराजधरणं विहाय को वाएन्यस्तत्रार्चनीयो भवेदिति मनसि निधायाह --
गोपसुवेषधारिणामिति। गोपानां मवूरबर्हगुञ्जावतंसवेत्रविषाणादिविशिष्टतया यः सुवेषः,
२३८ श्रीवैष्णवमतान्जभास्करः
तं धर्तु शीलं यस्य, तादृशं गोपरूपं भगवन्तं गोपालं भजन् गोवर्धने वसेदिति भाव:।
यथा भक्तो भक्त्ोर्ध्वपुण्डादिकं भगवच्चिह्णं धारयति, तथैव भगवानपि क्वचित्तथाविधैः
सह नीरन्भ्रसंश्लेषेण स्वकीयेन कृतार्थयितुं तत्समाश्रयणानुगुण्यनिर्वाह्मर्थं न केवलं
तेष्वपितु तदीयरूपगुणचेहितादिषु स्वप्रियतां द्योतयितुं तदानुरूप्यं धत्त इति भावः
एतेन 'कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः! (१०. २४. ३५) इति भागवतोक्तार्थः
स्मारितः। युक्तमाह कविकुलगुरुमेंषदूते येन श्यामं वपुरतितरां कान्तिमापत्स्यते
ते। बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः? (१.१५) इति। पद्मलोचनाख्यं
भगवन्तं सेवमानो वैष्णवो भवघ्नाख्ये तीर्थे च वसेदिति ठुरीयपादार्थसङ्घेपः।
शारिं तथा गोमत एव पर्वते तथा हरिद्वार ऋजुं जगत्पतिम् ।
तीर्थे प्रयागे बत माधवाभिधं तथा गयायां तु गदाधरं परम् ।।१९४।।
* संवित्करः *
गोमत नामक पर्वत पर श्रीशारिभगवान्, हरिद्वार में श्रीजगत्पतिभगवान्, तीर्थराजप्रयाग
में श्रीवेणीमाधव तथा गयातीर्थ में भगवान् श्रीगदाधर निवास करते हैं। अतः
वैष्णवों को इनका पूजन करते हुए वहाँ निवास करना चाहिए।
* पदपरामर्शः *
गोमताख्ये पर्वते शारीत्याख्यं भगवन्तमाराधयन् वसेद्धरिद्वारे च ऋजुं जगत्पतिं
भजन्। हारिद्वारन्तु हरेबदरीनारायणस्य गआप्तेद्वारिमिवास्ति। गङ्गाद्वारामित्यप्युच्यते। तत्र
जगत्पतिं सर्वपालकं चराचरस्वामिनं पूजयन् वसेत्। तं विशिनष्टि -- ऋजुमिति।
प्रकृत्यैवात्रितेषु कौटिल्यरहितमित्यर्थः, सर्वथा विश्चसनीयमिति भावः। आत उक्तं
रामायणे 'ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे' (३. १७. १५) इति। भगवत्सम्बन्धात्
स्वावतारस्थल' सहर्ष स्मरति -- तीर्थ इति। बतेति हषे। तरति पापादिकं यस्मादिति
व्युत्पत्या तीर्थ स्नानवासादिना पापनिवर्तकं भवति। प्रयागस्तु न केवल तीर्थमपितु
तीर्थराज:। यथोक्तञ्च पाल्ने "श्यामो वटो श्यामगुणं वृणोति स्वच्छायया श्यामलया
जनानाम्। श्यामः श्रमं क्न्ताति यत्र दृष्टः स॒ तौर्थराजो जयति प्रयागः।।
ब्राह्मीनपुत्री त्रिपथास्रिवेणी समागमेनाक्षतयोगमात्रात्। यत्राप्लुतान् ब्रह्मपदं
नयान्ति स तौर्थराजो जयति प्रयागः” (६. २२. २७, ३२) इति। नाम्नाऽपि
तव्ाशस्त्यमुच्यते प्रकटो योगो वत्रेत्यन्वर्थनामा अयागः। यदाह 'यत्पुण्यं त्रिषु लोकेषु
वेदविद्यासु यत्फलम्। स्नातमात्रस्य तत्पुण्यं गङ्गायमुनसङ्गमे’ इति। अस्य
गुक्तिदायकत्वं कविकुलगुरुणा रघुवंशे ललितरीत्योन्रीयते -- 'समुद्रपल्योर्जलसत्रिपाते
पृतात्मनामत्र पकिलाभिषेकात्। तत््वावनोधेन विनापि भूयस्तनुत्यजां नास्ति
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २३९
शरीरबन्धः ' (१३.५ ७) इति। तत्रोपास्यं ग्रधानदेवताविशेषं वक्ति -- माधवाभिधमिति।
माधवेत्यभिधा यस्य त॑ वेणीमाधवंः नामैकदेशग्रहणे नागग्रहणमिति न्यायात्। याया:
लक्ष्म्या धवं पतिं रमापतिम्। यद्वा; मधौ चैत्रमासे भवं माधवं श्रीराममित्यर्थः।
पितृतीर्थत्वेन प्रथिताया गयायामपि वैष्णवानां भगवत्स्मृतिपूर्वकनिवासः श्रेयस इत्याह
-- गयायात्त्विति। गयनाम्ना राजर्षिणैतत्ाम्नासुरेण वा निर्मिता पुरी गया। तत्कषेत्रपरिमाणञ्च
'पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः। तन्मध्ये सवतीर्थानि त्रैलोक्ये यानि
सान्ति वै' (वा. पु. २.४२.२६) इति। वस्तुतोऽत्र विष्णुपदाख्यं प्रमुखं मन्दिरं
फल्गुनदीतटेऽवस्थितं भगवत्पादचिह्वङ्कितवेदीवुक्तमिति केष्णवक्षेत्रया अतोऽयं ग्रधानदेवमाह
-- गदाधरामिति/ धरतीति धरः, गदाया वुद्धितत्वात्मिकायाः कोमोदिक्या धरो
गदाधरो विष्णुस्तम्। गदाधरत्वेन दिव्यायुधसम्पत््या भगवतः समाश्रितरक्षादीक्षितत्वं
सूच्यते। यद्वा; गदति मधुरं वदतीति गदा मुरली, साऽधरे यस्य तं श्रीकृष्णम्। यद्वा;
गदा तच्चिह्वमधरे पादतले यस्य त॑ श्रीरामचन्द्रम्। तादृशं भगवन्तं वरिवस्यन् गयायां
वसेदिति भाव:। भीमदुर्योधनादेरपि गदाधरत्वेन प्रसिद्धेस्तद्वारणायेश्षरबोधकं परमिति
विशेषणम्।
गङ्ासागरसङ्कमेऽतिशुभदे विष्णुं तथा राघवं
शश्चद्भूरिगुणालये मुनिवृते श्रीचित्रकूटे विभुम् ।
नन्दिग्राम उदारकीर्तिनिकरे श्रीराक्षसघ्नं प्रभुं
रम्ये श्रीमति विश्वरूपिणमथो क्षेत्रे प्रभासेऽमले ।।१९५।।
* संवित्करः *
गंगासागर में श्रीविष्णुभगवान् तथा मुनियों द्वारा सेवित अत्यन्त रमणीय
श्रीचित्रकूटधाम में स्वयं विभु (व्यापक) श्रीराघवेन्द्रसरकार विराजते हैं। नन्दीग्राम में
्रीराक्षसघ्न तथा प्रभासक्षेत्र में दिव्यस्वरूप विश्वरूपभगवान् विराजते हैं।
* पदपरामर्शः *
गङ्गासागरसङ्गमेत्याख्ये शुभदे कल्याणप्रदे स्थले विष्णुं कपिलाख्यमाराधयन्
वसेत्, श्रीचित्रकूटे विभुं राघवं भजन् वसेत्। रघोरयत्यं पुमान् राघवो रामचन्द्र इति।
दशरथादेरपि राषवत्वाचतद्ग्याव़ृतये विधुमिति। सर्वव्यापकं परमात्मानमित्यैश्वर्यमत्तवोपास्यत्वं
द्योतितम्। राघवमिति दयादाक्षिण्यमाधुर्यास्तिक्याद्यनेकगुणसन्ततिः सूचिता। चित्रकूटपदेन
मनोज्ञत्वं, मुनिव्वृत इति विशेषणेन गुनिजनसञ्चारपावनतया साधनानुगुणसत्सङ्गादिलाभः,
शश्चद्धारिगुणालय इत्यनेन सत््वगुणोदयानुरूपमन्दाकिनीस्नानपानपुष्णफलादिप्राकृत-
संसाधनसम्पद्वासोपयुक्ता च सूच्यते। यद्वा; शश्चदिति क्रियायामन्वयेन श्रीचित्रकूटे
२४० श्रीवैष्णवमताब्जभास्करः
विरक्तवेष्णव: शश्वद्वसेदिति लभ्यते। भगवद्वासपवित्रितस्थलतया5तितरां तपसोउनुरूपत्वात्।
यथोक्तं रामायणे 'मनोज्ञो5यं गिरिः सौम्य नानाहुमलतायुतः। बहुमूलफलो
रम्यः स्वाजीवः प्रतिभाति मे।। मुनयश्च महात्मानो वसन्त्यस्पिञ्शिलोच्चये।
अयं वासो भवेत्तात वयमत्र रमेमाहे (२.५६.१३-१५), 'यावता चित्रकूटस्य
नरः श्रङ्गाण्यवेक्षते। कल्याणानि समाधत्ते न पापे कुरुते मनः! (२.५४.३०),
“न राज्यभ्रंशनं भद्रे न सुह्ृद्धिर्विनाभवः। मनो मे बाधते दृष्टवा रमणीयमिमं
गिरिम्’ (२.९४.३) इति।
चित्रकूटस्म्त्योद्बुद्धसोशत्रभूषणभरतस्य श्रीरामपरेममूतेरनुस्परणेन तत्तपस्साधनस्थले
नन्दिग्रामेऽपि भक्तिकामनया वासो विधेय इत्यनुचिन्त्याह -- नन्दिग्राम इत्यादिना।
भगवत्पादुकापूजनपुण्यभूमितया तथाविधपरमभागवततपस्स्थलत्वाच्च नन्दिग्रामस्य
तीथेतिमत्वमू, अनुक्षणभगवच्चिन्तनप्रीतिपुलकितगात्रस्य भगवद्विरहनिीरितनेत्रजलजातस्य
श्रीभरतस्यानेकग्रीतिस्निग्धभक्तप्रसङ्गगुम्फितदेशतया तं विशिनहि ~ उदारकीर्तिनिकर
इति। उदाराणां विशदानां भगवद्धागवतयोर्मिथोऽ नुरागोद्गोधिकानां कीर्तीनां तत्रत्यजनै:
कीर्त्यमानानां श्रूयमाणानाञ्च यशसां निकरो गणो यत्रेत्यधिकरणप्रधानं विशेषणम्।
तत्र वासेन नूनं भगवत्प्रेमावाप्तिरिति तदूनुरूपं सेव्यस्वरूपं निश्चिनोति -- श्रीराक्षसघ्नम्
इति। रावणप्रभ्॒तीन् राक्षसान् हन्तीति राक्षसघ्नो भगवान् रामः श्रिया सहितो राक्षसघ्नः
श्रीरक्षसघ्नः श्रीरामस्तम्। ऋद्धस्य राजपुरुष इतिवद् न श्रीपदस्य पदार्थैकदेशे राक्षसेऽन्वयः,
न राक्षसनिग्रहाद्यवसरेऽपि भगवतः कारुण्यादिदिव्यगुणवियोगः, सौम्यत्वादिक्परिहशोभावियोगो
वा भवति। तस्य ताटूक्सामर्थ्यमाह -- प्रधुमिति। चराचरनियमनसमर्थस्य तेषां हनने
कियान् आयास इति ध्वन्यते। श्रीमति सम॒द्धे रम्ये रमणीयेऽमले पृण्यतमे प्रभासे
ग्रभासाख्ये क्षत्रे तीर्थे विश्वरूपिणं भगवन्तं पूजयन् वसेदिति। इदमेव सोमतीर्थम्। उक्तं
तन्माहात्म्यं शिवपुराणे (प्रभासे च परिक्रम्य प्रथिवीक्रमसम्भवम्। फल प्राप्नोति
शुद्धात्मा मृतः स्वर्गे महीयते” इति। भागवते चापि तद्विषये 'वर्य प्रभासं यास्यामो
यत्र प्रत्यक् सरस्वती” (११.३०.६) इति।
श्रीकूर्माचल उत्तमे च सदयं कूर्म सुरेशेडितं
नीलाद्रौ पुरुषोत्तमं त्वथ महासिंहं च सिंहाचले ।
श्रीमन्तं तुलसीवने तु गदिनं सर्वार्थदं तत्प्रिये
क्षेत्रे श्रीकृतशौचके तु सततं पापापहं चेश्वरम् ।।१९६।।
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २४१
* संवित्करः *
कूर्माचल में परमदयालु देवपूजित श्रीकूर्मभगवान्, नीलाद्रिपर्वत पर श्रीपुरुषोत्तम-
भगवान्, सिंहाचल में श्रीनृसिंहभगवान्, तुलसीवन में श्रीगदी भगवान् तथा कृतशौचकनामक
तीर्थ में सर्वपापनाशक श्रीपापहरभगवान् निवास करते हैं।
क पदपरामर्शः *
उत्तमेऽनवद्ये श्रीकूर्माचले सुरेशेडितमिन्त्रवन्दितं सदयं परमकारुणिकं कूर्म
समुद्रमथनावसरे मन्दरधारणाय कच्छपरूपेणाविर्भूतं भगवन्तं पूजयन् वसेत्। यञ्च
भगवान् भागवते इत्यं प्रार्थितः 'पष्ठे ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयात्निद्रालोः
कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः। यत्यंस्कारकलानुवर्तनवशाद्वेलानिले-
नाम्भसां यातायातमताद्भितं जलनिधेर्नाद्यापि विश्राम्याति’ (१२.१३.२) इति।
नीलाद्रौ नीलाचले जगत्राथपुर्या पुरुषोत्तमनाम्ना विलसन्तं श्रीजगत्रार्थ सेवमानो
वसेत्। सिंहाचले विशाखापत्तनादुचरदिशि विद्यमाने महासिंहं श्रीलक्ष्मीतृरसिंहस्वामिनं
भजन् वसेत्। तद्ये भगवत्मिये ठुलसीवन एतन्रामके तीर्थे सबार्थदं सकलाभी्टपूरकं
श्रीमन्तं श्रिया सहितं विलसन्तं गदिनं गदिनामकं गदाधरं भगवन्तमर्चयन् वसेत्।
श्रीकृतशौचकाख्ये क्षेत्रे पुण्यदेशे सततं सर्वदा पापापहेत्याख्यमीश्चरं भगवन्तं
पृजयन्निवसेत्।
श्वेताद्रौ त्वथ सिंहरूपिणमथो श्रीधर्मपुर्या तथा
योगानन्दमशेषदेवसुनतं श्रीकाकुले तु प्रभुम् ।
देवैर्वन्द्यममथान्ध्रनायकमिह श्रीदं तथाऽहोबिले
तस्मिञ् श्रीगरुडादिसञ्ज्ञ उचिते देवं हिरण्यार्दनम् ।।१९७।।
* संवित्करः *
श्वेताचल पर श्रीसिंहरूपी भगवान्, श्रीधर्मपुरी में श्रीयोगानन्दभगवान्, काकुलतीर्थ
में सकलदेववन्दित श्रीआन्ध्रनायकभगवान् तथा अहोबिल नामक प्रसिद्ध गरुडाद्रिपर्वत
पर श्रीहिरण्यमर्दन निवास करते है; जो हिरण्याक्ष नामक असुर के विनाशक हैं।
* पदपरामर्शः *
श्रीरङ्गादुत्तादिशि विद्यमाने दिव्यदेशे श्वेताद्रौ थेतागिरो सिंहरूपिर्ण नृर्सिहाकारकं
भगवन्तं सेवमानो वसेत्, धर्मपुयामितत्रामकनगर्या योगानन्दाख्यमशेषदेवसुनतं
सर्वसुरनमस्कृतं भगवन्तमर्चयत्निवसेत्। श्रीकाकुले काकुलनामकती श्रीदं सर्वसम्पत्प्रदं
देवै्वन्दितमिन्द्रादिभिः संस्तुतं प्रधुं सर्वसमर्थप् आन्ध्रनायक इतिनाम्ना प्रथितं
भगवन्तं पूजयन् निवसेत्, अहोबिले वैष्णावतीर्थे तस्मिन्नपि श्रीगरुडादिसञ्जे
२४२ श्रीवेष्णवमताब्जभास्कर:
उचिते पर्वते हिरण्यार्दन इत्याख्यं न॒र्पिंहं भगवन्तं समाराधयता वासः कार्यः श्रीगरुडादिसज्ज
इत्यत्रादिपदेन वेदाद्रधादिग्रहणम्। हिरण्यादनेत्यत्र हिरण्यपदेन हिरण्यकशिपोर्ग्रहणम्,
नामैकदेशग्रहणे नामग्रहणमिति न्यायात; यद्वा हिरण्यकशिपु-हिरण्याक्षपदयोहिरण्य-
शब्दघाटितत्वादुभयोः सामान्यग्रहणम्, तयोररदनं नाशकं भगवन्तं श्रीहरिमित्यर्थः।
श्रीविट्ुळं तं किल पाण्डुरङ्गेश्रीवेङ्कटाद्रौ तु रमासखं च ।
नारायणं श्रीमति यादवाद्रौ नृसिंहमित्थं घटिकाचलेऽपि ।।१९८।।
* संवित्करः *
पाण्डुरंग महाराष्ट्र में श्रीविद्ठलभगवान्, वेंकटनामक पर्वत पर भगवान् श्रीश्रीनिवास,
सकलशोभासम्पन्न यादवपर्वत पर श्रीनारायणभगवान् तथा घटिकाचल पर भगवान्
श्रीनृसिंह विराजते हैं। वहां उनकी पूजा करता हुआ निवास करे।
* पदपरामर्शः *
महाराष्ट्रस्य तीर्थेषु पाण्डुरङ्ग पाण्ढरपुरे श्रीविद्ल इत्याख्यं श्रिया श्रीरुक्मिण्या
सहितं विद्ठळनामानं पण्ढरीनाथापरपर्यायं भगवन्तं भजन्निवसेत्। श्रीवेङ्कटाद्रौ
श्रीवेड्कटाचले रमाया: सखायं रमासख श्रीश्रीनिवास भावयन् वसेत्। दिव्यदेशोऽयं
तिरुमलेपर्वतेऽवस्थितः, यत्रालमॅलुमङ्गालक्ष्मीसमेत आनन्दातिलयविमाने पश्चिमाभिमुख-
मुत्ति्ठन् भगवाज् श्रीनिवासो दर्शनं प्रयच्छति लोकाय। श्रीमति यादवाद्रौ श्रीयादवगिरौ
मेळूकोटे' इत्याख्ये श्रीवैष्णावदिव्यदेशे भगवन्तं नारायणं सेवमानो वसेत्। इत्थमेव
घाटिकाचले तिरुकुडिकैनाम्नि दिव्यदेशे सिंहगोष्ठविमाने म्रतवछलीलक्ष्मीसमेतं श्रीतसिहम्
अर्चयन् वसेत्।
सुरेन्द्रवन्द्यं वरदं त्वहर्दिवं सुनिर्मले श्रीशुभवारणाचले ।
काञ्च्यां तथा श्रीकमलायताक्षकं समर्चनीयं बुधवैष्णवोत्तमैः ।।१९९।।
* संवित्करः *
परमपवित्र तथा सर्वशोभासम्पन्न श्रीहस्तिशैल पर सुरेन्द्रादिदेववन्ध सनातन श्रीवरदनामक
भगवान् तथा कांचीपुर में विद्वान् वैष्णवों के द्वारा सम्यक् अर्चनीय श्रीकमलनयन
भगवान् निवास करते हैं। वहां उनकी पूजा करता हुआ निवास करे।
* पदपरामर्शः *
काञ्चीपुरस्य दक्षिणे सुनिर्मले परमपावने श्रीशुभवारणाचले मङ्गलाकरे श्रीहस्तिगिरो
दिव्यदेशेऽहार्दिवमनुदिनं सुरेन्रवन्द्यं देवेन्रस्तूयमानं वरदं श्रीवरदराजेत्याख्यं भावयन्
वसेत्। यक्ष भगवान् करुणया पुण्यकोटिविमाने श्रीलक्ष्मीसमेतो विलसन् पश्चिमाभिमुख:
सन्रुतिष्छन् स्वदर्शनं प्रयच्छति। अहदिविमिति वसेत्, वरदं युरेनद्रवन्द्यमिति त्रिष्प्यन्वेति।
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २४३
काञ्च्यां श्रीविष्णुकाञ्च्यामपि श्रीकमलायताक्षकं वरदराजनामकमेव भगवन्तं ध्यायन्
वसेत्, कमले इवायते अक्षिणी यस्य तं पद्मविस्फारितलोचरनं भगवन्तं सेवेत, तं
विशेषयति बुधवेष्णवोत्तमैः समर्चनीयामिति। बुधाश्च ते वैष्णवा: पण्डितवेष्णवास्तेष्वपि
उत्तमेसश्रेष्ठे: समर्चनीयं सविधि पूजनीयं भगवन्तमित्यर्थः। तत्र भगवान् विद्रद्धि्कैणवजनै:
शास्रोक्तविधिना समाराध्यत इति भाव:।
तोताद्रिसञ्ज्ञादिषु वैष्णवोत्तमैरेवं तथा तुडुशयादिकं प्रभुम्।
कार्यो निवासो नितरां शुभार्थिभिराराधयद्धिः सकलार्थदायिनम् ।।२००।।
* संवित्करः *
तोताद्रि आदि क्षेत्रों में सर्वार्थप्रद श्रीतुंगशायी आदि नाम वाले भगवान् निवास करते
हैं। इस प्रकार, शुभेच्छु भगवदाराधक श्रेष्ठ वैष्णवों के द्वारा, पूर्वोक्त पुण्यतीर्थ क्षेत्रों
में उन-उन देवताओं की आराधना करते हुए, वहाँ निवास किया जाना चाहिए।
* पदपरामर्शः ॐ
तोताद्रिः सञ्ज्ञा यस्व स दिव्यदेशस्तोताद्रिसञ्जञः, तव्मभ्रतिषु दिव्यदेशेए सकलार्थदाविनं
सर्ववाज्छितार्थदानशीलं तुङ्गशयादिकं तुङ्गशायादिसज्ज्ञकं प्रभृ सर्वेश्वरं नितरां सर्वतोभावेन
आराधयद्विः शुभार्थिभिः परममङ्गलरूपमोक्षमर्थयमानेवैणवोत्तमै-वैणवश्रेषठेर्निवासः कार्यः
वसतिर्विधेयोति। तोताद्रिसञ्ज्ञादिव्वित्यत्रादिपदेन श्रीरङ्गश्वेतगिरिसुगन्धागिरिवैकुण्ठ-
पुरमणिकूटश्चेतहदभद्राचलगध्षक्षेत्रदीनां सङ्ग्रहः।
सदाऽनुसन्धेयमिमं त्रिकालं मुमुक्षुभिस्तत्परमार्थमित्थम् ।
जञात्वा न चैवास्ति सुवेदनीयं जिज्ञासुभिस्तैरविशिष्यमाणम् ।।२०१।।
* संवित्करः *
इस प्रकार, मुमुक्षु वैष्णवों को सभी शास्त्रों के सारभूत, इस दिव्य रहस्यात्मक
प्रबन्ध “वैष्णवमताब्जभास्कर' का सदा (तीनों समय में) अनुसन्धान (स्वाध्याय)
करना चाहिए। इसको जानने के बाद, संसार में कुछ भी ज्ञातव्य शेष नहीं रह
जाता है।
* पदपरामर्शः *
लघुकलेवरस्याप्यस्य ग्रन्थस्य मुमुक्षुजनबोधायापेक्ष्यमाणसकलसामग्रीसम्भृतत्वात्
समुपादेयतया नूनमध्येतव्यतासूचकं प्रमेयगौरवं विवक्षत्रुपसंहराति -- सदेति। इत्थं
प्राक्प्रदशितिपद्धत्या मुमुक्षुभिः सदानुसन्धेयं त्रिष्वपि कालेषु तत्परमार्थ तात्तिकं
त्रिकालाबाध्यमिमं ज्ञत्वा विज्ञाय तैर्जिज्ञसुभिरञातुमिच्छुभिः सुवेदनीयं सुज्ञेयमवशिष्यमाणं
नास्ति। तैः सुज्ञेयं किमापि न शिष्यत इत्यर्थः। अत्र स चासौ परमार्थस्तमिमम्।
२४४ श्रीवेष्णवमताब्जभास्कर:
ज्ञात्वेत्यन्वीयते। सदा त्रिकालामिति न पौनरुक्तयग्। सङ्घेपतो दशप्रश्नेषेव सर्वविधजिज्ञासि-
तव्यस्य समावेशात्तदुत्तरेपु च सर्वविधज्ञेयस्य क्रोडीकृतत्वादित्थमुक्ति:।
गुरुद्रुहे नो न शठाय चेदं न नास्तिकायोपदिशेत्कदाचित् ।
नावैष्णवायापि रहस्यमेतन्न चाथ दैन्याहतवेदनाय ।।२०२।।
* संवित्करः #
किसी गुरुद्रोही, शठ, नास्तिक, मन्दमति, अन्यथा अर्थ समझने वाले,
अदीक्षित (वैष्णवदीक्षाविहीन) आदि को इस दिव्य रहस्य का उपदेश कभी नहीं
करना चाहिए।
* पदपरामर्शः *
उपदेशानन्तरमस्य कुत्रोपदेशो न कार्य इति बोधयितुं यत्रेदं न तत्रोपदेशोऽपि
नेति व्यतिरेकविधया5 नधिकारिलक्षणं सङ्गृह्णाति -- गुरुद्रह इत्यादिना। एतद्रहस्य-
मेकान्ते रहसि गोपनीयतयोपदेष्टव्यत्वेन, नानधिकारिषु प्रकाश्यमिति भावः। अतः
कदाचिदपि नो गुरुद्धहे गुरुमाचार्य सर्वथा हितपरं ज्ञानदातारमपि यो द्रुह्यति,
तादृशाय, शठायान्गजवे वञ्चकाय वक्राशयाय, नास्तिकाय, परलोके नास्ति मतिर्यस्य,
तस्मै वेदप्रामाण्यानाङ्गीकत्रे, अवैष्णवाय वेष्णवाचार्यात्सत्सग्रदाये5 गृहीतवैष्णवदीक्षाय
देन्याहतवेदनाय, दैन्येन प्रचुरपापजनितेन सत्त्वावरकेणाहता विळुप्ता वेदना विचारसामर्थ्य
यस्य, तस्मै स्वरूपसस्काररहिताय चेदमव्यवहितपू्वतयोच्चारितज्ञानं कदाचिदपि नोपदिशेद्
आचार्यस्तत्रसादाव्याप्तविद्यारिशष्यो वा। गुरुद्रह इत्यनेन कृतघ्नत्वं, शठायेत्यनेन
चित्तमालिन्य्रयुक्तो दुरभिसन्धिः, नास्तिकायेत्यनेन शास्रानादर:, अवैष्णवायेत्यनेना-
सत्परिह:, दैन्याहतवेदनायेत्यनेन ्रबलपापविद्धत्वञ्च संसूचितम्। दैन्याहतवेदनाय
शास्रदाननिषेधोऽ न्यथाप्रतिपतिर्माऽ भूदित्यर्थः। यथोक्तं स्वयं भगवता “न मां दुष्क्रातिनो
मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः ' (गी. ७.१५)
झति।
जितेन्द्रियः प्रपन्नः सन् बुधः श्रीजानकीपतिम् ।
अनुष्ठाय मतं चेदं परमं स्थानमाप्नुयात् ।।२०३।।
* संवित्करः *
अतः जितेन्द्रिय तथा शरणागत होकर विद्वान्, श्रीसीतारामजी की आराधना
करते हुए, इस वैष्णवमत के सविधि अनुपालन से मनुष्य परमपद भगवत्सायुज्य
को प्राप्त कर लेता है।
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २४५
* पदपरामर्शः ॐ
उपदिष्टार्थस्योपासनामुखेनैव साफल्यमिति स्वप्रोक्तस्य वैष्णवमतस्याप्यनुष्छानद्वारैव
भगवत्माप्तिफलकत्वमाह -- जितेन्द्रिय इत्यादिना। सन् सत्पुरुषः सदाशयो
बुध: प्राज्ञो जितेद्भियो निग्रहीतहृषीकः प्रपन्नो भगवदर्पितभरो वैष्णव इदमचिय्रोक्त
परमं निगमागमसिद्धं पूर्वाचार्यसमादृर्त मतं सिद्धान्तमनुष्छाय सुदृढं परिगृह्य
श्रीजानकीपतिं श्रीसीतानाथम् अनुष्ठाय भक्तया प्रपत्या वा प्रसाद्य परमं नित्यं
दिव्यं च स्थानं साकेताख्यं भगवद्धाम आफुयाद् लभेतेति। यद्वा; श्रीजानकीपतिरेव
परमं स्थानं; तस्य परमप्राप्यतयोक्तेः। अनुष्ठायोति देहलीदीपन्यायेन मतमित्यत्र
श्रीजानकीपतिमित्यत्र च कर्मत्वेनान्वेति। मतम् अनुष्छायाचरण आनीयानुस॒त्य
वा, श्रीजानकीपतिमाराध्येत्यर्थो वा। इत्यमेव परममिति पदमपि मते स्थाने चोभयत्रान्वेति।
यथा श्रीजानकीपतिः परमस्तथैव तदीयमिदं मतं तदनुष्ठानलभ्यं तद्दिव्यं स्थानमपीति
भाव्ः। श्रीजानकीत्यत्र श्रीपदं समादरे, यद्वा जानक्याः पतिर्भगवान् रामस्तत्समादरे
श्रीपदम्। एतेन भगवतः स्वरूपशक्तया नित्यविभूत्या च नित्ययोगः श्रकाशितः।
भगवत: परम स्थानं ग्राप्तुकामस्य निर्देशश्चतुर्भिः पदौविर्हितस्तत्र जितेन्त्रिय
इत्यनेनाचारनिष्छतां प्रकाश्य वैराग्यं सूचितम्। तेनेन्द्रियशुद्धिरुक्ता। प्रपन्न इत्यनेन
विनयं समर्पणं च प्रकाश्य चित्तस्य भगवत्वणतोक्ता, सन् इत्यनेन साधुलक्षणाचार-
शुद्धिरुक्ता, बुध इत्यनेन तत्वविचारपरत्वाद् बुद्धिशुद्धिरुक्ता। इत्थं शास्रोक्तधर्मानुष्ठानेन
तत्वविचारपरत्वाज्जातवैराग्यस्य ज्ञानोदयभक्तिलाभक्रमेण परमात्मावाप्तिरिति दर्शितम्।
रामानन्दप्रोक्तः श्रीवैष्णवमताब्जभास्करो भवतु ।
आनन्दभाष्यसोदर एषोऽन्तस्तमोविनाशाय ।।२०४।।
* संवित्करः *
स्वामी श्रीरामानन्दाचार्य द्वारा प्रोक्त यह 'श्रीवेष्णवमताब्जभास्कर' (श्रीवैष्णवमतरूपी
कमल को सूर्यवत् विकसित करने वाला) ग्रन्थ स्वाध्यायशील पाठकों के अन्त:स्थित
अज्ञानरूपी अन्धकार को दूर करने वाला सिद्ध हो। जैसे एक माता के दो पुत्र
परस्पर सहोदर कहलाते हें, वैसे यह ग्रन्थ आनन्दभाष्य का सहोदर है (अर्थात्
प्रस्तुत ग्रन्थ उन्हीं श्रीरामानन्दाचार्यस्वामी की रचना है, जिन्होंने इससे पूर्व
आनन्दभाष्य की रचना की है)
ज्यौ लखि बालक कौतुकाहि, जननी मन हरषाय ।
होहु मुदित अस जतन लखि, त्यो मदु हिय सिय माय ।।
२४६ श्रीवेष्णवमताब्जभास्कर:
* पदपरामर्शः *
अन्ते भगवत्स्वरूपतिरोधायकनिविडाज्ञानतिमिरनिर्दलनाय स्वप्रोक्तस्याभिधानानुगुण-
लक्ष्यसिद्धि कामयते रामानन्दप्रोक्त इति। एव श्रीवैषणक्मतान्जभास्करोऽन्तस्तमो-
विनाशाय भवत्विति सङ्घेप एषोऽचिरमेवोपसंहृततया व्यवधानेन बुद्धया सन्निधापितः,
आनन्दभाष्यं सोदरं यस्य तादृशो रामानन्दप्रोक्तो रामानन्दनाम्ना मया प्रोक्तः
स्वशिष्यं सुरसुरानन्दं निमित्तीकृत्योपदिष्ट:, श्रीवैष्णवमतान्जभास्करः श्रीवैष्णावानां
श्रीसम्प्रदायपरम्परामनुसरतां वैष्णवानां मतान्यन्जानीव मतान्जानि तेषां भास्करः
सूर्य, इत्यन्वर्थनामा अन्यविशेषः। यथोदिते सूर्ये स्वयमेवान्जानि द्रस्फुटन्ति विकासमायान्ति,
तद्गदेवायं श्रीवैष्णवमतकमलविकासकः। तेनास्माकं को लाभस्तत्र सूयापिक्षयाऽ प्यस्य
वैशिष्ट्यमाह -- अन्तस्वमो विनाशाय भवत्विति। न हि तरुणोऽपि भास्करः,
स्वगभस्तिततिभिरन्तस्तमोविनाशने प्रभवति, किन्त्वयं तत्र क्षमत इत्यनुसन्धायाशास्ते
-- भवात्विति। अन्तस्तम इति कथनेन सूर्यादिप्रकाशकसहस्रेणापि दुर्निवार्यत्वं
द्योत्यते, तादृशामनादिकालग्रवृत्तानां सकलानर्थभूतानां विनाशाय निश्शेषेण विध्वंसाय
भवतु प्रभवतु सम्पद्यतामित्यर्थः। प्रार्थनायां लोद्। राम आनन्दः परमा निर्वात्तिर्यस्य
भगवदानन्दसम्प्छुतचेतास्तत्वतोऽनवर्थतश्च ब्रह्मनिष्ठः, साम्प्रदायिकास्तु रामस्याऽ5नन्द
एव मानवाकारेण लोकशोकविनाशायाविर्भूतः। यथोच्यते "रामानन्दः स्वयं रामः
प्रादुभूर्तो महीतले” इति। तादृशेन प्रोक्त इत्यनेन संशयविपर्ययादिप्रतिक्षेपेणोक्त
इति सुतरामेव गम्यते। आनन्दभाव्यसोदर इति पदे सोदरत्वमेककर्तूकत्वं तेन
तद्ग्रन्थकर्तूकतकत्वमानन्दभाष्यस्याप्युक्तम्। समाससामर्थ्याततस्यौतदपेक्षया द्रागभावित्वं
अकाशितम्। मन्यतेऽनेनेति मतं बुद्धिस्तत्वबिवेचनसाधनत्वात्। वैष्णवानां मुकुलितबुद्धि-
कमलविकासाय भास्कर इवेति। भास्करो न तु निशाकरः; स हि वृद्धिहासशाली
सूर्यायत्तप्रकाशश्व। एतेन परमतानामपास्यतया तमश्शन्दसूच्यता। मतेष्वन्जत्वारोपेण
सप्यङ्गत्वनिरवद्यत्वप्रसादकरत्वमङ्गलमयत्वादिगुणसहस्रं द्योतयित्वा सुग्राह्मत्वं सूचितम्।
यद्वा अब्ज: शाङ्को वैष्णवमतानां शङ्क इवोद्घोषक इति। रामानन्दप्रोक्त इत्यत्र
'आत्मनाम” इति स्म्रतिविरोधस्तु न लोकप्रत्ययाय 'रामो द्वि्नाभिभाषते' (वा. रा.
२.१८.३०), गोनदीयस्त्वाह इत्यादिषु स्वनामग्रहणात्कर्तन्यार्थीविषयक-
ज्ञानानुकूलशन्दप्रयोगात्मकप्रतिज्ञावाक्यघटकतया स्वनामोच्चारणे दोषाभाव इति शम्।
रामानन्दकातिः प्रपत्तिमहती श्रेयस्सातिं तन्वती
श्रीरामस्प्रतिसन्ततिप्रगुणितप्रीत्यैक सवान्वितिः ।
स्वारस्यं दधती श्रुतेः परामिहावद्यं निराकुर्वती
प्किप्रश्नसमाहितिर्जयतु काप्यन्तस्तमोदीधितिः ।।
दशमप्रश्नोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् २४७
आचार्यपदमामुश्यन्न्यस्यन् दीनाक्षर बुधैः ।
कृपया मृष्यतां धृष्टः श्रीकृपामात्रसम्बलः ।।
* ( इति दशमप्रशनोत्तरे वैष्णवनिवासयोग्यस्थाननिरूपणम् ) # #
।। श्रीसीतारामार्पणमस्तु ।।
समाप्तश्चायं
श्रीसम्प्रदायाचार्यचूडामणियतिराजसार्वभौमश्रीमद्धगवत्पादैः
स्वामिश्रीरामानन्दाचार्यचरणैः समुद्धासितः
श्रीवैष्णवमताब्जभास्करः
आचार्यजयकान्तशर्मापरनामधेयेन श्रीरामकिङ्कराचार्येण
स्वसम्प्रदायसपर्यायां विरचिताभ्यां संवित्करपदपरामर्शाभ्यां
हिन्दीसंस्कृतव्याख्याभ्यां समुपेतः
न न ने नै ने ने नै ने ने
में न ने न ने ने नै ने न